श्रीनिवासगुणाकरः

श्रीनिवासगुणाकरः

श्रीः अथ श्रीवरदाचार्यविरचितः श्रीनिवासगुणकरः । वादिकण्ठीरवश्रीमद्वरदार्येण धीमता । व्याख्या श्रीवासकाव्यस्य लिख्यते पदयोजनी ॥ श्रीवेङ्कटेश्वरस्तोत्रमारभते-- श्रीभृत्सद्वृषगोत्रशेखरमणे वेदप्रवक्तः शुचे लोकास्वाद्यचरित्र सुन्दरतनो धीवारिभिः क्षालिते । सस्वैतद्वरदक्षिणा शुभगुणा सालङ्कृतिर्विस्फुर- त्सद्वृत्ता कविता मया तव पदे दासेन भाव्याऽर्प्यते ॥ १॥ वाण्यास्योऽसमदृक् सहस्रवदनो द्योसत्पुरोधाःस्वभू- हृज्जादात्तवरः पुराणवरकृत् तत्पुत्रकस्तत्सुतः । सेनेशो वरभाष्यकृत् तव परा घण्टाऽहमल्पं परं यौष्माकीनगुणादिकं कथयितुं लक्ष्मीश शक्तो न किम् ॥ २॥ व्योमाब्जायितसीमभूमिकमपि श्रीभृद्भवद्वैभवं तावच्चित्सुलभं धृतामृतरसम् सञ्जीवनैकौषधम् । यावच्छक्ति वदामि यामि सुसुखं तेनैव कार्त्स्न्येन कः पानाशक्त इति प्रभुञ्चति पयो गाङ्गं सतृट्चेतनः ॥ ३॥ वाणीनाथमुखामरर्षिशठजिद्रामानुजार्यादिवा- ग्जाले सत्यपि शब्दशक्यशुभतायुक्ते त्रयीभाविनि । काङ्क्षेथे पितरौ ममैव मधुरं शब्दं युवां श्रीहरी लोकेऽग्र्यात्मजवाक्चये सति शिशोरव्यक्तशक्यं [ब्दं] यथा ॥ ४॥ अघटितघटनायां त्वत्समोऽस्मि प्रसिद्धा वृषधरधव सा ते पण्डितंमन्यतेद्धः । नुतिकृतिभरभारी दुर्घटं शास्त्रदृष्ट्या परमिह घटयामि श्रीश शब्दार्थजालम् ॥ ५॥ पूर्वं व्यासमनुप्रविश्य महितानुच्चार्य शब्दान् स्वयं तं पूजास्पदमातनोरसुपदे त्वं चौर्य [र] वत् कौतुकात् । अद्यैनं समनुप्रविश्य कुटिलान् शब्दानिमानुच्चरन् मां हास्यास्पदमातनोष्यपि तथा शेषः कृतार्थोऽस्मि हि ॥ ६॥ निशामुखनटन्महानटकिरीटकोटिस्फुर- त्सुधानिधिगलत्सुधामिलितगाङ्गभङ्गोपमम् । कवित्वमिह मे भुवि त्वदनुषक्तिमद्युक्तिम- द्विधेहि कमलानिधे युवनिपीतबालास्यवत् ॥ ७॥ इच्छा सिद्धे न भजति जनिं किन्तु साध्ये ममेदं चित्रं चित्तं स्वसहजतया शेषतामेव सिद्धाम् । लिङ्गद्वन्द्वस्फुरदजडिमत्वत्स्वरूपाभिनुत्यै वाञ्छत्युच्चैर्वृषधरशिरोनीलकल्पक्षमाज ॥ ८॥ रमाऽपि कुसुमाधिकम्रदिमपाणिना सेवते प्रमादरहितैव यत्तव तदङ्घ्रियुग्मं परम् । ममापि कठिने हृदि स्थिततयैव रक्तीकृतं क्षमामिह कुरु प्रभो वृषधरेडशक्ते मयि ॥ ९॥ कठिने ते मम चित्ते वृत्तिः शक्या न चेच्छुभं कुर्वेतत् । कुर्वन्ति तथा लोके नेदं त्याज्यं विभो किमायासेन ॥ १०॥ विष्णो त्वत्पदभाक्तरुव्रजमितो ध्वान्तच्छलान्निष्पिबन् धूमालि विबुधव्रजं शुचिमुखं शुद्धाः कलाः प्रापयन् । स्वाः पीयूषमयीर्व्रतात्तक्रशिमाधिक्यो विशुद्धस्फुरत्- सत्सङ्गोऽङ्घ्रिरुहश्रियै चरति ते श्रीश द्विजेन्द्रस्तपः ॥ ११॥ अरुणतरुणतरणि[किरण] विकसज्जलवर्तिजलजगर्भाभम् । वृषगिरिधव तव चरणं शरणं करवाण्यनर्घशातार्थम् ॥ १२॥ अम्भस्सम्भरितालवालबलवद्विश्वम्भरारम्भव- द्रम्भास्तम्भविभञ्जकः करिकरः शेषाद्रिचूडामणे स्सारंस्मारमुरुप्रभं म्रदिमभागूरुद्वयं ते ह्विया सङ्कोचं मुहुरेति कन्दरमुखं पीत्वा विषं यातिं च ॥ १३॥ नाभिर्नी लिमनीरनिम्नसरसी यत्पद्ममासीत्ततः त्वच्छ्वासानिललौल्यभाजि युवयोः पित्रोः पुरः पश्यतोः । यत्रानेकमुखार्भको मधुरसव्यासाङ्गिभृङ्गीच्छटा- सङ्गीताब्धितरङ्गसङ्गतमनाः प्राश्नाति डोलारसम् ॥ १४॥ श्वासो मन्दमरुन्मणिस्तु मुकुरो मन्दस्मितं चन्द्रिका वेश्मोरो वनमालिका वृषधरेङ्ङोला तनुत्विण्णदी । मध्वास्वादमदोत्पतन्मधुकरश्रेण्यम्बुबिन्दूत्किर द्वार्यन्त्रं तव नाभिवारिजमिदं लीलाभिक्लप्त्यै श्रियः ॥ १५॥ कुक्षिस्थत्रैलोक्यगलोकौघविमर्दप्राप्तोच्छूनत्वोदयभाजो वलयस्ते । तत्सीमाकारा वलिसन्ध्यञ्चितरेखाः शेषक्ष्माक्षोणिभृद्धव लक्ष्मीश विभान्ति ॥ १६॥ कुक्षिन्यस्तजगत्रयीजनघटासंमर्दजोच्छूनतासम्भूता वलयश्च सन्धय इमास्तत्सीमरेखा इव । सद्धीरोदरबन्धनं विजयते तद्धारणादक्षता सन्देहारचितं वृषाचलशिरश्चूडामणे श्रीनिधे ॥ १७॥ श्रीवत्सचिह्नवक्षाः श्रीवत्सलतातिशायिवात्सल्यः । श्रीवत्ससक्तचित्तः श्रीवस्तजिदाकृतिर्हरिर्जीयात् ॥ १८॥ तटित्पटुकुटीरभापटलहेमपेटीरमा- घटीकुचतटीलसत्तरपटीरपङ्काङ्कितम् । नमद्धृदय पश्यतोहरतरं तवोरस्स्थलं धगद्धगितसद्दृषद्वृषधरेश चित्तेऽस्तु मे ॥ १९॥ फुल्लेन्दीवरगुच्छसुन्दरशिखा प्रान्तस्फुटाब्जा ततोऽधस्ताद्गुच्छयुगाञ्चिताग्रन्त विलसन्मल्ल्यग्रसत्पल्लवा । अप्राप्तोपमगन्धकान्तिमृदुताव्योमाम्बुजम्लानता न्यस्ता चम्पकमालिकोरसि विभो केनापि शुद्धेन ते ॥ २०॥ एका त्वत्पदजा समुद्रमगमत्सिन्धुः परा वार्धिजा त्वां शेषद्रिगृहं श्रिता चकचकन्नीरा लसच्छैवला । स्वब्जेन्दीवरशङ्खचक्रमिथुनावर्ता स्फुरत्सैकता स्मृत्याऽप्यर्थितजीवनादिफलदा पापापनोदक्षमा ॥ २१॥ त्वद्दृक्पुष्पवदंशुजार्धहसनस्वापं मधुध्राड्मासोपानैर्वलिभिस्समेत्य शिशवे नाभीजुषे चारुजे । दातुं स्वौषधिकाज्यमब्जमनिशं हस्ते वहन्ती भवद्- वक्षस्थाभवरोगिणे दिशति मे किं नामृतं सत्कृपा ॥ २२॥ श्रीस्त्वल्लोचनपुष्पवत्करचयैरर्धप्रबोधं मधु- भ्राज्यब्जं तव नाभिपद्मशिशवे वल्याख्यसोपानकैः । गत्वा दातुमिवौषधोज्ज्वलघृतं शङ्खं वहन्ती भवद्- वक्षस्स्था भवरोगिणे दिशति मे किं नामृतं वत्सला ॥ २३॥ पश्चाद्वाहुयुगेन पद्मयुगले लक्ष्म्या समीपं स्वकं नीते तावकमीक्षणं दिनकरश्चन्द्रश्च गोव्यापनैः । एकं विस्फुटयन् परं मुकुलयन्नित्यं सभृङ्गस्वनं तस्या वक्त्ररुचिं कलां कुचरुचिं किं प्रापयत्यच्युत ॥ २४॥ चञ्चल्लोकजयेच्छपञ्चविशिखज्यावाहरावावली- स्वादुत्वापहमाधुरीरसपिबद्वाचासुधाशीकरैः । जन्यान्धोमहतीसमुद्गतकलादेशैस्त्वदीशश्रुतिं मातस्सिञ्चसि मा कथं मम कृते वीक्ष्यापि मे भद्दशाम् ॥ २५॥ भोगी चन्दनगन्धसङ्गमृदुतावृत्तायतत्वैर्भवद्- बाहुश्रीजयदीधीरितो वृषगिरिं मत्वा जगद्रक्षणात् । बाहोः पोष्यघनाच्च भक्षितजगत्प्राणं घनद्वेषयुक्- स्वं न्यूनं तव वीक्ष्य केतनमगाद्वल्मीकरन्ध्रं भयात् ॥ २६॥ वाराशिजादिनिजनारीसमूहकुचनीरोत्थकुड्मलगणे तारेट्कलानिकरमूरीकृतोल्लसनभीरञ्चितं कृतवती । स्फाराङ्गुलिव्रततिसारप्रसूनततिराराद्धृताङ्कुशदशा क्रूरासुरेट्करिणि हा राजते नखरपारम्परी तव हरे ॥ २७॥ अन्यावार्यातिभीमप्रतिकलरहितापारपाप्मास्मदीक्षा दोषार्तौ पुष्पवन्तावरिदरकपटौ त्वन्मुखेनेक्षणोत्कौ । इच्छन्तौ साक्षितां स्वां मदितरविषयां पापनुत्ति नु नात्तप्रत्युक्ती त्वत्कुतो वा परमिह वसतः किं वृषक्ष्माधरेश ॥ २८॥ धराधरधराधरं तव सुधाझरीमाधुरी- निराकृतिधुरन्धरं दृढतरं निपीयाहवे । दरस्तव सुहृद्द्विषोर्ध्वनिमिषेण हि श्रोत्रयोः सुधागरलवृष्टिकृद्भवति पुष्टिनष्ट्योः कृते ॥ २९॥ स्यालं श्रीश दिनेदिनेऽक्षतजलध्युत्पत्तिमस्तोपमत्- वद्वक्त्राभिभवेच्छयाऽऽगतमथ त्वत्पन्नखेन क्षतम् । हीतं पीतकलङ्कदुर्भरगरं हा कालचक्रे विधुं विन्यस्य भ्रमयस्यजेन विगरं कर्तुं रवात्तत्पितुः ॥ ३०॥ मत्वाऽऽस्याक्रमणोत्कमक्षियुगलं त्वच्छ्मश्रुरेखा नता तन्मध्यं तव चोन्नतानुनयनेकृत्नासा जगाम श्रुतिः । स्वानुल्लङ्घनधीः समीपमलिकं भ्रूसीमलोलीकृते मूर्धन्यञ्च कचं स भागमपरं भीत्या किमु श्रीनिधे ॥ ३१॥ न्यक्कृतकमलोल्लसितं श्रुत्यन्तनिषक्तमस्तमिथ्यादृष्टिक् । दृष्ट्वेव भक्तवृन्दं दृग्द्वयमासीत्तथा वृषाद्रीश ॥ ३२॥ आघ्रातुं मुखमीश किन्नु भवता कुन्दव्रजः प्रापितः किं कारुण्यसुधाब्धिफेनपटली चित्ताद्बहिर्निर्गता । लग्ना त्वद्वदनेन्दुपानसमये माधुर्यलोभाद्वरात् किं लक्ष्मीरथवा [रदभा] मुकुन्द किमिदं मन्दस्मितं तेऽथवा ॥ ३३॥ बन्धूकाम्बुजकुन्दचम्पकसुमान्योष्ठाक्षिदन्तावली- घ्राणं मुख्यरुचीहया समभवन् युग्मं तु सारङ्गयोः । शाख्यन्तस्पृहयाल्वदभ्रमहिमश्रीदृक्त्वमाश्रित्य किं तत्र श्रीप्रिय सर्वगन्धरससल्लब्ध्या सदा मोदते ॥ ३४॥ आराध्याराधन[क]परिशोधकवेदावलीधियै भवतः । छन्दःप्रवक्तुरास्ये विमले रदमालिके भवतः ॥ ३५॥ अघटितघटनालक्ष्यं वक्त्रेन्दौ श्मश्रुतिमिरमेतत्ते । नासाचम्पकनिकटे भ्रूभृङ्गश्रेणिकेव लक्ष्मीश ॥ ३६॥ जित्वा प्राकृतसाधनैर्जगदथो साध्येतरांस्तैर्मुनीन् दिव्ये ते धनुषी भ्रुवौ रतियुतस्तूण्यौ च जङ्घे स्मरः । वर्ष्भेन्दीवरजालमङ्घ्रिकरदृग्वक्त्रं च पद्मान्यहो यत्नैः प्राप्य चकार पूरुषमणे तैर्वल्लवीस्त्वद्विटाः ॥ ३७॥ साराचिरद्युतिकनीराभिरामतरधाराधराधिपघटा दोराहवप्रचयधीरानुशासितभगोराशिजायुततनो स्वाराण्मुखाग्रिमुखहीरालियुङ्मकुटभाराजिदीपपटली नीराजिताङ्घ्रियुग नारायणाद्यपरमारादशर्म हर मे ॥ ३८॥ वृन्दीभूततमिस्रबुद्धिकलयच्चण्डांशुभामण्डली- शङ्कामङ्कुरयत्सुरत्नरुचिरं शेषाचलाधीश्वर । बद्धं मूर्द्धजकुड्मलं कबलयन्नम्राधराश्यागिरत्- त्वत्कारुण्यकलामिव प्रकटयत्येतत् किरीटं तव ॥ ३९॥ अलिजलधरबलभिदुपलतिमिरलघिमकलनसबलकबररुचः । जनदृगगुणपरिहृतिमतिकृतपरिवृति भवति तव नु सुम मकुटम् ॥ ४०॥ श्रीभृद्रुद्धकचं श्रमैकफलदं किं ते किरीटं महत् चित्रं मन्मकुटं शिरस्स्थमपि मे बिभ्रद्भरं भासयत् । सद्गम्यं परमं पदं त्ववति ते प्राचीनमप्युत्तरं सर्वस्मात्परिपूरयत्युरुतराः स्वाशा महद्वर्ण्यते ॥ ४१॥ साक्षिण्याप्ततमा दयां तव गता सर्वार्थविन्माधुरीयुक् श्रुत्यन्तपदाभिरामनिनदा सर्वैस्त्वदीयैस्सह । त्वद्घण्टैव सहस्रधा निकटभाग्ब्रूते जगद्धूर्वहं त्वद्भृन्मन्मकुटप्रसिद्धिमधिकां श्रीवल्लभ श्रूयताम् ॥ ४२॥ शेषत्वेन निरूपितं गुरुवरैस्तच्छेषतामाश्रितैः स्वामित्वं निरुपाधिकं भजदहो निर्दोषमत्स्वत्वभाक् । लक्ष्मीभागधरीकृतं तु भवता लोकानुकूलं पुरा त्वामुद्वास्य तव प्रभुत्वमकरोन्नो वेत्सि किं तत्प्रभो ॥ ४३॥ गावो यत्र निरूप्यमाणविलसद्रूपानुगच्छध्दृदः सोत्कण्ठा विचरन्त्यहो सुमनसां पद्वाऽप्यजानां गवाम् । शीर्षेषु प्रतिभाति निर्मलदृशाम् त्वद्गत्युपायात्मता यस्मिन्नेव विभाति तेन सदृशं लक्ष्मीश किं वर्तते ॥ ४४॥ गेहादेर्मनुजास्त्रिविष्टपसदस्तेषां पयोजासनः तेषां तस्य च वेङ्कटाचलपते श्रीशस्य ते श्रीश पादद्वयम् । यत्तस्यापि हि पादुकामणिमयं संरक्षकं पुंमणिव्याकीर्णं तदनन्यरक्षककथं मां सर्वदा रक्षतु ॥ ४५॥ स्तोत्रं गोत्रापतीनां न कुरु मुख मुधा स्वाय ते ज्ञा यदि स्युः नो जानन्त्युक्तिशक्तिं त्रिचतुरपदधीलोलवाचो यदि स्युः । दुर्वाराखर्वगर्वाः परिभवचतुरास्सिद्धयो यद्यलभ्याः नात्मश्लाघां सहन्ते न तव फललवस्तद्भज श्रीनिवासम् ॥ ४६॥ नो गच्छेः कविते सुते क्षितिपतिं त्वं चन्दनद्रुं धने गन्धे लोलतया ससंशयबुधक्रूराहयस्तत्र हि । अन्योन्यैक्यगलत्कुदूषणविषाः साध्वोषधिस्पर्शतोऽप्येग्रे त्वां बत मारयेयुरचिरात् तत् पत्रिपत्रं भज ॥ ४७॥ बोद्धारोऽपि समिद्धमत्सरतया नाद्धावहित्थाचणाः शुद्धोक्तिष्वविशुद्धबुद्धिजननश्रद्धालुतात्युद्धताः । मद्धीकानपि विद्धयन्ति कविते श्रद्धत्स्व तेमेऽद्धावचोऽ बद्धक्ष्मेशगुणा जगद्धवपदे नद्धा ममृद्धा भव ॥ ४८॥ विद्वद्द्वेषभृतो मुधापदगणाः प्रोच्चैस्स्वरा निस्त्रपाः सङ्केतेन परस्परं स्वविजये साक्षित्वमप्याश्रिताः । सद्बुद्धीनपि वञ्चयन्ति विबुधान् भूपान्तिके नास्तिका विद्यावित्तविघातुका भुवि कृते लक्ष्मीशमेवाश्रय ॥ ४९॥ गौर्गां गवा गवे गोर्गोर्गवि गौर्यस्य पाति यः । वराय पीडकान् व्याप्तान् दत्ते तं श्रीनिधिं भज ॥ ५०॥ वृषाचलेशितुः पदाश्रिताः कुभृन्मुदाऽऽपतत्- फलादिवन्महाफलार्थिनोऽप्यवान्तरं फलम् । अकाङ्क्षितामपि श्रियं प्रयान्ति शेषवृत्तिसत्फला परेरितां महीं पुरेव तस्य पादुका ॥ ५१॥ आराद्वेगादरिष्टं भवति बहुतरं यत्पदाब्जानतानां सव्यौ भागौ यदीयौ निरवधिकरुची चारुभाभ्यां च माभ्याम् । विभ्राजत्पुष्पवद्भापरिहसनचणे यत्कराम्भोजहेती श्रीनाथः श्रेयसी सोऽप्रतिमबलभवासङ्ग्यधीने करोति ॥ ५२॥ वनचर राम पुष्टवरगो द्रुहिणार्यतनो विरचितसूत्रवेदमयकाव्यपुराणतते । परखपयोधिजीवशुभदेशनिवासरते [पर] मयि च वसस्यहो सकृप वत्सल माधिपते ॥ ५३॥ उद्यत्सूनसमीपभाक् परभृता दृष्टं द्वितीयक्षण- प्राप्तामार्दवमिद्धसूनजयकृद्दन्तावलीसङ्गिनः । लक्ष्म्यास्वाद्यरसस्य नित्यमृदुतारुण्यस्य चाटीकते शेषाद्रीश तवाधरस्य किमु भासम्पल्लवं पल्लवम् ॥ ५४॥ गौर्यस्यामरवैरिनाशनपटुस्तत्कर्णनाथाचलो धामैतन्निधिभानुकुञ्चिदलयुग्गेहाविहारास्पदम् । वत्सं तत्पदवैरिहेतिकपटग्राहिच्छिदावर्णितः कामस्तच्छतजित्तनुस्तदितरा श्रीः पातु देवस्स नः ॥ ५५॥ कामो यस्य जगज्जनिस्थितिलयव्यग्रस्तनुस्तच्छतो- त्कृष्टा श्रीरितरा ततो हि हृदयं तन्नित्ययोगोज्वलम् । भोगस्तत्पथदूरवर्तिमहिमा तद्वद्वराद्रिः पदं नित्यं धाम तदेकनम्रसुलभं तद्वान्मुदे सोऽस्तु नः ॥ ५६॥ त्वत्कैङ्कर्यार्थदिव्यामिततनुजननीं श्रीश शक्तिं न कुर्वन् वित्ताशां वर्घयेश्चेत्सुचिरमनुसृतैर्नैकदेश्यैर्धनाढ्यैः । मत्पर्वण्येव दत्तं किमपि परिमितं साम्बु कृच्छाद्ग्रहीतुं बह्वीर्मे पार्थिवीर्वा सपदि दिश तनूर्वैधहैन्येऽपि मान्याः ॥ ५७॥ नागं पुष्करपुष्करहृदगतं नक्रास्यरुद्धाङ्घ्रिकं भ्राजत्पुष्करपुष्करं स्मृतजगन्मूलं त्वरक्षो जवात् । तं त्वां पुष्करपुष्करायितसमोत्कृष्टं मणीन्द्रप्रभा- स्फूर्जत्पुष्कर पुष्करप्रभुमहातल्पाश्रये श्रीनिधे ॥ ५८॥ दीनं मां कमलासमाश्रित नतं त्राहीति वाचं मम श्रुत्वा किं न करोषि सुन्दर शिरःकम्पं समन्दास्मितम् । मद्दीनत्वतमश्छटाप्रतिभटस्फूर्जत्किरीटाग्रणी- प्रत्युप्तोपलफालफल्यचपलामालासमुद्भासितम् ॥ ५९॥ चित्रं रमाधव यशोमुक्ता रन्ध्रोज्झितास्तवानन्तैः परिगुम्फिता गुणौघैः सुदृशां हृदयङ्गमा विभान्ति ॥ ६०॥ अनर्घ्यफलदायके प्रणतिमात्रसाध्ये त्वयि स्थितेऽपि धनकाङ्क्षया चिरमुपास्यमानार्थिनः । मदान्धतदुपेक्षया धनलवं च नोपश्यतो- ऽप्यहो तदुपसेविनी भवति धीर्मम श्रीनिधे ॥ ६१॥ सेच्छं मामवितुं पदे तव सुखे वित्ते च दुःखात्मके त्वं शास्त्रेण दृगादिना च सुगुणं दोषं च मे दर्शयन् । ज्ञात्वाप्यर्थिनिषेविणे विघटयन् लाभं पुनश्चार्थभाक्- काङ्क्षस्योद्धरणाभ्युपायमधिकं श्रीभृद्विभोपश्यसि ॥ ६२॥ शस्त्रक्षाराग्निकर्माण्यतिहितमनसा सूनवे त्वं पितेवान्- अन्त्रे दुःखानि कुर्वन् नृपसुतरचिताकृत्यदण्डागुरूणि । दत्त्वा हेतून् गतेरप्यवसि हिततमं त्वामुपेक्ष्योत्कटाघ- व्याप्त्या दुःखैकभाजो वरकृप सुमतिं देहि मे श्रीनिवास ॥ ६३॥ रूपेणाललितेन मन्दविभवैरखैरनन्यस्थया वृत्त्या चाचलता मया सकमल त्वं सूत्रधारो हरे । रम्यप्राणिसुभूमिके बहुरसैः पूर्णे जगन्नाटके चित्रं हास्यरसं किरस्यलघुभिर्वेद्यं हि सामाजिकैः ॥ ६४॥ चित्ताकर्षिगुणं भुजङ्गजयकृद्दोषं प्रदानस्पृहाद्- ईनारिप्रकाराग्रनर्तितसुगुं भक्तैकसक्ताशयम् । उद्वेल्लत्कनकाचलादरमितं वैकुण्ठगोष्ठ्यस्पृहां सर्वाशानिलयात्मकं नतनिधे त्वत्तुल्यमीक्षस्व माम् ॥ ६५॥ श्रीभृत्पुण्यजनान्निहन्ति तव गौस्तात्रेक्षते मे पुनः त्वं चेज्जिह्मगभोगसङ्गतिरतोऽहं चेत्तपस्वी महान् । अव्यक्तारिदरोऽसि वेद्मि न परं लोकं कुतस्तद्भयं भेदे त्वत्सदसन्मयात्परमसद्रूपस्य साम्यं क्रमे ॥ ६६॥ मद्दोषव्रजमाश्रयव्ययकरं लक्ष्मीधर त्वद्गुण- व्रातं लोकहिते रतं च मनसा जानन् भयाभीतिभाक् । दावव्याप्तमुखद्रुकोटरगतस्वाभीष्टवातापतद्- वर्षत्सन्निहिताम्बुभृद्गणशुकन्यायेन वर्ते हरे ॥ ६७॥ आचक्राम जगन्ति ते पदमिति स्यात्किंवदन्ती मृषा नैवं चेन्मितभावृणोतु मम हृद्भूयोऽपि नैव त्यजत् । स्थाल्यन्धःकणनीतितोऽर्थयुगथो निश्चीयते सा मया सर्वे श्रीभृदवेत्य शक्तिममितां त्वामाश्रयेयुस्ततः ॥ ६८॥ कुल्यायां सगरात्मजैः कररुहैरुत्पादितायां क्वचित् सेतुं किञ्चिदकारयो वनचरैः पूर्वं किलैतत्कियत् । उत्ताराय भवाम्बुधेरपजने रत्नैर्गुणैस्तैर्हरे सेतुं मे प्रतिपाद्य दर्शयसि चेच्छक्तो विनिर्णायसे ॥ ६९॥ अप्रकृतिबद्धमपि सुप्रत्ययमनवद्यमपि लसद्दोषम् । कमलाप्रियमपि कुपतिं गिरिस्थमपि श्रये नियन्तारम् ॥ ७०॥ सुरासुरार्याञ्चितपार्श्वराकाविलक्षणेन्दूपमितं रमेश । एकैकमुक्ताफलकर्णभूषं मुखं मुहुस्ते कुरुते मुदं मे ॥ ७१॥ दुर्वारोग्रमहाघजालयुगसौ किञ्चित् कथञ्चित्क्वचित् कुर्याच्चेच्छरणागतिं कथममुं रक्षिष्य इत्यात्तभीः । अभ्यस्तं शरणागतावनवचः कृत्वाऽभ्रचित्रं गिरौ दुर्गे श्रीश फणीशभृद्विषभिषग्वेषी निगूढोऽसि किम् ॥ ७२॥ गिरिच्छलबिलेशयप्रवरमूर्धनैल्यस्फुरन्- मणिर्नरपतन्मृगक्रिमिदृशां च वीक्ष्यस्सदा । यदीक्षितनतस्पृहः कृतविलम्बनो वर्तसे तदा त्वनृतमद्गिरा समयभाक् त्वमेवाव माम् ॥ ७३॥ भीकरकाञ्चनलोचनघूकदिवाकरमभीरुमनेकम् । नाकपशोकविमोक श्रीकर सूकरविभो नौमि त्वाम् ॥ ७४॥ दुस्त्यजफलीकरण सुश्रीः कनकाद्रिस्थितोऽपि वित्तार्थी । पुरतो निपतितमशरणमनवथिकार्तस्वरं त्यज न मां त्वम् ॥ ७५॥ मा ते स्ताद्रुडदेयतान्तसुम मय्यर्थित्वतस्तज्जगत्- संसर्गान्नतु मत्स्वभावजनितं नायाचथाः किं बलिम् । वित्तार्थी कनकाद्रिभागसि ततो याच्ञानिवृत्त्युज्झितं लोकं मां नय वीतदेहिवचनः स्यां किङ्करस्ते सदा ॥ ७६॥ भक्तैस्स्वार्थपरैरकार्युपकृतिः का वेति तान् रक्षसि त्वद्वात्सल्यदयाक्षमाद्युपचयव्यग्रं परार्थे रतम् । कस्मान्नावसि मामघौघनिरतं स्वीयं प्रभो श्रीनिधे घण्टाकर्णमुखावनादपि यशो मद्रक्षणे स्यान्महत् ॥ ७७॥ श्रीनाथ स्वापहारान्मयि तव रुडभूद्दण्डयस्येतमस्मात् मां त्वत्क्रूरप्रकृत्या स्वविभवपरया प्रेरिता धीर्ममेत्थम् । चक्रे नाहं तदेनां निगलय तु पदे स्वं हृतं ते गृहाण त्वं दूरे मे कुरुष्व प्रकृतिमपि पुनर्नापहारः प्रसीद ॥ ७८॥ रत्नैरितराप्रमेद्यपटुतैस्त्रासादिदोषोज्झितैः शुद्धैः काञ्चनभूषणालिममितामुद्भासयद्भिः परम् । त्वत्सायुज्यमुपागतैस्तव वपुर्हारैर्जरीजृभ्यते विष्णो त्वत्पदमप्रमेयमहिम श्रीनाथ सद्भिर्यथा ॥ ७९॥ सङ्ख्यावद्भिरपि व्यपेतगणनैर्गन्धोज्झितैरप्यलं सामोदैर्विगतोग्रतैरपि मनस्सम्भूतधिक्कारिभिः । शेषाद्रीडसदृग्बलैरपि सदा त्वद्दर्शनप्रोज्ज्वलैः सद्भिस्सेवितमादरात्तव कदा पश्येम पादद्वयम् ॥ ८०॥ हरिणा रिपुकरिणामुरुकरुणावितकरिणा शरणागतिकरणामरतरुणाऽऽदिमगुरुणा । दरिणाऽम्बुजशरणाशरदरुणाम्बुजहरिणा हरिणा कृतभरणा वयमरुणालिजिदरिणा ॥ ८१॥ तुल्योत्कृष्टबिवर्जितो यदि गुणैस्त्वं चेत्तणैः स्वं ते त दन्यैरहं तादृड्मानतमा त्रयी यदि ततः शुद्धस्य मत्सङ्गतः । नावद्यं तव किं भवेदिति पुरा दृष्टं न चेन्मादृशाः किं दृष्टः क्वचनापि तत्कुरु भवच्छुध्यै विदोषं तु माम् ॥ ८२॥ वैकुण्ठे परतैव वैभववती सौशील्यमुख्यास्त्वह- र्दीपास्तद्वृषशैलभाङ्नरमृगव्योमाड्द्रुमाद्यैरपि । सेव्योऽस्यद्य बहुक्षुधस्तव चिरादेते गुणाः प्रस्फुरद्- दर्वारामितपापराशिममितं सम्प्राप्य तुष्यन्तु मे ॥ ८३॥ पददर्शकोरुयोजितहस्ताभ्यां निजपदाब्जनम्राणाम् । भवजलधिरूरुदघ्नः स्यादिति सूचयसि ननु वृषाद्रीश ॥ ८४॥ चञ्चद्दारमरीचिकाविषयदुर्वीरुद्गदव्याघ्रयुक्- क्रुड्दावावृतिभीमसंसृतिवनीदग्धात्मसंजीवनीम् । सारासारभवत्कथारससुधां पीतां सदा कुर्वतां शेषाद्रीश सुधा सुधाऽब्धिजनिता सा शर्करा शर्करा ॥ ८५॥ कान्त त्वन्मतिकान्तिशान्तिकरणप्रकान्तविक्रान्त्यसद्- भ्रान्तिध्वान्तदुरन्तदुष्पथगतिश्रान्तिप्रतान्तान्तरम् । शान्तस्वान्तकृताच्छचिन्तनसुधासिक्तत्वदङ्घ्रिद्वयाः सन्तो मां विनिवेशयन्तु सदमनसि स्वीये कटाक्षेण ते ॥ ८६॥ पाठान्तरम् -- एनःकृन्तनसन्ततोल्बणभवद्वृत्तान्तचिन्तासुधा- सन्तुष्यन्तमिमं कुरु श्रितनिधे श्रकान्त चिन्तापह ॥ ८६॥ किं चामराणि धवलातपवारणानि सिंहासनानि शयनानि पदासनानि । पीताम्बराणि यदि वाऽत्र यथोचितं ते सर्वोपचारकरणानि वृषाचलेश ॥ ८७॥ सिद्धान्तार्थविरुद्धबद्धकुहनाबौद्धप्रबन्धच्छटा- श्रद्धासिद्धदुरध्वबाधितभवन्निर्धारणाधारणम् । मा त्वं मा कुरु मासमाश्रित सुधामाधुर्यमाधुर्यवाग्- गुम्भे त्वद्गुणयुक्प्रबन्धनिकरे सम्बन्धयास्मन्मनः ॥ ८८॥ वक्षो दक्षिणमीक्ष्यतेऽक्षततटिल्लक्ष्म्या हि लक्ष्म्या जगद्- रक्षादक्षकटाक्षयाऽक्षयभवत्स्वातन्त्र्यहृद्वीक्षया । मात्रा मे सतताश्रितं तव ततो मा त्रासमात्राऽसकृद्- गाढप्रेमकृतागसोऽप्यतिशिशोः क्षान्त्येकरक्ष्यस्य मे ॥ ८९॥ अभ्राम्भोजसुखस्सदैव निरयव्राते स्वतन्त्रश्चरन् प्राप्तं मद्ग्रहणेच्छया स्थिरसुखं त्वां मत्पूरे दुःखितम् । रुद्धं चाकरवं परास्ति यति ते शक्तिर्हरे त्वत्पुरे नोभूयश्च्युतिदे निधेहि सुखदे मां श्रीनिधे सद्विधे ॥ ९०॥ रक्षतु लक्ष्मीशो मां रक्षितरक्षोऽनुजादिहितपक्षः । कुक्षिसुनिक्षिप्तजगल्लक्ष्मणमुनिदत्तलक्ष्मसल्लक्ष्यः ॥ ९१॥ शब्दादिदुर्विषयतापकयुग्भवेऽस्मिन् घोरज्वलज्ज्वलनतप्त इवाम्बरीषे । व्रीहि पुराणमपयः पटुतोज्झितं मां कालं कियन्तमभिभर्त्जयसे रमेश ॥ ९२॥ केचित्पुण्यदिनेष्वनल्पयतना जिह्वाग्रमात्रे क्षणं स्वाद्वल्पं गदकृच्च वस्तु समुदो यद्भुञ्जते तत्कियत् । पूर्णा सर्वरसैः समस्तगदभिन्निर्यत्नलभ्यामिता लक्ष्मीनाथकथासमुज्ज्वलसुधा स्वाद्यास्तु मे सर्वदा ॥ ९३॥ सौम्यामेककलां शुचिं च दधतः सर्वज्ञशब्दं गुड- क्ष्माभृच्छब्दमिवावमत्य निपुणो यत्सेवया प्राप्तवान् । निर्दोषाः सकलाः कलाः श्रयति तं शब्दं यथार्थं नमच्- छीर्षालङ्कृतिपादुकोऽस्तु सततं देवस्तुरङ्गाननः ॥ ९४॥ यत्पादामृतमादराच्छिरसि यन्नामामृतं चानने विभ्रत्प्राप शिवत्वमिन्दुमकुटः सर्वज्ञतां चोज्ज्वलाम् । धाता सोमकनीतवेदनिकरः सम्प्राप यस्मात्त्रयीं तं शुभ्रांशुविशुद्धवाहवदनं श्रीवेङ्कटेशं भजे ॥ ९५॥ पूतास्त्वद्वचनाननाः क्षितिरुहः शेषाद्रिशीर्षस्थितान् आरुह्य क्रतवे तवोडु सुमनोबुद्ध्याऽपचिन्वन्त्यहो । तद्बुद्ध्या मुहुरुत्सृजन्ति कुसुमान्युच्चैस्त्वराशालिनः प्रत्यूपेऽद्य भज प्रबोधममलस्फूर्ते रमावल्लभ ॥ ९६॥ सत्तेजांसि सुमानि नन्दनवनादानीय देवाधिपैः त्वत्पादद्वितयेऽर्पितानि सुधियां कुर्वन्त लक्ष्मीपते । त्वत्पूजापरतुङ्गवेङ्कटशिरोरूढद्रुमाग्रश्रित- प्रभ्राजत्सुमबुद्धिभागपचितानीतार्पितोडुभ्रमम् ॥ ९७॥ त्वत्सम्प्राप्तविभूतिरक्षणभरः कारुण्यपूर्णो यति- क्ष्माभृत्त्वत्पदयोः प्रपत्तिमकरोत्स्वीयार्थमप्यादरात् । इत्थं तद्वचने च दर्शितमभूदार्यैस्ततो मामचित्- कल्पं वाऽप्यव वेङ्कटाद्रिधव तत्सम्बन्धतः श्रीनिधे ॥ ९८॥ दैन्योक्तिर्मम सप्तपादविनतिर्जाता तवाग्रे कुतः कारुण्याम्बुनिधे रमेश विदितं नो पूर्णकामान्तिके । स्वान्तं तन्नवनीतकोमलतमं हेतुर्विधोरात्मभू- वह्निप्रोज्ज्वलगोपिकाकुचतटीलग्रं विलीनं क्षणात् ॥ ९९॥ फुल्लाक्षिद्वितयेन ते मयि कथाः श‍ृण्वत्यमर्यादतां श्रुत्यादीनि दृशोर्विलोक्य करणान्यल्पेतरांस्त्वद्गुणान् । शब्दादीनविभागतोऽनुभवितुं वाञ्छन्ति शक्तस्समः त्वं चैवं कुरु मापते विभजनं स्तोकेऽपि दायेऽयुधि ॥ १००॥ भूभृद्भिद्वज्रमाल्यस्फुरदमररिपुस्वामिवक्षोभिदस्ते रेखामात्रेण नम्राः स्मरयुधि नखरा येषु सम्पीडनोत्काः । गोपीवक्षोजशैलेष्वसकृदकरुणोद्घट्टनैस्तैः किणत्वं प्राप्तं गच्छेन्मृदुत्वं हृदयमिह कथं श्रीश मय्याकुलेऽपि ॥ १०१॥ लङ्कायां प्राप्य बन्दीं स्वयममरवधूर्वीतबन्दीर्व्यधाः श्रीः आर्द्रागोराक्षसीश्च प्लवगवरभयादध्यरक्षः कृपार्ता । वन्दीज्ञे कर्मबन्दीविकलमनुकलं सागसं वा त्वदङ्घ्रयो लग्नं कस्मान्न पासि खवशवृषधरे डम्ब मां वत्सलाऽपि ॥ १०२॥ खद्योतभावं भवदीयतेजः प्रद्योतनाग्रे तपनस्समेत्य । खद्योतनाम प्रययौ त्रिलोकीविद्योतमानप्रथ वेङ्कटेश ॥ १०३॥ सत्सङ्घातमहोसहे कुवलयप्रद्वेषिवृत्त्यञ्चिते नित्यं पङ्कजनीष्टकारिणि कदाचित् प्राप्य वा दक्षिणाम् । भूयोऽप्युत्तरयाशया प्रचलिते प्रायो विसर्पत्करे सर्वत्रैव कठोरगौ भयि कथं लक्ष्मीश नो तिष्ठसि ॥ १०४॥ वैकुण्ठादवतीर्य चौर्यनियतं जारत्वमभ्यस्तवान् श्रीश त्वं नवनीतगोपवनिताः स्तोयानुषक्तीः श्रयन् । शब्दादौ विषये चिरान्मम रुचिं पातिव्रतीं बिभ्रतीं हृत्वोत्कां त्वयि चेत्परे तु पुरुषे कुर्याः कृती स्यास्तदा ॥ १०५॥ शेषाद्रौ कुसुमं भवेयमपि तद्यत्स्वल्पमेकं फलं नश्यद्दाग्द्रुमसङ्गतं न जनयल्लूनं करेणादरात् । त्वद्भक्ताय फलान्यदृष्टविलयान्यच्छान्यनेकान्यलं सूते त्वत्पदगन्धकान्तिमृदुताश्चाप्नोति सार्थोदयम् ॥ १०६॥ जेतुं त्वां सजडान्तरस्सनिनदो मेघो वृषाद्रिं गतो नित्यश्रीयुत साचिरद्युतिरिलां कुर्वन् सपङ्कां स्वतः । पङ्कध्वंसक शुद्धसेवित शुचित्यक्तो नभोगस्सुखिन् लज्जाभागशनीद्धतापविकरो मुञ्चत्यहो जीवनम् ॥ १०७॥ समीरणसमीरणश्रितसुधन्यवन्यस्फुरत्- सुमप्रकरतत्परभ्रमरमण्डलीवेष्टितम् । हिमाहिमभयादिवाधवलगाढवस्त्रावृतं विमानमुपमानवाग्रहितमाश्रितं त्वाश्रये ॥ १०८॥ प्रयाति मुखतां विधौ तव कलङ्कहानेच्छया भजालमभिजिद्युतं प्रियवियोगदुःखासहम् । चतुर्युगलमौक्तिकश्रवणभूषणत्वं तथा नखप्रततितामपि स्वयमगाद्रमावल्लभ ॥ १०९॥ मद्रक्षैककृतक्षणेन भवता दत्तेन चित्तादिना सेवायै करणेन साधु गुरुणा गोवालसंछेदनम् । छित्त्यै शिष्य इवैधसः कुचरितं कुर्वेऽतिदुर्वारधीः मामीदृग्गुणमीश रक्षसि कथं शेषाचलाधीश्वर ॥ ११०॥ शाटीभास्वत्कटीत्विट्फणिपतिफणितिं चारुटीकासुकुञ्चीं युष्मत्सर्वस्वपेटीं रुचिरविरचितां शुद्धगोराशिरत्नैः । वित्ताशायत्तचित्ते मयि वरदयया सन्निधे त्वं निधेहि त्वद्वश्योऽवश्यतःस्यां तदनु तव पदं न त्यजेयं भजेयम् ॥ १११॥ प्रयाति मुखतां विधौ तव कलङ्कहानेच्छया प्रियाविरहगूढधीर्भवदुरःस्थिताया गलम् । ननान्दुरिव रागतोऽश्लिषदनर्ध्यभासोज्ज्वला वृषक्षितिभृदीश्वरासितकिरीट तारावलिः ॥ ११२॥ आखेटोत्कं वृषाद्रिप्रभुमतिजवन श्रीशमानीय देवं चारञ्चारं पुरो मे विसदृगुपकृते क्रीतदासत्वमाप्तम् । मां त्वत्पादेऽभिराजद्गुणगण विनतं वीश्वरानन्दयित्वा कर्माजन्याभवस्पृग्वर भज विनतानन्दनाख्यां शुभार्थाम् ॥ ११३॥ कांश्चिद्रक्षसि मां कुतो न कमलेण्णिर्हेतुकारुण्यभाक् सेच्छास्ते यदि मां तथा न कुरुपे कस्मान्न यादृच्छिकम् । पुण्यं मे यदि तत्कुतो न तनुषे चित्कृत्यमेतत्तु चेत् अन्तः किं कुरुपे ह्युदास्स इह चेच्छक्तः समो वा न किम् ॥ ११४॥ अग्रे तेऽपि विवादतत्परममुं किं पातयस्युग्ररुट् दुःखे त्वत्पुर आकुत्र पुरास्थितोऽस्मि सहजं भूयोऽस्तु का मे क्षतिः । कुर्वे साधु विवादमेव यदि वा नित्ये पदे चैद्यवत् घण्टाकर्णवदप्यये क्षिपसि चेत्स्याः सार्थकोपस्तदा ॥ ११५॥ आरान्मङ्गलतुङ्गश‍ृङ्गशशम्भृद्ग्रावस्रवद्वार्निशा- सिद्धासेकमहालवालतरुजैर्नानास्फुरत्सौरभैः । विभ्राजन्मकरन्दकैः सुमरुता विक्षिप्यमाणैः सुमैः आक्रान्तालयमिन्दिरासहचरं वन्दे महानन्ददम् ॥ ११६॥ तिष्ठन् वेङ्कटशैलमूर्ध्नि पुरतः कृत्वा पतङ्गं शुचि- स्तोमेन स्फुरताऽऽवृतो ननु धरन् सव्ये पवित्रं करे वारस्त्रीजननृत्तवीक्षणमपि त्यक्त्वाऽद्वितीयो हरे गोपीजारतया समागतमघं मार्ष्टुं तपस्तप्यसे ॥ ११७॥ शब्दादिप्रवणांस्त्वदङ्घ्रिजलजात् द्वन्द्वं तृणीकुर्वतः पश्यन्तो मनुजान् विसृष्टविषयाःसन्तोऽपि लक्ष्मीपते । प्राप्यप्रापकशोधकाः परिहृतौ भक्तेरपि प्रोत्सुकाः तत्त्वत्पद्युगसद्धनं तृणमिव प्रेक्षन्त इत्यद्भुतम् ॥ ११८॥ शेषाद्रीश्वर मामकं दृढपदं बह्वर्थसन्धायकं गोजालं व्रजवासिनामिव भवद्गीतामृतासारतः । व्यावर्त्यामितदुष्टसत्त्वविषयात् त्वत्सन्निधौ चारयन् रक्ष क्षेमद किञ्चिदान्तरधनं गोपालक स्वीकुरु ॥ ११९॥ आर्यानार्याशयाम्भोभवभवनशिरश्छेदपापोग्रताप- व्यग्रस्योग्रस्य भिक्षां प्रतिदिशमटतः पाणिलग्नं कपालम् । भ्राजत्तेजा व्यधास्त्वं स्फुटितमज यदा पार्श्वरक्तप्रसृत्या पारम्यं रम्य सम्यक्तव जगदवदत्सत्तदैवादिदेव ॥ १२०॥ त्र्यक्षं रक्षकमाहवे विवशयन् रक्ष्यस्य बाणस्य च त्वत्पौत्राय निजात्मजां कलयितुं द्वौ द्वौ समाश्लिष्य च । स्वेशं क्रन्दितुमात्मनोर्ननु दशां त्यक्त्वाऽवशिष्टान् भुजान् छित्वा रक्षकतां त्वदेकनिलयां लक्ष्मीनिवासाकरोः ॥ १२१॥ न जाने श्रीजाने हितमहितमप्याहितमहा- विमोहो मोहोद्यद्विषमविषयासक्तिविवशः । निहन्ताऽहन्ताया भवति न विवेको भवति धीः खपद्मं पद्माङ्घ्री कथमिव लभेयं समगुण ॥ १२२॥ कदा वा शेषाद्रौ तुलितविरजस्वामिसरसी- जले स्नातः पूतो भुवनभवन त्वद्भवनभाक् । अये लक्ष्मीनाथासुरविमथनास्मद्धननिधे प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ १२३॥ कदा वा पङ्कच्छिज्जनयदमृतं निर्मलनख- श्रीया पङ्कोत्पन्नं विषनिलयमब्जं हसदिह । न ते रागं स्वीयं प्रकटयदिवालोहिततया रमेश त्वत्पादद्वितयमज पश्येयमसकृत् ॥ १२४॥ कदा वा दावार्चिःपरिभवभवद्वैभवभव- च्छिदम्भोभृद्दम्भोल्लसनहसनप्रोज्ज्वलतनो । सुसारासाराभाशरणकरुणादृष्टिरमिता प्रसन्नाऽऽसन्नार्ता मयि परिपतेद्वेङ्कटपते ॥ १२५॥ धारकपोषकभोग्यत्वत्कः परमो गुरुर्दयालुर्नः अस्मभ्यं त्वयि रचितन्यासोऽयं तत् सुमाव सम्बन्धात् ॥ १२६॥ अनेकैः स्वै रूपैर्धरति मम रूपाण्यनुदिनं श्रमो भूयानासीदिति फणिपतेस्तानि कृपया । दधन्तीं श्रीभर्तर्निजपृथुकलक्ष्मीमनुपमां शिरोबाहामध्ये वहसि किमु शेषत्वकुतुकी ॥ १२७॥ सुगन्धपरिबन्धुरं सविधसेविनां साम्यदं लसद्विटपसद्भुजं किसलयाभदन्तच्छदम् । अदभ्रमलयं गिरिं श्रितममेयलक्ष्म्याञ्चितं भवन्तमभजन्त किं पटुपटीरबुध्द्योरगाः ॥ १२८॥ त्वां वल्मीकगतं पुराऽतिसुरभे संवेष्टयन्तः फणि- श्रेष्टाः शीर्षभुजावलग्ननिलया गन्धैकवश्यान्तराः । गोक्षीरच्युतवामलूरुकभयप्रत्यक्तवन्तद्भ्यः परे भान्तीमे किमु वेङ्कटाचलपते श्रीवासबाह्वन्तरम् ॥ १२९॥ निर्हेत्वप्रतिषेधमादृगवनं हर्याखुवैर्यर्भक- न्यायाभ्यां न भवत्यथापि शकनाद्रुध्द्वा निपेध्द्रेऽपि मे । षट्पत्कीटनयेन देहि समतां कः किं स्वतन्त्रं वदेत् मर्यादा क्वचिदुज्झिता जयतु वा नित्या विभूतिः परम् ॥ १३०॥ मन्निन्दास्पृहयालुताळुरिह निर्बीजं कृपालुर्भया गुप्तं वाङ्मनसापदं च मदघव्रातं स्वयं कीर्तयन् । आदत्ते समुदग्रमुत्तव च मत्पापापनुत्तिश्रमं के किञ्चित् कुञ्चयति प्रपञ्चजननोदञ्चद्विरिञ्चेडित ॥ १३१॥ रक्ता दृक् स्वगुणेन ते हृदकरोद्रक्तं श्रियः सङ्गतेः त्वद्दृङ्नीलतमा तु रक्तभकरोत् हृत्ते विचित्रं त्विदम् । स्वातन्त्र्यं गुणमग्रहीत्तव ददौ स्वं पारतन्त्र्यं च ते भाग्यं मे पितरेतदत्यघयुजो माता त्वलं वत्सला ॥ १३२॥ रम्यस्यन्दमरन्दबिन्दुसुमनोवृन्दत्वदङ्घ्र्यम्बुज- द्वन्द्वास्कन्दननन्दनीयविभवाः कुन्देन्दुमन्दस्मित । वन्दारुव्रजचन्दिरानन सुधानन्दाश्रुसन्दोहिनः सुस्पन्दाः पवनाः त्वदद्युपवनाद्भूपावनाः वान्त्विति ॥ १३३॥ जीवाः पात्राणि माया विपुलयवनिका सूत्रजालानि कर्म- व्राता मायाविकारा ह्युपकरणपदं यान्ति पेट्यौ पटिष्ठे । श्रीवत्सः कौस्तुभश्वाप्रकृतिपरवशा वीक्षणोत्का नटी श्रीः लीलादीन् सूत्रधारः त्वमखिलभुवनं नाटकस्ते रमेश ॥ १३४॥ सममसममनन्तं मङ्गलं मङ्गलानाम् अमलममलभासा भासयन्तं जगन्ति । हृदयहृदयमुष्णद्योतहृष्यन्नशुष्य- त्कमलकमलनेत्रं स्तोत्रपात्रं करोमि ॥ १३५॥ प्रीतः श्रीश वपुःश्रमेण सुमदे भूरङ्गदासे धन- च्युत्या प्रीततरः सुवर्णसुमुदे तोण्डप्रभौ निर्व्यये । नाथ प्रीततमः कुलालजरठे मृत्सूनदे तत्सुमे प्रीतिस्ते सुलभे ममाद्य सुलभं हृत्पद्ममङ्गीकुरु ॥ १३६॥ नायं शीतकरो जगत्सु विहरत्त्वत्कीर्तिलक्ष्म्याः करे श्वेताब्जं न च लक्ष्म बम्भरकुलं नो कौमुदी तारकाः शीतत्विट्पटवासजातिकुसुमव्राताः सुरस्त्रीकर- क्षिप्तास्तत्तनुसङ्गतास्तदनिशं ते हि भ्रमन्त्यम्बरे ॥ १३७॥ रूपि स्वं गुणमादधाति निकटे स्वच्छेऽन्यरूपास्पदे दृष्टान्तस्फटिके जपासुममिह प्राप्तं विचित्रं महत् । श्यामोऽप्यात्मगुणेन काममतनोः श्यामाः पुरा गोपिकाः रक्ता नन्दतपोविपाकजनने शेषाचलाधीश्वर ॥ १३८॥ ब्रह्माण्डे सरसि स्फुटोडुकुमुदे द्युर्वारि ते मेरुणा क्रीडामण्डपिनीनचन्दिरमिपेणौजोयशस्सम्पदौ । पश्यन्तीष्वमरीष्वपक्ष्मचलनास्वाराद्विसर्पत्करे सान्योन्यग्रहणस्पृहे भ्रममितः शेषाद्रिचूडामणे ॥ १३८॥ नेत्रारुण्यमिषेण वेङ्कटपते युष्मत्स्वरूपादिके सत्त्वासत्त्वदृशोरुपर्यनुसृचलितस्वोद्देश्यभेदं परम् । भूषास्त्रत्वयुतत्वदायुधसमं प्रह्लाददैत्येन्द्रयोः सन्दृष्टं युगपत्प्रदर्शयसि किं सद्रागरुट्त्वं पदम् ॥ १३९॥ रमाऽरुणपयोरुहप्रतिमयत्करैर्लोहिता त्वमप्यधवलोत्पलप्रभवदीक्षणप्रेक्षणैः । गतोऽस्यसिततां ध्रुवं तव तदक्षियुग्मं सदा मयि प्रसरतु प्रभो वृषधराध्रधाराधर ॥ १४०॥ दातृत्वोपकृतिप्रियोक्तिरहितान्नोद्यद्दयान् प्राभव- स्फीतान् दर्शितदन्तपङ्क्ति धनिनः संसेव्यमानान्मया । मन्ये हृद्युपकारकान् धनलवालाभाकुलं मां यतः ते श्रीवेङ्कटशैलनाथ सदयं त्वां स्मारयन्त्यञ्जसा ॥ १४२॥ उष्णानुष्णसहिष्णुरेव विचरन्नुष्णांशुतेजश्वयं भूष्णुं जिष्णुमजं च विष्णुमसुखं मुष्णन्तमर्थिस्थितम् । रैतृष्णामृगतृष्णया परवशो दुष्टाध्वनिष्णातधीः श्रीशं कृष्णरुचिं विहाय नरमाः स्तौम्येष पुष्णात्विति ॥ १४३॥ वृत्तिर्मे न सतीति चेत्तव कुतः सर्वान्नभुक् सा सती भिल्लीशेषफलाद जारनृपते दस्योऽङ्गनाध्वंसक । सूते पापमसौ ममैव यदि तत्किं निग्रहस्ते यदि त्वद्वद्वीक्ष्य तदुज्झितः शिशुमिमं श्रीशाव भां तावकम् ॥ १४४॥ स्वातन्त्र्यप्रबलाघवीक्षणभिया त्वज्जीवयोर्वत्सला श्रीरास्ते रुचिरोरसि प्रतिकलं स्वातन्त्र्यभङ्गात्ततः । वात्सल्यादिगुणा जयन्ति शरणं त्वं भीर्न न क्लिष्टता सौख्यं तूत्कटमित्थमप्यरुचयो न त्वां भजन्ते जडाः ॥ १४५॥ चोरः कोऽपि वृषाचले बत महामायो जरीजृम्भते आराध्यप्रजवप्रसारितगुणाकृष्टाः प्रमोदाञ्चिताः । तत्सात्कृत्य समग्रवञ्चितधिपः स्वं सर्वमन्यानपि स्वं सर्वं तदधीनमेव कुरुतेत्येवं भणत्यन्वहम् ॥ १४६॥ मच्चक्षुःपरिपेयकौस्तुभमणे नावेक्ष्य मत्पातकं रक्षायै हृदये निवेशितममुं मां शोभमानाज्जलिम् मह्यं दर्शयसे भयं मम परं हर्तुं कृपाम्भोनिधे श्रीशेषक्षितिभृन्निवास कमलाशुद्धान्तवक्षःस्थल ॥ १४७॥ स्वप्राणोश्चण्डपत्रोद्दलितनिजपदोद्यद्रजोवैभवेन स्वाक्ष्यास्यभ्राट् स्वनाभिं श्रवणमपि निजं स्वं च कं छादयाद्भिः । भ्राजत्सत्त्वैस्तमोभाविवरणपटुभिर्जन्यसक्तैः स्वकृत्तैः भिन्नाक्षो नस्वगीःस्थैः स्वहृदयशरणं चारुगुर्माः पुनातु ॥ १४८॥ श्रीभृन्मामव चक्षुषोश्च हृदये विन्यस्य मे सर्वदा त्वां वर्ते विशयोऽस्ति ते यदि परित्यक्तेतरप्रत्ययः । त्वत्कारुण्यदृगापतत्तरलसद्धारैकपात्रं तु मां कृत्वा तत्र विलोकयोज्ज्वलमते मा मध्ववाच्यादरः ॥ १४९॥ एह्यत्र मन्येऽद्य हरिष्यसे हृद्वृषाद्रिनाथेन हृतं तदासीत् शब्दादिमेवं विषयं हसद्भिर्नतिर्गृहीता मम सद्भिरस्तु ॥ १५०॥ हृद्वो हरिष्यध्व इतीव मन्ये वृषाद्रिभर्त्रैव हृतं पुरा तत् इति प्रकृष्टान् विषयान् हसद्भिर्नतिर्गृहीता मम सद्भिरतु ॥ १५१॥ शुत्याद्यवगत्याहतवृत्त्या जडमत्या- ऽधृत्याऽधृतिमत्या परवत्या जनतत्या । सत्या चिदुपेत्या क्षितिभृत्यापरवत्याततनित्या प्रीत्या भगवत्याविरभूत्याज्यकुगत्या ॥ १५२॥ श्रीभ्वीट् कुध्रभृदब्रुङुद्भवशिवेट्छक्रादिलेखेड्यप च्छार्ङ्गच्छिन्नरिपुच्छिदिद्धविशिखाच्छन्नच्छविद्विट्छिराः । कार्तार्थ्यान्वहसंस्फुरत्सदघधक्छेषक्षितिध्रक्षयो दद्यात्स्वस्त्यदरी दरीलसदरी नीलस्सनीलस्स नः ॥ १५३॥ तव मुखरुचिमाप्तुं सङ्घशक्त्त्या समाब्जो नखमिषदशवर्ष्मा पादयोस्ते पपात । अथ तद सहमब्जं छादयत् तं सगन्धं स्वयमपि बहुसङ्ख्यं तत्फलार्थं तथाभूत् ॥ १५४॥ श्रयति यस्य वधूर्हृदयं सदा स पुरुषोत्तम इत्यनिशं हरिः । स्वपुरुषोत्तमतामिव बोधयन् हृदयवासिरमः स मुदेऽस्तु नः ॥ १५५॥ स्वांशं स्वामिसरस्यपारकुसुमे नॄणां मुदे कार्तिके द्वादश्यां सितपक्षके प्लवमुपारूढं वृषाद्रीश्वरम् । दृष्ट्वा देवमुदे वियत्सरसि सत्सूनेंऽकदम्भो हरिः सुप्रेम्णोडुपमेत्य नीलरचितां नीलः स सङ्क्रीडते ॥ १५६॥ अघटितघटनापटुता यदि तव बहुलाघमुत्तमानन्दम् । श्रीभृत् कुरु मां नित्यं सेवे त्वां भवति हि स्वलाभस्ते ॥ १५७॥ त्वन्नामानि जपन्तं नित्यं रक्षसि कथं न मां श्रीश । लौकिकशब्दपरोऽहं किं तेऽखिलशब्दवाच्यता नो वा ॥ १५८॥ परं पदमयं स्वह्यतोऽप्यपरमेव वा स्यान्न चेत् परापरविदां वरा वृषगिरीश ते सूरयः । कुतोऽन्यतमवस्तुतामिह चराचरेष्वात्मनाम् अवेक्ष्य तदुपेक्ष्य ते निकटदेहलीत्वं ययुः ॥ १५९॥ वैकुण्ठाद्वृषशैल एव परमो यस्मात्ततोऽत्रागतः तत्रत्यैः सह मोदसे कमलया भान्त्यत्र ते सद्गुणाः । द्योसन्मर्त्यपतत्पशुक्रिमिदृशां गम्योऽत्र पूर्णैनसः दृग्योग्योऽसि ममापि हन्त विमुखाः पश्यन्ति ते स्वामिताम् ॥ १६०॥ नित्ये धाम्नि नमानमक्षमपि नो साक्षी न लिङ्गं क्षमं नित्या गीर्बहुभिः परैरितरथा नीता स्वयं दर्शय । तन्मे विश्वसिमि श्रुताः स्वलु गतायाता भवस्था न चेत् तन्मे दर्शयसे न तद्वृषगिरिः श्रेष्ठः परं श्रीनिधे ॥ १६१॥ पूर्वं त्वं निजधामनी तुलयितुं वैकुण्ठशेषाचलौ रोदःपात्रगतौ विधाय नितरामूर्ध्वोद्गतं लाघवात् उत्सृज्यादिममन्तिमं गुरुतयाऽधःस्थं श्रितोऽस्यादरात् एतद्ज्ञापयितुं तथैव जगतः किं तौ निधत्से सदा ॥ १६२॥ लक्ष्मीलक्ष्म महः परं दधदिदं हैमं विदोषप्रभैः सद्रत्नैः सहितं तमःप्रतिभटं धामाचलात्मोत्तमम् । अत्यर्कानलदीप्रमक्षरपदं विष्णोरिति स्वच्छधी- योगीङ्गीर्विषयः स्वमित्यनुदिनं वक्तीव वीनां रवैः ॥ १६३॥ धाम्न्यस्मिन् बहुलक्षपापि विलद्भूभृन्महाराजते स्रग्लग्रभ्रमरालिधीदतनुभातिश्यामहाराज ते । प्राकारे स्फुरितैर्विमानमणिराड्भासामहा राजते जालैर्ध्वान्तहरैःकृतप्रियलसत्कोकीमहा राजते ॥ १६४॥ त्यक्तवा स्वार्थगणं परार्थघटकः सत्पूरुषः कीर्तितः वात्सल्यादिभवद्गुणातिमहसे सोढ्वापि दुःखव्रजम् । दोषानेव सदा करोऽपि सुखदं पुण्यं न किञ्चित्क्वचित् तस्मात्सत्पुरुषं भवद्धितपरं लक्ष्मीश रक्षस्व माम् ॥ १६५॥ कस्मैचिन्महते प्रसन्नमनसा भूपेन दत्तं वरं ग्रामं तस्य सुतादयोऽप्यनधिका दासाश्च भूपाविदः । लोके भुज्जत एव तद्वदहमप्यज्ञोऽपि तेऽज त्वया पूर्वाचार्यवशीकृतं तव पदं भोक्ष्ये हि तद्दास्यतः ॥ १६६॥ श्रीश त्वन्निकटे पुरार्थितवते मादृक्स्वकीयावली- युक्तस्वस्य शठद्विपे करुणाया त्वं तत्फलं प्रादिशः । बह्वेकत्वनिरूपणोत्कवचना श्रीसूक्तिरस्यादिमा सिद्धोदर्कमिवैतदीयमवदन्मां कास्ति चित्ता मम ॥ १६७॥ कूरेशः स्वपदाश्रिताय हि चतुर्ग्रामाय लब्धैनसे त्वां तस्मिन् विलसत्क्रुधं समुदितक्षान्तिं विधाय स्वयम् । स्वस्मै दत्तमदापयत्फलमतः श्रीश त्वयार्योऽपि मे पूर्णाघाय च दापयिष्यति फलं स्वीयं ममत्वाश्रयः ॥ १६८॥ का कर्मज्ञानभक्तिप्रपदनविरहात् पातकेभ्यश्च भीर्मे स्वाङ्घ्रौ बद्धाज्जलीनामभिनयति हरिर्जानुदघ्नं भवाब्धिम् । उद्दिश्यैनं कदाचित्कथमपि च सकृत्कुत्रचिन्मेऽज्जलिः स्या- दार्योक्तोऽशक्तिबुद्धेरभिमतसुखकृच्छक्तलक्ष्यं परं हि ॥ १६९॥ मन्दो हन्त जनोऽनवद्यसुखदे सङ्कल्पमात्राद्वधू- पुत्राद्यैहिकलोकदायिनि हरेर्नत्येकलभ्ये स्थिरे । हैमे धाम्नि नधीः क्षराल्पसुखदालभ्याधिकानर्थद- स्त्रीहेमायतिकाङ्क्षयात्र बहुधा निचत्वमापद्यते ॥ १७०॥ उत्पूलुत्य त्वरया सुशीलकणो वैकुण्ठतोऽमुं श्रितः चिहं भूधरनिम्नता क्कनु गता सा ते त्वरा वश्यवे । दीनस्यात्यघिनोऽगतेर्मम पुरो न प्रादुरासीः कुतः श्रीभृल्लोकुगुणस्तवापि किमभूद्धीमान्द्यमस्यैनसा ॥ १७१॥ भक्तयङ्गं किमुत प्रपत्तिमिलितो हेत्वन्तरं वा फलं हेतुर्नान्यफलस्य कृत्स्नमपि नो किञ्चित्त्वयैवाज्जलिम् । त्वत्पादेऽरचयं कथाञ्चिदव वा मा वाऽघमग्नं तु मां कुर्वस्यानमतश्चिनत्सि तु करं दीनः करोमीश किम् ॥ १७२॥ विलोक्य मम देशिकं वरभवत्पदैकाश्रयं अकिञ्चनमसद्गतिं बहुलपापमग्नाशयम् । त्वदङ्घ्रिशरणागतिं कथमपीरयन्तं जडं न वीक्ष्य मम दुष्टतां स्वकृतवित्त्वमेवाव माम् ॥ १७३॥ दुःखं मां शरणागतं भजति चेत्क्रन्दामि तद्दर्शिनः तन्न स्याद्यदि ते दयाविरहितः स्यास्तद्भवेत् ते यदि । निर्दोषो न भवेर्द्विधा श्रुतिशतोत्सादस्तथान्यश्रुतेः सिध्येन्नैव किमप्यतः परममुं रक्षाखिलाघव्रजात् ॥ १७४॥ वाचामगोचरमनन्तमनन्यनिष्टं श्रुत्यादिसिद्धमनिशं गुणमण्डलं ते । आच्छाद्यपूर्वमिदमेव ममापि चित्रं अस्यैकदैव हि विरुद्धभयाभये स्तः ॥ १७५॥ कामादिदोषनिवहः परिवर्धते मे जानन्नधीरपि सदा रचयाम्यघानि । दुस्सङ्गतौ रुचिरतोऽनुशयः कदापि नोदेति हन्त कथमीदृगहं तरेयम् ॥ १७६॥ रागं विवर्धय भवच्चरणारविन्दे दोषेषु यत्नमनिशं विफलं कुरुष्व । बालाद्यवद्यपरिहारनयादयुक्तं मा दर्शयार्जय सदा भवदीयसङ्गम् ॥ १७७॥ हातुं नाथ नभोगतां वृषधरावास त्वमासीद्धनः चिह्नं चामृतदत्वमाश्रयविनाभावासहाऽगात् तटित् । अस्थैर्ये विमनाश्च मात्वमिहते वक्षस्यलोलस्थितौ लक्ष्म्यां श्रीश्चपलेति लोकवचनं विद्युन्मयत्वार्थकम् ॥ १७८॥ कांश्चिद्रक्षसि मां कुतो न बहुना पापेन चेत्तत्कृतं मन्दं मामनिवारयन् मयि वसन् दक्षः किलाकारयः । कूपान्तर्निपतन्तमर्भकमलं पश्यन्त्युपेक्षापरा माताऽपातयदेव तत्त्वदुदितं पापं निवर्त्याव माम् ॥ १७९॥ अन्तःस्थो जगतां जनिस्थितिलयान् कुर्वन्नियन्ता स्वराट् दुष्टघ्ने जननादिभाक् स्वमनसा श्रत्यादिमानोऽप्यहम् । न त्वं साक्ष्यवदः प्रमाणमशुभं वाचा किमेवंविधः त्वं चेन्मामव पातकादकपटं त्वां निश्चिनोमीदृशम् ॥ १८०॥ कुर्वे दुःखकराण्यघानि मनसा कस्मादहं वासना- मोहाद्यैरिति चेदमूनि किमु ते वश्यान्यवश्यानि वा । आद्ये तैस्त्वमकारयः स्वकरणैर्वश्यो न दण्ड्योऽस्म्यहं पित्राज्ञारचितस्वमातृनिधनः किं जामदग्न्योऽघभाक् ॥ १८१॥ अन्त्ये यद्यलयानि तानि न सुखं स्यात्कस्यचित्किं त्वया श्रीयन्ते यदि जातुचित्कथमपि श्रीनाथ किं वा त्वया त्वत्तश्चेत्तदवारकः शकनवान्नाकारयोऽघं कुतः मच्चेत्किञ्चिदपेक्षसे न हि भवेः पूर्णस्ततो रक्ष माम् ॥ १८२॥ निर्बीजं मम रक्षणे निखिलचिन्मुक्तिप्रसङ्गो यदि स्यान्नौ का क्षतिरक्षरं तव पदं वर्धेत हीदङ्क्षयात् । लोकोऽयं सकलः सुखैकनिलयः स्याद्वा जनायं विना लीला ते न घटेत चेत्तव कृते दुःखप्रदस्त्वं भवेः ॥ १८३॥ स्वाज्ञाभेदनिजस्वहृत्यपदवीचारस्थिरं प्रायशो दण्डैरप्यनिवृत्तमेव निधनानर्हं स्वकीयं प्रभुः । स्वेच्छाचारनिरोधके दृढतरे धाम्नि स्वके पातय- त्येवम्भूतममुं रमाधव कुतो मा पातयस्यक्षरे ॥ १८४॥ बालं कर्मपिताप्यकार्यशतकं कृत्वाप्यदोषोऽवति त्वं तातोऽनुपधिः स्वराडशरणं दीनं जडं माममुम् । मर्यादामनवप्रमाणगदितामुत्सृज्य वा पासि चेत् का ते हानिरनीदृशेषु भवतात् सा सर्वविच्छीनिधे ॥ १८५॥ मर्यादामवधीर्य चक्रमधरो विप्रात्मजानक्षरं धामारोप्य पुनर्द्विजाय समदास्तस्मात्समानीय तान् । घण्टाकर्णमुखद्विषः समनयो मुक्तिं परां श्रीनिधे सन्त्यन्यानि निदर्शनानि च शतं मय्येव सा पाल्यते ॥ १८६॥ चेतोवाक्तनुकर्मभिः क्षरतमैः कालान्तरे कार्यकृत् कल्प्यं कर्तृगतं स्वतस्त्वकुशलं किञ्चिद् गतं लाघवात् । विद्वत्कारकधर्मतां तदिह ते कोपो हि मद्गोचरः पापं मे त्वदनुग्रहेऽत्र परमे कुत्रैष तिष्ठेद्धरे ॥ १८७॥ कस्मान्नावसि मां हरे मयि गुणो नास्तीति चेत् किं त्वया दोषे सत्यवितुं यथा न निपुणो नैवं गुणे शिक्षितुम् । रक्षारक्षणयोर्गुणागुणगता स्याद्दक्षता तद्भव- न्नाथत्वाय सदोषमस्तगुणमप्येतं प्रभो रक्ष माम् ॥ १८८॥ वीक्ष्य श्रीट् प्रभुतां भयात्तव मुदे भ्रान्त्या नु मुग्धं जनः त्वामाहाखिलवेदिनं स्वमवति स्वार्थार्थमेव स्ववान् । स्वस्य स्वानवने क्षतिः स्वमवितुं स्वं नैव दक्षं त्विति त्वं नो वेत्स्यथ वेत्सि चेत्कथममुं स्वामिन्न मां रक्षसि ॥ १८९॥ नाम्बामम्बेति तातेत्यपितरमपि किं वक्ष्यसिशोऽपि याच्नां दौत्यं वा सारथित्वं गिरिधृतिमवनेरुद्धृतिं वा वनान्ते । सञ्चारं दैत्यरक्षोबहुविधनिधनं दावपानं दयालो मद्रक्षार्थं [करिष्यस्यजित बत कुतो मुग्धवत्तिष्टसि त्वम्] ॥ १९०॥ ॥ इति श्लोकानिमान् सप्त श्रीनिवासगुणाकरे ॥ ॥ श्रीशैलस्तातयाचार्यो व्याख्यया समयोजयत् ॥ ॥ इति श्रीनिवासगुणाकरः ॥ ॥ यावदुपलब्धः ॥ From a telugu book veNkaTeshakAvyakalApa Encoded and proofread by Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : shrIshrInivAsaguNAkara
% File name             : shrInivAsaguNAkara.itx
% itxtitle              : shrInivAsaguNAkara
% engtitle              : shrIshrInivAsaguNAkara
% Category              : vishhnu, venkateshwara, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : venkateshwara
% Texttype              : stotra
% Author                : shrIshailastAtayAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Proofread by          : Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : Venkatesha Kavyakalapa
% Indexextra            : (Venkatesha Kavyakalapa)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org