श्रीराधाकृष्णाष्टकम्

श्रीराधाकृष्णाष्टकम्

यः श्रीगोवर्धनाद्रिं सकलसुरपतिं त्रस्तगोगोपवृन्दं स्वीयं संरक्षितञ्चेत्यमरसुखकरं मोहयन् सन्दधार । तन्मानं खण्डयित्वा विजितरिपुकुलो नीलधाराधराभः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ १॥ यं दृष्ट्वा कंसभूपः स्वकृतकृतिमहो संस्मरन्मन्त्रिवर्यान् किं वा पूर्वं मयेदं कृतमिति वचनं दुःखितः प्रत्युवाच । आज्ञप्तो नारदेन स्मितयुतवदनः पूरयन्सर्वकामान् कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ २॥ येन प्रोद्यत्प्रतापा नृपतिकुलभवाः पाण्डवाः कौरवाब्धिं तीर्त्वा पारं तदीयं जगदखिवलनृणां दुस्तरञ्चेति जग्मुः । तत्पत्नीचीरवृद्धिप्रविदितमहिमा भूतले भूपतीशः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ३॥ यस्मै चोद्धृत्य पात्राद्दधियुतनवनीतं करैर्गोपिकाभि- र्दत्तं तद्भावपूर्तौ विनिहितहृदयः सत्यमेवं तिरोधात् । मुक्तागुञ्जावलीभिः प्रचुरतमरुचिः कुण्डलाकान्तगण्डः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ४॥ यस्माद्विश्वाभिरामादिह जननविधौ सर्वनन्दादिगोपाः संसारार्ते विमुक्ताः सकलसुखकराः सम्पदः प्रापुरेव । इत्थं पूर्णेन्दुवक्त्रः कलकमलदृशः स्वीयजन्म स्तुवन्तः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ५॥ यस्य श्रीनन्दसूनोर्व्रजयुवतिजनाश्चागता भतृपुत्रां- स्त्यक्त्वा श्रुत्वा समीपे विचकितनयनाः सप्रमोदाः स्वगेहे । रन्तुं रासादिलीला मनसिजदलिता वेणुनादञ्च रम्यं कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ६॥ यस्मिन्दष्टे समस्ते जगति युवतयः प्राणनाथव्रताया- स्ता अप्येवं हि नूनं किमपि च हृदये कामभावं दधत्यः । तत्स्नेहाब्धिं वपुश्चेदविदितधरणौ सूर्यबिम्बस्वरूपाः कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ७॥ यः स्वीये गोकुलेऽस्मिन्विदितनिजकुलोद्भूतबालैः समेतो मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान् । हत्वा वत्सप्रलम्बद्विविदबकखरान्गोपवृन्दं जुगोप कृष्णो राधा समेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ ८॥ राधाकृष्णाष्टकं प्रातरुत्थाय प्रपठेन्नरः । य एवं सर्वदा नूनं स प्राप्नोति परां गतिम् ॥ ९॥ ॥ इति श्रीरघुनाथगुम्फितं श्रीराघाकृष्णाष्टकस्तोत्रं समाप्तम् ॥ Proofread by PSA Easwaran
% Text title            : rAdhAkRRiShNAShTakam 1
% File name             : rAdhAkRRiShNAShTakam.itx
% itxtitle              : rAdhAkRiShNAShTakam 1 (raghunAthagumphitam yaH shrIgovardhanAdriM)
% engtitle              : rAdhAkRRiShNAShTakam 1
% Category              : aShTaka, vishhnu, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : May 17, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org