श्रीनिवासस्तोत्रम्
ॐ
राजोवाच -
दर्शनात्तव गोविन्द नाधिकं वर्तते हरे ।
त्वां वदन्ति सुराध्यक्षं वेदवेद्यं पुरातनम् ॥ १॥
मुनयो मनुजश्रेष्ठाः तच्छ्रुत्वाहमिहागतः ।
स्वामिन्नच्युत गोविन्द पुराणपुरुषोत्तम ॥ २॥
अप्राकृतशरीरोऽसि लीलामानुषविग्रहः ।
त्वामेव सृष्टिकरणे पालने हरणे हरे ॥ ३॥
कारणं प्रकृतिर्योनिं वदन्ति च मनीषिणः ।
जगदेकार्णवं कृत्वा भवानेकत्वमाप्य च ॥ ४॥
जीवकोटिधनं देव जठरे परिपूरयन् ।
क्रीडते रमया सार्धं रमणीयाङ्गविश्रमः ॥ ५॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
त्वन्मुखाद्विप्रनिचयो बाहुभ्यां क्षत्रमण्डलम् ॥ ६॥
ऊरुभ्यामभवन्वैश्याः पद्भ्यां शुद्राः प्रकीर्तिताः ।
प्रभुस्त्वं सर्वलोकानां देवानामपि योगिनाम् ॥ ७॥
अन्तःसृष्टिकरस्त्वं हि बहिः सृष्टिकरो भवान् ।
नमः श्रीवेङ्कटेशाय नमो ब्रह्मोदराय च ॥ ८॥
नमो नाथाय कान्ताय रमायाः पुण्यमूर्तये ।
नमः शान्ताय कृष्णाय नमस्तेऽद्भुतकर्मणे ॥ ९॥
अप्राकृतशरीराय श्रीनिवासाय ते नमः ।
अनन्तमूर्तये नित्यमनन्तशिरसे नमः ॥ १०॥
अनन्तबाहवे श्रीमन्ननन्ताय नमो नमः ।
सरीसृपगिरीशाय परब्रह्मन्नमो नमः ॥ ११॥
पन्नगाचलवासाय परब्रह्म नमो नमः ।
इति स्तुत्वा श्रीनिवासं कमनीयकलेवरम् ॥ १२॥
विरराम महाराज राजेन्द्रो रणकोविदः ।
स्तोत्रेणानेन सुप्रीतस्तोण्डमानकृतेन च ॥ १३॥
सन्तुष्टः प्राह गोविन्दः श्रीमन्तं राजसत्तमम् ॥ १३॥
श्रीनिवास उवाच -
राजन्नलमलं स्तोत्रं कृतं परमपावनम् ।
अनेन स्तवराजेन मामर्चन्ति च ये जनाः ॥ १४॥
तेषां तु मम सालोक्यं भविष्यति न संशयः ।
इति श्रीवेङ्कटाचलमाहात्म्यमन्तर्गतं तोण्डमानकृतं
श्रीनिवासस्तोत्रं सम्पूर्णम् ।
अथवा श्री श्रीनिवासस्तुतिः
NA, PSA Easwaran, Aruna Narayanan