॥ श्रीपरशुरामकल्पसूत्रम् ॥

अनुक्रमणिका प्रथमोभागस्य खण्डाः १. दीक्षाविधिः २. श्रीगणनायकपद्धतिः ३. श्रीक्रमः ललिताऽधिकारः ४. ललिताक्रमः श्रीचक्रे परचित्यावाहनम् ५. ललितानवावरणपूजा ६. श्यामाक्रमः ७. वाराहीक्रमः ८. पराक्रमः ९. होमविधिः १०. सर्वसाधारणक्रमः द्वितीयोभागस्य खण्डाः ११. यन्त्रविधानम् १२. मन्त्रविधानम् १३. प्रस्तारक्रमः १४. नष्टोद्दिष्टकथनम् १५. कृतनष्टनिरूपणम् १६. योनिलिङ्गयन्त्ररचनाविधानम् १७. अङ्गविद्या १८. वासनाध्यायः प्रथमोभागः प्रथमः खण्डः दीक्षाविधिः अथातो दीक्षां व्याख्यास्यामः ॥ १.१॥ भगवान् परमशिवभट्टारकः श्रुत्याद्यष्टादशविद्याः सर्वाणि दर्शनानि लीलया तत्तदवस्थाऽऽपन्नः प्रणीय संविन्मय्या भगवत्या भैरव्या स्वात्माभिन्नया पृष्टः पञ्चभिः मुखैः पञ्चाम्नायान् परमार्थसारभूतान् प्रणिनाय ॥ १.२॥ तत्रायं सिद्धान्तः ॥ १.३॥ षट्त्रिंशत्तत्त्वानि विश्वम् ॥ १.४॥ शरीरकञ्चुकितः शिवो जीवो निष्कञ्चुकः परशिवः ॥ १.५॥ स्वविमर्शः पुरुषार्थः ॥ १.६॥ वर्णात्मका नित्याः शब्दाः ॥ १.७॥ मन्त्राणामचिन्त्यशक्तिता ॥ १.८॥ सम्प्रदायविश्वासाभ्यां सर्वसिद्धिः ॥ १.९॥ विश्वासभूयिष्ठं प्रामाण्यम् ॥ १.१०॥ गुरुमन्त्रदेवताऽऽत्ममनःपवनानाम् ऐक्यनिष्फालनादन्तरात्मवित्तिः ॥ १.११॥ आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितं तस्याभिव्यञ्जकाः पञ्चमकाराः तैरर्चनं गुप्त्या प्राकट्यान्निरयः ॥ १.१२॥ भावनादार्ढ्यादाज्ञासिद्धिः ॥ १.१३॥ सर्वदर्शनानिन्दा ॥ १.१४॥ अगणनं कस्यापि ॥ १.१५॥ सच्छिष्ये रहस्यकथनम् ॥ १.१६॥ सदा विद्याऽनुसंहतिः ॥ १.१७॥ सततं शिवतासमावेशः ॥ १.१८॥ कामक्रोधलोभमोहमदमात्सर्याविहितहिंसास्तेयलोकविद्विष्टवर्जनम् ॥ १.१९॥ एकगुरूपास्तिरसंशयः ॥ १.२०॥ सर्वत्र निष्परिग्रहता ॥ १.२१॥ फलं त्यक्त्वा कर्मकरणम् ॥ १.२२॥ अनित्यकर्मलोपः ॥ १.२३॥ मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः ॥ १.२४॥ निर्भयता सर्वत्र ॥ १.२५॥ सर्वं वेद्यं हव्यमिन्द्रियाणि स्रुचः शक्तयोज्वालाः स्वात्मा शिवः पावकः स्वयमेव होता ॥ १.२६॥ निर्विषयचिद्विमृष्टिः फलम् ॥ १.२७॥ आत्मलाभान्न परं विद्यते ॥ १.२८॥ सैषा शास्त्रशैली ॥ १.२९॥ वेश्या इव प्रकटा वेदादिविद्याः । सर्वेषु दर्शनेषु गुप्तेयं विद्या ॥ १.३०॥ तत्र सर्वथा मतिमान् दीक्षेत ॥ १.३१॥ दीक्षास्तिस्रः शाक्ती शाम्भवी मान्त्री चेति । तत्र शाक्ती शक्तिप्रवेशनात् शाम्भवी चरणविन्यासात् मान्त्री मन्त्रोपदिष्टया सर्वाश्च कुर्यात् ॥ १.३२॥ एकैकां वेत्येके ॥ १.३३॥ सद्गुरुः क्रमं प्रवर्त्य साङ्गं हुत्वा तरुणोल्लासवान् शिष्यमाहूय वाससा मुखं बद्ध्वा गणपतिललिताश्यामावार्तालीपरापात्र बिन्दुभिस्तमवोक्ष्य सिद्धान्तं श्रावयित्वा ॥ १.३४॥ तच्छिरसि रक्तशुक्लचरणं भावयित्वा तदमृतक्षालितं सर्वशरीरमलङ्कुर्यात् ॥ १.३५॥ तस्यामूलमाब्रह्मबिलं प्रज्वलन्तीं प्रकाशलहरीं ज्वलदनलनिभां ध्यात्वा तद्रश्मिभिस्तस्य पापपाशान् दग्ध्वा ॥ १.३६॥ त्रिकटुत्रिफलाचतुर्जाततक्कोलमदयन्तीसहदेवीदूर्वा भस्ममृत्तिकाचन्दनकुङ्कुमरोचनाकर्पूरवासितजलपूर्णं वस्त्रयुगवेष्टितं नूतनकलशं बालाषडङ्गेनाभ्यर्च्य श्रीश्यामावार्तालीचक्राणि निक्षिप्य तिसृणामावरण मन्त्रैरभ्यर्च्य संरक्ष्यास्त्रेण प्रदर्श्य धेनुयोनी ॥ १.३७॥ शिवयुक्सौवर्णकर्णिके स्वरद्वन्द्वजुष्टकिञ्जल्काष्टके । क च ट त प य श ळाक्षरवर्गाष्टयुक्ताष्टदले ॥ दिगष्टकस्थित ठं वं चतुरश्रे मातृकायन्त्रे शिष्यं निवेश्य । तेन कुम्भाम्भसा तिसृभिः विद्याभिः स्नपयेत् ॥ १.३८॥ सदुकूलं सालेपं साभरणं समालं सुप्रसन्नं शिष्यं पार्श्वे निवेश्य मातृकां तदङ्गे विन्यस्य विमुक्तमुखकर्पटस्य तस्य हस्ते त्रीन् प्रथमसिक्तान् चन्दनोक्षितान् द्वितीयखण्डान् पुष्पखण्डान्निक्षिप्य तत्त्वमन्त्रैर्ग्रासयित्वा दक्षिणकर्णे बालमुपदिश्य पश्चादिष्टमनुं वदेत् ॥ १.३९॥ ततस्तस्य शिरसि स्वचरणं निक्षिप्य सर्वान् मन्त्रान् सकृद् वा क्रमेण वा यथाऽधिकारमुपदिश्य स्वाङ्गेषु किमप्यङ्गं शिष्यं स्पर्शयित्वा तदङ्गमातृकावर्णादि द्वयक्षरं त्र्यक्षरं चतुरक्षरं वा आनन्दनाथशब्दान्तं तस्य नाम दिशेत् ॥ १.४०॥ बालोपदिष्टेः पूर्वमात्मनः पादुकां षट्तारयुक्तां दद्यात् ॥ १.४१॥ आचाराननुशिष्य हार्दचैतन्यमामृश्य विद्यात्रयेण तदङ्गं त्रिः परिमृज्य परिरभ्य मूर्धन्यवघ्राय स्वात्मरूपं कुर्यात् ॥ १.४२॥ शिष्योऽपि पूर्णतां भावयित्वा कृतार्थस्तं गुरुं यथाशक्ति वित्तैरुपचर्य विदितवेदितव्योऽशेषमन्त्राधिकारी भवेदिति शिवम् ॥ १.४३॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे दीक्षाविधिर् नाम प्रथमः खण्डः समाप्तः ॥ १॥
द्वितीयः खण्डः श्रीगणनायकपद्धतिः इत्थं सद्गुरोराहितदीक्षः महाविद्याऽऽराधनप्रत्यूहापोहाय गाणनायकीं पद्धतिमामृशेत् ॥ २.१॥ ब्राह्मे मुहूर्ते उत्थाय द्वादशान्ते सहस्रदलकमलकर्णिकामध्यनिविष्टगुरुचरणयुगल विगलदमृतरसविसरपरिप्लुताखिलाङ्गो हृदयकमलमध्ये ज्वलन्तं उद्यदरुणकोटिपाटलमशेषदोषनिर्वेषभूतं अनेकपाननं नियमितपवनमनोगतिर्ध्यात्वा तत्प्रभापटलपाटलीकृततनुः बहिर्निर्गत्य मुक्तमलमूत्रो दन्तधावनस्नान-वस्त्रपरिधानसूर्यार्घ्यदानानि विधाय उद्यदादित्यवर्तिने महागणपतये तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि ॥ तन्नो दन्ती प्रचोदयात् इत्यर्घ्यं दत्वा नित्यकृत्यं विधाय चतुरावृत्तितर्पणं कुर्यात् । आयुरारोग्यमैश्वर्यं बलं पुष्टिर्महद्यशः । कवित्वं भुक्तिमुक्ती च चतुरावृत्तितर्पणात् ॥ २.२॥ प्रथमं द्वादशवारं मूलमन्त्रेण तर्पयित्वा मन्त्राष्टाविंशतिवर्णान् स्वाहाऽन्तानेकैकं चतुर्वारं मूलं च चतुर्वारं तर्पयित्वा पुनः श्रीश्रीपतिगिरिजागिरिजापतिरतिरतिपतिमहीमहीपति महालक्ष्मीमहालक्ष्मीपति ऋद्ध्यामोदसमृद्धिप्रमोदकान्ति सुमुखमदनावतीदुर्मुखमदद्रवाऽविघ्नद्राविणीविघ्नकर्तृ वसुधाराशङ्खनिधिवसुमतीपद्मनिधित्रयोदश मिथुनेष्वेकैकां देवतां चतुर्वारं मूलं चतुर्वारं च तर्पयेतेवं चतुश्चत्वारिंशदधिकचतुश्शततर्पणानि भवन्ति ॥ २.३॥ अथ यागविधिः - गृहमागत्य स्थण्डिलमुपलिप्य द्वारदेश उभयपार्श्वयोर्भद्रकाल्यै भैरवाय-द्वारोर्ध्वे लम्बोदराय नमः इति अन्तःप्रविश्य आसनमन्त्रेण आसने स्थित्वा प्राणान् आयम्य षडङ्गानि विन्यस्य मूलेन व्यापकं कृत्वा स्वात्मनि देवं सिद्धलक्ष्मीसमाश्लिष्टपार्श्वमर्धेन्दुशेखरमारक्तवर्णं मातुलुङ्गगदापुण्ड्रेक्षुकार्मुकशूलसुदर्शनशङ्ख- पाशोत्पलधान्य-मञ्जरीनिजदन्ताञ्चलरत्न कलशपरिष्कृतपाण्येकादशकं प्रभिन्नकटमानन्दपूर्णमशेषविघ्नध्वंसनिघ्नं विघ्नेश्वरं ध्यात्वा ॥ २.४॥ पुरतो मूलसप्ताभिमन्त्रितेन गन्धाक्षतपुष्पपूजितेन शुद्धेन वारिणा त्रिकोणषट्कोणवृत्तचतुरश्राणि विधाय तस्मिन् पुष्पाणि विकीर्य वह्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि विन्यस्य अग्निमण्डलाय दशकलाऽऽत्मने अर्घ्यपात्राधाराय नमः सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्राय नमः सोममण्डलाय षोडशकलाऽऽत्मने अर्घ्यामृताय नमः इति शुद्धजलमापूर्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनिमुद्रां प्रदर्शयेत् ॥ २.५॥ सप्तवारमभिमन्त्र्य तज्जलविप्रुड्भिरात्मानं पूजोपकरणानि च सम्प्रोक्ष्य तज्जलेन पूर्वोक्तं मण्डलं परिकल्प्य तद्वद् आदिमं संयोज्य तत्रोपादिमं मध्यमं च निक्षिप्य वह्न्यर्केन्दुकलाः अभ्यर्च्य वक्रतुण्डगायत्र्या गणानां त्वेत्यनया ऋचा चाभिमन्त्र्य अस्त्रादिरक्षणं कृत्वा तद्बिन्दुभिस्त्रिशः शिरसि गुरुपादुकामाराधयेत् ॥ २.६॥ पुरतो रक्तचन्दननिर्मिते पीठे महागणपतिप्रतिमायां वा चतुरस्राष्टदलषट्कोणत्रिकोणमये चक्रे वा तीव्रायै ज्वालिन्यै नन्दायै भोगदायै कामरूपिण्यै उग्रायै तेजोवत्यै सत्यायै विघ्ननाशिन्यै ऋं धर्माय ॠं ज्ञानाय ऌं वैराग्याय ॡं ऐश्वर्याय ऋं अधर्माय ॠं अज्ञानाय ऌं अवैराग्याय ॡं अनैश्वर्याय नम इति पीठशक्तीर्धर्माद्यष्टकं चाभ्यर्च्य मूलमुच्चार्य महागणपतिं आवाहयामीत्यावाह्य पञ्चधोपचर्य दशधा सन्तर्प्य मूलेन मिथुनाङ्गब्राह्म्यादीन्द्रादिरूपपञ्चावरणपूजां कुर्यात् ॥ २.७॥ त्रिकोणे देवः तस्य षडस्रस्यान्तराले श्रीश्रीपत्यादिचतुर्मिथुनानि अङ्गानि च ऋद्ध्यामोदादिषण्मिथुनानि षडस्रे मिथुनद्वयं षडस्रोभयपार्श्वयोस्तत्सन्धिष्वङ्गानि ब्राह्मयाद्याः अष्टदले चतुरस्राष्टदिक्ष्विन्द्राद्याः पूज्याः सर्वत्र देवतानामसु श्रीपूर्वं पादुकामुच्चार्य पूजयामीत्यष्टाक्षरीं योजयेत् ॥ २.८॥ एवं पञ्चावरणीमिष्ट्वा पुनर्देवं गणनाथं दशधोपतर्प्य षोडशोपचारैरुपचर्य प्रणवमायाऽन्ते सर्वविघ्नकृद्भयः सर्वभूतेभ्यो हुं स्वाहा - इति त्रिः पठित्वा बलिं दत्वा गणपतिबुद्ध्यैकं बटुकं सिद्धलक्ष्मीबुद्ध्यैकां शक्तिं चाहूय गन्धपुष्पाक्षतैरभ्यर्च्यादिमोपादिममध्यमान् दत्वा मम निर्विघ्नं मन्त्रसिद्धिर्भूयादित्यनुग्रहं कारयित्वा नमस्कृत्य यथाशक्ति जपेत् ॥ २.९॥ यद्यग्निकार्यसम्पत्तिः बलेः पूर्वं विधिवत् संस्कृतेऽग्नौ स्वाहाऽन्तैः श्रीश्रीपत्यादिविघ्नकर्तृपर्यन्तैः मन्त्रैर्हुत्वा पुनरागत्य देवं त्रिवारं सन्तर्प्य योग्यैस्सह मपञ्चकं उररीकृत्य महागणपतिमात्मन्युद्वास्य सिद्धसङ्कल्पः सुखी विहरेत् इति शिवम् ॥ २.१०॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे गणनायकपद्धतिर् नाम द्वितीयः खण्डः समाप्तः ॥ २॥
