पञ्चपञ्चाशद्विष्णुनामानि

पञ्चपञ्चाशद्विष्णुनामानि

अग्निरुवाच - जपन् वै पञ्चपञ्चाशद्विष्णुनामानि यो नरः । मन्त्रजप्यादिफलभाक्तीर्थेष्वर्चादि चाक्षयम् ॥ १॥ पुष्करे पुण्डरीकाक्षं गयायाञ्च गदाधरम् । राघवञ्चित्रकूटे तु प्रभासे दैत्यसूदनम् ॥ २॥ जयं जयन्त्यां तद्वच्च जयन्तं हस्तिनापुरे । वाराहं वर्धमाने च काश्मीरे चक्रपाणिनम् ॥ ३॥ जनार्दनञ्च कुब्जाम्रे मथुरायाञ्च केशवम् । कुब्जाम्रके हृषीकेशं गङ्गाद्वारे जटाधरम् ॥ ४॥ शालग्रामे महायोगं हरिं गोबर्धनाचले । पिण्डारके चतुर्वाहुं शङ्खोद्धारे च शङ्खिनम् ॥ ५॥ वामनञ्च कुरुक्षेत्रे यमुनायां त्रिविक्रमम् । विश्वेश्वरं तथा शोणे कपिलं पूर्वसागरे ॥ ६॥ विष्णुं महोदधौ विद्याद्गङ्गासागरसङ्गमे । वनमालञ्च किष्किन्ध्यां देवं रैवतकं विदुः ॥ ७॥ काशीतटे महायोगं विरजायां रिपुञ्जयम् । विशाखयूपे ह्यजितन्नेपाले लोकभावनम् ॥ ८॥ द्वारकायां विद्धि कृष्णं मन्दरे मधुसूदनम् । लोकाकुले रिपुहरं शालग्रामे हरिं स्मरेत् ॥ ९॥ पुरुषं पूरुषवटे विमले च जगत्प्रभुम् । अनन्तं सैन्धवारण्ये दण्डके शार्ङ्गधारिणम् ॥ १०॥ उत्पलावर्तके सौरीं नर्मदायां श्रियः पतिम् । दामोदरं रैवतके नन्दायां जलशायिनम् ॥ ११॥ गोपीश्वरञ्च सिन्ध्वब्धौ माहेन्द्रे चाच्युतं विटुः । सहाद्रौ देवदेवेशं वैकुण्ठं मागधे वने ॥ १२॥ सर्वपापहरं विन्ध्ये औड्रे तु पुरुषोत्तमम् । आत्मानं हृदये विद्धि जपतां भुक्तिमुक्तिदम् ॥ १३॥ वटे वटे वैश्रवणं चत्वरे चत्वरे शिवम् । पर्वते पर्वते रामं सर्वत्र मधुसूदनम् ॥ १४॥ नरं भूमौ तथा व्योम्नि वशिष्ठे गरुडध्वजम् । वासुदेवञ्च सर्वत्र संस्मरन् भुक्तिमुक्तिभाक् ॥ १५॥ नामान्येतानि विष्णोश्च जप्त्वा सर्वमवाप्नुयात् । क्षेत्रेष्वेतेषु यत् श्राद्धं दानं जप्यञ्च तर्पणम् ॥ १६॥ तत्सर्वं कोटिगुणितं मृतो ब्रह्ममयो भवेत् । यः पठेत् श‍ृणुयाद्वापि निर्मलः स्वर्गमाप्नुयात् ॥ १७॥ इत्याग्नेये महापुराणे पञ्चपञ्चाशद्विष्णुनामानि नाम चतुरधिकत्रिशततमोऽध्यायः ॥ ३०४॥ Proofread by Sunder Hattangadi
% Text title            : panchapanchAshadviShNunAmAni
% File name             : panchapanchAshadviShNunAmAni.itx
% itxtitle              : panchapanchAshadviShNunAmAni (agnipurANAntargatam)
% engtitle              : panchapanchAshadviShNunAmAni
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Source                : Agnipurana, adhyAya 304/305
% Latest update         : January 16, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org