प्रेमामृतरसायनस्तोत्रम्

प्रेमामृतरसायनस्तोत्रम्

प्रेमावतारश्रीमन्महाप्रभुकृष्णचैतन्यदेव मुखपद्मविनिर्गतम् एकदा कृष्णविरहाद्ध्यायन्ती प्रियसङ्गमम् । मनोबाष्पनिरासाय जल्पतीदं मुहुर्मुहुः ॥ १॥ कृष्णः कृष्णेन्दुरानन्दो गोविन्दो गोकुलोत्सवः । गोपालो गोपगोपीशो वल्लवेन्द्रो व्रजेश्वरः ॥ २॥ प्रत्यहं नूतनतरस्तरुणानन्दविग्रहः । आनन्दैकसुखस्वामी सन्तोषाक्षयकोषभूः ॥ ३॥ आभीराभिनवानन्दः परमानन्दकन्दलः । वृन्दावनकलानाथो व्रजानङ्गनवाङ्कुरः ॥ ४॥ व्रजानन्द नयनानन्दकुसुमो व्रजभाग्यफलोदयः । प्रतिक्षणातिसुखदो मोहनो मधुरद्युतिः ॥ ५॥ सुधानिर्यासनिचयः सुन्दरः शीतलाकृतिः । श्यामलाकृतिः नवयौवनसम्भिन्नश्यामामृतरसार्णवः ॥ ६॥ इन्द्रनीलमणिस्वच्छो दलिताञ्जनचिक्कणः । इन्दीवरसुखस्पर्शो नीरदस्निग्धसुन्दरः ॥ ७॥ कर्पूरागरुकस्तूरीकुङ्कुमाक्ताङ्गधूसरः । सुकुञ्चितकचग्रस्तोल्लसच्चारुशिखण्डकः ॥ ८॥ मत्तालिविभ्रमत्पारिजातपुष्पावतंसकः । मत्तालिविलसत् आननेन्दुजितानन्तपूर्णशारदचन्द्रमाः ॥ ९॥ श्रीमल्ललाटपाटीरतिलकालकरञ्जितः । लीलोन्नतभ्रूविलासो मदालसविलोचनः ॥ १०॥ आकर्णारक्तसौन्दर्यलहरीदृष्टिमन्थरः । घूर्णायमाननयनः साचीक्षणविचक्षणः ॥ ११॥ अपाङ्गेङ्गितसौभाग्यतरलीकृतचेतनः । ईषन्मुद्रितलोलाक्षः सुनासापुटसुन्दरः ॥ १२॥ गण्डप्रान्तोल्लसत्कर्णमकराकृतिकुण्डलः । प्रसन्नानन्दवदनो जगदाह्लादकाननः ॥ १३॥ जगदाह्लादकारकः सुस्मेराधृतलावण्यप्रकाशीकृतदिङ्मुखः । धृतसौन्दर्य सिन्दूरारुणसुस्निग्धमाणिक्यदशनच्छदः ॥ १४॥ पीयूषाधिकमाध्वीकसूक्तः श्रुतिरसायनः । सूक्ति त्रिभङ्गललितस्तिर्यग्ग्रीवस्त्रैलोक्यमोहनः ॥ १५॥ कुञ्चिताधरसंसिक्तकूजद्वेणुविनोदवान् । सासक्तकूज कङ्कणाङ्गदकेयूरमुद्रिकादिलसद्भुजः ॥ १६॥ मुद्रिकाविलसद् स्वर्णसूत्रसुविन्यस्तकौस्तुभामुक्तकन्धरः । मुक्ताहारोल्लसद्वक्षः स्फुरच्छ्रीवत्सलाञ्छनः ॥ १७॥ आपीनहृदयो नीपमाल्यवान् बन्धुरोदरः । संवीतपीतवसनो रशनाविलसत्कटिः ॥ १८॥ अन्तरीयघटीबन्धप्रपदान्दोलिताञ्चलः । अरविन्दपदद्वन्द्वकलक्वणितनूपुरः ॥ १९॥ क्वणत्कारितनूपुरः बन्धूकारुणमाधुर्यसुकुमारपदाम्बुजः । पल्लवारुण नखचन्द्रजिताशेषदर्पणेन्दुमणिप्रभः ॥ २०॥ ध्वजवज्राङ्कुशाम्भोजराजच्चरणपल्लवः । त्रैलोक्याद्भुतसौन्दर्यपरिपाकमनोहरः ॥ २१॥ साक्षात्केलिकलामूर्तिः परिहासरसार्णवः । यमुनोपवनश्रेणीविहारी व्रजनागरः ॥ २२॥ श्रेणीविलासे गोपाङ्गनाजनासक्तो वृन्दारण्यपुरन्दरः । आभीरनागरीप्राणनायकः कामशेखरः ॥ २३॥ यमुनानाविको गोपीपारावारकृतोद्यमः । राधावरुन्धनरतः कदम्बवनमन्दिरः ॥ २४॥ राधावरोधन व्रजयोषित्सदाहृद्यो गोपीलोचनतारकः । जीवनानन्दरसिकः पूर्णानन्दकुतूहलः ॥ २५॥ यमुनानन्द गोपिकाकुचकस्तूरीपङ्किलः केलिलालसः । अलक्षितकुटीरस्थो राधासर्वस्वसम्पुटः ॥ २६॥ वल्लवीवदनाम्भोजमधुमत्तमधुव्रतः । निगूढरसविद्गोपीचित्ताह्लादककाननः ॥ २७॥ चित्ताह्लादकलानिधिः कालिन्दीपुलिनानन्दी क्रीडाताण्डवपण्डितः । आभीरिकानवानङ्गरङ्गभूमिसुधाकरः ॥ २८॥ जनानङ्ग विदग्धगोपवनिताचित्ताकूतविनोदकृत् । नानोपायनपाणिस्थगोपनारीगणावृतः ॥ २९॥ वाञ्छाकल्पतरुः कामकलारसशिरोमणिः । कन्दर्पकोटिलावण्यः कोटीन्दुललितद्युतिः ॥ ३०॥ जगत्त्रयमनोमोहकरो मन्मथमन्मथः । गोपसीमन्तिनीशश्वद्भावापेक्षापरायणः ॥ ३१॥ नवीनमधुरस्नेहः प्रेयसीप्रेमसञ्चयः । गोपीमनोरथाक्रान्तो नाट्यलीलाविशारदः ॥ ३२॥ प्रत्यङ्गरभसावेशप्रमदाप्राणवल्लभः । रासोल्लासमदोन्मत्तो राधिकारतिलम्पटः ॥ ३३॥ खेलालीलापरिश्रान्तः स्वेदाङ्कुरचिताननः । हेलालीला गोपिकाङ्कालसः श्रीमान् मलयानिलसेवितः ॥ ३४॥ (सकृत्प्रपन्नजनतासंरक्षणधुरन्धरः । सुप्रसन्ने वासुदेवो गोपिकाजनवल्लभः ॥) इत्येवं प्राणनाथस्य प्रेमामृतरसायनम् । यः पठेच्छरावयेद् वापि स प्रेम्णि प्रमिलेद् ध्रुवम् ॥ ३५॥ इति श्रीवल्लभाचार्यविरचितं कृष्णप्रेमामृतरसायनस्तोत्रं सम्पूर्णम् । Encoded by Malika Das Proofread by Malika Das, Shankara, NA There are variations from Vishnustutimanjari 1 Also, some attribute this to chaitanyamahApravhu as well.
% Text title            : premAmRitarasAyanastotram
% File name             : premAmRRitarasAyanastotram.itx
% itxtitle              : premAmRitarasAyanastotram (vallabhAchAryavirachitam)
% engtitle              : premAmRitarasAyanastotram
% Category              : vishhnu, krishna, vishnu, vallabhaachaarya, puShTimArgIya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Chaitanyamahaprabhu, vallabhAchArya attribution
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malika Das March 18, 2004
% Proofread by          : Malika Das, Shankara shankara_2000 at yahoo.com
% Indexextra            : (commentary, pushti margiya stotraratnAkara)
% Acknowledge-Permission: Premamrta-rasayanam, Jagat at http://granthamandira.net
% Latest update         : January 28, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org