तृतीयः खण्डः श्रीक्रमः ललिताऽधिकारः एवं गणपतिमिष्ट्वा विधूतसमस्तविघ्नव्यतिकरः शक्तिचक्रैकनायिकायाः श्रीललितायाः क्रममारभेत ॥ ३.१॥ ब्राह्मे मुहूर्ते ब्राह्मणो मुक्तस्वापः पापविलापाय परमशिवरूपं गुरुमभिमृश्य ॥ ३.२॥ मूलादिविधिबिलपर्यन्तं तडित्कोटिकडारां तरुणदिवाकरपिञ्जरां ज्वलन्तीं मूलसंविदं ध्यात्वा तद्रश्मिनिहतकश्मलजालः कादिं हादिं वा मूलविद्यां मनसा दशवारमावर्त्य ॥ ३.३॥ स्नानकर्मणि प्राप्ते मूलेन दत्वा त्रिः सलिलाञ्जलीन् त्रिस्तदभिमन्त्रिताः पीत्वाऽपस्त्रिस्सन्तर्प्य त्रिः प्रोक्ष्यात्मानं परिधाय वाससी ह्रां ह्रीं ह्रूं सः इत्युक्त्वा मार्ताण्डभैरवाय प्रकाशशक्तिसहिताय स्वाहेति त्रिस्सवित्रे दत्तार्घ्यः ॥ ३.४॥ तन्मण्डलमध्ये नवयोनिचक्रमनुचिन्त्य वाचमुच्चार्य त्रिपुरसुन्दरि विद्महे काममुच्चार्य पीठकामिनि धीमहि शक्तिं उच्चार्य तन् नः क्लिन्ना प्रचोदयाद् इति त्रिर्महेश्यै दत्तार्घ्यः शतमष्टोत्तरमामृश्य मनुं मौनमालम्ब्य ॥ ३.५॥ यागमन्दिरं गत्वा कॢप्ताकल्पस्सङ्कल्पाकल्पो वा पीठमनुना आसने समुपविष्टः ॥ ३.६॥ त्रितारीमुच्चार्य रक्तद्वादशशक्तियुक्ताय दीपनाथाय नम इति भूमौ मुञ्चेत् पुष्पाञ्जलिम् ॥ ३.७॥ सर्वेषां मन्त्राणामादौ त्रितारीसंयोगः । त्रितारी वाङ्मायाकमलाः ॥ ३.८॥ पुरतः पञ्चशक्तिचतुःश्रीकण्ठमेलनरूपं भूसदनत्रयवलित्रयभूपपत्रदिक्पत्रभुवनार द्रुहिणारविधिकोणदिक्कोणत्रिकोणबिन्दुचक्रमयं महाचक्रराजं सिन्दूरकुङ्कुमलिखितं चामीकरकलधौतपञ्चलोहरत्नस्फटिकाद्युत्कीर्णं वा निवेश्य ॥ ३.९॥ तत्र महाचक्रे अमृताम्भोनिधये रत्नद्वीपाय नानावृक्षमहोद्यानाय कल्पवृक्षवाटिकायै सन्तानवाटिकायै हरिचन्दनवाटिकायै मन्दारवाटिकायै पारिजातवाटिकायै कदम्बवाटिकायै पुष्परागरत्नप्राकाराय पद्मरागरत्नप्राकाराय गोमेधरत्नप्राकाराय वज्ररत्नप्राकाराय वैडूर्यरत्नप्राकाराय इन्द्रनीलरत्नप्राकाराय मुक्तारत्नप्राकाराय मरकतरत्नप्राकाराय विद्रुमरत्नप्राकाराय माणिक्यमण्डपाय सहस्रस्तम्भमण्डपाय अमृतवापिकायै आनन्दवापिकायै विमर्शवापिकायै बालातपोद्गाराय चन्द्रिकोद्गाराय महाशृङ्गारपरिघायै महापद्माटव्यै चिन्तामणिगृहराजाय पूर्वाम्नायमयपूर्वद्वाराय दक्षिणाम्नायमयदक्षिणद्वाराय पश्चिमाम्नायमयपश्चिमद्वारायोत्तराम्नायमयोत्तरद्वाराय रत्नप्रदीपवलयाय मणिमयमहासिंहासनाय ब्रह्ममयैकमञ्चपादाय विष्णुमयैकमञ्चपादाय रुद्रमयैकमञ्चपादाय ईश्वरमयैकमञ्चपादाय सदाशिवमयैकमञ्चफलकाय हंसतूलतल्पाय हंसतूलमहोपधानाय कौसुम्भास्तरणाय महावितानकाय महाजवनिकायै नमः - इति चतुश्चत्वारिंशन्मन्त्रैस्तत्तदखिलं भावयित्वा अर्चयित्वा ॥ ३.१०॥ गन्धपुष्पाक्षतादींश्च दक्षिणभागे दीपान् अभितो दत्त्वा मूलेन चक्रमभ्यर्च्य मूलत्रिखण्डैः प्रथमत्र्यस्रे ॥ ३.११॥ वाय्वग्निसलिलवर्णयुक्प्राणायामैः शोषणं सन्दहनमाप्लावनं च विधाय ॥ ३.१२॥ त्रिः प्राणान् आयम्य ॥ ३.१३॥ अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया । इति वामपादपार्ष्णिघातकरास्फोटसमुदञ्चितवक्त्रस्तालत्रयं दत्वा देव्यहम्भावयुक्तः स्वशरीरे वज्रकवचन्यासजालं विदधीत ॥ ३.१४॥ बिन्दुयुक् श्रीकण्ठानन्ततार्तीयैः मध्यमादितलपर्यन्तं कृतकरशुद्धिः ॥ ३.१५॥ कुमारीमुच्चार्य महात्रिपुरसुन्दरीपदमात्मानं रक्ष रक्षेति हृदये अञ्जलिं दत्त्वा ॥ ३.१६॥ मायाकामशक्तीरुच्चार्य देव्यात्मासनाय नमः - इति स्वस्यासनं दत्त्वा ॥ ३.१७॥ शिवयुग्बालामुच्चार्य श्रीचक्रासनाय नमः - शिवभृगुयुग्बालामुच्चार्य सर्वमन्त्रासनाय नमो भुवना - मदनौ ब्लेमुच्चार्य साध्यसिद्धासनाय नमः - इति चक्रमन्त्रदेवताऽऽसनं त्रिभिर्मन्त्रैश्चक्रे कृत्वा ॥ ३.१८॥ बाला-द्विरावृत्त्या त्रिद्व्येकदशत्रिसङ्ख्याऽङ्गुलिविन्यासैः कॢप्तषडङ्गः ॥ ३.१९॥ सबिन्दूनचोब्लूमुच्चार्य वशिनीवाग्देवतायै नमः - इति शिरसि । सर्वत्र वर्गाणां बिन्दुयोगः । कवर्गं कलह्रीं च निगद्य कामेश्वरीवाग्देवतायै नमः - इति ललाटे । चुं गदित्वा न्व्लीं मोदिनीवाग्देवतायै नमः - इति भ्रूमध्ये । टुं भणित्वा य्लूं विमलावाग्देवतायै नमः - इति कण्ठे । तुं च प्रोच्य ज्म्रीं अरुणावाग्देवतायै नमः - इति हृदि । पुं च ह्स्ल्व्यूं उच्चार्य जयिनीवाग्देवतायै नमः - इति नाभौ । यादिचतुष्कं झ्म्र्यूं उच्चार्य सर्वेश्वरीवाग्देवतायै नमः - इति लिङ्गे । शादिषट्कं क्ष्म्रीं आख्याय कौलिनीवाग्देवतायै नमः - इति मूले ॥ ३.२०॥ मूलविद्यापञ्चदशवर्णान् मूर्ध्नि मूले हृदि चक्षुस्त्रितये श्रुतिद्वयमुखभुजयुगलपृष्ठजानुयुगलनाभिषु विन्यस्य षोढा चक्रे न्यस्यान्यस्य वा ॥ ३.२१॥ शुद्धाम्भसा वामभागे त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं कृत्वा पुष्पैरभ्यर्च्य साधारं शङ्खं प्रतिष्ठाप्य शुद्धजलमापूर्य आदिमबिन्दुं दत्त्वा षडङ्गेनाभ्यर्च्य विद्यया अभिमन्त्र्य तज्जलविप्रुड्भिः आत्मानं पूजोपकरणानि च सम्प्रोक्ष्य ॥ ३.२२॥ तज्जलेन त्रिकोणषट्कोणवृत्तचतुरस्रमण्डलं कृत्वा मध्यं विद्यया विद्याखण्डैस्त्रिकोणं बीजावृत्त्या षडश्रं सम्पूज्य वाचमुच्चार्य अग्निमण्डलाय दशकलाऽऽत्मने अर्घ्यपात्राधाराय नमः - इति प्रतिष्ठाप्य आधारं प्रपूज्य पावकीः कलाः ॥ ३.२३॥ मदनादुपरि सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्राय नमः इति संविधाय पात्रं संस्पृश्य कलाः सौरीः सौः सोममण्डलाय षोडशकलाऽऽत्मने अर्घ्यामृताय नमः - इति पूरयित्वा आदिमं दत्त्वोपादिममध्यमौ पूजयित्वा विधोः कलाषोडशकम् ॥ ३.२४॥ तत्र विलिख्य त्र्यस्रमकथादिमयरेखं हलक्षयुगान्तस्थितहंसभास्वरं वाक्कामशक्तियुक्तकोणं हंसेनाराध्य बहिर्वृत्तषट्कोणं कृत्वा षडस्रं षडङ्गेन पुरोभागाद्यभ्यर्च्य मूलेन सप्तधा अभिमन्त्र्य दत्तगन्धाक्षतपुष्पधूपदीपः तद्विप्रुड्भिः प्रोक्षितपूजाद्रव्यः सर्वं विद्यामयं कृत्वा तत् स्पृष्ट्वा चतुर्नवतिमन्त्रान् जपेत् ॥ ३.२५॥ त्रितारीनमस्सम्पुटिताः तेजस्त्रितयकला अष्टत्रिंशत् । सृष्टिऋद्धिस्मृतिमेधाकान्तिलक्ष्मीद्युतिस्थिरा- स्थितिसिद्धयो ब्रह्मकला दश । जरा पालिनी शान्तिरीश्वरी रतिकामिके वरदाह्लादिनी प्रीतिर्दीर्घा विष्णुकला दश । तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुधा क्रोधिनी क्रियोद्गारीमृत्यवो रुद्रकला दश । पीता श्वेताऽरुणाऽसिताश्चतस्र ईश्वरकलाः । निवृत्तिप्रतिष्ठाविद्याशान्तीन्धिकादीपिकारेचिकामोचिका परासूक्ष्मासूक्ष्मामृता-ज्ञानाज्ञानामृताप्यायिनीव्यापिनी व्योमरूपाः षोडश सदाशिवकलाः ॥ हंसश्शुचिषद्वसुरन्तरिक्षसद्धोताव्वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्वयोमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः । यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि (?) व्विश्वा ॥ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥ तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ॥ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत् परमं पदम् ॥ विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु । आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥ गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ॥ इत्येते पञ्चमन्त्राः ॥ मूलविद्या चाहत्य चतुर्नवतिमन्त्राः ॥ ३.२६॥ अथ हैके पञ्चभिरखण्डाद्यैरभिमन्त्रणमामनन्ति ॥ ३.२७॥ अखण्डैकरसानन्दकरै परसुधाऽऽत्मनि । स्वच्छन्दस्फुरणमत्र निधेह्यकुलनायिके ॥ अकुलस्थामृताकारे शुद्धज्ञानकरे परे । अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि । भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ॥ इति तिस्रोऽनुष्टुभो विद्याः ॥ ३.२८॥ अथो वाचं ब्लूं झौमिति जूं सः - इति चोक्त्वा अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहेति चतुर्थो मन्त्रः ॥ ३.२९॥ वाग्भवो वद वद ततो वाग्वादिनि वाङ्मदनक्लिन्ने क्लेदिनि क्लेदय महाक्षोभं कुरुयुगलं मादनं शक्तिर्मोक्षं कुरु कुरु शब्दो हस चतुर्दशपञ्चदशपिण्डः सहचतुर्दशषोडशपिण्डश्चेति पञ्चमीयं विद्यैताभिः अभिमन्त्र्य ज्योतिर्मयं तद् अर्घ्यं विधाय ॥ ३.३०॥ तद्बिन्दुभिस्त्रिशः शिरसि गुरुपादुकामिष्ट्वा आर्द्रं ज्वलति ज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमि स्वाहेति तद्बिन्दुमात्मनः कुण्डलिन्यां जुहुयात् ॥ ३.३१॥ एतदर्घ्यशोधनमिति शिवम् ॥ ३.३२॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे श्रीक्रम नाम तृतीयः खण्डः समाप्तः ॥ ३॥
चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम् अथ हृच्चक्रस्थिताम् अन्तस्सुषुम्णापद्माटवीनिर्भेदनकुशलां निरस्तमोहतिमिरां शिवदीपदीप्तिमाद्यां संविदं वहन्नासपुटेन निर्गमय्य लीलाऽऽकलितवपुषं तां त्रिखण्डमुद्राशिखण्डे कुसुमाञ्जलौ हस्ते समानीय ॥ ४.१॥ मायालक्ष्मी परा उच्चार्य देवीनाम चामृतचैतन्यमूर्तिं कल्पयामि नमः - इति कल्पयित्वा ॥ ४.२॥ हसरयुजं वाचं हसयुक्तां कलरीं हसरचतुर्दशषोडशानप्युच्चार्य महापद्मवनान्तःस्थे कारणानन्दविग्रहे । सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ इति बैन्दवचक्रे परचितिमावाह्य ॥ ४.३॥ चतुष्षष्ट्युपचारान् कुर्यात् । सर्वे उपचारमन्त्राः त्रितारीपूर्वाः कल्पयामि नमः - इत्यन्ताः कर्तव्याः ॥ ४.४॥ त्रितारीमुच्चार्य पाद्यं कल्पयामि नमः इति क्रमेण आभरणावरोपणं सुगन्धितैलाभ्यङ्गं मज्जनशालाप्रवेशनं मज्जनमण्डपमणिपीठोपवेशनं दिव्यस्नानीयोद्वर्तनम् उष्णोदकस्नानम् कनककलशच्युतसकलतीर्थाभिषेकं धौतवस्त्रपरिमार्जनम् अरुणदुकूलपरिधानम् अरुणकुचोत्तरीयम् आलेपमण्डपप्रवेशनमालेपमण्डपमणिपीठोपवेशनं चन्दनागरुकुङ्कुम सङ्कुमृगमदकर्पूरकस्तूरीगोरोचनादि दिव्यगन्धसर्वाङ्गीणविलेपनं केशभरस्य कालागरुधूपं मल्लिकामालतीजातीचम्पकाशोकशतपत्रपूगकुड्मली पुन्नागकल्हार-मुख्यसर्वर्तुकुसुममालां भूषणमण्डपप्रवेशनं भूषणमण्डपमणिपीठोपवेशनं नवमणिमकुटं चन्द्रशकलं सीमन्तसिन्दूरं तिलकरत्नं कालाञ्जनं पालीयुगलं मणिकुण्डलयुगलं नासाभरणम् अधरयावकं प्रथमभूषणं कनकचिन्ताकं पदकं महापदकं मुक्तावलिमेकावलिं छन्नवीरं केयूरयुगलचतुष्टयं वलयावलिमूर्मिकावलिं काञ्चीदाम कटिसूत्रं सौभाग्याभरणं पादकटकं रत्ननूपुरं पादाङ्गुलीयकमेककरे पाशमन्यकरे अङ्कुशमितरकरे पुण्ड्रेक्षुचापमपरकरे पुष्पबाणान् श्रीमन्माणिक्यपादुके स्वसमानवेषाभिरावरणदेवताभिः सह महाचक्राधिरोहणं कामेश्वराङ्कपर्यङ्कोपवेशनम् अमृतासवचषकमाचमनीयं कर्पूरवीटिकाम् आनन्दोल्लासविलास-हासं मङ्गलारार्तिकं छत्रं चामरयुगलं दर्पणं तालवृन्तं गन्धं पुष्पं धूपं दीपं नैवेद्यं कल्पयामि नमः - इति चतुष्षष्ट्युपचारान् विधाय ॥ ४.५॥ नवमुद्राश्च प्रदर्श्य ॥ ४.६॥ मूलेन त्रिधा सन्तर्प्य ॥ ४.७॥ देव्या अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि पूजयित्वा ॥ ४.८॥ वाक्सकलह्रीं नित्यक्लिन्ने मदद्रवे सौः - इति कामेश्वरी । सर्वत्र नित्याश्रीपादुकेति योज्यम् । वाग्भगभुगे भगिनि भगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनि सर्वभगवशङ्करि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणि भगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवे क्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान् भगेश्वरि ऐं ब्लूं जें ब्लूं भें ब्लूं हें ब्लूं हें क्लिन्ने सर्वाणि भगानि मे वशमानय स्त्रीं हर ब्लें ह्रीं भग-मालिनी । तारो माया नित्य-क्लिन्ने मद-द्रवे स्वाहा - इति नित्यक्लिन्ना । प्रणवः क्रों भ्रों क्रौं झ्रौं छ्रौं ज्रौं स्वाहा - इति भेरुण्डा । प्रणवो माया वह्निवासिन्यै नमः - इति वह्निवासिनी । मायाक्लिन्ने वाक् क्रों नित्यमदद्रवे ह्रीं - इति महावज्रेश्वरी । माया शिवदूत्यै नमः - इति शिवदूती । प्रणवो माया हुं खे च छे क्षः स्त्रीं हुं क्षें ह्रीं फट् - इति त्वरिता । कुमारी कुलसुन्दरी । हसकलरडवाग्भवहसकलरडबिन्दुमालिनी हसकलरडचतुर्दशषोडशा- इति नित्या । माया फ्रें स्रूं अङ्कुशपाशस्मरवाग्भवब्लूम्पदनित्यमदद्रवे वर्म फ्रें मायेति नीलपताका । भमरयऊमिति विजया । स्वौमिति सर्वमङ्गला । तारो नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वल त्रिजातियुक्तमायारेफसप्तकज्वालामालिनि वर्मफडग्निजायेति ज्वालामालिनी । (अं) च्कौं - इति चित्रेति पञ्चदश नित्याः प्रथमत्र्यस्ररेखास्थितपञ्चदशस्वरेषु पूज्यः । विसृष्टौ षोडशीं मूलविद्यया चाभ्यर्च्य ॥ ४.९॥ मध्ये प्राक्त्र्यस्रमध्यान्तः मुनिवेदनागसङ्ख्यान् यथासम्प्रदायं पादुकान् दिव्यसिद्धमानवौघसिद्धानिष्ट्वा पश्चात् स्वशिरसि नाथं यजेत् । एतल्लयाङ्गपूजनम् - इति शिवम् ॥ ४.१०॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे ललिताक्रमो नाम चतुर्थः खण्डः समाप्तः ॥ ४॥
पञ्चमः खण्डः ललितानवावरणपूजा अथ प्राथमिके चतुरस्रे अणिमालघिमामहिमेशित्ववशित्व प्राकाम्यभुक्तीच्छाप्राप्तिसर्वकामसिद्ध्यन्ताः मध्यमे चतुरस्रे ब्राह्म्याद्यामहालक्ष्म्यन्ताः तृतीये चतुरस्रे संक्षोभणद्रावणकर्षणवश्योन्मादनमहाङ्कुशखेचरी बीजयोनित्रिखण्डाः सर्वपूर्वास्ताः सम्पूज्याः ॥ ५.१॥ एताः प्रकटयोगिन्यस्त्रैलोक्यमोहनचक्रे समुद्राः ससिद्धयः सायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताः सन्त्विति तासामेव समष्ट्यर्चनं कृत्वा ॥ ५.२॥ करशुद्धिमुच्चार्य त्रिपुराचक्रेश्वरीमवमृश्य द्रामिति सर्वसंक्षोभिणीमुद्रां प्रदर्शयेत् । चक्रयोगिनीचक्रेशीनां नामानि भिन्नानि । शिष्टं समानम् ॥ ५.३॥ षोडशपत्रे कामाकर्षिणी नित्याकलेति नित्याकलाऽन्ताः बुद्ध्याकर्षिणी-अहङ्काराकर्षिणी-शब्दाकर्षिणी-स्पर्शाकर्षिणी- रूपाकर्षिणी-रसाकर्षिणी-गन्धाकर्षिणी-चित्ताकर्षिणी- धैर्याकर्षिणी-स्मृत्याकर्षिणी-नामाकर्षिणी-बीजाकर्षिणी- आत्माकर्षिणी-अमृताकर्षिणी-शरीराकर्षिणी-एता गुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्राः इत्यादि पूर्ववत् आत्मरक्षामुच्चार्य त्रिपुरेशीमिष्ट्वा द्रीं - इति सर्वविद्राविणीं प्रदर्शयेत् ॥ ५.४॥ दिक्पत्रे कुसुमामेखलामदनामदनातुरारेखावेगिन्यङ्कुशा मालिनीरनङ्गपूर्वाः संमृश्यैता गुप्ततरयोगिन्यः सर्वसंक्षोभणचक्रे समुद्राः इत्यादि पूर्ववदात्मासनमुच्चार्य त्रिपुरसुन्दरीमिष्ट्वा क्लीमिति सर्वाकर्षिणीमुद्रां प्रदर्शयेत् ॥ ५.५॥ भुवनारे संक्षोभिणीद्राविण्याकर्षिण्याह्लादिनीसंमोहिनीस्तम्भिनी जृम्भिणीवशङ्करीरञ्जन्युन्मादिन्यर्थसाधिनी- सम्पत्तिपूरणी-मन्त्रमयी-द्वन्द्वक्षयङ्करीः सर्वादीरवमृश्यैताः सम्प्रदाययोगिन्यः सर्वसौभाग्यदायकचक्रे समुद्राः - इत्यादि मन्त्रशेषः चक्रासनमुच्चार्य त्रिपुरवासिनीं चक्रेश्वरीमिष्ट्वा ब्लूं - इति सर्ववशङ्करीमुद्रामुद्घाटयेत् ॥ ५.६॥ बहिर्दशारे सिद्धिप्रदासम्पत्प्रदाप्रियङ्करीमङ्गलकारिणी कामप्रदादुःखविमोचिनीमृत्युप्रशमनीविघ्ननिवारिण्यङ्ग- सुन्दरीसौभाग्यदायिनीः सर्वपूर्वाः सम्पूज्यैताः कुलोत्तीर्णयोगिन्यः सर्वार्थसाधकचक्रे मनुशेषमुक्त्वा मन्त्रासनमुच्चार्य त्रिपुराश्रीचक्रेश्वरीं प्रत्यवमृश्य स इत्युन्मादिनीमुद्रां दद्यात् ॥ ५.७॥ अन्तर्दशारे ज्ञानशक्त्यैश्वर्यप्रदाज्ञानमयीव्याधिविनाशिन्याधारस्वरूपा- पापहराऽऽनन्दमयीरक्षास्वरूपिणीप्सितफलप्रदाः सर्वोपपदाः यष्टव्या एतानि गर्भयोगिन्यः सर्वरक्षाकरचक्रे शिष्टं तद्वत् साध्यसिद्धासनमुच्चार्य त्रिपुरमालिनी मान्या क्रोमिति सर्वमहाङ्कुशां दर्शयेत् ॥ ५.८॥ अष्टारे वशिन्याद्यष्टकं नमःस्थाने पूजामन्त्रसन्नाम एता रहस्ययोगिन्यः सर्वरोगहरचक्रे शिष्टं स्पष्टं मूर्तिविद्यामुच्चार्य त्रिपुरासिद्धामाराध्य शिवभृगुऋद्धि-युक्फ्रें - इति खेचरी देया ॥ ५.९॥ बाणबीजान्युच्चार्य सर्वजृम्भणेभ्यो बाणेभ्यो नमः धं थं सर्वसंमोहनाय धनुषे आं ह्रीं सर्ववशीकरणाय पाशाय क्रों सर्वस्तम्भनायाङ्कुशाय नमः - इति महात्र्यस्रबाह्यचतुर्दिक्षु बाणाद्यायुधपूजा ॥ ५.१०॥ त्रिकोणे वाक्कामशक्तिसमस्तपूर्वाः कामेश्वरीवज्रेश्वरीभगमालिनीमहादेव्यः बिन्दौ चतुर्थी ॥ ५.११॥ तिसृणामासामनन्तरमभेदाय मूलदेव्याः पूजा । कामेश्वर्यादिचतुर्थी नित्यानां षोडशी चक्रदेवीनां नवमी बिन्दुचक्रस्था चेत्येकैव । न तत्र मन्त्रदेवताभेदः कार्यः । तन्महादेव्या एव । चतुर्षु स्थलेषु विशेषार्चनमावर्तते ॥ ५.१२॥ एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे । परिशिष्टं द्रष्टव्यम् । आवाहनीमुच्चार्य त्रिपुराम्बां सम्भाव्य ह्सौं - इति बीजमुद्राकृतिः ॥ ५.१३॥ बिन्दुचक्रे मूलेन देवीमिष्ट्वा एषा परापररहस्ययोगिनी सर्वानन्दमये चक्रे समुद्रा ससिद्धिः सायुधा सशक्तिः सवाहना सपरिवारा सर्वोपचारैः सम्पूजिताऽस्त्विति पुनर्मूलमुच्चार्य महाचक्रेश्वरीमिष्ट्वा वाग्भवेन योनिं प्रदर्श्य ॥ ५.१४॥ पूर्ववद्धूपदीपमुद्रातर्पणनैवेद्यादि दत्त्वा ॥ ५.१५॥ बिन्दुना मुखं बिन्दुद्वयेन कुचौ सपरार्धेन योनिं कृत्वा कामकलामिति ध्यात्वा ॥ ५.१६॥ सौभाग्यहृदयमामृश्य ॥ ५.१७॥ वामभागविहितत्रिकोणवृत्तचतुरस्रे गन्धाक्षतार्चिते वाग्भवमुच्चार्य व्यापकमण्डलाय नमः इत्यर्धभक्तभरिताम्भसा आदिमोपादिममध्यमभाजनं तत्र न्यस्य ॥ ५.१८॥ प्रणवमायाऽन्ते सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुं स्वाहा - इति त्रिः पठित्वा बलिं दत्त्वा ॥ ५.१९॥ प्रदक्षिणनमस्कारजपस्तोत्रैः सन्तोष्य ॥ ५.२०॥ तद्रूपिणीमेकां शक्तिं बालयोपचारैः सम्पूज्य तां मपञ्चकेन सन्तर्प्य ॥ ५.२१॥ शिष्टैः सार्धं चिदग्नौ हविश्शेषं हुत्वा ॥ ५.२२॥ खेचरीं बद्ध्वा क्षमस्वेति विसृज्य तामात्मनि संयोजयेत् इति शिवम् ॥ ५.२३॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे ललितानवावरणपूजा नाम पञ्चमः खण्डः समाप्तः ॥ ५॥
षष्ठः खण्डः श्यामाक्रमः इयमेव महती विद्या सिंहासनेश्वरी साम्राज्ञी तस्याः प्रधानसचिवपदं श्यामा तत्क्रमविमृष्टिः सदा कार्या ॥ ६.१॥ प्रधानद्वारा राजप्रसादनं हि न्याय्यम् ॥ ६.२॥ ब्राह्मे मुहूर्ते चोत्थाय शयने स्थित्वैव श्रीपादुकां प्रणम्य प्राणान् आयम्य मूलादिद्वादशान्तपर्यन्तं ज्वलन्तीं परसंविदं विचिन्त्य मनसा मूलं त्रिशो जप्त्वा बहिर्निर्गत्य विमुक्तमलमूत्रो दन्तधावनजिह्वाघर्षणकफविमोचननासशोधन- विंशतिगण्डूषान् विधाय ॥ ६.३॥ मन्त्रभस्मजलस्नानेष्विष्टं विधाय वस्त्रं परिधाय ॥ ६.४॥ सन्ध्यामुपास्य सवितृमण्डले देवीं सावरणां विचिन्त्य मूलेन त्रिरर्घ्यं दत्त्वा यथाशक्ति सन्तर्प्य ॥ ६.५॥ यागगृहं प्रविश्यासने आधारशक्तिकमलासनाय नम इत्युपविश्य ॥ ६.६॥ समस्तप्रकटगुप्तसिद्धयोगिनीचक्रश्रीपादुकाभ्यो नम इति शिरस्यञ्जलिमाधाय स्वगुरुपादुकापूजां च विधाय ॥ ६.७॥ ऐं ह्रः अस्त्राय फट् इत्यस्त्रमन्त्रेण अङ्गुष्ठादिकनिष्ठान्तं करतलयोः कूर्परयोः देहे च व्यापकत्वेन विन्यस्य ॥ ६.८॥ यं - इति वायुं पिङ्गलयाऽऽकृष्य देहमुपविशोष्य रं - इति वायुमाकृष्य देहं दग्ध्वा वं - इति वायुमाकृष्यामृतेन दग्धदेहभस्म सिक्त्वा लं - इति वायुमाकृष्य दृढं विधाय हंस - इति वायुमाकृष्य शिवचैतन्यमुत्पाद्य ॥ ६.९॥ मूलमेकश उच्चार्य वायुमाकृष्य त्रिशः उच्चार्य कुम्भयित्वा सकृद् उच्चार्य रेचयेत् । एवं रेचकपूरककुम्भकं त्रिधा सप्तधा दशधा षोडशधा वा विरच्य तेजोमयतनुः ॥ ६.१०॥ षडङ्गं बालासहितां मातृकां मूलहृन्मुखेषु रतिप्रीतिमनोभवान् विन्यस्य ॥ ६.११॥ मूलं सप्तदशधा खण्डयित्वा षट् ब्रह्मबिले त्रीणि ललाटे चत्वारि भ्रूमध्ये दक्षवामेक्षणयोः षट् चाष्टौ सप्तास्ये दक्षवामश्रुतिकण्ठेष्वेकैकं दक्षवामांसयोरष्टौ च दश हृदि दश दक्षवामस्तनयोरष्टावष्टौ नव नाभौ द्विः स्वाधिष्ठाने षड् आधार एवं विन्यस्य ॥ ६.१२॥ पुनराधारादिब्रह्मबिलपर्यन्तं सप्तदशखण्डानुक्तस्थानेषु विन्यस्य ॥ ६.१३॥ अमृतोदधिमध्यरत्नद्वीपे मुक्तामालाद्यलङ्कृतं चतुर्द्वारसहितं मण्डपं विचिन्त्य तस्य प्रागादिचतुर्द्वारेषु - सां सरस्वत्यै लां लक्ष्म्यै शं शङ्खनिधये पं पद्मनिधये नमः । लां इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावतवाहनाय सपरिवाराय नमः । रां अग्नये शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय सपरिवाराय नमः । टां यमाय दण्डहस्ताय प्रेताधिपतये महिषवाहनाय सपरिवाराय नमः । क्षां निरृतये खड्गहस्ताय रक्षोऽधिपतये नरवाहनाय सपरिवाराय नमः । वां वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय सपरिवाराय नमः । यां वायवे ध्वजहस्ताय प्राणाधिपतये रुरुवाहनाय सपरिवाराय नमः । सां सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्ववाहनाय सपरिवाराय नमः । हां ईशानाय त्रिशूलहस्ताय विद्याऽधिपतये वृषभवाहनाय सपरिवाराय नमः । ॐ ब्रह्मणे पद्महस्ताय सत्यलोकाधिपतये हंसवाहनाय सपरिवाराय नमः । श्रीं विष्णवे चक्रहस्ताय नागाधिपतये गरुडवाहनाय सपरिवाराय नमः । ॐ वास्तुपतये ब्रह्मणे नमः । इत्येकादशदिक्षु एकादशदेवानर्चयेत् ॥ ६.१४॥ श्यामाक्रममन्त्राणामादौ त्रितारीकुमारीयोगः कुमारीयोगो वा त्रितारी पूर्वोक्ता कुमारी बाला शेषमुत्तानम् ॥ ६.१५॥ गन्धद्रव्येण लिप्ताङ्गस्ताम्बूलामोदितवदनः प्रसन्नमना भूत्वा ॥ ६.१६॥ सुवर्णरजतताम्रचन्दनमण्डलेषु बिन्दुत्रिकोण पञ्चकोणाष्टदलषोडशदलाष्टदलचतुर्दल चतुरस्रात्मकं चक्रराजं विलिख्य ॥ ६.१७॥ मूलेन त्रिवारजप्तेन शुद्धजलेन चतुरस्रवृत्तषट्कोणत्रिकोणबिन्दून् प्रवेशेन मत्स्यमुद्रया विधाय - अं आत्मतत्त्वाय आधारशक्तये वौषट् इत्याधारं प्रतिष्ठाप्य धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सुश्रीः सुरूपा कपिला हव्यवाहा कव्यवाहेत्यग्निकला अभ्यर्च्य - उं विद्यातत्त्वाय पद्माननाय वौषट् - इति पात्रं प्रतिष्ठाप्य - तपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः सुषुम्ना भोगदा विश्वा बोधिनी धारिणी क्षमा - इति पात्रे सूर्यकला अभ्यर्च्य - मं शिवतत्त्वाय सोममण्डलाय नमः - इति शुद्धजलमापूर्य - अमृता मानदा पूषा तुष्टिः पुष्टी रतिः धृतिः शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा पूर्णा पूर्णामृता - चेति चन्द्रकला अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनी प्रदर्श्य - मूलमन्त्रेण सप्तशोऽभिमन्त्र्य तज्जलविप्रुड्भिः यागगृहं पूजोपकरणानि चावोक्ष्य ॥ ६.१८॥ ताभिरीकाराङ्कितत्रिकोणवृत्तचतुरस्रं मण्डलं विधाय तस्मिन् पुष्पाणि विकीर्य पूर्ववदाधारं प्रतिष्ठाप्य अग्निकला अभ्यर्च्य पात्रं प्रतिष्ठाप्य तस्मिन् पात्रे ह्रीं ऐं महालक्ष्मीश्वरि परमस्वामिनि ऊर्ध्व शून्यप्रवाहिनि सोमसूर्याग्निभक्षिणि परमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृह्ण प्रतिगृह्ण हुं फट् स्वाहेति पुष्पाञ्जलिं विकीर्य सूर्यकला अभ्यर्च्य ब्रह्माण्डाखण्डसम्भूतमशेषरससम्भृतम् । आपूरितं महापात्रं पीयूषरसमावह ॥ इत्यादिममापूर्य द्वितीयं निक्षिप्य अकथादित्रिरेखाऽङ्कितकोणत्रये हलक्षान् मध्ये हंसं च विलिख्य - मूलेन दशधा अभिमन्त्र्य - चन्द्रकलाः अभ्यर्च्य - अग्नीशासुरवायुषु मध्ये दिक्षु षडङ्गानि विन्यस्य -अस्त्रेण संरक्ष्य - कवचेनावकुण्ठ्य धेनुयोनी प्रदर्शयेत् ॥ ६.१९॥ चक्रमध्ये श्रीमातमुक्त्वा गीश्वरीमूर्तये नमः - इति मूर्तिं कल्पयित्वा भूयः श्रीमातमुक्त्वा गीश्वर्यमृतचैतन्यमावाहयामि - इत्यावाह्य षोडशभिरुपचर्य आशुशुक्षणित्र्यक्षरक्षःप्रभञ्जनदिषु देव्या मौलौ परितश्च पूज्या अङ्गदेव्यः । तन्मन्त्राः सर्वजनादयः अष्टौ सप्तैकादश दश पुनर्दशाष्टाविंशतिखण्डाः त्रितारीकुमारीवागादयः सजातयः सामान्यमनुयुक्ताः ॥ ६.२०॥ पश्चादावरणपूजां कुर्यात् ॥ ६.२१॥ सर्वचक्रदेवताऽर्चनानि वामकराङ्गुष्ठानामिकासन्दष्ट द्वितीयशकलगृहीतश्रीपात्रप्रथमबिन्दुसहपतितैः दक्षकराक्षतपुष्पक्षेपैः कुर्यात् ॥ ६.२२॥ त्रिकोणे रतिप्रीतिमनोभवान् ॥ ६.२३॥ पञ्चारमूले पुर आदिक्रमेण द्रां द्रावणबाणाय - द्रीं शोषणबाणाय - क्लीं बन्धनबाणाय - ब्लूं मोहनबाणाय - सः उन्मादनबाणाय नमः - इति तदग्रे मायाकामवाग्ब्लूं स्त्रीमुपजुष्टाः काममन्मथकन्दर्पमकरकेतनमनोभवाः ॥ ६.२४॥ अष्टदलमूले ब्राह्मी-महेश्वरी-कौमारी -वैष्णवी-वाराही-माहेन्द्री-चामुण्डा-चण्डिकाः, सेन्दुस्वरयुग्मान्त्यादयः पूज्याः । तदग्रे लक्ष्मीसरस्वती-रति-प्रीति-कीर्ति-शान्ति-पुष्टि-तुष्टयः ॥ ६.२५॥ षोडशदले वामा-ज्येष्ठा-रौद्री-शान्ति-श्रद्धा-सरस्वती- क्रियाशक्ति-लक्ष्मी-सृष्टि-मोहिनी-प्रमथिनी- आश्वासिनी-वीची-विद्युन्मालिनी-सुरानन्दा-नागबुद्धिकाः ॥ ६.२६॥ अष्टदले असिताङ्ग-रुरु-चण्ड-क्रोधन-उन्मत्त-कपाल-भीषण- संहाराः सदण्डिस्वरयुग्मादिसंयुक्ता भैरवान्ताश्च भावनीयाः ॥ ६.२७॥ चतुर्दलं मायुक्ततङ्गी सिद्धलक्ष्मीश्च महामायुक्ततङ्गी महासिद्धलक्ष्मीश्च ॥ ६.२८॥ गं गणपति - दुं दुर्गा - बं बटुक - क्षं क्षेत्रपालाः चतुरस्रे सम्पूज्याः ॥ ६.२९॥ सां सरस्वत्यै नमः इतिप्रभृति वास्तुपतये ब्रह्मणे नमः इतिपर्यन्तं पुनस्तत्रैवाभ्यर्च्य ॥ ६.३०॥ हंसमूर्तिपरप्रकाशपूर्णनित्यकरुणसम्प्रदाय गुरूंश्चतुरस्रपूर्वरेखायामभ्यर्च्य ॥ ६.३१॥ स्वशिरसि सामान्यविशेषपादुके अभ्यर्चयेत् ॥ ६.३२॥ पुनर्देवीमभ्यर्च्य बालया षोडशोपचारान् विधाय ॥ ६.३३॥ शुद्धजलेन त्रिकोणवृत्तचतुरस्रं विधायार्धान्नपूर्णसलिलं सादिमोपादिममध्यमं सु[स]गन्धपुष्पं साधारं पात्रं निधाय ॥ ६.३४॥ श्रीमातमुक्त्वा गीश्वरीमं बलिं गृह्ण गृह्ण हुं फट् स्वाहा श्रीमातमुक्त्वा गीश्वरि शरणागतं मां त्राहि त्राहि हुं फट् स्वाहा क्षेत्रपालनाथेमं बलिं गृह्ण गृह्ण फट् स्वाहा - इति मन्त्रत्रयेण वामपार्ष्णिघातकरास्फोटसमुदञ्चितवक्त्रनाराचमुद्राभिः बलिं प्रदाय ॥ ६.३५॥ श्यामलां शक्तिमाहूय बालया तामभ्यर्च्य तस्या हस्त आदिमोपादिमौ दत्त्वा तत्त्वं शोधयित्वा तच्छेषमुररीकृत्य योग्यैः सह हविश्शेषं स्वीकुर्यात् ॥ ६.३६॥ एवं नित्यसपर्यां कुर्वन् लक्षजपं जप्त्वा तद्दशांशक्रमेण च होमतर्पणब्राह्मणभोजनानि विदध्यात् ॥ ६.३७॥ एतन्मनुजापी न कदम्बं छिन्द्यात् गिरा कालीति न वदेत् वीणावेणुनर्तनगायनगाथागोष्ठीषु न पराङ्मुखो गच्छेत् गायकं न निन्द्यात् ॥ ६.३८॥ ललितोपासको नेक्षुखण्डं भक्षयेत् न दिवा स्मरेद् वार्तालीं - न जुगुप्सेत सिद्धद्रव्याणि - न कुर्यात् स्त्रीषु निष्ठुरतां - वीरस्त्रियं न गच्छेत् - न तं हन्यात् - न तद्द्रव्यमपहरेत् - नात्मेच्छयामपञ्चकमुररी कुर्यात् कुलभ्रष्टैः सह नासीत् - न बहु प्रलपेत् - योषितं सम्भाषमाणामप्रतिसम्भाषमाणो न गच्छेत् - कुलपुस्तकानि गोपायेत् - इति शिवम् ॥ ६.३९॥ ॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे श्यामाक्रमोप नाम षष्ठः खण्डः समाप्तः ॥ ६॥
सप्तमः खण्डः वाराहीक्रमः इत्थं साङ्गां सङ्गीतमातृकामिष्ट्वा संवित्साम्राज्ञीसिंहासनाधिरूढाया ललिताया महाराज्ञ्या दण्डनायिकास्थानीयां दुष्टनिग्रहशिष्टानुग्रहनिरर्गलाज्ञाचक्रां समयसङ्केतां कोलमुखीं विधिवद्वरिवस्येत् ॥ ७.१॥ तत्रायं क्रमो महारात्रे बुद्ध्वा स्वहृदयपरमाकाशे ध्वनन्तम् अनाहतध्वनिमूर्जितानन्ददायकमवमृश्य ॥ ७.२॥ शिवादिश्रीगुरुभ्यो नमः - इति मूर्ध्नि बध्नीयादञ्जलिम् ॥ ७.३॥ वाचमुच्चार्य ग्लौम् - इति च पद्धतावस्यां सर्वे मनवो जप्याः ॥ ७.४॥ मूलादिषण्मन्त्रैः यथामन्त्रं लिङ्गदेहं शोधयेत् ॥ ७.५॥ मूलशृङ्गाटकात् सुषुम्नापथेन जीवशिवं परशिवे योजयामि स्वाहा - यं सङ्कोचशरीरं शोषय शोषय स्वाहा - रं सङ्कोचशरीरं दह दह पच पच स्वाहा - वं परमशिवामृतं वर्षय वर्षय स्वाहा - लं शाम्भवशरीरमुत्पादयोत्पादय स्वाहा - हंसः सोऽहमवतरावतर शिवपदात् जीव सुषुम्नापथेन प्रविश मूलशृङ्गाटकमुल्लसोल्लस ज्वल ज्वल प्रज्वल प्रज्वल हंसः सोऽहं स्वाहा - इति भूतशुद्धिं विधाय ॥ ७.६॥ मातृकासम्पुटितां द्वितारीं काननवृत्तद्व्यक्षिश्रुति नासागण्डोष्ठदन्तमूर्धास्यदोः पत्सन्ध्यग्रपार्श्व- द्वयपृष्ठनाभिजठरहृद्दोर्मूलापरगल कक्षहृदादिपाणिपादयुगलजठराननेषु विन्यस्य ॥ ७.७॥ अन्धे प्रभृति सप्तार्णपञ्चकमङ्गुष्ठादिकनिष्ठान्तम् ॥ ७.८॥ वाङ्नमो भगवतीत्यारभ्य त्रयोदशभिर्हृदयं षड्भिः शिरः - दशभिः शिखां, सप्तभिः सप्तभिः सप्तभिः कवचनेत्रास्त्राणि विन्यस्य ॥ ७.९॥ गन्धादिभिरलङ्कृत्य अर्घ्यं शोधयेत् ॥ ७.१०॥ आत्मनोऽग्रभागे गोमयेन विलिप्ते हेतुमिश्रितजलेन चतुरस्रं वर्तुलं षट्कोणं त्रिकोणमन्तरान्तरं - विलिख्य - अर्घ्यशोधनमनुभिः श्यामाक्रमोक्तैः आधारार्घ्यपात्राणि संशोध्य - सामान्येनाभ्यर्च्य - तदर्घ्यं वषडित्युद्धृत्य - स्वाहेति संस्थाप्य हुं - इत्यवकुण्ठ्य - वौषट् इत्यमृतीकृत्य फडिति संरक्ष्य - नमः - इति पुष्पं निक्षिप्य मूलेन निरीक्ष्य तत्पृषतैः पावयित्वा सपर्यावस्तूनि ॥ ७.११॥ (१) शिरोवदनहृद्गुह्यपादेषु पूर्वोक्तसप्तकपञ्चकं विन्यस्य (२) विद्यामष्टधा खण्डयित्वा पादादिजानु-जान्वादिकटि-कट्यादिनाभि-नाभ्यादि हृदय - हृदयादिकण्ठ - कण्ठादिभ्रूमध्य - भ्रूमध्यादिललाट - ललाटादिमौलिषु एकत्रिंशत् सप्त सप्त सप्त सप्त सप्त पञ्चत्रिंशदेकादशार्णखण्डान् (३) मातृकास्थानेषु मूलमनुपदानि च न्यस्य ॥ ७.१२॥ पूर्वोक्तानष्टखण्डानेकैकश उच्चार्य पूर्वोक्तेषु स्थानेषु ह्लां शर्वाय क्षितितत्त्वाधिपतये - ह्लीं भवाय अम्बु-तत्त्वाधिपतये ह्लूं रुद्राय वह्नि तत्त्वाधिपतये - ह्लैं उग्राय वायुतत्त्वाधिपतये ह्लौं ईशानाय भानु-तत्त्वाधिपतये सों महादेवाय सोमतत्त्वाधिपतये हं महादेवाय यजमानतत्त्वाधिपतये औं भीमाय आकाशतत्त्वाधिपतये नमः - इति तत्त्वन्यासः ॥ ७.१३॥ मूलेन सर्वेण व्यापकं कृत्वा देवीं ध्यात्वा ॥ ७.१४॥ पुरतः पटपट्टसुवर्णरजतताम्रचन्दनपीठादिनिर्मितं दृष्टिमनोहरं चतुरस्रत्रय-सहस्रपत्र-शतपत्राष्टपत्र-षडस्र पञ्चास्रत्र्यस्र-बिन्दुलक्षणं कोलमुखीचक्रं विरच्य ॥ ७.१५॥ तत्र कुसुमाञ्जलिं विकीर्य स्वर्णप्राकाराय सुधाऽब्धये वराहद्वीपाय वराहपीठाय नमः इति । आं -आधारशक्तये कुं कूर्माय कं कन्दाय अं -अनन्तनालाय नमः - इति च धर्मादिभिः सह षोडशमन्त्रैः पीठे अभ्यर्च्य ॥ ७.१६॥ त्रिपञ्चषडरदलाष्टकशतसहस्रारपद्मासनाय नमः - इति चक्रमनुना चक्रमिष्ट्वा ॥ ७.१७॥ वह्निमण्डलाय सूर्यमण्डलाय सोममण्डलाय नमः - इति त्रयो गुणमन्त्राः -आत्ममन्त्राः चत्वारः - इति सप्तविंशतिकमिदं पीठे वरिवसनीयम् ॥ ७.१८॥ हौं प्रेतपद्मासनाय सदाशिवाय नमः - इति चक्रोपरि देव्यासनविमृष्टिः ॥ ७.१९॥ ॡ षा ई वाराहीमूर्तये ठः ठः ठः ठः हुं फट् - इति वाग्ग्लौमादि ग्लौंवागन्ता मूर्तिकरणी विद्या ॥ ७.२०॥ मूलविद्यया आवाहनसंस्थापनसंनिधापनसंनिरोधन सम्मुखी करणावकुण्ठनवन्दनधेनुयोनीर्बद्ध्वा ॥ ७.२१॥ देव्यङ्गन्यस्तषडङ्गपञ्चाङ्गः ॥ ७.२२॥ पाद्यार्घ्याचमनीयस्नानवासोगन्धपुष्पधूपदीपनीराजन छत्रचामरदर्पणरक्षाचमनीयनैवेद्यपानीयताम्बूलाख्य षोडशोपचारकॢप्त्यन्ते ॥ ७.२३॥ ध्यानं देव्याः मेघमेचका कुटिलदंष्ट्रा कपिलनयना घनस्तनमण्डला चक्रखड्गमुसलाभयशङ्खखेटहलवरपाणिः पद्मासीना वार्ताली ध्येया ॥ ७.२४॥ दशधा तस्यास्तर्पणं कुर्यात् ॥ ७.२५॥ त्र्यस्रे जम्भिनीमोहिनीस्तम्भिन्यः ॥ ७.२६॥ पञ्चारे अन्धिनीरुन्धिन्यौ ताश्च ॥ ७.२७॥ षट्कोणे आक्षाई ब्रह्माणी ईलाई माहेश्वरी ऊहाई कौमारी ॠसाई वैष्णवी ऐशाई इन्द्राणी औवाई चामुण्डा तस्यैवाग्रेषु मध्ये च यमरयूं यां यीं यूं यैं यौं यः याकिनि जम्भय जम्भय मम सर्वशत्रूणां त्वग्धातुं गृह्ण गृह्ण अणिमाऽऽदिवशं कुरु कुरु स्वाहेति । अन्यासां धातुनाथानामप्येवं बीजे नामनि धातौ त्वाराधनकर्मणि मन्त्रसन्नामः । रमरयूं राकिणि रक्तधातुं पिब पिब लमरयूं लाकिनि मांसधातुं भक्षय भक्षय डमरयूं डाकिनि मेदोधातुं ग्रस ग्रस कमरयूं काकिनि अस्थिधातुं जम्भय जम्भय समरयूं साकिनि मज्जाधातुं गृह्ण गृह्ण हमरयूं हाकिनि शुक्रधातुं पिब पिब अणिमाऽऽदिवशं कुरु कुरु स्वाहा - इति धातुनाथयजनम् ॥ ७.२८॥ अनन्तरं षडस्रोभयपार्श्वयोः क्रोधिनीस्तम्भिन्यौ चामरग्राहिण्यौ तत्रैव स्तम्भनमुसलायुधाय आकर्षणहलायुधाय नमः षडराद्बहिः पुरतो देव्याः क्ष्रौं क्रौं चण्डोच्चण्डाय नमः - इति तद्यजनम् ॥ ७.२९॥ अष्टदले वार्तालीवाराहीवराहमुख्यन्धिन्यादयः पञ्च तद्बहिः महामहिषाय देवीवाहनाय नमः ॥ ७.३०॥ (१) शतारे देवीपुरतो दलसन्धौ जम्भिन्या इन्द्रायाप्सरोभ्यः सिद्धेभ्यो द्वादशादित्येभ्योऽग्नये साध्येभ्यो विश्वेभ्यो देवेभ्यो विश्वकर्मणे यमाय मातृभ्यो रुद्रपरिचारकेभ्यो रुद्रेभ्यो मोहिन्यै निरृतये राक्षसेभ्यो मित्रेभ्यो गन्धर्वेभ्यो भूतगणेभ्यो वरुणाय वसुभ्यो विद्याधरेभ्यः किन्नरेभ्यो वायवे स्तम्भिन्यै चित्ररथाय तुम्बुरवे नारदाय यक्षेभ्यः सोमाय कुबेराय देवेभ्यो विष्णवे ईशानाय ब्रह्मणे अश्विभ्यां धन्वन्तरये विनायकेभ्यो नमः - इति देवतामण्डलमिष्ट्वा (२) तद्बहिः औं क्षौं क्षेत्रपालाय नमः सिंहवराय देवीवाहनाय नमः - इति च तदुभयं वरिवस्येत् । तद्बहिः महाकृष्णाय मृगराजाय देवीवाहनाय नमः - इति तत्पूजा ॥ ७.३१॥ (१) सहस्रारे अष्टधा विभक्ते ऐरावताय पुण्डरीकाय वामनाय कुमुदायाञ्जनाय पुष्पदन्ताय सार्वभौमाय सुप्रतीकाय नमः - इति तत्पूजा बहिः सुधाऽब्धेर्वा । (२) बाह्यप्राकाराष्टदिक्षु अध उपरि च हेतुकादयः - भैरवक्षेत्रपालशब्दयुक्ताः प्रत्येकं क्षौमादयश्च यष्टव्याः । हेतुकत्रिपुरान्तकाग्नियमजिह्वैकपादकालकरालभीमरूप हाटकेशाचलाः दश भैरवाः ॥ ७.३२॥ एवं षडावरणीमिष्ट्वा पुनर्देवीं त्रिधा सन्तर्प्य सर्वैरुपचारैरुपचर्य ॥ ७.३३॥ पुरतो वामभागे हस्तमात्रं जलेनोपलिप्य रुधिरान्नहरिद्राऽन्नमहिषपलसक्तुशर्कराहेतु फलत्रयमाक्षिकमुद्गत्रयमाषचूर्णदधिक्षीरघृतैः शुद्धोदनं सम्मर्द्य चरणायुधाण्डप्रमाणान् दशपिण्डान् विधाय तत्र निधाय कपित्थफलमानमेकं पिण्डं च तत्समीपे सादिमोपादिममध्यमं चषकं च निक्षिप्य दशपिण्डान् हेतुकादिभ्यो मध्यमपिण्डं चषकं च चण्डोच्चण्डाय तत्तन्मन्त्रैः दत्वा वृन्दमाराध्य ॥ ७.३४॥ यथाविभवं श्रीगुरुं सन्तोष्य ॥ ७.३५॥ सम्पूर्णयौवनाः सलक्षणामदनोन्मादिनीस्तिस्रः शक्तीराहूय बटुकं चैकमभ्यर्च्य स्नपयित्वा गन्धादिभिरलङ्कृत्य वार्तालीबुद्ध्या एकां शक्तिं मध्ये क्रोधिनीस्तम्भिनीबुद्ध्या द्वे इतरे पार्श्वयोश्चण्डोच्चण्डधिया बटुकमग्रे स्थापयित्वा सर्वैर्द्रव्यैः सन्तोष्य मम श्रीवार्तालीमन्त्रसिद्धिर्भूयादिति ताः प्रतिवदेत् ताश्च प्रसीदन्त्वधिदेवताः - इति ब्रूयुः ॥ ७.३६॥ एवं सपरिवारामुदारां भूदारवदनामुपतोष्य लक्षं पुरश्चरणं कृत्वा तद्दशांशं तापिच्छकुसुमैर्हुत्वा मन्त्रं साधयेत् ॥ ७.३७॥ ततश्च पूजितां देवीमात्मनि योजयित्वा स्वैरं विहरन्नाज्ञासिद्धः सुखी विहरेत् - इति शिवम् ॥ ७.३८॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे वाराहीक्रमो नाम सप्तमः खण्डः समाप्तः ॥ ७॥
अष्टमः खण्डः पराक्रमः इति विधिवत्कृतवार्तालीवरिवस्यः सिंहासनविद्याहृदयमुनुत्तरं पराबीजरूपं धाम तत्क्रमपूर्वं विमृशेत् ॥ ८.१॥ प्रभुहृदयज्ञातुः पदे पदे सुखानि भवन्ति ॥ ८.२॥ अथोऽनुत्तरपद्धतिं व्याख्यास्यामः ॥ ८.३॥ कल्ये समुत्थाय ब्रह्मकोटरवर्तिनि सहस्रदलकमले सन्निविष्टायाः सौवर्णरूपायाः परायाश्चरणयुगलविगलदमृतरसविसरपरिप्लुतं वपुः ध्यात्वा ॥ ८.४॥ स्नातः शुचिवासोवसानः सौः वर्णेन त्रिराचम्य द्विः परिमृज्य सकृद् उपस्पृश्य चक्षुषी नासिके श्रोत्रे अंसे नाभिं हृदयं शिरश्चावमृश्य एवं त्रिराचम्य ॥ ८.५॥ ऊर्णामृदुशुचितममासनं सौवर्णसूर्यजपाभिमन्त्रितं मूलमन्त्रोक्षितमधिष्ठाय ॥ ८.६॥ उदग्वदनो मौनी भूषितविग्रहो मूलपूर्वेण देशिकमनुना मस्तके देशिकमिष्ट्वा ॥ ८.७॥ वामपार्ष्णिघातैः छोटिकात्रयेण पातालादिगतान् भेदावभासिनः विघ्नानुत्सार्य ॥ ८.८॥ शिरोमुखहृन्मूलसर्वाङ्गेषु मूलं विन्यस्य ॥ ८.९॥ काकचञ्चूपुटाकृतिना मुखेन सञ्चोष्यानिलं सप्तविंशतिशो मूलं जप्त्वा वेद्यं नाभौ संमुद्र्य पुनः सप्तविंशतिशो जप्त्वा अङ्गुष्ठेन शिखां बध्वा पुनरनिलमापूर्य तेन मूले चिदग्निमुत्थाप्य तत्र वेद्यस्य विलयं विभाव्य ॥ ८.१०॥ गोमयेनोपलिप्तचतुरस्रभूतले प्रवहत्पार्श्वकरकृतया मत्स्यमुद्रया दिव्यगन्धाम्बुयुतया भूव्योमवायुवह्निमण्डलानि कृत्वा ॥ ८.११॥ श्यामावत् सामान्यविशेषार्घ्ये सादयेत् ॥ ८.१२॥ सर्वेऽपि पराक्रममनवः सौः वर्णपूर्वाः कार्याः ॥ ८.१३॥ भृगुचतुर्दशषोडशद्विरावृत्या वर्णषडङ्गं सर्वमूलषडावृत्या मन्त्रषडङ्गं च कृत्वा ॥ ८.१४॥ उभाभ्यामर्चयित्वा ॥ ८.१५॥ मूलमुच्चार्य तां चिन्मयीमानन्दलक्षणाम् अमृतकलशपिशितहस्तद्वयां प्रसन्नां देवीं पूजयामि नमः स्वाहा - इति सुधादेवीमभ्यर्च्य तया सम्प्रोक्ष्य वरिवस्यावस्तूनि ॥ ८.१६॥ पूर्वं नाभौ सम्मुद्रितं चिदग्निविलीनं तप्तायोद्रववत् षट्त्रिंशत्तत्त्वकदम्बकं हृत्सरोजे समानीय ॥ ८.१७॥ मूलजप्तैः कुसुमक्षेपैः वक्ष्यमाणैश्च मन्त्रैरासनकॢप्तिं कुर्यात् - मूलादि-योग-पीठाय नमः - इत्यन्तानि तानि च पृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्श शब्दोपस्थपायुपादपाणिवाग्घ्राणजिह्वाचक्षुस्त्वक्श्रोत्रा हङ्कारबुद्धिमनःप्रकृतिपुरुषनियतिकाल रागकलाविद्यामायाशुद्धविद्येश्वरसदाशिवशक्तिशिवाः । एवं पराचक्रं कृत्वा ॥ ८.१८॥ तत्रैतदैक्यविमर्शरूपिणीं षोडशकलां परां देवीमावाह्य ॥ ८.१९॥ अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती । मुद्रापुस्तलसद्बाहुः पातु मां परमा कला ॥ इति ध्यात्वा ॥ ८.२०॥ मूलादिमुच्चार्य प्रकाशरूपिणी पराभट्टारिका मूलमध्यमुच्चार्य विमर्शरूपिणी पराभट्टारिका मूलान्त्यमुच्चार्य प्रकाशविमर्शरूपिणी पराभट्टारिकेति त्रिभिः देव्या मूलहृन्मुखेष्वभ्यर्च्य समस्तमुच्चार्य महाप्रकाशविमर्शरूपिणी पराभट्टारिकेति दशवारमवमृश्य तामेव देवीं कालाग्निकोटिदीप्तां ध्यात्वा ॥ ८.२१॥ तस्यां क्रियासमभिव्याहारेण वेद्यमखिलं हुत्वा ॥ ८.२२॥ मूलमुच्चार्य सामान्यपादुकया स्वमस्तकस्थाय गुरवे अर्घ्यं निवेद्य ॥ ८.२३॥ पुनश्चिदग्निमुद्दीप्तं विभाव्य ॥ ८.२४॥ दिव्यौघं तिस्रः पादुकाः सिद्धौघं तिस्रः मानवौघमष्टावभ्यर्च्य ॥ ८.२५॥ पराभट्टारिकाऽघोरश्रीकण्ठशक्तिधरक्रोधत्र्यम्बकानन्द प्रतिभादेव्यम्बा वीरसंविदानन्दमधुरादेव्यम्बा ज्ञानश्रीरामयोगाः - इति पराक्रमपादुकाः ॥ ८.२६॥ ततः कलामनुना बलिं निवेद्य ॥ ८.२७॥ हविश्शेषमात्मसात्कुर्यात् । इति शिवम् ॥ ८.२८॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे पराक्रमो नामाष्टमः खण्डः समाप्तः ॥ ८॥
नवमः खण्डः होमविधिः अथ स्वेष्टमन्त्रस्य होमविधानं व्याख्यास्यामः ॥ ९.१॥ चतुरस्रं कुण्डमथवा हस्तायाममङ्गुष्ठोन्नतं स्थण्डिलं कृत्वा ॥ ९.२॥ सामान्यार्घ्यमुपशोध्य तेनावोक्ष्य ॥ ९.३॥ प्राचीरुदीचीस्तिस्रस्तिस्रो रेखा लिखित्वा ॥ ९.४॥ तासु रेखासु ब्रह्मयमसोमरुद्रविष्ण्विन्द्रान् षट्तारीनमस्सम्पुटितानभ्यर्च्य ॥ ९.५॥ सहस्रार्चिषे हृदयाय नमः स्वस्तिपूर्णाय शिरसे स्वाहा उत्तिष्ठ पुरुषाय शिखायै वषट् धूमव्यापिने कवचाय हुं सप्तजिह्वाय नेत्रत्रयाय वौषट् धनुर्धराय अस्त्राय फट् - इति षडङ्गं विधाय तेन षडङ्गेन कुण्डमभ्यर्च्य ॥ ९.६॥ तत्राष्टकोणषट्कोणत्रिकोणात्मकं अग्निचक्रं विलिख्य पीतायै श्वेतायै अरुणायै कृष्णायै धूम्रायै तीव्रायै स्फुलिङ्गिन्यै रुचिरायै ज्वालिन्यै नम - इति त्रिकोणमध्ये वह्नेः पीठशक्तीः सम्पूज्य - तं तमसे रं रजसे सं सत्त्वाय आम् आत्मने अम् अन्तरात्मने पं परमात्मने ह्रीं ज्ञानात्मने नमः - इति तत्रैवाभ्यर्चयेत् ॥ ९.७॥ ततो जनिष्यमाणवह्नेः पितरौ वागीश्वरीवगीश्वरौ पीठेऽभ्यर्च्य तयोर्मिथुनीभावं भावयित्वा ह्रीं वागीश्वरीवागीश्वराभ्यां नमः - इति ध्यात्वा ॥ ९.८॥ अरणेः सूर्यकान्तात् द्विजगृहाद्वा वह्निमुत्पाद्य मृत्पात्रे ताम्रपात्रे वा आग्नेय्यामैशान्यां नैरृत्यां वा निधाय अग्निशकलं क्राव्यादांशं नैरृत्यां विसार्य निरीक्षणप्रोक्षणताडनावकुण्ठनादिभिः विशोध्य ॐ वैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहा - इति मूलाधारोद्गतसंविदं ललाटनेत्रद्वारा निर्गमय्य तं बाह्याग्नियुक्तं पातयेत् ॥ ९.९॥ कवचमन्त्रेण इन्धनैराच्छाद्य ॥ ९.१०॥ अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥ इत्युपस्थाय ॥ ९.११॥ उत्तिष्ठ हरितपिङ्गल लोहिताक्ष सर्वकर्माणि साधय मे देहि दापय स्वाहा - इति वह्निमुत्थाप्य ॥ ९.१२॥ चित्पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहा इति प्रज्वाल्य ॥ ९.१३॥ षट्तारवाचो नमोमन्त्रेण पुंसवनसीमन्तजातकर्म नामकरणान्नप्राशनचौलोपनयनगोदानविवाह कर्माण्यमुकाग्नेरमुकं कर्म कल्पयामि नमः - इति विधाय ॥ ९.१४॥ परिषिच्य परिस्तीर्य परिधाय ॥ ९.१५॥ त्रिणयनमरुणाभं बद्धमौलिं सुशुक्लां- शुकमरुणमनेकाकल्पमम्भोजसंस्थम् । अभिमतवरशक्तिस्वस्तिकाभीतिहस्तं नमत कनकमालालङ्कृतांसं कृशानुम् ॥ इति ध्यात्वा ॥ ९.१६॥ (१) अष्टकोणे जातवेदसे सप्तजिह्वाय हव्यवाहाय अश्वोदराय वैश्वानराय कौमारतेजसे विश्वमुखाय देवमुखाय नमः - इति (२) षट्कोणे षडङ्गं (३) त्रिकोणे अग्निमन्त्रेण अग्निं पूजयित्वा ॥ ९.१७॥ हिरण्यायै कनकायै रक्तायै कृष्णायै सुप्रभायै अतिरक्तायै बहुरूपायै नमः - इत्यग्नेः सप्तजिह्वासु मूलशुद्धेनाज्येन सप्ताहुतीः कुर्यात् ॥ ९.१८॥ वैश्वानरोत्तिष्ठ चित्पिङ्गलैरग्नेस्त्रिधाऽऽहुतिं विधाय ॥ ९.१९॥ बहुरूपजिह्वायामिष्टां देवतामावाह्य पञ्चोपचारैरुपचर्य ॥ ९.२०॥ सर्वासां चक्रदेवीनामेकाहुतिं हुत्वा नमोऽन्तान् पादुकाऽन्तान् शेषान् मन्त्रान् स्वाहाऽन्तान् विधाय जुहुयात् ॥ ९.२१॥ अथ प्रधानदेवतायै दशाहुतीर्जुहुयात् ॥ ९.२२॥ यदि काम्यमीप्सेदभीष्टदेवतायै विज्ञाप्य सङ्कल्पं कृत्वैतावत्कर्मसिद्ध्यर्थमेतावदाहुतीः करिष्यामीति ॥ ९.२३॥ तिलाज्यैः शान्त्या, अन्नेनान्नायामृताय, समिच्चूत पल्लवैर्ज्वरशमाय, दूर्वाभिरायुषे, कृतमालैर्धनाय, उत्पलैर्भागाय, बिल्वदलै राज्याय, पद्मैः साम्राज्याय, शुद्धलाजैः कन्यायै, नन्द्यावर्तैः कवित्वाय, वञ्जुलैः पुष्टयै, मल्लिकाजातीपुन्नागैर्भाग्याय, बन्धूकजपाकिंशुकबकुलमधुकरैरैश्वर्याय, लवणैराकर्षणाय, कदम्बैः सर्ववश्याय, शालितण्डुलैर्धान्याय, कुङ्कुमरोचनादिसुगन्धैः सौभाग्याय, पलाशपुष्पैः कपिलाघृतैर्वा तेजसे, धत्तूरकुसुमैरुन्मादाय, विषवृक्षैः निम्बश्लेष्मातकविभीतकसमिद्भिः शत्रु-नाशाय, निम्बतैलाक्तलवणैर्मारणाय, काकोलूकपक्षैर्विद्वेषणाय, तिलतैलाक्तमरीचैः कासश्वासनाशाय जुहुयात् ॥ ९.२४॥ बलिं प्रदाय ॥ ९.२५॥ ॐ भूरग्नये च पृथिव्यै च महते च स्वाहा । ॐ भुवो वायवे चान्तरिक्षाय च महते च स्वाहा । ॐ सुवरादित्याय च दिवे च महते च स्वाहा । ॐ भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्च महते च स्वाहा । इति चतुर्भिर्मन्त्रैः महाव्याहृतिहोमं कृत्वा ॥ ९.२६॥ इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु स्वाहा, इति ब्रह्मार्पणाहुतिं कृत्वा ॥ ९.२७॥ चिदग्निं देवतां चात्मन्युद्वासयामि नमः - इत्युद्वास्य ॥ ९.२८॥ तद्भस्मतिलकधरो लोकसम्मोहनकारः सुखी विहरेत् । इति शिवम् ॥ ९.२९॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे होमविधिर् नाम नवमः खण्डः समाप्तः ॥ ९॥
दशमः खण्डः सर्वसाधारणक्रमः अथातः सर्वेषां मन्त्राणां सामान्यपद्धतिं व्याख्यास्यामः ॥ १०.१॥ श्यामावत् सन्ध्याऽऽद्यर्घ्यशोधनपर्यन्तं न्यासवर्जम् ॥ १०.२॥ अनुक्तषडङ्गस्य षड्जातियुक्तमायया षडङ्गम् ॥ १०.३॥ बिन्दुत्रिषडरनागदलचतुष्पत्रचतुरस्रमयं चक्रम् ॥ १०.४॥ बिन्दौ मुख्यदेवतेच्छाज्ञानक्रियाशक्तयस्त्र्यस्रे षडरे तत्तत्षडङ्गान्यष्टदले ब्राह्म्याद्याः चतुर्दले गणपतिदुर्गाबटुकक्षेत्रेशाश्चतुरस्रे दिक्पालाः ॥ १०.५॥ त्रितारीकुमारीभ्यां सर्वे क्रममन्त्राः प्रयोक्तव्याः ॥ १०.६॥ तत्तन्मूलेनावाहनं कलामनुना बलिरनेन क्रमेणाहुतिः ॥ १०.७॥ अथ रश्मिमाला ॥ १०.८॥ सुप्तोत्थितेनैषा मनसैकवारमावर्त्या ॥ १०.९॥ गायत्र्यादि प्रथमं रश्मिपञ्चकम् (१) प्रणवो भूर्भुवस्सुवः - तत्सवितुर्वरेणियं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ इति त्रिंशद्वर्णा गायत्री ॥ (२) यत इन्द्र भयामहे ततो नो अभयं कुरु । मघवञ्छग्धि तव तन् न ऊतये विद्विषो विमृधो जहि ॥ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥ इत्यैन्द्री सप्तषष्ट्यर्णा सङ्कटे भयनाशिनी ॥ (३) प्रणवो घृणिस्सूर्य आदित्य इत्यष्टार्णा सौरी तेजोदा ॥ (४) प्रणवः केवलो ब्रह्मविद्या मुक्तिदा ॥ (५) तारः परोरजसे सावदोम् इति नवार्णा तुर्यगायत्री स्वैक्यविमर्शिनी ॥ रश्मिपञ्चकमेतन्मूलहृत्फालविधिबिलद्वादशान्तबीजतया विमृष्टव्यम् ॥ १०.१०॥ चाक्षुष्मतीविद्याऽदि द्वितीयं रश्मिपञ्चकम् (१) सूर्याक्षितेजसे नमः । (२) खेचराय नमः । (३) असतो मा सद् गमय । (४) तमसो मा ज्योतिर्गमय । (५) मृत्योर्माऽमृतं गमय । (६) उष्णो भगवान् शुचिरूपः । (७) हंसो भगवान् शुचिरप्रतिरूपः ॥ (८) विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ (९) ॐ नमो भगवते सूर्याय अहो वाहिनि वाहिन्यहो वाहिनि वाहिनि स्वाहा ॥ (१०) वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः । अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ (११) पुण्डरीकाक्षाय नमः । (१२) पुष्करेक्षणाय नमः । (१३) अमलेक्षणाय नमः । (१४) कमलेक्षणाय नमः । (१५) विश्वरूपाय नमः । (१६) श्रीमहाविष्णवे नमः ॥ इति षोडशमन्त्रसमष्टिरूपिणी दूरदृष्टिप्रदा चाक्षुष्मती विद्या ॥ १०.११॥ प्रणवो गन्धर्वराज विश्वावसो मम अभिलषितामुकां कन्यां प्रयच्छ ततोऽग्निवल्लभेत्युत्तमकन्याविवाहदायिनी विद्या ॥ १०.१२॥ तारो नमो रुद्राय पथिषदे स्वस्ति मा सम्पारय - इति मार्गसङ्कटहारिणी विद्या ॥ १०.१३॥ तारस्तारे पदमुक्त्वा तुत्तारे तुरे शब्दं च दहनदयितेति जलापच्छमनी विद्या ॥ १०.१४॥ अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः - इति महाव्याधिविनाशिनी नामत्रयी विद्या ॥ १०.१५॥ पञ्चेमा रश्मयो मूलादिपरिकरतया प्रपञ्च्याः ॥ १०.१६॥ प्रणवः कमला भुवना मदनो ग्लाच्चतुर्दशपञ्चदशौ गं गणपतये वरयुगलं द सर्वजनं मे शब्दो वशमानयाग्निवामलोचनेति महागणपतिविद्या प्रत्यूह शमनी ॥ १०.१७॥ प्रणवो नमः शिवायै प्रणवो नमः शिवायेति द्वादशार्णा शिवतत्त्वविमर्शिनी विद्या ॥ १०.१८॥ प्रणवः काष्टम दक्षश्रुतिबिन्दुपिण्डो भृगुषोडशो मां पालयद्वन्द्वमिति दशार्णा मृत्योरपि मृत्युरेषा विद्या ॥ १०.१९॥ तारः नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोः श्रुतं माच्योढ्वं ममामुष्य ॐ - इति श्रुतधारिणी विद्या ॥ १०.२०॥ श्रीकण्ठादिक्षान्ताः सर्वे वर्णाः बिन्दुसहिताः मातृका सर्वज्ञताकरी विद्या ॥ १०.२१॥ रश्मयः पञ्च मूलादिरक्षाऽऽत्मकतया यष्टव्याः ॥ १०.२२॥ शिवशक्तिकामक्षितिमायारवीन्दुस्मरहंस पुरन्दरभुवनापरामन्मथवासवभौवनाश्च शिवादिविद्या स्वस्वरूपविमर्शिनी ॥ १०.२३॥ क्लशब्दाद्वामेक्षणबिन्दुरेकोऽनन्तयोनिबिन्दवोऽन्यः शङ्करपरात्रिशूलविसृष्टयोऽपरश्चैत एव खण्डाः प्रतिलोमाः षट्कूटा सम्पत्करी विद्या ॥ १०.२४॥ समुच्चार्य सृष्टिनित्ये स्वाहेति हमित्युक्त्वा स्थितिपूर्णे नमः - इत्यनलबिन्दुमहासंहारिणी कृशे पदाच्चण्डशब्दः कालि फट् - इत्यग्निबिन्दुसप्तममुद्राबीजं महानाख्ये अनन्तभास्करि महाचण्डपदात् कालि फट् - इति सृष्टिस्थितिसंहाराख्यानां प्रातिलोम्यं खेचरीबीजं महाचण्डवाणी च योगीश्वरीति विद्यापञ्चकरूपिणी कालसङ्कर्षिणी परमायुः प्रदायिनी ॥ १०.२५॥ त्रितारी सप्तममुद्रा शिवयुक्शक्तिरहंयुगलमेतत्पञ्चैव लोम्यमिति शुद्धज्ञानमयी शाम्भवी विद्या ॥ १०.२६॥ भृगुत्रिशूलविसृष्टयः पराविद्या ॥ १०.२७॥ पञ्चेमा रश्मयो मूलाद्यधिष्ठानतया परिकल्पनीयाः ॥ १०.२८॥ वाक्कामशक्तयोऽनुलोमविलोमाः पुनरनुलोमाः - इति श्रियो ऽङ्गबाला ॥ १०.२९॥ भुवना कमला सुभगा तारो नमो भगवति पूर्णे शेखरमन्न ममाभिलषितमुक्त्वाऽन्नं देहि दहनजायेति श्रिय उपाङ्गमन्नपूर्णा ॥ १०.३०॥ प्रणवः पाशादित्र्यर्णा एहि परमेश्वरीत्युक्त्वा वह्निवामाक्ष्युक्तिरिति श्रीप्रत्यङ्गमश्वारूढा ॥ १०.३१॥ तारित्रिकं सप्तममुद्रा शिवशक्तिसंवर्तपुपञ्चमपुरन्दरवरयूं शक्तिशिवक्षमान्ते वादिवरयीं शिवभृगुत्रिशूलबिन्दुभृगुशिवत्रिशूलविसृष्टयः श्रीपूर्वं स्वगुरुनामतोऽष्टाक्षरी चेति श्रीपादुका च ॥ १०.३२॥ एताभिश्चतसृभिर्युक्ता मूलविद्या साम्राज्ञी मूलाधारे विलोचनीया ॥ १०.३३॥ मादनशक्तिबिन्दुमालिनीवासवमायाघोषदोषाकर कन्दर्पगगनमघवद्भुवनभृगुपुष्पबाणभूमायेति सेयं तस्या महाविद्या ॥ १०.३४॥ वाङ्नतिरुच्छिष्टचाण्डलि मातमुक्त्वा गि सर्वपदाद्वशङ्करि वह्निवामलोचनेति श्यामाऽङ्गं लघुश्यामा ॥ १०.३५॥ कुमारीमुच्चार्य वदद्वन्द्वं वाक्पदं वादिनि वह्निप्रियेति श्यामोपाङ्गं वाग्वादिनी ॥ १०.३६॥ प्रणव ओपिनाकुदम्पवृपसस्यैचशाचामाहदशब्दाः ष्ठाधानलीतैःरिताविःर्ववाईनारुमिहवायेच्छेखरा नकुली श्यामाप्रत्यङ्गम् ॥ १०.३७॥ ललितापादुकादित्रिकस्थाने कुमारी योज्या शिष्टं तद्वत् - इति श्यामापादुका च ॥ १०.३८॥ चतसृभिर्युक्ता हृच्चक्रे श्यामा यष्टव्या ॥ १०.३९॥ तद्विद्या तु त्रितारी कुमारी नभवश्रीतंश्वसजम हासमुरंनिमायासरावकसस्त्रीरुवकस दुमृवकससवकसलोवकाकंवमायहावर्णा ओंमोगतिमागीरिर्वननोरिर्वख जिमदनश्रींर्वजशंरिर्वपुषशंरिर्व ष्टगशंरिर्वत्वशंरिर्वकशंरिमुमेशनस्वाऽन्त मन्त्रादि बीजषट्कं प्रातिलोम्यमिति अष्टनवतिवर्णाः ॥ १०.४०॥ हरः सबिन्दुर्वापूर्वराहि स्थाणुः सबिन्दुरुन्मत्तपदं भैशब्दो रविपादुकाभ्यां नम - इति वार्ताल्यङ्गं लघुवार्ताली ॥ १०.४१॥ वेदादिभुवनं नमो वाराहि घोरे स्वप्नं ठद्वितयं अग्निदारा - इति वार्ताल्युपाङ्गं स्वप्नवार्ताली स्वप्ने शुभाशुभफलवक्त्री ॥ १०.४२॥ वाग्घृदयं भगवति तिरस्करिणि महामाये पशुपदाज्जनमनश्चक्षुस्तिरस्करणं कुरु द्वितयं वर्म फट् पावकपरिग्रह इति वार्तालीप्रत्यङ्गं तिरस्करिणी ॥ १०.४३॥ श्यामापादुकामन्त्रादित्रिबीजमपहाय वाग्ग्लौम् - इति योज्यम् । एषा वार्तालीपादुका ॥ १०.४४॥ विद्याभिरेताभिर्युक्ता फालचक्रे परिपूज्या भगवतीयं भूदारमुखी ॥ १०.४५॥ मनुरिदमीयोऽयं वाक्पुटितं ग्लौं न भववालिर्तावाहिरावहखिरामुअंअंनिमः- धेधिनजञ्जंनिमः हेहिन स्तंस्तंनिमःर्वष्ट दुनांर्वेसवाक्त्तक्षुखतिह्वाभकुकुशीवशब्दा यथाक्रमं मोगतिर्तावालिरावाहिरामुवहखि धेधिनरुंरुंनिमः भेभिनमोमोनिमः भेभि नसदुप्रष्टासषांर्वचिचर्मुगजिस्तंनं रुरुघ्रंश्यंशब्दोपेता वाक् ग्लौं विसृष्ट्यन्ताश्च सप्तमाश्चत्वारो वर्मास्त्राय फडिति द्वादशोत्तरशताक्षरा ॥ १०.४६॥ पञ्चमैकादशबीजवर्जा श्रीरेव श्रीपूर्तिविद्या ब्रह्मकोटरे यष्टव्या ॥ १०.४७॥ श्यामापादुकाप्रथमत्रिकस्थाने तारत्रयं कुमारी वाक् ग्लौं इति योज्यम् । ततः परस्ताच्छेषं समानम् ॥ १०.४८॥ इयं महापादुका सर्वमन्त्रसमष्टिरूपिणी स्वैक्यविमर्शिनी महासिद्धिप्रदायिनी द्वादशान्ते यष्टव्या ॥ १०.४९॥ एवं रश्मिमाला सम्पूर्णा । सर्वगात्रः शुद्धविद्यामयतनुः स एव परमशिवः ॥ १०.५०॥ अथ विघ्न-देवताः । इरिमिलिकिरिकिलिपदात् परिमिरोमित्येकः । प्रणवो माया नमो भगवति महात्रिपुराद्भैवर्णाद्रविपदमनु मम त्रैपुररक्षां कुरु कुरु - इति द्वितीयः । संहर संहर विघ्नरक्षोविभीषकान् कालय हुं फट् स्वाहा - इति तृतीयः । ब्लूं रक्ताभ्यो योगिनीभ्यो नमः - इति चतुर्थः । सां सारसाय बह्वाशनाय नमः - इति पञ्चमः । दुमुलुषुमुलुषु माया चामुण्डायै नमः - इति षष्ठः । एते मनवो ललिताजपविघ्नदेवताः ॥ १०.५१॥ हसन्ति हसितालापे पदं मातमुक्त्वा गीपरिचारिके मम भयविघ्ननाशं कुरुद्वितयं सविसर्गठत्रितयमिति श्यामाविघ्नदेवी ॥ १०.५२॥ स्तं स्तम्भिन्यै नमः - इति कोलमुखीविघ्नदेवी ॥ १०.५३॥ एते तत्तज्जपारम्भे जप्तव्याः ॥ १०.५४॥ ललिता प्राह्णे । अपराह्णे श्यामा । वार्ताली रात्रौ । ब्राह्मे मुहूर्ते परा ॥ १०.५५॥ व्यवहारदेशस्वात्म्यप्राणोद्वेगसहायामयवयांसि प्रविचार्यैव तदनुकूलः पञ्चमादिपरामर्शः ॥ १०.५६॥ सर्वभूतैरविरोधः ॥ १०.५७॥ परिपन्थिषु निग्रहः ॥ १०.५८॥ अनुग्रहः संश्रितेषु ॥ १०.५९॥ गुरुवत् गुरुपुत्रकलत्रादिषु वृत्तिः ॥ १०.६०॥ आदिमस्य स्वयं सेवनमागमदृष्ट्या दोषदं त्याज्यम् ॥ १०.६१॥ सानन्दस्य रुचिरस्यामोदिनो लघुनो वार्क्षस्य गौडस्य पिष्टप्रकृतिनः अन्धसो वाल्कलस्य कौसुमस्य वा यथादेशसिद्धस्य वा तस्य परिग्रहः ॥ १०.६२॥ तदनन्तरं मध्यमयोरस्वयमसुविमोचनम् । उपादिमे नायं नियमः । मध्यमे तु स्वयं संज्ञपने तत्रायं मन्त्रः - उद्बुध्यस्व पशो त्वं हि नाशिवस्त्वं शिवो ह्यसि । शिवोत्कृत्तमिदं पिण्डं मत्तस्त्वं शिवतां व्रज ॥ इति ॥ १०.६३॥ सर्वत्र वचनपूर्वं प्रवृत्तिः ॥ १०.६४॥ दशकुलवृक्षानुपप्लवः ॥ १०.६५॥ स्त्रीवृन्दादिमकलशसिद्धलिङ्गिक्रीडाऽऽकुलकुमारीकुल सहकाराशोकैकतरुपरेतावनिमत्तवेश्याश्यामारक्त वसनामत्तेभानां दर्शने वन्दनम् ॥ १०.६६॥ पञ्चपर्वसु विशेषार्चा ॥ १०.६७॥ आरम्भतरुणयौवनप्रौढतदन्तोन्मनानवस्थोल्लासेषु प्रौढान्ताः समयाचाराः । ततः परं यथाकामी । स्वैरव्यवहारेषु वीरावीरेष्वयथामननादधःपातः ॥ १०.६८॥ रक्तात्यागविरक्ताऽऽक्रमणोदासीनाप्रलोभनवर्जनम् ॥ १०.६९॥ घृणाशङ्काभयलज्जाजुगुप्साकुलजातिशीलानां क्रमेणावसादनम् ॥ १०.७०॥ गुरुप्रगुरुसन्निपाते प्रगुरोः प्रथमं प्रणतिः तदग्रे तदनुरोधेन तन्नतिवर्जनम् ॥ १०.७१॥ अभ्यर्हितेष्वपराङ्मुख्यम् ॥ १०.७२॥ मुख्यतया प्रकाशविभावना ॥ १०.७३॥ अधिजिगमिषा शरीरार्थासूनां गुरवे धारणम् ॥ १०.७४॥ एतदुक्तकरणम् ॥ १०.७५॥ अपरीक्षणं तद्वचने व्यवस्था ॥ १०.७६॥ सर्वथा सत्यवचनम् ॥ १०.७७॥ परदारधनेष्वनासक्तिः ॥ १०.७८॥ स्वस्तुतिपरनिन्दामर्मविरुद्धवचनपरिहास धिक्काराक्रोशत्रासनवर्जनम् ॥ १०.७९॥ प्रयत्नेन विद्याऽऽराधनद्वारा पूर्णख्यातिसमावेशनेच्छा चेत्येते सामायिकाचाराः ॥ १०.८०॥ परे च शास्त्रानुशिष्टाः ॥ १०.८१॥ इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य सर्वतः कृतकृत्यता शरीरत्यागे श्वपचगृहकाश्योर्नान्तरं जीवन्मुक्तः ॥ १०.८२॥ य इमां दशखण्डीं महोपनिषदं महात्रैपुरसिद्धान्तसर्वस्वभूतामधीते सः - सर्वेषु यज्ञेषु यष्टा भवति यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयते इत्युपनिषत् - इति शिवम् ॥ १०.८३॥ अथातः सर्वेषां मन्त्राणां अथ स्वेष्टमन्त्रस्य इति विधिवत्, इत्थं साङ्गां, इयमेव महती विद्या, अथ प्राथमिके चतुरस्रे, अथ हृच्चक्रस्थितां, एवं गणपतिमिष्ट्वा, इत्थं सद्गुरोः, अथातो दीक्षां व्याख्यास्यामः । अथ एवं, अथ इत्थं, अथ स्वेष्टेति पञ्च ॥ १०.८४॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे सर्वसाधारणक्रम नाम दशमः खण्डः समाप्तः ॥ १०॥ इति श्रीपरशुरामकल्पसूत्रं प्रथमोभागः सम्पूर्णम् ॥
द्वितीयोभागः (अनुबन्धः - परशुरामकल्पसूत्रपरिशिष्टम्) एकादशः खण्डः यन्त्रविधानम् अथातो वार्तालीसिद्धियन्त्रं व्याख्यास्यामः ॥ ११.१॥ भुवनेश्वरीबीजमध्ये वृत्तद्वयं विधाय तन्मध्ये व्यतिभिन्नं चतुरश्रद्वयं विधाय तदन्तर्वृत्तं कृत्वा तदन्तर्वृत्तसप्तकयुक्तानि सप्तषट्कोणानि यथासम्प्रदायं विदध्यात् ॥ ११.२॥ तत्र अष्टसु कोणेषु अष्टस्वन्तराळेषु च दशोत्तरशताक्षरीविद्यायाः षोडशवर्णान् अकारादिककारान्तषोडशस्वररहितषोडशवर्णसहितान् संलिख्य पूर्वषट्कोणषट्सु कोणेषु षट्सु अन्तरालेषु च खकारादिडकारान्तान् तद्द्वादशवर्णान् संलिख्य पुनरग्निकोणस्थषट्कोणे ढकारादिमकारान्तान् द्वादशवर्णसहितान् द्वादशवर्णान् राक्षसकोणस्थषट्कोणे यकाराद्याकारान्तद्वादशवर्णयुक्तान् द्वादशवर्णान् पश्चिमकोणे इकाराद्यौकारान्तसहितान् वसुकोणे अङ्कारादिटकारान्तसहितान् दश (ईश)कोणे ठकारादिबकारान्तयुतान् मध्यषट्कोणे भकारादिक्षकारान्तसंयुक्तान् विलिख्य लक्षताद्यद्वयवृत्तान्तरालवीथ्यां शिष्टान् दशवर्णान् ओगजडदबलकृसंयुक्तान् विलिखेत् ॥ ११.३॥ अथ नवग्रहयन्त्रं व्याख्यास्यामः । नवकोष्ठान् विधाय, नवसु कोणेषु वृत्तत्रयं विधाय, नवकर्णिकासु नवकोष्ठान् विलिख्य, नवसु कोष्ठेषु मध्यकोष्ठेषु मध्यकोष्ठ- वृत्तत्रयं कर्णिकास्थ नवकोष्ठं, मध्यकोष्ठे मकारसहितं प्रणवं विलिख्य, शिष्टेष्वष्टसु कोष्ठेषु अकाराद्यॄकारान्तानष्टस्वरान् विलिख्य, अन्तर्वृत्तान्तराले मकारसहितान् षोडशस्वरान् लिखित्वा बहिर्वृत्तान्तराले अकारादक्षकारान्तान् मातृकार्णान् विलिखेत् ॥ ११.४॥ एवं भास्करमण्डलं मध्ये कृत्वा पूर्वकोष्ठवृत्तत्रय- कर्णिकास्थितनवसु कोष्ठेषु मध्यकोष्ठे ऌकारगर्भं प्रणवं विलिख्य, पूर्वाद्यष्टुसु कोष्टेषु ऌकारादिविसर्गान्तानष्टस्वरांश्च विलिख्य, अन्तर्वृत्तान्तराले ॡकारसहितान् षोडश- स्वरान्, संलिख्य बाह्यवृत्तान्तराले अकारादिक्षका- रान्तान् लिखेत् ॥ ११.५॥ एवं चन्द्रमण्डलं विधाय, अग्निस्थितवृत्तत्रयकर्णिका- नवकोष्ठमध्यकोष्ठे प्रणवगर्भककारं विलिख्य, ईशानकोष्ठा- दिराक्षसकोष्ठान्तं कवर्गं विलिख्य, पश्चिमकोष्ठादिसोम- कोष्ठान्तकोष्ठत्रये भौमायेति वर्णत्रयं विलिख्य, अन्तर्वृत्ता- न्तराले ककारसहितान् षोडशस्वरान् संलिख्य, बाह्यवृत्ता- न्तरालवीथ्यां मातृकां लिखेत् । एवं भौममण्डलं विधाय बुधमण्डलं लिखेत् ॥ ११.६॥ दक्षिणकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठेषु मध्य- कोष्ठे च कागर्भं प्रणवं विलिख्य, ईशानादिपञ्चकोष्ठेषु चवर्गं विलिख्य, कोष्टत्रये बुधायेति वर्णत्रयं च विलिख्य पूर्ववत् षोडशस्वरसहितं चकारं विलिख्य, मातृकार्णं च विलिख्य, नैरॄतिकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठके मध्यकोष्ठे पकारगर्भं प्रणवं विलिख्य, शिवादिकोष्ठपञ्चके पवर्गं विलिख्य, शिष्टकोष्ठत्रये सौरये इति शनिनामवर्णान् आलिख्य, अन्तरालद्वये पकारं मातृकां च विलिख्य, पश्चिमकोष्ठस्थवृत्तत्रयकर्णिकामध्ये कोष्ठनवकं विधाय, तन्मध्यकोष्ठे टकारगर्भं प्रणवं विलिख्य, ईशानादिकोष्ठ- पञ्चके टवर्णान् विलिख्य, कोष्ठत्रये गुरव इति विलिख्य, पूर्ववदन्तरालद्वये टवर्गं मातृकां च विलिखेत् ॥ ११.७॥ एवं गुरुमण्डलं विधाय वायुकोष्ठे मध्ये यकारगर्भं प्रणवं विलिख्य, ईशानादिकोष्ठपञ्चके यवर्गं विलख्य, राहव इति लिखित्वा, सोमकोष्ठमध्ये कोष्ठे तकारगर्भं प्रणवं लिखित्वा, ईशादिकोष्ठेषु तवर्गं शुक्रायेति विलिख्य, ईशानकोष्ठे मध्ये शकारं विलिख्य, ईशाद्यष्टसु कोष्ठेषु षवर्गं केतव - इति च विलिख्य, अन्तरालद्वये षोडशस्वरसहितं शकारं मातृकां च विलिखेत् इति नवग्रहचक्रं विधाय, नवग्रहपूजां कुर्यात् - इति शिवम् ॥ ११.८॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे यन्त्रविधान नामैकादशः खण्डः समाप्तः ॥ ११॥
द्वादशः खण्डः मन्त्रविधानम् अथातः शिवात्मकान् मन्त्रान् व्याख्यास्यामः ॥ १२.१॥ ऐं ह्रीं श्रीं ह्स्ख्फ्रें हसहहरौः अमृतविग्रहा पञ्चार्णा (५) ॥ १२.२॥ ॐ जुं सः पालय पालय सः जुं ॐ इति मृत्युञ्जय विद्या द्वादशार्णा (१२) ॥ १२.३॥ श्रीं ह्रीं क्लीं - त्रिपुटाविद्या - इति त्रिवर्णा (३) ॥ १२.४॥ ॐ ह्रां ह्रीं ह्रूं वैरिमोहि गरुडपक्षि हर हर हिंस हिंस स्वाहा - इति गरुडमन्त्रः त्रयोविंशत्यक्षरात्मकः (२३) ॥ १२.५॥ ॐ एहि परमेश्वरि स्वाहा - इत्यश्वारूढा दशाक्षरी (१०) ॥ १२.६॥ ॐ नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहा - इत्यन्नपूर्णाविद्या सप्तदशाक्षरी (१७) ॥ १२.७॥ हसक्षमलवरयूं - इत्येकाक्षरो नवात्मको मन्त्रः (१) ॥ १२.८॥ सहक्षमलवरयीं - इत्येकाक्षरा नवात्मिका (१) ॥ १२.९॥ ॐ ह्रीं नम - इति देवीहृदयविद्या चतुर्वर्णा (४) ॥ १२.१०॥ ॐ रुद्रदयिते योगेश्वरि स्वाहा इति द्वादशार्णा गौरीविद्या (१२) ॥ १२.११॥ इटि इटि मुटि मुटि काकटमुण्डि स्वाहा - इति लक्षसुवर्णप्रदा पञ्चदशाक्षरी (१५) ॥ १२.१२॥ ॐ नवकेशी कनकवती स्वाहा - इति निष्कत्रयप्रदा विद्या द्वादशाक्षरी (१२) ॥ १२.१३॥ एकायकुणाणातुके - इत्यभीष्टदायिनी विद्याऽष्टाक्षरी (८) ॥ १२.१४॥ ऐं ह्रीं श्रीं मातङ्गिन्यै स्वाहा श्रीं ह्रीं ऐं - इति मातङ्गिनीविद्या द्वादशाक्षरी (१२) ॥ १२.१५॥ ह्रीं श्रीं क्लें अ इ राज्यदे राज्यलक्ष्मी सः क्लें श्रीं ह्री - इति राज्यलक्ष्मीविद्या षोडशाक्षरी (१६) ॥ १२.१६॥ ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं महालक्ष्म्यै नमः - इति महालक्ष्मीविद्या सप्तविंशतिवर्णा (२७) ॥ १२.१७॥ ज झ री म हा च ण्ड ते ज स्स क र्षि णी का ल मं था ने हः - इति सिद्धलक्ष्मीविद्या सप्तदशार्णा (१७) ॥ १२.१८॥ ॐ गलयौं ॐ, ह्रीं गलयौं ह्रीं, क्लीं गलयौं क्लीं, ऐं गलयौं ऐं, क्लूं गलयौं क्लूं, स्त्रीं गलयौं स्त्रीं, ह्रीं क्लीं ऐं क्लूं स्त्रीं गलयौं द्रां द्रीं क्लीं क्लूं सः, एते सप्तगोपालमन्त्राः ॥ १२.१९॥ एतेषां पारायणात् सर्वसिद्धीश्वरो भवेत् - इति शिवम् ॥ १२.२०॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे मन्त्रविधान नाम द्वादशः खण्डः समाप्तः ॥ १२॥
त्रयोदशः खण्डः प्रस्तारक्रमः अथातः प्रस्तारक्रमं व्याख्यास्यामः ॥ १३.१॥ अथातः स्वेच्छया कतिचित् धुवाक्षराणि केनचित् प्रकारेण विलिख्य, तेष्वन्त्यशिरसि बिन्दुं विलिख्य, उपान्त्यवर्णमारभ्य प्रथमवर्णपर्यन्तं व्युत्क्रमेण एकैकस्य वर्णस्य शिरस्येकैकमङ्कं एकद्वित्रिचतुःपञ्चषडादिरूपमेकोत्तराभिवृद्धिं विलिख्य, तत एकेन द्वयं द्वाभ्यां त्रयं त्रिभिश्चतुष्टयमित्येवं क्रमेण तानङ्कान् गुणयेत् ॥ १३.२॥ तेन हसकलह्रींरूपेषु ध्रुवेषु मायाबीजस्य शिरसि शून्यं लकारस्य शिरस्येकं ककारस्य द्वौ सकारस्य षट् हकारस्य चतुर्विंशतिः - इति सिध्यति ॥ १३.३॥ ईदृशस्य बिन्द्वाद्यं कवर्गस्य खण्डाङ्क - इति संज्ञा, नष्टोद्दिष्टादिषु व्यवहारार्थं कृता ॥ १३.४॥ तत औत्तराधर्येण चतुर्विंशतिवारं विलिख्य तदधस्तथैव सकारांस्तदधः ककारांस्तदधः लकारांस्तदधः मायां विलिखेत् ॥ १३.५॥ ततः अनयैव रीत्या सादिचतुष्टयं षट्षड्वारं लिखेत् ॥ १३.६॥ कादित्रयं द्विद्विवारं लिखेत् ॥ १३.७॥ लकारमायां च एकैकवारं लिखेत् ॥ १३.८॥ एवं सति द्वितीयपङ्कौ एकमक्षरं न्यूनं सम्पद्यते ॥ १३.९॥ तं लकारं पञ्चमस्थाने लिखेत् ॥ १३.१०॥ प्रथमपङ्किस्तु पूर्वमेव पूर्णास्तीति न तत्र लेखनप्रसक्तिः ॥ १३.११॥ तृतीयादिषु पङ्क्तिषु द्वौ द्वौ वर्णौ न्यूनौ भवतः, तावेकस्यां पङ्क्तौ क्रमाद्विलिख्य तदधस्तनपङ्कौ व्युत्क्रमात् तावेव लिखेत् ॥ १३.१२॥ पुनस्तनपङ्क्तिद्वये विशिष्टौ ध्रुवौ तौ क्रमान् क्रमाभ्यां लिखेत् ॥ १३.१३॥ एवमान्तकरणेनैकः प्रस्तारखण्डो भवति ॥ १३.१४॥ यावन्तो ध्रुवास्तावन्त एव तत्प्रस्तारस्य खण्डाः समसङ्ख्यावृत्तका भवन्ति ॥ १३.१५॥ तेष्वाद्ये खण्डे वृत्ताद्यो ध्रुवाद्य एव, द्वितीये खण्डे ध्रुवद्वितीय एव वृत्ताद्यः, तृतीये खण्डे धुवतृतीय एवेत्यपि नियमोऽस्ति ॥ १३.१६॥ ततश्च द्वितीयखण्डप्रथमवृत्ते पूर्व एव कॢप्तद्वितीयस्य सकारात् परतः संस्थापयेत् ॥ १३.१७॥ एवं तृतीयखण्डादिमवृत्ते कहसलह्रीमिति क्रमः ॥ १३.१८॥ चतुर्थखण्डादौ लहसकह्रीं पञ्चमखण्डादौ ह्रीं हसकल इति क्रमः ॥ १३.१९॥ प्रथमखण्डान्ततृतीयवृत्तेऽपि यौ द्वौ शिष्येते तौ द्वावपि कह्रीमिति लेख्यौ प्रथमवृत्ते तयोः पौर्वापर्यस्य कॣप्तस्य त्यागे मानाभावात् ॥ १३.२०॥ एतेन नवमादिवृत्तेष्वपि सकारह्रीङ्कारयोः क्रमेण लेख इत्यादि सिध्यति ॥ १३.२१॥ तत्तत्खण्डद्वितीयादिवृत्तानि प्रथमखण्डवदेव लेखनीयानि ॥ १३.२२॥ यावत्प्रथमखण्डाद्यवृत्ताक्षराणि व्युत्क्रमेण पतन्ति तावत्पर्यन्तोऽयं प्रस्तारः प्रथमवृत्तप्रथमाक्षरशिरोङ्को ध्रुवार्णसङ्ख्यया गुणितश्चेत् प्रस्तारवृत्तसङ्खयापि निष्पद्यते ॥ १३.२३॥ तेन पञ्चध्रुवके चतुर्विंशतिः चतुर्ध्रुवके षट् द्वितीयध्रुवके द्वौ एकध्रुवके एकं - इति शिवम् ॥ १३.२४॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे प्रस्तारक्रम नाम त्रयोदशः खण्डः समाप्तः ॥ १३॥
चतुर्दशः खण्डः नष्टोद्दिष्टकथनम् अथातो नष्टोद्दिष्टं व्याख्यास्यामः ॥ १४.१॥ हसकलह्रीं इत्येषां पञ्चानामक्षराणां धुवप्रस्तारे विंशत्यधिकशतं वृत्तानि तेषु चतुरशीतितमवृत्तजिज्ञासायां चतुरशीतिसङ्खयैव नष्टोऽङ्कः ॥ १४.२॥ खण्डाङ्कास्तु चतुर्विंशतिः षट् (द्वे) एकं शून्यं चेति पूर्वमेवोक्त्या तेनैकैकेन नष्टाङ्कं विभजेत् ॥ १४.३॥ तथा चतुर्विंशत्या चतुरशीतेर्हरणे त्रयो लब्धाः द्वादशशिष्टास्ततः षड्भिः द्वादशानां हरणे यद्यपि निश्शेषता भवति तथाऽऽपि विभाजकानां सशेषत्वादत्राप्येकं षट्कमवशेष्यं तेनैकलब्धं षट् षष्ठा ततो द्वाभ्यां षण्णां हरणे सावशेष विभजनेन द्वौ लब्धौ द्वौ शिष्टौ तत एकेन सशेषहरणे एकं लब्धं एकं शिष्टम् । तस्य शून्येन विभजनेन शून्यं लब्धं शून्यं शिष्टं तेन त्र्येकद्वयेकशून्यानि लब्धाङ्काः - एते प्रत्येकं सैका कार्याः । तेन चतुर्द्वित्रिद्वयेकाङ्का भवन्ति ॥ १४.४॥ ततश्च पूर्वकॢप्तक्रमेषु हसकलह्रीं इत्याकारकेषु ध्रुववर्णेषु चतुर्द्विद्वयेकसङ्ख्यावर्णास्तान् सङ्खयायै निष्कास्य पृथक् लिखेत् ॥ १४.५॥ यथा वाग्बीजात्मकबीजचतुर्थे लकारः ॥ १४.६॥ सजिज्ञासितवृत्ते प्रथमो वाग्बीजात्मके द्वितीयः सकार एव तत्र द्वितीयः ॥ १४.७॥ अथानयोः लकारसकारयोः पूर्वलिखितत्वात् परित्यागे गणने वाग्बीजपञ्चम एव तृतीयो भवति ॥ १४.८॥ माययैव जिज्ञासितवृत्ते तृतीया कथकवर्गात् द्वितीयोपात्तसकारपरित्यागेन गणनया ककार एव पूर्वो भवतीति स तत्र चतुर्थः ॥ १४.९॥ वाग्बीजस्य प्रथमो हकारः स तत्र पञ्चमो भवतीति लसह्रीङ्कह इत्याकारकं चतुरशीतितमं वृत्तं निष्पद्यते - इति शिवम् ॥ १४.१०॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे नष्टोद्दिष्टकथन नाम चतुर्दशः खण्डः समाप्तः ॥ १४॥
पञ्चदशः खण्डः कृतनष्टनिरूपणम् इत्थं कृतनष्टो लसह्रीङ्कह इत्याकारकं वृत्तं पञ्च- धुवप्रस्तारे कतितममिति जिज्ञासायां तद्वृत्तं भूमौ विलिख्य तच्छिरसि खण्डाङ्कान् लिखेत् ॥ १५.१॥ ते यथा - चतुर्विंशतिः षट् दे एकं शून्यं चेति ॥ १५.२॥ ते च लकारादयः वर्णाः कॢप्तक्रमेषु हसकलह्रीं - इत्याकारकेषु पञ्चसु ध्रुववर्णेषु पूर्वलिखितपरित्यागेन गणनया चतुर्थद्वितीयतुतीयद्वितीयप्रथमाः क्रमेण भवन्ति ॥ १५.३॥ तेन तेष्वङ्केषु प्रत्येकमेकाङ्कनिरासे सति त्र्येकद्व्येकशून्यानि सम्पद्यन्ते ॥ १५.४॥ ते चाङ्काः लकारादीनामधः क्रमाल्लेख्याः ॥ १५.५॥ अथ अधोङ्केनोर्ध्वाङ्कं गुणयित्वा तत्तदक्षरा- धोङ्काधःक्रमेण लिखेत् ॥ १५.६॥ यथा चतुर्विंशतिस्त्रिभिर्हननात् द्वासप्ततिभिः षण्णा- मेकेन हननात् षट् द्वयोर्द्वाभ्यां घाते चत्वारः एकस्यैकेन हनने एकं शून्यस्य शून्येन गुणने शून्यं एवमेतेषां सर्वेषां मेलने त्र्यशीतिः तेष्वङ्काङ्कप्रक्षेपे चतुरशीतिः सम्पद्यते - इति शिवम् ॥ १५.७॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे कृतनष्टनिरूपण नाम पञ्चदशः खण्डः समाप्तः ॥ १५॥
षोडशः खण्डः योनिलिङ्गयन्त्ररचनाविधानम् अथातो योनियन्त्रं व्याख्यास्यामः ॥ १६.१॥ स्वेष्टमानेन त्रिकोणं विलिख्य, तिसृषु रेखासु दशदश चिह्नानि समांशाङ्कानि कृत्वा, तेषु दशदशसूत्राणि पातयेत् इत्येकविंशत्यधिकशतसङ्ख्याकाः प्रस्तोत्पन्नभेदा भवन्ति ते तत्र लेख्याः सर्वमध्यत्रिकोणे कर्म लेख्यम् ॥ १६.२॥ इत्थं योनिचक्रं विधाय, लिङ्गचक्रं व्याकुर्मः ॥ १६.३॥ पूर्वे एकं चतुष्कोष्ठात्मकं कोष्ठं विलिख्य, तदधः कोष्ठत्रयं तदधः पञ्च तदधः पार्श्वयोः षट् षड्विहाय यथासम्प्रदायं चत्वारिंशत्कोष्ठात्मकं लिङ्गं विलिख्य, तत्संलग्नं चतुरश्रद्रयं वह्नयादिकोणचतुष्टयं कोष्ठचतुष्टयविशिष्टं विलिख्य, तत्र सम्प्रदायेन वाग्भवे बीजभेदान् विंशत्यधिक- शतसङ्ख्याकान् प्रस्तारसञ्जनितान् विलिख्य, विशिष्टेषु तृतीयबीजस्य प्रस्तारसञ्जनितचतुर्विंशतिभेदान् विलिखेत् ॥ अथ चतुरश्रद्वयान्तराले षड्रेखाया(पा)तनेन सप्तकोष्ठान् संविधाय, तत्र दिननित्यायुगनित्याक्षराणि षट् संविलिख्य, शिष्टे कोष्ठे चोदयाक्षरं विलिख्य तत्रावाह्य पूजयेत् - इति शिवम् ॥ १६.५॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे योनिलिङ्गयन्त्ररचनाविधान नाम षोडशः खण्डः समाप्तः ॥ १६॥
सप्तदशः खण्डः अङ्गविद्या अथातः सर्वमङ्गविद्यायाः स्वरूपबाहुल्योपदेशं तद्वि- नियोगप्रस्तावं च करोति ॥ १७.१॥ तत्र वाताद्यैः ग्रासमयान्तैः अकाराद्यैः क्षकारान्तैः मातृकाविसराक्षरैः प्रोक्तसङ्ख्यैरित्यर्थः ॥ १७.२॥ शतैः पञ्चभिः अकारादीनां षोडशस्वराणां ककारादीनां च पञ्चत्रिंशतां क्षकारान्तानां प्रत्येकं षोडशस्वरयो- जनतः षोडशानां षोडशानामप्येवं षट्सप्तत्यधिकपञ्चशत- सङ्ख्यानां मातृकाविसराक्षराणां मूलविद्यायाः आदौ क्रमशः प्रत्येकं योजनतः षट्सप्तत्यधिकपञ्चशतसङ्ख्याविद्यारूपाणि सन्तीति तस्यानवस्थाने मूलविद्यायाश्चतुर्दशस्वरस्थाने स्वरान् षोडश योजयेत् ॥ १७.३॥ पूर्वोक्तैर्विद्यादियोजितैः षट्सप्तत्यधिकपञ्चशतैरक्षरैः तत्सङ्ख्यारूपभेदाय अन्त्ये प्रत्येकं क्रमात् षोडशस्वरयो- जनतः षोडशाधिकद्विशतोत्तरनवसहस्रसङ्ख्याविद्यारूपाणि भवन्तीति तैः सम्प्रोक्तसङ्ख्यैः विद्यारूपैः प्रयोजयेद्यन्त्रैरिति आदौ वृत्तत्रयं तद्वहिः षट्कोणं तद्बहिरष्टदलं विधाय तद्बहिर्वृत्तत्रयं विदध्यात् ॥ १७.४॥ तेषु विद्याकूटानुक्तक्रमेण न्यसेत् ॥ १७.५॥ तेष्वाद्यं मध्यतः साध्यसमेतं विलिखेत् ॥ १७.६॥ षट्कोणेषु चत्वारि चत्वारि विलिखेत् ॥ १७.७॥ अष्टच्छदेषु प्रत्येकं पञ्चपञ्च समालिखेत् ॥ १७.८॥ बहिर्वृत्तान्तरयुगे मातृकां मायया चितां विलोमामनुलोमां स्वेन सम्यक् समालिखेत् ॥ १७.९॥ अन्तःषडन्तरालेषु पर्यायदिनसम्भवे नित्ये लिखेत् ॥ १७.१०॥ प्रादक्षिण्येन सर्वत एवं यन्त्राणि जायन्ते ॥ १७.११॥ तैः कूटैरुक्तयोगतः शतं च चत्वारिंशच्च चत्वारि च ततः क्रमादिति वृतं, एवमन्यानि कूटानि प्रोक्तानि क्रमेण विलिखेत् ॥ १७.१२॥ मध्ये नामसमेतानि तदन्यान्यभितो लिखेत् ॥ १७.१३॥ त्रयोदशमितैर्लक्ष्यैः सप्तविंशतिसङ्ख्याकैः सहस्रैश्च शतेनापि चतुर्भिः तानि सङ्ख्यया यन्त्राणि जायन्ते ॥ १७.१४॥ तैश्च सा सर्वमङ्गला एवं कामेश्वर्यादिषोडशनित्यानां पृथक् पृथक् यन्त्राणि स्युः ॥ १७.१५॥ तस्मादाभिरसाध्यानि न कदाचिच्च कुत्रचित् विद्यते तेषु यत्किञ्चित् वक्ष्ये कोशेषु तोन्यै वदेन्नाथात्मकानि येन स्युस्तेन च मैर्भित्त्वा षोडशधा मन्त्री विदध्यात् ॥ १७.१६॥ विनियोजकं विशालमध्यविन्यासं विदध्यात् ॥ १७.१७॥ नवकोष्ठकं प्रागादिमध्यपर्यन्तं प्रादक्षिण्यक्रमाल्लिखेत् ॥ १७.१८॥ नवानि नवसु प्राज्ञस्तेषु ऋक्षाणि चालिखेत् । सप्तम्या साध्यसंयुक्तं नाथां देवीश्च तत्क्रमात् ॥ १७.१९॥ यद्यद्वि (द्धि) वाञ्छितं कर्म तत्तत्तेषु विलिख्य वै । पीठे वा भूतले वाऽपि पूजयेत् प्रोक्तवासरम् ॥ १७.२०॥ ततः प्राप्ते वाञ्छितार्थे स्वात्मन्युद्वास्य देवताः । चक्रं प्रक्षाल्य तत्तोयं केदारादिषु निक्षिपेत् ॥ १७.२१॥ एवमन्यानि यन्त्राणि प्रोक्तानि क्रमशो भुवि । विनियोज्यान्यभीष्टेषु कार्येषूक्तक्रमेण वै ॥ १७.२२॥ परसङ्ख्यासमेतानि तेषु तेष्वप्ययं विधिः । सर्वतः सौम्यकर्माणि सिद्ध्यन्ते वाऽनया द्रुतम् ॥ १७.२३॥ वश्येषु ज्ञानसम्पत्त्यै सर्वप्रत्यूहशान्तये । लक्ष्मीप्राप्तौ तथारोग्यसिद्धौ रोगार्तिशान्तिषु ॥ १७.२४॥ विजयाय समस्तापत्तरणायाभिवृद्धये । पुत्रावाप्त्यै च रक्षायै पूजयेत् तेषु तत्क्रमात् ॥ १७.२५॥ गजाश्वगोखरोष्ट्राजमहिषीणां विवृद्धये । तेषां रोगादिपीडासु तच्छान्त्यै च यथाक्रमम् ॥ १७.२६॥ निर्माय नवयन्त्राणि तत्र तत्रार्चयेच्छिवाम् । तेषु तेषूक्तकार्येषु तत्तत्सम्प्राप्तिहेतवे ॥ १७.२७॥ नवप्रकारयुक्तानि षोडशप्रथमादिषु । तिथिषु प्रोक्तरूपाणि तत्र तां सर्वमङ्गलाम् ॥ १७.२८॥ पूजयेत् काङ्क्षितावाप्त्यै तेन सर्वसिद्धिर्भवेदिति शिवम् ॥ १७.२९॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक- श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे अङ्गविद्या नाम सप्तदशः खण्डः समाप्तः ॥ १७॥
अष्टादशः खण्डः वासनाध्यायः अथातो वासनां व्याख्यास्यामः ॥ १८.१॥ तदात्मकं समुदयं मदात्मिकापि विश्रितम् । हयात्मकं आत्मस्वरूपं तैर्भावयेत् ॥ १८.२॥ कालेनान्यत्वदुःखार्तिवासनाशतशो ध्रुवम् । पराहन्तामयं सर्वस्वरूपस्वात्मविग्रहम् ॥ १८.३॥ सदात्मकं स्फुरत्ताख्यं अशेषोपाधिवर्जितम् । प्रकाशरूपमात्मत्वे वस्तु सद्भासते परम् ॥ १८.४॥ वरयन्ते एवमतो लोके नान्यत्र मन्त्रवदक्षरम् । यद्विद्येति हि मन्वीत सर्वधा सर्वतः सदा ॥ १८.५॥ अथ मन्त्रार्थः- ललितायास्त्रिभिर्वर्णैः सकलार्थोऽभिधीयते । शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥ १८.६॥ अशेषतो जगत् कृत्स्नं हृल्लेखात्मकतः परम् । तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः ॥ १८.७॥ व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना । ते यो विमर्श ईकार बिन्दुना तन्निफालनम् ॥ १८.८॥ १. ह्रीं श्रीं अं कामेश्वरीपादुकां पूजयामि । २. ह्रीं श्रीं आं भगमालिनीपादुकां पूजयामि ३. ह्रीं श्रीं इं नित्यक्लिन्नापादुकां पूजयामि । ४. ह्रीं श्रीं ईं भेरुण्डापादुकां पूजयामि । ५. ह्रीं श्रीं उं वह्निवासिनीपादुकां पूजयामि । ६. ह्रीं श्रीं ऊं महावज्रेश्वरीपादुकां पूजयामि ७. ह्रीं श्रीं ऋं शिवदूतीपादुकां पूजयामि । ८. ह्रीं श्रीं ॠं त्वरितापादुकां पूजयामि । ९. ह्रीं श्रीं ऌं कुलसुन्दरीपादुकां पूजयामि । १०. ह्रीं श्रीं ॡं नित्यापादुकां पूजयामि । ११. ह्रीं श्रीं एं नीलपताकापादुकां पूजयामि । १२. ह्रीं श्रीं ऐं विजयापादुकां पूजयामि । १३. ह्रीं श्रीं ओं सर्वमङ्गलापादुकां पूजयामि । १४. ह्रीं श्रीं औं ज्वालामालिनीपादुकां पूजयामि १५. ह्रीं श्रीं अं चित्रापादुकां पूजयामि । १६. ह्रीं श्रीं अः त्रिपुरसुन्दरीपादुकां पूजयामि ॥ १८.९॥ शङ्कुच्छायया दिक्परिज्ञानक्रमं प्रस्तावसहितं उपदिशति ॥ १८.१०॥ तत्र भानोर्गत्या आदित्यदक्षिणोत्तरायणक्रमगति- भेदज्ञानच्छाययेति यावत् ॥ १८.११॥ तन्मध्यं बिन्दुमध्यं इत्येतत्क्रियाविशेषणम् ॥ १८.१२॥ पूर्वापरद्वये पूर्वापरात्मिकयोः दिशोः प्राग्वच्छिन्ने कृत्वेत्यर्थः ॥ १८.१३॥ तदभिमतः तद्द्वयमवष्टभ्य सममानपारभ्रान्त्या तच्चि- ह्नद्वयान्तरालमानपरिभ्रान्त्यां स्वेच्छाधिकेनार्धेन मानेन अन्योन्यतुल्येन परिभ्रान्त्यां कृत्वा वृत्तद्वयं कृत्वेत्यर्थः ॥ १८.१४॥ तयोः पूर्वापरयोः संश्लेषसञ्जातमध्यदक्षोत्तरस्थित इत्यस्य उत्तरत्र सन्धिद्वये इत्येते विशेषं प्राक्प्रत्यक् सूत्रमध्ये प्राक्प्रत्यगात्मसूत्रमध्ये तु संहारे दक्षोत्तरं दक्षिणोत्तरं तेषां मण्डपादीनामग्रैः सूत्राग्रैः ॥ १८.१५॥ एतदुक्तं भवति - जीमूताद्यपरिवेष्टितभानौ दिवसे छायादिभिरनावृतदेशे जलयन्त्रादिभिः सुसमीकृतस्य दर्प- णोदरसङ्काशस्य भूतलस्य मध्ये बिन्दुं कृत्वा तदवष्टम्भतः प्रतिदिशं द्वादशाङ्गलमानेन वृत्तं कृत्वा तत्र षडङ्गलमान- परिणाहमूलमुत्तरोत्तरपरिणाहापचयेन सूचीमात्रीकृताग्र - परिणाहं मृद्वाकृतिं शङ्कुमूलमानोच्छ्रा(छा)यसहितं वृत्ताकारं शिल्पिवरेण निर्मितं वृत्तमध्यस्थबिन्दुमध्ये यथा शङ्कुमूल- परिणाहमध्यं भवति तथा तच्छङ्कुच्छायाग्रस्य पूर्वाह्णे तत्तद्वृत्तरेखापश्चिमभागे यत्र सम्पातस्तत्र ततोऽपराह्णे तच्छङ्कुच्छायाग्रस्य तद्वृत्तरेखापूर्वभागे चिह्नं विधाय तच्चिह्नद्वयं प्रापयत् सूत्रं तत्पूर्वापरं परिकल्प्य तच्चिह्नद्वया- वष्टम्भेन तच्चिह्नान्तरालमानस्य चेष्टाधिकेनार्धमानेनान्योन्य- समेते किञ्चिदन्योन्यसंश्लिष्टं पूर्वापरं वृत्तद्वयं विधाय तद्वृत्तरेखादक्षिणोत्तरसन्धिद्वयप्रापि प्राक्पश्चिमसूत्रमध्य - गत्या तिर्यग्रूपेण यत् सूत्रं दक्षिणोत्तरं परिकल्प्य तत्प्राक् प्रत्यक्दक्षिणोत्तरसूत्रद्वयसम्पाताद्वृत्तवक्ष्यमाणमानेन तुल्य- रूपपरिकल्पितसूत्राग्रैस्तैस्तेषां मण्डपादीनां प्राक्प्रत्यग्द- क्षिणोत्तरात्मकदिक्चतुष्टयं परिकल्पयेत् ॥ १८.१६॥ सर्वप्रयत्नेन विद्याऽऽराधितद्वारा पूर्णताख्यातिसमा- वेशनेच्छा चेत्येते समयाचारिकाः । परे च शास्त्रानुशिष्टाः ॥ १८.१७॥ इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य सर्वतः कृतकृत्यता शरीरत्यागे श्वपचग्रहकाश्योर्नान्तरं जीवन्मुक्तो भवति ॥ १८.१८॥ य इमामष्टादशखण्डीं महोपनिषदं महात्रैपुर- सिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति । यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयते इत्युपनिषत् - इति शिवम् ॥ १८.१९॥ य एवं वेदेत्युपनिषत् ॥ १८.२०॥ भद्रं नो अपि वादय मनः ॐ शान्तिः शान्तिः शान्तिः ॥ १८.२१॥ इति रेणुकागर्भसम्भूत-श्रीदुष्टक्षत्रियकुलान्तक श्रीभार्गवोपाध्याय-जामदग्न्य-महादेवप्रधानशिष्य- महाकौलाचार्य-श्रीमत्परशुरामकृतौ-कल्पसूत्रे वासना नामाष्टादशः खण्डः समाप्तः ॥ १८॥ इति श्रीपरशुरामकल्पसूत्रपरिशिष्टं द्वितीयभागः सम्पूर्णम् ॥ इति श्रीदुष्टक्षत्रियकुलकालान्तकरेणुकागर्भसम्भूत महादेवप्रधानशिष्यजामदग्न्यश्रीपरशुरामभार्गव- महोपाध्यायमहाकुलाचार्यनिर्मितं कल्पसूत्रं सम्पूर्णम् ॥ Encoded and proofread first part by Claudia Weber (available at GRETIL) and second by DPD Reference : Parasurama-Kalpasutra (a digest of Srividya, as system of worship of the Divine Mother) Based on the ed. by A. Mahadeva Sastri, Baroda : Central Library 1923 (Gaekwad's Oriental Series, 22)
% Text title            : parashurAmakalpasUtram
% File name             : parashurAmakalpasUtram.itx
% itxtitle              : parashurAmakalpasUtram
% engtitle              : parashurAmakalpasUtram
% Category              : tantra, vishhnu, dashAvatAra, yoga
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Subcategory           : yoga
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Claudia Weber (first part) DPD (second part)
% Proofread by          : Claudia Weber, DPD
% Source                : Parasurama-Kalpasutra by A. Mahadeva Sastri 1923
% Indexextra            : (1, 2 1stEd, 2 3rdEd))
% Latest update         : July 27, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP