श्रीमत्सुनीतिभागवतम्

श्रीमत्सुनीतिभागवतम्

श्रीकृष्णाय नमः । प्रथमः स्कन्धः । लक्ष्मीसद्दयिते पयोभृदसिते संदत्तसद्वाञ्छिते दोषौघै रहिते गुणैर्विलसिते मुख्यानिलान्तर्गते । सर्वैरप्यजिते सदव्यवहिते नारायणाख्यान्विते ब्रह्माद्यैर्विनुते दृढं मम हिते कृष्णे मनोऽस्त्वच्युते ॥ १॥ निपीय यद्भागवतामृतं सज्जनोऽग्र्यसंसारभयं जहाति । ब्रह्मादिवन्द्यं प्रणमामि वेदव्यासं हरिं मध्वहृदब्जवासम् ॥ २॥ सुदुर्गमैर्दुष्टवचस्तमिश्रैर्निगूहितो भागवतार्थ उच्चैः । प्रकाशितो येन सदुक्तिभाभिः स मध्वभानुर्हरतात्तमो मे ॥ ३॥ प्रबोधयद्वालममि सुमध्वशास्त्रं बुधेन्द्रैरपि दुर्विबोधम् । येनाञ्जसा संविवृतं निषेवे जयप्रदं तं जयतीर्थराजम् ॥ ४॥ आनन्दतीर्थोक्तिमहानखाग्रैर्विदार्य दुर्वादिजनान् धरण्याम् । जहार सन्मार्गगतान्तरायान्स व्यासराट् सिंहवरोऽवतान्माम् ॥ ५॥ रम्या यदीया बहवो निबन्धा अद्यापि लोकस्य हरन्ति हृत्स्थम् । तमो वितन्वन्ति च मङ्गलं मां स पातु जीवोत्तमतीर्थवर्यः ॥ ६॥ गोकर्णसत्क्षेत्रवरेऽनवद्यः श्रीविठ्ठलं कोङ्कणविप्रवन्द्यः । अपूजयद्यो रघुचन्द्रतीर्थः संजुष्टगङ्गादिसमस्ततीर्थः ॥ ७॥ यतीश्वराद्योऽखिललोकहृद्यो विरक्तिभूपः परिभूतदोषः । शास्त्राब्धिचन्द्रो हरिभक्तिसान्द्रो भवेत्प्रसन्नः परमो गुरुर्नः ॥ ८॥ लक्ष्मीशभक्तो बहुधर्मसक्तो विवृद्धसम्पत्परिनाशितापत् । सदातिदान्तः प्रगुणः प्रशान्तः स तिम्मपाख्यः कृतसाधुसख्यः ॥ ९॥ द्विजोऽच्युताराधनतः सुपुत्रं लेभे गुणाढ्यं भुवि सर्वमित्रम् । महाबुधं सागरवेङ्कटेशं सच्छास्त्रविज्ञं तपनप्रकाशम् ॥ १०॥ ब्राह्मण्यमास्थाप्य बुधाः समस्ता येनैव दुस्तर्कभृतो निरस्ताः । आनन्दितः कोङ्कणविप्रसार्थः प्रमोदितः श्रीरघुनाथतीर्थः ॥ ११॥ सद्ब्रह्मसूत्रोत्तमभाष्यटीकाटीका कृता तत्त्वसुकौस्तुभाख्या । धर्मा महाभागवता जनेषु संस्थापिता येन च भूर्युपायैः ॥ १२॥ प्रदर्शितो येन च साधुमार्गस्तिरस्कृतोऽभूद्भुवि दुष्टवर्गः । दत्ता द्विजेभ्यः सकलाश्च विद्या विस्तारिता कीर्तिरथानवद्या ॥ १३॥ येनोपदिष्टं शुभमुत्तमेभ्यः श्रीमध्वशास्त्रं बहुशो जनेभ्यः । व्यर्थं कृतं चैकमपि स्म नाहः प्रसादितः श्रीरमणो नृसिंहः ॥ १४॥ तस्य प्रियायामथ शान्तवाय्यां कोनेरिरामौ तनयौ प्रजातौ । बभूवतू राघवलक्ष्मणौ सन्महानुरागाविव बुद्धिमन्तौ ॥ १५॥ तं सद्गुणं सागरवेङ्कटेशं विपश्चिदाश्चर्यवरं प्रणम्य । ज्येष्ठं च कोनेरिबुधप्रबर्हं सद्वैष्णवाग्र्यानखिलांस्तथैव ॥ १६॥ श्रीकृष्णभक्तानुचरः सलक्ष्मीनारायणप्रेरणयैव रामः । मुदे मुकुन्दस्य च वैष्णवानां सुनीतिसद्भागवतं करोति ॥ १७॥ दयालवः साधुजना गुणज्ञा विमत्सराः सद्गुणशालिनश्च । तुष्यन्तु मे वीक्ष्य कृतिं समस्ताः अहं यथा स्यां नितरां कृतार्थः ॥ १८॥ अज्ञस्य बालस्य कृपास्पदस्य प्रवर्तमानस्य सुदुष्करेऽर्थे । संगृह्णतः स्वल्पपदैः प्रभूतमर्थं च सङ्कोचनिषक्तबुद्धेः ॥ १९॥ नम्रत्वभाजो मम सर्वसन्तो वात्सल्यवन्तोऽन्यगुणेषु तुष्टाः । न्यूनाधिकं काव्यकृतिश्रमज्ञाः किमप्युदारा स्खलनं सहध्वम् ॥ २०॥ सूतोक्तं किल नारदस्तुतमभूद्यत्सत्पदं यः स्वयं व्यासः फल्गुनभीष्मयोः प्रियतमो भक्तेष्टकृद्धर्मजः । प्रोचे यद्गतिमर्जुनो विहरतः खिन्नश्च पार्था ययुः शप्तोऽयं कलिजित्परीक्षिदभजत्कृष्णः स नो रक्षतात् ॥ २१॥ वर्णितं प्रथमे स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ २२॥ ग्राह्या विद्योत्तमा हीनजन्मनोऽपि विमत्सरैः । श्रीमद्भागवतं सूताच्छुश्रुवुः शौनकादयः ॥ २३॥ अदर्श्यमपि संदर्श्यं तत्रैवेच्छाविवृद्धये । शूद्रात्मने हरी रूपं नारदाय न्यदर्शयत् ॥ २४॥ मनस्तुष्टिकरं कार्यशेषं धीमान्न शेषयेत् । चक्रे भागवतं व्यासो नारदोक्तोऽखिलार्थकृत् ॥ २५॥ कृतं परेण यत्कर्म कार्या तदुचिता क्रिया । ब्रह्मास्त्रे द्रौणिनोत्सृष्टे तन्मुमोच धनञ्जयः ॥ २६॥ द्विजस्याकार्मणः कार्यो निग्रहो हननं विना । मणिं कृष्णोदितो द्रौणेर्हृतवान्न शिरोऽर्जुनः ॥ २७॥ न भवेन्महतोऽप्युक्तौ विश्रम्भः पक्षपातिनः । प्रबोधितोऽपि कृष्णाद्यैर्भीष्मं पप्रच्छ धर्मराट् ॥ २८॥ वाञ्छितादधिकं पुण्यकृतोऽभीष्टं प्रसिध्यति । भीष्मस्यासीत्पुरः कृष्णो मुमूर्षोरुत्तरायणे ॥ २९॥ खेदे प्राप्तेऽपि नो मोच्यमश्रु कर्मणि मङ्गले । कृष्णे निर्याति नेत्राम्बु न्यरुन्धन् पाण्डवस्त्रियः ॥ ३०॥ ज्येष्ठमध्यमनीचाश्च माननीया यथोचितम् । स्त्रियः प्रजाश्च पित्रादीन्भगवान्सममानयत् ॥ ३१॥ स्थितिज्ञः स्वोचितं कुर्यात्स्वबुद्ध्या वान्यचोदितः । धृतराष्ट्रः सभार्योऽगाद्वनं विदुरबोधितः ॥ ३२॥ क्लेशो न कार्यः श्रीविष्णुवशत्वात्संपदापदोः । पित्रादिशोकं तत्याज धर्मजो नारदोदितः ॥ ३३॥ निमित्तैरेव धीमद्भिर्भविष्यदवगम्यते । दृष्टोत्पातोऽवदद्भीमं धर्मराड्भगवद्गतिम् ॥ ३४॥ व्यर्थेशबलहीनस्य बहुसाधनता मता । गाण्डीवाद्यर्जुनस्यासीत्कृष्णस्त्रीरक्षणे वृथा ॥ ३५॥ यस्मिन् देशे न सुहृदो न मित्रं तत्र नो वसेत् । श्रुत्वार्जुनोक्तां कृष्णस्वधामाप्तिं पाण्डवा ययुः ॥ ३६॥ दुष्ट उत्तमवेषोऽपि सतामातनुते व्यथाम् । पीडयामास गोयुग्मं कलिर्नृपतिलाञ्छनः ॥ ३७॥ रक्ष्यः पूर्वमनम्रोऽपि खलोऽपि पतितः पदोः । कलयेऽदाद्वधोद्युक्तः परीक्षित्स्थानपञ्चकम् ॥ ३८॥ श्रान्तोऽतिक्षुधितो वेत्ति स्वयोग्यं न विवेक्यपि । मुनेरंसे मृतं सर्पं परीक्षिन्निदधे रुषा ॥ ३९॥ त्यज गर्वं जय क्रोधं हितं ब्रूहि भज क्षमाम् । दत्तशापं सुतं राज्ञे प्रणिनिन्द मुनिः क्षमी ॥ ४०॥ प्रत्यासन्ने मृतेः काले विहायान्यद्धरिं भजेत् । श्रुतशापोऽच्युतं भेजे परीक्षिन्मुनिसम्मतः ॥ ४१॥ ब्रवीति चतुरः पृष्टः सन्नेवादरतः परैः । पृष्टः परीक्षिता राज्ञा श्रीशुकः प्रत्यभाषत ॥ ४२॥ लक्ष्मीशोरुमातेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते सच्छ्लोकैर्दशभिर्लसन्द्विगुणितैः स्कन्धोऽन्तमाद्योऽगमत् ॥ ४३॥ इति सुनीतिभागवते प्रथमस्कन्धः समाप्तः ॥
द्वितीयः स्कन्धः । संप्रोक्ता च शुकेन वाञ्छितकरी यद्धारणोचेऽब्जजो यद्वीर्यं च यदीरिताः प्रससृजुर्ब्रह्माण्डमग्र्यं सुराः । यः सद्बह्ववतारभागसुरहृत्संप्राप्य बोधं विधि- र्यस्मात्सर्वजगत्ससर्ज हितकृत्कृष्णः स नो रक्षतात् ॥ १॥ ब्रह्मादिप्रणुते विचित्रचरिते विज्ञानदानोद्यते सद्रक्षानिरते गुणौघभरिते निःशेषदोषोज्झिते । व्यासे वागमृतेऽनिशं प्रमुदिते श्रीमध्वहृत्संस्थिते भक्तिर्मेऽत्युचिते सदाप्रतिहते स्यात्सत्यवत्याः सुते ॥ २॥ द्वितीये वर्णितं स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ क्षिप्रं प्रवृत्तये ब्रूयात् पण्डितः फलनिश्चयम् । जगाद धारणां धातृस्मृतिलब्धिकरी शुकः ॥ ४॥ स्वयोग्यतानुसारेण प्रवर्तन्ते मनीषिणः । केचिद्भजन्ति वैराजं हृत्स्थं रूपं हरेः परे ॥ ५॥ परिपृच्छेदविज्ञातमहङ्कारसमुज्झितः । स्वाज्ञातं नारदस्तत्त्वमपृच्छच्चतुराननम् ॥ ६॥ कार्यं कर्तुमशक्तोऽपि शक्नुयाच्छ्रेष्ठचोदितः । ब्रह्माण्डं ससृजुर्विष्णुप्रेरिताः संहताः सुराः ॥ ७॥ दुष्टान् जहि सतो रक्ष सन्मार्गमनुदर्शय । वराहाद्यवतारोऽभूदेतदर्थं जनार्दनः ॥ ८॥ साधने सत्यपि ज्ञानं विना कार्यं न सिध्यति । जगत्कृतिदृशे ब्रह्मा हर्यादिष्टस्तपोऽचरत् ॥ ९॥ न तुष्यति मनः कस्य परमाद्भुतदर्शने । स्वलोकसंस्थितं वेष्णुं दृष्ट्वा तुष्टोऽनमद्विभुः ॥ १०॥ किमलभ्यं भवेत्पुंसः सुप्रसन्ने महात्मनि । प्रीतात्सकलविज्ञानं स्वयम्भूः प्राप्तवान् हरेः ॥ ११॥ समस्तमपि कुर्वीत स्वाम्यनुग्रहभाङ्नरः । ससर्ज निखिलं वेधा हरिणेक्षाप्रचोदितः ॥ १२॥ सम्यक् परहितं सन्तः कुर्वन्त्येवाप्यनर्थिताः । ब्रह्माचरच्च भद्रार्थं प्रजानां नियमान्यमान् ॥ १३॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते सच्छ्लोकैर्दशभिर्वरो विलसितः स्कन्धो द्वितीयोऽगमत् ॥ १४॥ इति सुनीतिभागवते द्वितीयस्कन्धः समाप्तः ॥
तृतीयः स्कन्धः । मैत्रेयो निजगाद यात्परकथा ब्रह्मासृजच्चोदितो येनाशेषमथासुरं समवधीद्योऽभूद्धिरण्याक्षहृत् । भक्ताभीप्सितदो वराहतनुभाग्यः कर्दमस्येष्टकृत् साक्षाद्यः कपिलो हितं ह्यकथयत्कृष्णः स नो रक्षतात् ॥ १॥ लक्ष्मीशं भजते जगद्भयहृते द्वैपायनाज्ञाधृते मोहं नाशयतेऽसुरान् विजयते सच्छास्त्रमातन्वते । साधूनुद्धरते प्रधानमरुते मध्वाख्यया राजते गीर्वाणेष्टकृते नमो गुणवते तस्मै सदा श्रीमते ॥ २॥ तृतीये वर्णितं स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ हितमप्युपदेष्टव्यं न मूर्खेभ्यो विशारदैः । चकार विदुरस्तीर्थयात्रां भ्रातृजधिक्कृतः ॥ ४॥ न कार्योऽपरिहार्येऽर्थे शोको विज्ञानशालिभिः । श्रुत्वोद्धवात्सुहृन्नाशं नातनोद्विदुरः शुचम् ॥ ५॥ प्राप्तं विद्यार्थिनं शान्तं श्रेयोऽर्थी न परित्यजेत् । मैत्रेयो माधवादिष्टो विदुरं प्रत्यबोधयत् ॥ ६॥ अज्ञानं सम्भवत्येव कदाचिन्महतामपि । नात्मानमपि नाभ्यब्जजातो विधिरबुध्यत ॥ ७॥ महानपि विना सेवामभीष्टं न ददात्यहो । ज्ञानार्थं प्रणुतो विष्णुर्ब्रह्मणे तप आदिशत् ॥ ८॥ कृतेऽनिष्टकृतां मूलोन्मूलने स्वेष्टभाग्भवेत् । पीत्वा सहाम्भसा वायुं धाता लोकान् विभक्तवान् ॥ ९॥ बालस्य रोदनादन्यद्बलं नास्तीष्टसाधनम् । नामानि ब्रह्मणो रुद्रः स्थानानप्याप्तवान् रुदन् ॥ १०॥ अचीर्णतपसा पुंसा प्रजा साध्वी न लभ्यते । रुद्रसृष्टां प्रजामुग्रां वीक्ष्यादिशदजस्तपः ॥ ११॥ आचरन्ति महीयांसः कर्म दुष्टविमोहकम् । इच्छन्निव विधिर्वाचं तत्याज तनयोक्तितः ॥ १२॥ यतेत पितृशुश्रूषाकृतयेऽनुक्त आत्मजः । प्रजावनाय चादिष्टो विधात्राऽऽनन्दितो मनुः ॥ १३॥ कुर्यादतिप्रियस्येष्टं प्रागेव वचसार्थनात् । वराहो ब्रह्मनासोत्थोऽसुरं हत्वा क्षितिं न्यधात् ॥ १४॥ तावद्विनीतो लज्जावाञ्जनो यावन्न कामुकः । कश्यपस्याहरद्वासः सन्ध्यायां रतये दितिः ॥ १५॥ अकालचरितं कर्म महानर्थफलप्रदम् । दुष्पुत्रौ भाविनौ प्रोचे कश्यपो रतिकृद्दितिम् ॥ १६॥ विनाशकाले सम्प्राप्ते विपरीता मतिर्भवेत् । जयेन विजयेनापि संरुद्धाः सनकादयः ॥ १७॥ सर्वैरप्यनुमन्तव्यं प्रभोरनुमतं हि यत् । भृत्यशापविमोक्षोऽभूद्विष्णूक्तोऽनुमतो द्विजैः ॥ १८॥ धीमानवगते कार्यतत्त्वे न लभते भयम् । दितिगर्भाद्भियं देवा मुमुचुः कञ्जजोदिताः ॥ १९॥ रक्षन् कालानुसारी स्वं गणयेन्न पराभवम् । निलीना निर्जराः प्रेक्ष्य हिरण्याक्षं रणोद्यतम् ॥ २०॥ इच्छन्ति कलहं दुष्टाः शान्तिमिच्छन्ति सज्जनाः । वरुणो हरिमेवोचे हिरण्याक्षस्य युद्धदम् ॥ २१॥ दुरुक्तिवादो मायायां न स्याद्गर्वार्तिकारकः । हिरण्याक्षो वराहेण ब्रह्मोक्तेन विनाशितः ॥ २२॥ अज्ञात्वा कुर्वतेऽनिष्टं स्वस्वरूपं निवेदयत् । ब्रह्मणा बोधिता जग्धुं प्रवृत्ता यक्षराक्षसाः ॥ २३॥ तदेव विसृजेत्स्वस्य यदर्थं स्यात्पराभवः । विससर्ज विधिर्विष्णुप्रोक्तो जघनविग्रहम् ॥ २४॥ स्यादत्याराधनात्प्राप्यं प्रार्थितादधिकं प्रियम् । दयितार्थी तपःप्रीतात्प्रापेष्टं कर्दमो हरेः ॥ २५॥ प्रीणयेत्स्वान्तिकं प्राप्तं पूजया वचनैरपि । मनोः स्वायंभुवस्यैवं कर्दमः प्रीतिमावहत् ॥ २६॥ प्रार्थितः सन्नवाप्नोति स्वाभीष्टं सुकृती नरः । देवहूतिं मुनिर्लेभे कर्दमो मनुनार्थितः ॥ २७॥ स्यान्नोपस्करणत्यक्तमिष्टमप्यतिहर्षदम् । देवहूतिर्धवे तुष्ट ऐच्छद्रतिगृहदिकम् ॥ २८॥ सिद्धिर्मनोरथादेव क्षणेन स्यान्महीयसाम् । कर्दमो नवरूपः सन् विमानेऽरमत स्त्रिया ॥ २९॥ निजेप्सितं निरुध्यापि कुर्यात्स्वजनवाञ्छितम् । भार्यार्थितः सुते जाते तनयाः कर्दमो ददौ ॥ ३०॥ अवाप्य बृहतोऽनुज्ञां कृतं कार्यं शुभप्रदम् । सद्गतिं कपिलाज्ञप्तः परिव्राट् प्राप कर्दमः ॥ ३१॥ समस्तैः प्रभुणा हीनैः कार्यं कर्तुं न शक्यते । नोदतिष्ठद्विराड्वह्निपूर्वेष्वनुगतेष्वपि ॥ ३२॥ सन्मार्ग एव लोकानामच्छिन्नसुखसाधनम् । कपिलोदितमार्गेण हरिं प्राप मनोः सुता ॥ ३३॥ लक्ष्मीशोरुमतेर्लसद्गुणतते सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते सच्छ्लोकैर्दशभिर्लसस्त्रिगुणितं स्कन्धस्तृतीयोऽगमत् ॥ ३४॥ इति सुनीतिभागवते तृतीयस्कन्धः समाप्तः ॥
चतुर्थः स्कन्धः । अत्रेर्दक्षसुयज्ञनाशनकृतो रुद्रस्य सर्वार्चित- श्चक्रे यश्च मुदं ध्रुवाय परमं प्रीतः पदं यो ददौ । अङ्गस्यापि पृथोरभीष्टमकरोद्योऽभूत्प्रचेताः प्रियो मुक्तो यत्कृपया पुरञ्जननृपः कृष्णः स नो रक्षतात् ॥ १॥ श्रीविष्णुं नमते प्रियं विदधते ग्रन्थान् बहून् कुर्वते मध्वोक्तिं स्तुवते खलान्नमयते धैर्यं महाभूभृते । संभग्नद्विषते सते भगवते साधून् जनान् रक्षते नित्यं श्रीजयतीर्थराण्मुनियते तुभ्यं नमो धीमते ॥ २॥ चतुर्थे वर्णितं स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ महोद्योगेन सिध्यन्ति कार्याण्यतिमहान्त्यपि । चन्द्रं दुर्वाससं दत्तं लेभेऽत्रिस्तपसा सुतान् ॥ ४॥ अवमानं करोत्येव स्वावमोऽप्यवमानितः । दक्षो रुरोध रुद्रस्य यज्ञभागमनुत्थितेः ॥ ५॥ एकदा नारभेतैव विद्वेषं बहुभिः सह । नन्दिशप्तेषु विप्रेषु सदक्षेष्वशपद्भृगुः ॥ ६॥ न शुभं वाशुभं कुर्यात्पत्नी भर्त्रा निवारिता । साती गता मखस्थानं दक्षेणानादृताभवत् ॥ ७॥ प्राणानप्युत्सृजेन्नैव श‍ृणुयाच्छ्रेष्ठनिन्दनम् । रुद्रावज्ञाकरं दक्षं सती वीक्ष्य जहावसून् ॥ ८॥ कुर्यादुपद्रवप्राप्तौ ज्ञातायां तत्प्रतिक्रियाम् । ऋभुभिर्भृगुरीशस्य पार्षदान् संन्यवारयत् ॥ ९॥ संप्रेष्यो विषमे कार्ये समर्थः स्वसमो भटः । दक्षयज्ञक्षयायेशो वीरभद्रं समादिशत् ॥ १०॥ श्रेष्ठावज्ञाकृतः पुंसो नानुकूलो भवेद्बुधः । भगोऽदृग्भृगुरश्मश्रुः पूषा दन्तोज्झितोऽभवत् ॥ ११॥ पुनर्यथैव नोत्तिष्ठेद्धन्याद्युक्त्या तथा रिपुम् । दक्षिणाग्नौ जुहावेशश्छित्वा दक्षपशोः शिरः ॥ १२॥ अपकारिषु रुष्टस्य साम्ना संनाशयेद्रुषम् । देवैर्निवेदितो ब्रह्मा रुद्रस्याशमयत्क्रुधम् ॥ १३॥ पूर्वस्थितिं प्रपन्नोऽपि प्रापयेन्नापराधिनः । पूषादीनां स्वनिर्वाहं चक्रेऽन्यावयवैः शिवः ॥ १४॥ संदृष्टः पूर्वपुण्येन पूजनीयोऽखिलैः पृथक् । प्रादुर्भूतं हरिं दक्षयज्ञे सर्वे प्रतुष्टुवुः ॥ १५॥ कार्याकार्ये न जानाति कान्तया विजितः पुमान् । सुरुच्याक्षिप्त उत्तानपादेनोपेक्षितो ध्रुवः ॥ १६॥ कोपितो दुष्करमपि कुर्यात्खिन्नोऽन्यबोधितः । अगमत्तपसे बालः सुनीत्या प्रेरितो ध्रुवः ॥ १७॥ परीक्ष्य मानसं सम्यक्पश्चात्कार्यविधिं वदेत् । नारदः सुस्थिरं मत्व ध्रुवमूचे तपोविधिम् ॥ १८॥ महात्माङ्गीकृतं सर्वलोकानां दुस्त्यजं भवेत् । ध्रुवेण स्वीकृते प्राणरोधे विश्वस्य सोऽभवत् ॥ १९॥ शीघ्रां सन्तुष्टिमभ्येति शिशुनाऽऽराधितः पुमान् । वरं स्थानं ध्रुवायादाद्वासुदेवो सुरार्थितः ॥ २०॥ कृतापराधा हन्तव्या बहवोऽपि महाश्रयाः । हतोत्तमा ध्रुवेणाजौ धनदानुचरा हताः ॥ २१॥ निर्वैरो विगतक्रोधो महतां मानदो भवेत् । ध्रुवो मनूक्तिभिः शान्तः कुबेराद्वरमग्रहीत् ॥ २२॥ आत्मनो हितकर्तारं कार्ये जाते न विस्मरेत् । स्थानं ध्रुवो विमानेन गच्छन् मातरमस्मरत् ॥ २३॥ विहीनः सदपत्येन धर्मात्मापि विनिन्द्यते । अश्वमेधेऽङ्गराजस्य देवा न जगृहुर्हविः ॥ २४॥ दुष्टसङ्गतितो रक्ष्या बाल्ये बाला शुभार्थिभिः । लब्ध इष्ट्वा हरिं वेनो मृत्युसङ्गादधर्म्यभूत् ॥ २५॥ सुत उल्लङ्घितस्वाज्ञे गच्छेद्देशान्तरं पिता । त्यक्ताज्ञेऽङ्गः शठे वेने सर्वान् हित्वा ययौ निशि ॥ २६॥ हन्यात्स्ववर्धितमपि दुष्टमुत्पथगामिनम् । निजघ्नुर्मुनयो वेनं स्वाभिषिक्तं कृतागसम् ॥ २७॥ गुणा एव प्रपूज्यन्ते महत्वं वयसा वृथा । वेनाङ्गात्प्रागभूज्जातो निषादो भूपतिः पृथुः ॥ २८॥ महतः सन्निधानेन मानयन्त्यखिला जनाः । अभिषिक्ताय वर्मादि ब्रह्माद्या पृथवे ददुः ॥ २९॥ लज्जामवाप्य गुणिना निन्दनीयात्मनः स्तुतिः । सूताद्या पृथुराजेन स्वस्तोत्राद्विनिवारिताः ॥ ३०॥ परोपजीवनायैव वर्धयेदात्मसम्पदः । प्रजान्नार्थं पृथुर्भीतां प्रणतां प्रदुदोह गाम् ॥ ३१॥ सुखं न लभते कोऽपि धर्मविघ्नकरः पुमान् । पृथुवाजिहरं शक्रमृत्विजो होतुमुद्यताः ॥ ३२॥ नाचरेद्धर्ममप्यग्र्यं महतां कीर्तिनाशकम् । वारितोऽभूद्विरिञ्चेन यज्ञः शततमः पृथोः ॥ ३३॥ प्रभुणा परिहर्तव्यो द्वेष आत्मीययोर्मिथः । अनुशास्य पृथुं चक्रे शचीपतिसखं हरिः ॥ ३४॥ निःशेषं कथयेत्पृष्टं भक्त्या संप्रार्थितः सता । पृथुं सनत्कुमारो हि क्षेमोपायं भवेऽब्रवीत् ॥ ३५॥ अनुगम्यः पतिः पत्न्या श्रीमान्निःस्वो मृतोऽपि वा । अर्चिर्बभूव देवीभिः संस्तुतानुगता पृथुम् ॥ ३६॥ सज्जनस्य हितोपायं कृपालुः कथयेत्स्वयम् । हरः प्रचेतसो बर्हिष्मदाख्यं चाह नारदः ॥ ३७॥ बहुव्यापारसक्तेन कालवेगो न बुध्यते । सक्तः प्रियारतौ कालं बुबुधे न पुरञ्जनः ॥ ३८॥ स्वोदितास्वीकृतो दुष्टा दुरुक्तिं श्रावयन्ति हि । स्वयाज्ञाविमुखं मूढा नारदं दुर्भगाशपत् ॥ ३९॥ कुटुम्बी दुर्बलो ह्यन्ते बहून् क्लेशानवाप्नुयात् । तापं पुरञ्जनः प्राप गन्धर्वादिभिरर्दितः ॥ ४०॥ न हिंस्याः प्राणिनः कार्या विषयातिरतिर्न च । निरये पशुभिश्छिन्नो वैदर्भ्यासीत्पुरञ्जनः ॥ ४१॥ संपद्येव जनः सर्वो हितकृन्मित्रमापदि । शोकं नाशितवान् पूर्वो वैदर्भ्या ब्राह्मणः सखा ॥ ४२॥ प्रीणयेदतियत्नेन महान्तं निखिलार्थदम् । हरिप्रीतिकृतः प्रापुः सर्वाः सिद्धीः प्रचेतसः ॥ ४३॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते स्कन्धोऽगाद्धि चतुर्गुणैश्च दशभिः श्लोकैश्चतुर्थो लसन् ॥ ४४॥ इति श्रीसुनीतिभागवते चतुर्थः स्कन्धः समाप्तः ॥
पञ्चमः स्कन्धः । साम्राज्यं समगात्प्रियव्रतनृपश्चाग्नीध्रराण्नाभिराट् यत्पादाब्जरतः स्वयं य ऋषभो धर्मानथादर्शयत् । यद्भक्तो भरतो गयश्च सुयशा यः सर्वलोकस्थितैः पूज्यो यद्विमुखाः पतन्ति नरके कृष्णः स नो रक्षतात् ॥ १॥ सद्धर्मे सुमतेर्ययातिनृपतेराराधितश्रीपतेः सत्ये शैलपतेर्जये रातिपतेः साक्षाच्च गौरीपतेः । दानेऽङ्गाधिपते रिपौ पितृपतेर्वाण्या च वाचस्पतेः श्रीमद्व्यासयते दयास्तु मयि ते पूर्णा क्षमायां क्षितेः ॥ २॥ वर्णितं पञ्चमे स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ नाश्रयेद्धर्ममन्यस्य विहायोचितमात्मनः । प्रियव्रतस्य संन्यासं ब्रह्माऽऽगत्य न्यवारयत् ॥ ४॥ कार्यमत्यद्भुतं कर्म स्वप्रभावप्रकाशकम् । चक्रे प्रियव्रतः सप्तसमुद्रंश्चक्रनेमिभिः ॥ ५॥ प्रयस्येन्न बुधः सत्सु परेष्वात्मार्थकारिषु । भूमिं विभज्य पुत्रेभ्यः संन्यास्यासीत्प्रियव्रतः ॥ ६॥ योगिनोऽपि विमोहः स्यात्कामिनीमुखदर्शने । संप्रार्थ्य भेज आग्नीध्रः पूर्वचित्तिं विमूढधीः ॥ ७॥ कामी देहं विनाश्यापि लब्धुमिच्छति सुन्दरीम् । अयजद्धरिमाग्नीध्रः प्रियासालोक्यसिद्धये ॥ ८॥ श्रद्धावान् शुद्धभावेन कर्म स्वोचितमाचरेत् । मुकुन्दो यजतो नाभेः प्रसन्नः पुत्रतामगात् ॥ ९॥ अदातुः स्पर्धया स्वेष्टं चेच्छेत्तत्साधयेत्स्वयम् । स्ववर्षं ऋषभोऽवृष्टावभ्यवर्षीत्स्वशक्तितः ॥ १०॥ शिक्षणयाः सुताः पित्रा स्वयं संशिक्षिता अपि । अनुशिष्टान् स्वतनयानृषभः समशिक्षयत् ॥ ११॥ आचरेदुत्तमान् धार्मान् शिक्षयन् सज्जनान् महान् । ऋषभो मुनिशिक्षार्थमवधूत इवाचरत् ॥ १२॥ महात्युल्लङ्घितेऽप्यल्पमलङ्घ्यं दैवतो भवेत् । भरतस्य विरक्तस्य दुस्त्यजोऽभून्मृगार्भकः ॥ १३॥ पुनः कुर्यान्न दुष्कर्म फले ज्ञातेऽनुतापवान् । अत्यजद्भरतोऽसङ्गः सङ्गाप्तं मृगविग्रहम् ॥ १४॥ व्यर्थायासनिवृत्यर्थं स्वस्याज्ञत्वं प्रकाशयेत् । विप्रजन्मात्मनो जाड्यं भरतः समदर्शयत् ॥ १५॥ कृतसाधुवधोद्योगः स्वयमेव विनश्यति । हन्तुकामा द्विजं भद्रकाल्या हि वृषला हताः ॥ १६॥ अपराधमपि श्रेष्ठं सहेताज्ञानिना कृतम् । उवाह शिबिकां राज्ञो गृहीतो भरतो द्विजः ॥ १७॥ परस्वरूपं विज्ञेयं वचनादेव नाकृतेः । स्वभर्त्सितं द्विजं जानन्ननामोक्ते रहूगणः ॥ १८॥ विधायानुग्रहं विद्वानज्ञं सम्यक्प्रबोधयत् । विप्रो रहूगणं भूपं बोधयामास सूक्तिभिः ॥ १९॥ सत्सेवाभक्तिधर्मश्रीज्ञानोपशमभाग्भवेत् । गयो नाम महाराजः सर्वेष्वप्रतिमोऽभवत् ॥ २०॥ प्राप्यं बहुभिराकारैर्बहुस्थानेषु पूजनम् । नानाकृतिर्हरिः सर्वैर्नानास्थानेषु पूज्यते ॥ २१॥ गुर्वप्यत्यन्तमन्यस्य नैव स्यान्महतो गुरु । शेषस्य शिरसि क्षोणीमण्डलं सर्षपायते ॥ २२॥ सर्वभूतसुहृद्दान्तः सदाचारी सदा भवेत् । नरकेषु यमः पापान्निपातयति निर्दयः ॥ २३॥ लक्श्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते सच्छ्लोकैर्दशभिर्लसन् द्विगुणितैः स्कन्धोऽगमत्पञ्चमः ॥ २४॥ इति श्रीसुनीतिभागवते पञ्चमः स्कन्धः समाप्तः ॥
षष्ठः स्कन्धः । यत्सेवाकृदजामिलो जयमगाद्धर्यश्वमुख्यास्तथा श्रीनारायणवर्म वज्र्यधिगतः सद्विश्वरूपोदितम् । वृत्रं स न्यवधीत्सुसिद्धिमगमद्राट् चित्रकेतुर्दिते- र्गर्भं प्राणहरं चकर्त मघवा कृष्णः स नो रक्षतात् ॥ १॥ श्रीशार्चाधिकृतेः कृतात्युपकृतेराचीर्णसत्सत्कृतेः संशुद्धप्रकृतेरचित्तविकृतेः पादौ सुसौम्याकृतेः श्रीजीवोत्तमसंयमिप्रवर ते नौमीप्सिताप्तेः कृते ॥ २॥ स्कन्धेऽथ वर्णितः षष्ठे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ सुखावहं वरं वस्तु कथञ्चिदपि सेवितम् । नारायणेति चाहूय मुक्तः पुत्रमजामिलः ॥ ४॥ संगत्या क्षीयते साधुः संगत्यैव प्रजायते । शूद्रस्याजामिलः पापो दूतानां सङ्गतः सुधीः ॥ ५॥ मानयेन्महतो वाक्यं भद्रार्थी तोषयेत्प्रभुम् । कन्यां प्रचेतसः प्राप्ता दक्षोऽप्यपेप्सितं हरेः ॥ ६॥ संगतिर्यादृशां जाता यस्य सः स्यात्तु तादृशः । हार्यश्वाः सन्तताविच्छां जहुर्नारदसङ्गतेः ॥ ७॥ तितिक्षोरपि कोपः स्यात्पुनरप्यप्रिये कृते । भिक्षून् श्रुत्वाशपद्दक्षो नारदं शबलाश्वकान् ॥ ८॥ अवमानकरं श्रेष्ठमपि धीरः परित्यजेत् । अदृश्योऽभूद्गुरुर्मत्तं विमुच्येन्द्रमनुत्थितम् ॥ ९॥ वयसोनमपि प्राज्ञं द्विजं सेवेत सम्पदे । विश्वरूपं विरिञ्चोक्ता भेजुर्दैत्यार्दिताः सुराः ॥ १०॥ भवेत्सम्यग्धृता विद्या सर्वत्र विजयावहा । जिगाय दितिजानिन्द्रः श्रीनारायणवर्मधृत् ॥ ११॥ दुष्टस्नेहो न कर्तव्यो न कार्यं मित्रवञ्चनम् । हत इन्द्रेण दैत्येभ्यो विश्वरूपो ददद्धविः ॥ १२॥ न साध्वसाधु वा कर्म महान्तमपि मुञ्चति । अब्दान्ते ब्रह्महत्याघं शक्रो भ्वादौ विभक्तवान् ॥ १३॥ श‍ृणुयाद्विजयोपायमज्ञोऽपि प्राज्ञभाषितम् । शुश्रुवुर्विष्णुना प्रोक्तं वृत्रासुरजिताः सुराः ॥ १४॥ परोपकृतये धीरः स्वशरीरमपि त्यजेत् । दधीचिरमरैः सेन्द्रैर्याचितः स्वातनुं जहौ ॥ १५॥ मुखरोऽवसरे युद्धे शूरः स्याद्धीर आपदि । वृत्रो धैर्यादिना तुष्टैः पूजितोऽभूत्सुरासुरैः ॥ १६॥ दुष्पक्षपाती हन्तव्यो विद्वानप्यतियत्नतः । कुक्षेर्निष्क्रम्य वृत्रस्य वज्रेणेन्द्रोऽहरच्छिरः ॥ १७॥ क्षीयन्ते दुस्तरा दोषाः कृते महति कर्मणि । हयमेधकृतो वृत्रहत्या नष्टा शचीपतेः ॥ १८॥ पूर्वमेव वदेद्भावि बुद्धिमान् साध्वसाधु च । प्रोचे हर्षार्तिदं पुत्रमङ्गिराश्चित्रकेतवे ॥ १९॥ अमान्यमप्यतिक्षुद्रं नावमन्येत कञ्चन । कृतद्युतेः शिहुः स्त्रीभिर्भर्तुर्द्वेषाद्धि मारितः ॥ २०॥ क्षिप्रं फलति सद्विद्या प्रसन्नगुरुणोदिता । नारदोदितया सिद्धश्चित्रकेतुर्हि विद्यया ॥ २१॥ आलम्ब्य धृष्ठतां श्रेष्ठं परं नोपहसेत्सुधीः । चित्रकेतुर्हसन् रुद्रं दुर्योनिं शिवयाऽऽपितः ॥ २२॥ निहन्यादेव संलब्धच्छिद्रः प्राणहरं रिपुम् । गर्भः शक्रेण सन्ध्यायां सुप्ताया दारितो दितेः ॥ २३॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते सच्छ्लोकैर्दशभिर्लसन् द्विगुणितैः स्कन्धश्च षष्ठोऽगमत् ॥ २४॥ इति श्रीसुनीतभागवते षष्ठः स्कन्धः समाप्तः ॥
सप्तमः स्कन्धः । प्राप्तब्रह्मवराद्धिरण्यकशिपोर्भीतामरभ्योऽभयं योऽदात्तत्तनयस्य दुःखहृदभूद्धत्वा तमिष्टप्रदः । गौः पीतामृतसद्रसस्त्रिपुरहृद्रुद्रप्रियो योऽभव- च्छूद्रोऽयं श्रित आस नारदमुनिः कृष्णः स नो रक्षतात् ॥ १॥ श्रीनाथाङ्घ्रिगतेः कृताजितनुतेरत्यक्तमध्वस्मृते- र्गोकर्णावसतेः सुनिर्मलमतेरुत्सृष्टदुःसङ्गतेः । सद्भक्तेः प्रथिते मते दशमतेर्देवादिभिः सेविते दास्यं श्रीरघुचन्द्रमस्करियतेः स्यान्मेऽभिवन्द्यस्थितेः ॥ २॥ वर्णितं सप्तमे स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ बालं मत्वातिसामर्थ्यभाजं नैवावमानयेत् । सनन्दनादिभी रुद्धैः शप्तश्च विजयो जयः ॥ ४॥ प्राप्तेऽप्यनुभवे दुष्टः पापं कर्म करोति हि । हिरण्यकशिपुर्धर्मविघ्नं चक्रे हतानुजः ॥ ५॥ गतशोको न कर्तव्यो विचिन्त्यं कार्यमुत्तरम् । व्याधोऽविध्यत्कुलिङ्गं हि शोचन्तं दयितां चिरम् ॥ ६॥ मानयेद्युक्तिभिर्युक्तं शिशोरपि वचो बुधः । सुयज्ञज्ञातयोऽगृह्णन् बालरूपियमोदितम् ॥ ७॥ मतिर्न दुष्टसंसर्गान्निःशेषा क्षीयते सतः । दित्या अकथयत्तत्त्वं हिरण्यकशिपुः परम् ॥ ८॥ निवेदनीया प्रभवे स्वोपद्रवसमागतिः । ब्रह्मणेऽवर्णयन् देवा दितिजेन्द्रतपोऽर्दिताः ॥ ९॥ अदेयमपि दातव्यं महत्कार्यं प्रपश्यता । दैत्येन्द्राय वरानुग्रान् प्रददौ चतुराननः ॥ १०॥ सम्पद्दुरात्मनो लोकसन्तापायैव जायते । हिरण्यकशिपुर्लब्धवरः सार्वानतापयत् ॥ ११॥ सर्वेभ्योऽप्यभयं देयं विश्सेषाच्छरणर्थिने । देवेभ्यो दैत्यभीतेभ्यो दत्तवानभयं हरिः ॥ १२॥ पथ्यमेवाप्रियमपि पारैः पृष्टो वदेत्सुधीः । पित्रा पृष्टोऽवदत्साधु प्रह्लादो हरिसेवनम् ॥ १३॥ उपद्रवा न बाधन्ते कृते महत आश्रये । प्रह्लादे कारितं पित्रा निष्फलं ताडनाद्यभूत् ॥ १४॥ विस्मृता न भवेद्विद्या गुर्वनुग्रहशालिनः । न प्रह्लादो विसस्मार सत्तत्त्वं नारदोदितम् ॥ १५॥ परोक्तिदूषितधियो विद्वानज्ञान् प्रबोधयेत् । सत्तत्त्वं दैत्यपुत्रेभ्यः प्रह्लादः संन्यवेदयत् ॥ १६॥ अत्युत्कटं सुदुष्कर्म न कुर्यादकुतोभयः । स्तम्भोत्थेन नृसिंहेन हिर्ण्यकशिपुर्हतः ॥ १७॥ कोपं विहाय कुर्वन्ति बालके प्रीतिमुत्तमाः । हित्वा ब्रह्मादिकान् प्रीतः प्रह्लादस्याभवद्धरिः ॥ १८॥ तातमुद्धरते दोषात्सुपुत्रः स्वेन तेजसा । प्रह्लादः पितरं पूतं नृसिंहवरतो व्यधात् ॥ १९॥ पूर्वं नाश्यमुपायेन बलं शत्रोर्वधेच्छुना । विष्णुर्मयस्य गौर्भूत्वा सिद्धामृतरसं पपौ ॥ २०॥ अन्यतोऽपि बलं प्राप्य शत्रूनुन्मूलयेत्सुधीः । ददाह त्रिपुरं गुप्तो भगवत्तेजसा शिवः ॥ २१॥ असङ्ग्रहपरश्च स्याद्दैवलब्धप्रतोषवान् । मुनिर्मधुव्रताग्र्याह्योः शिक्षयारमतेदृशः ॥ २२॥ विरोधान्महतां नष्टाधिका स्याच्छ्रीरनुग्रहात् । प्राप नारदतां प्राप्तः शूद्रतामुपबर्हणः ॥ २३॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते सच्छ्लोकैर्दशभिर्लसन् द्विगुणितैः स्कन्धोऽगमत् सप्तमः ॥ २४॥ इति श्रीसुनीतिभगवते सप्तमः स्कन्धः समाप्तः ॥
अष्टमः स्कन्धः । यः स्वायम्भुवसन्मनोश्च जगतः संरक्षको हस्तिनो दध्रे मंदरभूभृतं मथनकृद्वार्धेः सुधां यो ददौ । देवेभ्योऽथ विमोहयन् दितिसुतान् सन्तापयन् वज्रिणे स्वार्गं बद्धबलिः श्रुतिश्च विधये कृष्णः स नो रक्षतात् ॥ १॥ लक्ष्मीप्राणपतेर्जये दिनपतेर्द्युत्यां मतौ गीर्पतेः कीर्तौ देवपतेर्धृतौ गिरिपतेः शान्तौ च तारापतेः । व्याख्यानेऽहिपतेर्बलेऽनिलपतेर्गाम्भीर्यकेऽपाम्पते- र्वक्तुं श्रीरघुचन्द्रसद्गुरुयतेः कोऽलं गुणान् सत्पतेः ॥ २॥ अष्टमे वार्णितं स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ श्रेष्ठाराधनसक्तस्य नैव कुर्यादुपद्रवम् । यज्ञेनाप्ता हता दैत्या जग्धुं स्वायम्भुवं मनुम् ॥ ४॥ असत्यवादी दुःशीलो भूतद्रोही च नो भवेत् । एवंविधाश्च यक्षाद्या सत्यसेनेन घातिताः ॥ ५॥ उपायान्तरहीनस्तु कार्यं स्तुत्यैव साधयेत् । गाजेन्द्र श्रीहरिं स्तुत्वा विमुक्तो नक्रवक्त्रतः ॥ ६॥ गुरुं सम्पादयेत्कार्यं सन्धिं कृत्वापि शत्रुभिः । अमृतार्थे हरिप्रोक्ता देवा दैत्यैः सहोद्यताः ॥ ७॥ उद्योगे न महाकार्ये कार्यः स्वानुचिते बलात् । देवदैत्योद्धृतोऽद्रिस्तान् मन्दरोऽचूर्णयत्पतन् ॥ ८॥ यत्रोचितो य आकारो बिभृयात्तत्र तं बुधः । कूर्मरूपेण गोविन्द उद्दधार हि मन्दरम् ॥ ९॥ नैव प्रार्थ्यं प्रतिष्ठायै वरं वस्तु विनाशकृत् । श्रान्ता अतितरां दैत्या गृहीत्वा वासुकेर्मुखम् ॥ १०॥ परद्वारा न सिद्धं चेत्स्वयं कार्यं प्रसाधयेत् । ममन्थ सर्वमथितमजितोऽब्धिं सुधाऽऽप्तये ॥ ११॥ लोकोपकृतये प्राप्तो नैव भङ्गोऽपि दूषणम् । रुद्रस्य विषपानोत्थो भूषणं गलकालिमा ॥ १२॥ प्रार्थयन्तमपि त्यक्त्वा दोषिणं गुणिनं भजेत् । लक्ष्मी सुरासुरान् हित्वा वव्रे नारायणं पतिम् ॥ १३॥ परेषां सत्यनाशाय स्वां शक्तिं दर्शयेत्क्वचित् । धन्वन्तरिः समर्थोऽपि दैत्येभ्योऽमृतमत्यजत् ॥ १४॥ त्यक्तसत्यैर्बलान्नीतं प्रसाध्यं वस्तु कूटतः । स्त्रीरूपो मोहयन् दैत्यान् देवेभ्योऽदात्सुधां हरिः ॥ १५॥ स्वायोग्यं प्राप्नुयान्नैव कपटेन समन्वितः । अमृतं पिबतो राहोश्चकर्त हि शिरोऽच्युतः ॥ १६॥ महतां दर्शनेनैव मायाजालं विनश्याति । विष्णुर्दर्शनतो नष्टा माया दैत्यविनिर्मिता ॥ १७॥ क्षीणं पूर्वगतं पश्यन् कार्यार्थं न स्वयं व्रजेत् । जम्भासुरो हतो युध्यन् वज्रिणा बलघातिना ॥ १८॥ क्वचित्क्षुद्रेण यत्सिध्येन्महता तन्न सिध्यति । फेनेनेन्द्रोऽहरद्वज्राच्छेद्यं हि नमुचेः शिरः ॥ १९॥ प्राप्तार्थः कलहं मुञ्चेन्मध्यस्थेन निवारितः । विहाय समरं देवा नारदोक्ता दिवं ययुः ॥ २०॥ दुस्तरा मायिनो माया निःसङ्गैः पण्डितैरपि । योषिद्रूपं हरेः पश्यन्मायया मोहितो हरः ॥ २१॥ सर्वस्वं च समर्प्यापि प्रीणयेत्प्राणरक्षकम् । बलिरिन्द्रहतः सर्वं शुक्रायोज्जीवितो ददौ ॥ २२॥ समर्थोऽपि भवेत्त्रस्तः शत्रोर्विद्यावदाश्रयात् । शुक्रगुप्ताद्बलेर्भीता देवस्त्यक्त्वा दिवं ययुः ॥ २३॥ स्वात्मानमपि संदद्यादत्यन्ताराधितः पुमान् । आत्मानमेव तनयं प्रीतो दित्यै हरिर्ददौ ॥ २४॥ अवाप्नोति फलं सद्यो महतो विप्रियं ब्रुवन् । आप्तवान् शुक्रतः शापं बलिः स्वश्रीक्षयप्रदम् ॥ २५॥ प्रकाशनीयं विद्वद्भिः स्वरूपं कार्यसिद्धये । वामनो बलये व्याप्तं स्वरूपं समदर्शयत् ॥ २६॥ माननीयो महान् दैवात्संप्राप्तः स्वगृहान्तिकम् । त्रिविक्रमपदं व्याप्तं द्वितीयं विधिरर्चयत् ॥ २७॥ कार्ये गते तु कलहं नैव कुर्याद्रुषान्वितः । दैत्या हन्तुं हरिं प्राप्तास्ताडिता विष्णुपार्षदैः ॥ २८॥ अनुमन्येत सभक्त्या प्रभुणाविप्रियं कृतम् । प्रह्लादो वामनहृतामनुमेने बलेः श्रियम् ॥ २९॥ दीनोऽपि भ्रंशितः स्थानान्निबद्धो न त्यजेद्व्रतम् । बलेः सत्यव्रतस्त्वासीद्वामनो द्वारपालकः ॥ ३०॥ भिक्षित्वापीप्सितं देयं वयःश्रेष्ठाय बन्धवे । स्वर्गं ददौ महेन्द्राय याचित्वा वामनो बलेः ॥ ३१॥ आप्तोक्तं भावयन् भावि विदध्यात्तत्र तूचितम् । सत्यव्रतो हि मत्स्योक्तिं श‍ृण्वन्नावि स्थितोऽभवत् ॥ ३२॥ नीचं रूपमपि ग्राह्यं भवेद्येन प्रयोजनम् । हरिर्मत्स्यो हयग्रीवं हत्वा वेदान् विधेरदात् ॥ ३३॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते सच्छ्लोकैर्दशभिर्लसंस्त्रिगुणितैः स्कन्धः समाप्तोऽष्टमः ॥ ३४॥ इति श्रीसुनीतिभागवते अष्टमः स्कन्धः समाप्तः ॥
नवमः स्कन्धः । श्रीनाभागसदम्बरीषलृपतौ चेक्ष्वाकुमान्धातृराट्- पूर्वा यद्भजनान्महत्सगरराण्मुख्याः शुभं लेभिरे । खट्वाङ्गो रघुपः स्वयं मिनिविधूगाधिः स्वयं भार्गवो योऽलर्कश्च ययातिपूरुभरताः कृष्णः स नो रक्षतात् ॥१॥ श्रीरोदातिहितेशशैलमहिते शक्रद्विपेन्द्रोद्धते गङ्गासह्गसितेव सर्वबुधिते विद्वद्वरैर्वर्णिते । लोके कल्पलतेव दत्तदयिते सच्चन्द्रिकाव्यायते त्वं हे सागरवेङ्कटेशबुधसत्कीर्ते पुनीह्येव नः ॥२॥ वर्णितं नवमे स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ गुरुमाराधयेत्कार्ये महति प्रत्युपस्थिते । गुरुप्रसादतः पुंस्त्वं प्राप्तेला हि मनोः सुता ॥ ४॥ स्वरूपहानिकृद्दोषो ज्ञानाद्वाज्ञानतः कृतः । पृषध्रो हतगुः प्राप शूद्रतां गुरुशापतः ॥ ५॥ उत्तमोऽप्यल्पकर्यार्थमाचारेद्दासवत्क्रियाम् । मरुतः परिवेष्टारो मरुत्तस्य मखेऽभवन् ॥ ६॥ विद्ययैव हि संसिध्येत्स्त्रीपुत्रादीष्टसाधनम् । प्रदाय विश्रवा विद्यां तृणबिन्दोः सुतां ह्यगात् ॥ ७॥ स्त्रीणा हि सत्पतिप्राप्तावदृष्टं कारणं भवेत् । सुकन्या च्यवनं भेजे युवानं जरठं पुरा ॥ ८॥ कालं नोल्लङ्घयेदिष्टे महतः संमतीच्छया । रेवत्या हि वरा नाप्ताः कृता हृदि ककुद्मिना ॥ ९॥ अर्जयेद्द्रविणं सत्यवाद्यनिच्छन् परार्जितम् । ऋतवादी हि नाभागो बहुलं धनमाप्तवान् ॥ १०॥ पीडयेद्वैष्णवान्नैव महानपि तपस्व्यपि । अम्बरीषार्तिकृत्प्राप्तो दुर्वासा असमां दशाम् ॥ ११॥ नोल्लङ्घनीयः सकलैरपि प्राणात्यये विधिः । इक्ष्वाकुणा विकुक्ष्याख्यः सुतस्त्यक्तः शशादनः ॥ १२॥ स्वकीयकार्यसम्प्राप्त्यै लभेत लघुतां सुधीः । शक्रो घातयतो दैत्यान् ककुत्स्थस्यास वाहनम् ॥ १३॥ वधे शक्तोऽपि नो कुर्याद्विग्रहं क्रूरवैरिणा । धुन्धुमारसुता दग्धा धुन्धुनापि विनश्यता ॥ १४॥ लोकस्य नैव बुद्ध्यादिबलं दैवबलं बलम् । मान्धाता निर्गतः कुक्षेर्युवनाश्वश्च नो मृतः ॥ १५॥ सर्वथापि त्यजेदेव मुमुक्षुः सङ्गमन्यतः । पत्स्यसङ्गात्प्रियापुत्रबन्धनं प्राप सौभरिः ॥ १६॥ स्वयशो गायतः पुंसः साध्वसं ध्वंसयेद्बुधः । गन्धर्वान्तस्मृतेः सर्पात्पुरुकुत्सोऽहरद्भयम् ॥ १७॥ पराभूतस्तु महता महान्तं परमाश्रयेत् । गुरुशप्तस्त्रिशङ्कुः स्वर्गतः कौशिकतेजसा ॥ १८॥ अशुभं वारयेत्प्राप्तं कालस्यातिविलङ्घनात् । हरिश्चन्द्रसुतस्त्रातो वरुणाद्रोहितो न किम् ॥ १९॥ स्वदुष्कृतोदये संपत्क्षणमात्राद्विनश्यति । बाहुकोऽरिहृतश्रीको ममार विपिने नृपः ॥ २०॥ नाशहेतौ कृतेऽप्यन्यैर्भव्यं नियमतो भवेत् । सपत्नीदत्तविषतः सहैव सगरोऽजनि ॥ २१॥ अतिक्रमस्तु महतो न कार्यो बहुभिर्जनैः । सागराः कपिलद्रोहान्मृताः षष्टिसहस्रिणः ॥ २२॥ यत्नो देहव्ययेनापि कार्यो बन्धुशुभाप्तये । प्रख्यातावंशुमत्पूर्वौ गङ्गानयनतत्परौ ॥ २३॥ दत्वा परेष्टं किमपि लभेत स्वप्रियं ततः । ऋतुपर्णोऽक्षहृदयदोऽश्वविद्यां नलादगात् ॥ २४॥ यादृशं कर्म कुरुते तादृशं फलमश्नुते । ब्राह्मण्या रतिहृन्नैव कल्माषाङ्घ्री रतिं ययौ ॥ २५॥ आयुषोऽपचयं जानन् कार्यं प्रागेव साधयेत् । मुहूर्तमायुर्ज्ञात्वा स्वं खट्वाङ्गो बन्धनं जहौ ॥ २६॥ माननीयः पितावश्यं स्त्रीवशोऽकुशलोऽपि वा । रामो दशरथस्याज्ञां स्वीकृत्य प्रययौ वनम् ॥ २७॥ आत्मानं यत्नतो रक्षन्नश्यत्स्वकुलमुद्धरेत् । सूर्यवंशं कलेरन्ते मरुः किं नोद्धरिष्यति ॥ २८॥ परघातकरो लोके बृहन्नपि न जीवति । वसिष्ठस्तु निमिं शप्त्वा मृतोऽभूत्तस्य शापतः ॥ २९॥ दुर्जया विषया पुंसा विदुषापि विवेकिना । चन्द्रो बृहस्पतेर्भार्यां जहार विषयातुरः ॥ ३०॥ विश्वासो नैव कर्तव्यो नारीषु स्वैरवृत्तिषु । विहाय प्रययौ कान्तां पुरूरवसमुर्वशी ॥ ३१॥ यत्नेन दुर्लभं दत्वा प्राप्नुयाद्वस्तु तादृशम् । लेभे सत्यवतीं गाधेरृचीकोऽश्वसहस्रदः ॥ ३२॥ दुर्लभं वस्तु मित्रस्य लुब्धः सन्न नयेद्बलात् । जमदग्नेर्हरन् धेनुं कार्तवीर्यो हतोऽर्जुनः ॥ ३३॥ अविचार्यैव कुर्वीत त्वरया वचनं पितुः । मात्रा रामः सह भ्रातॄन् जमदग्न्युदितोऽवधीत् ॥ ३४॥ न हन्याद्दुर्बलो दैवाच्छिद्रे प्राप्ते महात्मनः । जमदग्न्यन्तका नष्टा न किमर्जुनसूनवः ॥ ३५॥ विनश्यति कुलं सर्वमेकस्यैवापराधतः । अर्जुनात्मजदोषेण क्षीणा क्षत्रियसन्ततिः ॥ ३६॥ आत्मैवोद्धारकः स्वस्य पिता माता न वापरः । विमुक्तः पितृविक्रीतः शुनःशेपः सुरान् स्तुवन् ॥ ३७॥ भजेत सम्पदं भोगे दक्षश्चिरतरं स्थिराम् । अलर्को बुभुजे पृथ्वीं बहुवर्षसहस्रकम् ॥ ३८॥ स्ववशे स्थापितं द्रव्यं प्रतिदद्याद्रहोऽर्थितः । इन्द्रायाप्रतियच्छन्तः स्वर्गं नष्टा रजेः सुताः ॥ ३९॥ नेच्छेत्सुधीर्महैश्वर्यमहङ्कारमदप्रदम् । नहुषेण यतिर्दत्तं राज्यं न जगृहे यतः ॥ ४०॥ गृह्णीयादनभिप्रेतं स्वायोग्यमपि चार्थितः । देवयानीमुदवहद्ययातिः शुक्रकन्यकाम् ॥ ४१॥ धर्ममप्याचरेन्नैव प्रतिकूलं महात्मनः । शर्मिष्ठां रमयन् धर्माद्ययातिर्लब्धवान् जराम् ॥ ४२॥ याचितस्तनयः पित्रे प्राणानपि समर्पयेत् । अर्पितस्ववयाः पूरुर्जातो भूमण्डलाधिपः ॥ ४३॥ स्वमनो रमते यस्मिन्नाचरेत्तन्महामतिः । मनः प्रवृत्तेर्दुष्यन्त उपयेमे शकुन्तलाम् ॥ ४४॥ कथञ्चिदपि सत्पुत्रं लभेतातिप्रयत्नवान् । भरतः प्राप देवेभ्यो भरद्वाजं सुतं यथा ॥ ४५॥ दद्यादेवार्थिने किञ्चिदपि धीमानकिञ्चनः । रन्तिदेवो ददद्भोज्यं क्षुधितोऽप्याप सद्यशः ॥ ४६॥ यद्वस्तु महतां योग्यं तेभ्यः प्राङ् न लभेत तत् । शन्तनोः परिवेत्तुर्यदिन्द्रो राष्ट्रे ववर्ष न ॥ ४७॥ स्वपुत्रायैव शान्ताय विद्यामुपदिशेद्वराम् । व्यासः शुकाय पैलादीन् हित्वा भागवतं जगौ ॥ ४८॥ श्रीहरिं शरणं गच्छेत्प्राप्तायां परमापदि । द्रौणेर्ब्रह्मास्त्रतः कृष्णो ररक्ष हि परीक्षितम् ॥ ४९॥ दुष्टाः सर्वेऽपि हन्तव्या एकस्मिन्नपकारिणि । तक्षकारिरहीनग्नौ जुहाव जनमेजयः ॥ ५०॥ अयत्नेनैव दुर्लभ्यं प्राप्यते पुण्यशालिना । ऋष्यश‍ृङ्गो नृपसुतां कर्णं चाधिरथो ह्यगात् ॥ ५१॥ द्वितीयां नोद्वहेद्भार्यां सुतार्थी त्वरयान्वितः । ज्यामघो नाप किं पुत्रं शैब्यायामेव कालातः ॥ ५२॥ वृथा विद्यां परीक्षेत नैवाधर्मं तु नाचरेत् । कुन्ती प्राप्ता रवेः पुत्रं कृष्णेनाधर्मिणो हताः ॥ ५३॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते स्कन्धोऽन्तं नवमोऽगमत्परिलसन् श्लोकैश्च पञ्चाशतैः ॥ ५४॥ इति श्रीसुनीतिभागवते नवमस्कन्धः समाप्तः ॥
दशमः स्कन्धः - पूर्वार्धः । देवक्यामुदभून्नुतो विधिमुखैर्नन्देष्टकृद्दुष्टहृद्- गोपीर्योऽरमयत्सन्तश्च सबलं कंसं च बार्हद्रथम् । जित्वाऽऽजौ नरकानपि कुरून् संनाश्य पार्थप्रियो रेमे स्त्रीसुतपूर्वकैर्निरुपमैः कृष्णः स नो रक्षतात् ॥ १॥ लक्ष्मीशोरुमते लसद्गुणतते सन्मध्वपूजारते चीर्णाग्र्यानुसृते जितारिसमिते व्याख्यातशास्त्रश्रुते । निर्दोषावगते बुधाहितनते सत्कीर्तिपूर्णक्षिते सेवे सागरवेङ्कटेशबुध ते पादाम्बुजं सद्वृते ॥ २॥ वर्णितं दशमे स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ स्वार्थादप्यधिकं सन्तः परकार्यार्थमुद्यताः । भूभारहृतये ब्रह्मा विष्णूक्तमवदत्सुरान् ॥ ४॥ दुष्टस्य मित्रभवेन विश्वस्यान्न विचक्षणः । श्रुताशरीरवाक्कंसो भगिनीं हन्तुमुद्ययौ ॥ ५॥ विनाशं विविधोपायैः सद्यः प्राप्तं निवारयेत् । उक्त्वा पुत्रार्पणं शौरिररक्षत्कंसतः प्रियाम् ॥ ६॥ नैव विश्वसनीया वागसतोऽविजितात्मनः । कंसेन प्रतिदत्तोऽपि नानन्दच्छौरिरात्मजे ॥ ७॥ सन्मार्गं सन्त्यजन्त्यज्ञाः परवाग्भिन्नबुद्धयः । सर्वान्निपीडयामास कंसो नारदबोधितः ॥ ८॥ कर्तुं यदा यदीशेन प्रोक्तं कार्यं तथैव तत् । देवक्या अनयद्गर्भं योगमाया हि रोहिणीम् ॥ ९॥ संधृतस्वमहाकर्यभारं स्तुत्या प्रहर्षयेत् । प्रादुर्भूतोऽथ देवक्यां विष्णुर्ब्रह्मादिभिः स्तुतः ॥ १०॥ वस्तूत्तममतिक्लेशं विना न प्राप्यते जनैः । पितृस्तुतो हरिः प्रोचे स्वजन्म प्राक्तपः फलम् ॥ ११॥ सति दैवसहाये किं कर्तुं न प्रभवेन्नरः । वसुदेवो व्रजे कृष्णं न्यस्यानिन्ये हि चण्डिकाम् ॥ १२॥ वारितोऽपि विनाश्येष्टं मूर्खः पश्चात्प्रतप्यते । कंसस्ताडितकन्योक्तः स्वसृशौरी असान्त्वयत् ॥ १३॥ अतिविभ्रष्टबुद्धिः स्यात्स्वयमज्ञोऽज्ञबोधितः । सद्वधायादिशद्दैत्यान् कंसः संमन्त्र्य मन्त्रिभिः ॥ १४॥ बाले दृष्टेऽपि सामर्थ्ये जायते न महत्वधीः । रक्षां विदधिरे गोप्यः पूतनाघातिनो हरेः ॥ १५॥ साक्षाद्द्रष्ट्रुक्तमज्ञो न श्रद्दधाति कुयुक्तिभाक् । अनोक्षभङ्गं स्वीचक्रुर्न गोपः कृष्णनिर्मितम् ॥ १६॥ रुद्धो येन न तं मुञ्चेत्तेन त्यक्तुमपीच्छितः । श्रीशो गुरुस्तृणावर्तनीतोऽमुञ्चंस्तमावधीत् ॥ १७॥ केनाप्युपायेनात्मीयं महिमानं प्रकाशयेत् । जृम्भमाणो मुखेऽनन्तो विश्वं मातुरदर्शयत् ॥ १८॥ स्वकार्यं साधयेद्गूढो रहस्याप्तेऽप्यरेर्भये । चकार नामकरणं गर्गः श्रीरामकृष्णयोः ॥ १९॥ यादृशो धृत आकारः कर्म तादृशमाचरेत् । विततान विभुर्बालो बाललीलाः पृथग्विधाः ॥ २०॥ मनस्वी न स्वमाहात्म्यं ब्रूयात्किन्तु प्रदर्शयेत् मृदोऽशनाद्धरिर्मात्रोपालब्धोऽदर्शयज्जगत् ॥ २१॥ स्वभक्तवश्यतां यायाद्दर्शयित्वाऽऽत्मदक्षताम् । बन्धं प्राप यशोदाया भित्वेशो दध्यमत्रकम् ॥ २२॥ उद्धरन्ति विपद्भ्योऽन्यानस्वस्था अपि साधवः । कुबेरपुत्रौ देवर्षेः शापात्प्रभुरमोचयत् ॥ २३॥ सर्वो भजति कार्यार्थं प्रियः कोऽपि न कस्यचित् । गोपा वृन्दावनं जग्मुर्दृष्ट्वोत्पातान् बृहद्वने ॥ २४॥ सत्सङ्गतिर्न वा जातिर्दुःशीलस्य सुखप्रदा । कृष्णेन रक्षता वत्सान् वत्सरूपोऽसुरो हतः ॥ २५॥ दर्शितोऽपि स्वसामर्थ्ये हन्याद्भूयः कृतागसम् । मुक्तोऽर्यास्यं दहन् कृष्णोऽभिनद्घातोद्यतं बकम् ॥ २६॥ अभीष्टं सुलभं पुंसां विनष्टे विघ्नकर्तरि । रामेण निहते तालफलान्यादन्हि धेनुके ॥ २७॥ सर्वसम्पत्करं नॄणां महत्कारुण्यवीक्षणम् । अजीवन् हरिणा दृष्टा गोपा पीतविषाम्भसः ॥ २८॥ बहूनामर्थ इष्टानां प्रियमेकं परित्यजेत् । ममर्द कालियं वीक्ष्य नन्दादीन् दुःखितान् विभुः ॥ २९॥ लोकोपद्रवकर्तारं साधुं निष्कासयेदपि । यमुनायाः स्तुतः कृष्णः कृष्णाहिमुदवासयत् ॥ ३०॥ व्यसनं केन न प्राप्तं प्रभूणां किं न दुष्कृतम् । दहन्तं निशि गोपालान् दावाग्निमपिबत्प्रभुः ॥ ३१॥ निहन्याद्वञ्चकं मित्रं शठत्वे प्रकटे सति । प्रलम्बो हलिना गोपरूप्युदूह्य द्रवन् हतः ॥ ३२॥ सुकरं महतोऽन्येषां प्रयत्नैरपि दुष्करम् । गोपैरलब्धान् विभ्रष्टान् गोगणान् हरिराह्वयत् ॥ ३३॥ व्यज्यते महतां शक्तिरापद्येव न सम्पदि । दह्यमानान् जुगोपेशो गोपान् पीत्वा वनानलम् ॥ ३४॥ जह्यान्नैव सखीन्योग्यान् भोजनक्रीडनादिषु । क्रीडन् जलान्तिके गोपैर्बुभुजेऽन्नं वनेऽच्युतः ॥ ३५॥ सद्गुणा यदि विद्यन्ते वर्ण्यन्ते ते स्वतो जनैः । श्रुतवेणुरवाः कृष्णक्रीडा गोप्यो ह्यवर्णयन् ॥ ३६॥ स्ववस्त्वप्यनुसृत्यैव लभेताग्र्यस्य हस्तगम् । मज्जने गोपिका नग्नाः कृष्णाद्वासांसि लेभिरे ॥ ३७॥ गुरवोऽपि विमुह्यन्ति क्वचिन्नाज्ञा जना अपि । मुकुन्दायार्पयन्नन्नं ब्राह्मण्यो न द्विजातयः ॥ ३८॥ अपहार्यं स्वभक्तस्यापीष्टं दर्पनिवृत्तये । निवार्येन्द्रमखं रूपान्तारेणादद्धरिर्बलिम् ॥ ३९॥ प्राप्तापद्यन्निमित्तं या वार्या तेनैव सा भवेत् । इन्द्रातिवृष्टेर्धृत्वावीद्व्रजं गोवर्धनं विभुः ॥ ४०॥ कुपिता अपि योगेन मृदवः स्युर्हि सज्जनाः । स्तुतोऽभिषिक्तो गोविन्दः स्वर्गं शक्रमवापयत् ॥ ४१॥ सिद्ध्यं विधेय उद्योगः स्वयोग्योऽपि महात्मभिः । पाशिलोकं प्रभुर्गत्वा पितरं प्रत्युपानयत् ॥ ४२॥ महताङ्गीकृतोऽभीष्टदानेन परिपाल्यते । दर्शयामास नन्दादीन् वैकुण्ठं नन्दनन्दनः ॥ ४३॥ प्राप्तस्यात्मगतित्वेन कार्यं सर्वमभीप्सितम् । कालिन्द्यां गोपिका गानाकृष्टा हरिररीरमत् ॥ ४४॥ मदाहङ्कारनाशाय स्वकीयमपि खेदयेत् । अन्तर्हितो विभुः स्त्रीभिः क्रीडन्नप्येकया पुनः ॥ ४५॥ स्वजनस्य गते गर्वे विदध्यादधिकं प्रियम् । गोपिकाभिः स्तुतो रासोत्सवेनारमयत्प्रभुः ॥ ४६॥ वरं पादप्रहारोऽपि श्रेष्ठान्मानो न नीचतः । सुदर्शनोऽभूच्छ्रीशाङ्घ्रेः स्पर्शान्नन्दं ग्रसन्नहिः ॥ ४७॥ आपत्प्रदोऽविवेकोऽतो न कुर्यात्सहसा क्रियाम् । विभुना कालयन् गोपीः शङ्खचूडो निपातितः ॥ ४८॥ संस्तुवन्ति परोक्षेऽपि गुणाढ्यं गुणिनो जनाः । रेमिरेऽहस्सु गायन्त्यः कृष्णलीलां व्रजस्त्रियः ॥ ४९॥ साधूपद्रवकृत्साधुरूपशाल्यपि भज्यते । वृषाश्वरूपौ निहतौ प्रभुणारिष्टकेशिनौ ॥ ५०॥ मिथो विरोधिनोर्दक्षः स्याद्द्वयोरपि सम्मतः । कंसेन मानितोऽभ्येत्य श्रीशं तुष्टाव नारदः ॥ ५१॥ क्रीडार्थं कथितं व्याजात्सत्यं कुर्वन्विपद्यते । व्योमो मेषायितान् गोपांश्चोरयन् हरिणा हतः ॥ ५२॥ गूढमन्त्रोऽर्थतत्त्वज्ञो दयालुर्दुःखितो भवेत् । अक्रूराकारितोऽनन्तो गच्छन् गोपीरसन्त्वयत् ॥ ५३॥ प्रवृद्धेऽनुग्रहेऽभीष्टं विदध्याद्विबुधोऽधिकम् । माधवोऽदर्शयद्रूपं स्वमक्रूराय मज्जते ॥ ५४॥ कोपप्रसादयोर्धीमान् फलं सद्यः प्रदर्शयेत् । कृष्णो रजकसद्वप्तृसुदाम्नां पर्यदर्शयत् ॥ ५५॥ असाधु साधु कुरुते प्रभुश्चाग्र्यमनुत्तमम् । ऋज्वीं चक्रे त्रिवक्रां च बभञ्ज धनुरीश्वरः ॥ ५६॥ स्वयं व्रजेन्न युद्धार्थं न मुञ्चेत्समुपागतान् । चापरक्षान् बलं चेशो गजं मल्लाननाशयत् ॥ ५७॥ परोऽपि हितकारी स्वः आत्मीयोऽप्यहितः परः । निहत्य मातुलं कंसं कृष्णः सर्वाननन्दयत् ॥ ५८॥ सतामनुसरेन्मार्गं निषेवेत विपश्चितः । गर्गोपनीतो गोविन्दो भेजे सान्दीपनिं गुरुम् ॥ ५९॥ को न वध्यः कृतद्रोहः किं न देयं महात्मने । यमार्चितः पञ्चजनं हत्वेशोऽदाद्गुरोः सुतम् ॥ ६०॥ भवेन्मनः समाधानं निजवल्लभभाषितैः । उद्धवः कृष्णसन्देशैर्जहाराधिं व्रजौकसाम् ॥ ६१॥ इष्टं स्वसनतस्यैव विदधाति महानपि । सैरन्ध्रीं च तथाक्रूरं भगवान् पर्यतोषयत् ॥ ६२॥ निराश्रये कृपां कुर्यात्खिन्ने बाले च दुर्बले । बुबुधे पार्थवृत्तान्तं सम्प्रेष्याक्रूरमच्युतः ॥ ६४॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते षष्ठ्या श्लोकवरैर्लसद्धि दशमे स्कन्धेऽर्धमाद्यं त्वगात् ॥ ६४॥ इति श्रीसुनीतिभागवते दशमस्कन्धे पूर्वार्धः समाप्तः ॥
दशमः स्कन्धः - उत्तरार्धः । मुख्यं प्रागेव नो हन्याद्दुष्टमप्यपकारिणम् । जरासन्धं मुमोचाजः सैन्यं हत्वा मुहुर्महत् ॥ ६५॥ मन्यतेऽनुगुणं कार्ये विप्रवाक्यं जनार्दनः । स्वपुरान्निर्गतो रामादनुज्ञामाप साग्रजः ॥ ६६॥ (परशुरामात्) स्वभ्रातापि प्रहर्तव्यं पापात्मा स्ववधोद्यतः । सृगालवासुदेवः श्रीवासुदेवेन सूदितः ॥ ६७॥ सिध्यति स्वयमेवेष्टं पुरुषस्य महात्मनः । कृष्णमूर्ध्नि हरेर्मौलिं गोमन्ते गरुडो न्यधात् ॥ ६८॥ महात्मानो विना यत्नं दुर्घटं घटयन्त्यहो । निनाय द्वारकां श्रीशो मधुरायां स्थितान्निजान् ॥ ६९॥ स्वानुग्रहाय भक्तेन कारयेन्महतीं क्रियाम् । ददाह यवनं शार्ङ्गी मुचुकुन्दाक्षिवह्नितः ॥ ७०॥ फलन्ति निजकर्माणि पुंसां नैव महान् पुमान् । मुचुकुन्दो मुदं कृष्णादयान्म्लेच्छबलं क्षयम् ॥ ७१॥ विद्रवन्तमपि श्रेष्ठमशक्तोऽप्यनुधावति । रामकृष्णौ जरासन्धोऽन्वगच्छत्सह सेनया ॥ ७२॥ न क्षुद्रोपद्रवं धीरो गणयत्युरुपौरुषः । हरिरुत्पत्य गोमन्ताद्दह्यमानात्पुरीं ययौ ॥ ७३॥ निश्चयेन सती वार्ता ज्ञेया कौतुककारिणी । प्रभुर्द्रुपदबन्धादि ज्ञातवान् कृतवर्मतः ॥ ७४॥ प्राप्तियोग्यं हि यद्यस्य संप्राप्नोति तमेव तत् । प्रपेदे रेवतीं रामः प्रियामादियुगोद्भवाम् ॥ ७५॥ गुणवान् प्रार्थ्यते सर्वैर्बलवाँल्लभतेऽखिलम् । रुक्मिण्यार्थित आपेशः पार्थिवान् परिभूय ताम् ॥ ७६॥ च्यवते दैवहीनस्य ह्येकं सन्धित्सतोऽपरम् । आनेतुं रुक्मिणीं यातुश्च्युतं श्मश्र्वादि रुक्मिणः ॥ ७७॥ एका क्रिया द्व्यर्थकरी क्रियाविधिविदा भवेत् । मणिं जाम्बवतीं चाप मण्यर्थं प्रगतः प्रभुः ॥ ७८॥ हेतुः सर्वार्थसंसिद्धेर्दानादन्यो न विद्यते । सत्राजिद्धरये सत्यां स्वाघोऽपहृतये ददौ ॥ ७९॥ लोकानुसार्यभिज्ञोऽपि विदध्यात्समयोचितम् । कुल्यहेतोः कुरून् यातः सत्योक्तोऽजः शुचा ययौ ॥ ८०॥ प्रवृत्तिर्महतो न स्यान्निःस्पृहस्यापि निष्फला । विद्धलक्ष्यान् ददर्शेशः पार्थान् द्रुपदराट्पुरे ॥ ८१॥ न श्रोतव्यं परप्रोक्तमात्मैव फलभुग्यतः । शतधन्वा हतोऽक्रूरनिरस्तश्चक्रिणा द्रवन् ॥ ८२॥ साम्ना सिध्यन्ति कार्याणि दुःसाध्यान्यखिलान्यपि । प्रकाश्य मणिमक्रूरेऽक्रोधं रामं विभुर्व्यधात् ॥ ८३॥ स्वाभीष्टमप्यवाप्नोति परेष्टकरणे रतः । गतेन्द्रप्रस्थ ईशोऽगात्कालिन्दीं यमुनातटे ॥ ८४॥ यस्यार्हं यद्भवेद्वस्तु प्रसाध्यं तस्य तत्कृते । धर्मजस्य विभुर्विश्वकर्मणाचीकरत्पुरम् ॥ ८५॥ स्वेष्टं क्वचिद्बलात्प्राप्यं क्वचित्कृत्वा परेप्सितम् । मित्रविन्दां जहाराजो नीलां बद्ध्वाऽऽप गोवृषान् ॥ ८६॥ स्वप्रियं प्राप्नुयाद्दत्तं निरुद्धं निजपौरुषात् । प्रदत्तां जगृहे भद्रां लक्षणां जह्र ईश्वरः ॥ ८७॥ संविज्ञापितमात्रः स्यात्सत्प्रभुः कार्यकारकः । शक्रविज्ञापितो भौमं हन्तुं सत्यापतिर्ययौ ॥ ८८॥ क्रियासिद्धिर्भवेत्सत्त्वे महतां न तु साधने । मुरादीनप्यसेनोऽहन्नरकं तार्क्ष्यवाहनः ॥ ८९॥ तस्येष्टं कुरुतेऽग्र्योऽपि यस्य सन्त्युत्तमा गुणाः । भगदत्तं प्रमान्येशः कामिनीः प्राहिणोत्पुरीम् ॥ ९०॥ यदर्थं हि महान् यत्नः कृतोऽन्ते तन्न विस्मरेत् । इन्द्रार्चितोऽदितेः प्रीतिं कुण्डलाभ्यां विभुर्व्यधात् ॥ ९१॥ स्वमित्रादपि भीतः सन्नुत्तमं वस्तु गोपयेत् । पारिजातं प्रजग्राह सत्यभामार्थितोऽच्युतः ॥ ९२॥ स्वस्वरूपमविज्ञाय क्षीयन्ते रचितोद्यमाः । सर्वे देवा गता योद्धुं सेशेन्द्राः शार्ङ्गिणा जिताः ॥ ९३॥ त्यजातिवैरमात्मीये प्रकृतार्थं प्रसाधय । पुरीमिन्द्रस्तुतोऽभ्येत्य स्वर्द्रुणानन्दयत्प्रभुः ॥ ९४॥ निज एव निजो हि स्याद्यः परः पर एव सः । प्रद्युम्नः शम्बरं हत्वा पितृप्रीतिं व्यधत्त यत् ॥ ९५॥ महत्सादृश्यमाप्तोऽपि किं नीचस्तत्समो गुणैः । धृतोरुशङ्खचक्रादिः पौण्ड्रकश्चक्रिणा हतः ॥ ९६॥ स्वस्य स्वकृतमेव स्यान्नाशायावलिनः खलु । सुदक्षिणं स्वकृत्याग्निश्चक्रप्रतिहतोऽदहत् ॥ ९७॥ पुण्यक्षेत्राणि सेवेत पुण्यकालेऽपि सन्मतिः । समन्तपञ्चकं श्रीशः सभार्योऽगाद्रविग्रहे ॥ ९८॥ को न याति मुदं लोके सत्कृतः प्रभुणा भृशम् । नन्दपार्थमुखास्तुष्टा मिलिता हरिमानिताः ॥ ९९॥ सत्यां साधनसम्पत्तावेव धर्मं समाचरेत् । वसुदेवोऽध्वरं कृत्वा मुन्युक्तो द्वारकामयात् ॥ १००॥ पुत्रः स एव योऽभीष्टं कुर्यान्मातुस्तथा पितुः । तत्त्वान्युक्त्वाच्युतो मातुर्बलीड्योऽदर्शयत्सुतान् ॥ १०१॥ भवत्यसह्यं हासार्थमुक्तमप्यतिविप्रियम् । भैष्म्या नर्मोक्तितः खेदं प्रेक्ष्येशस्तामशान्तयत् ॥ १०२॥ यौवनं भर्तृसङ्गेन पुत्रोत्पत्या च भाति सः । एकैकशो दश दश पुत्रान् प्रापुर्हरेः प्रियाः ॥१०३॥ वदेच्छलेन योऽसत्यं दण्ड एव तदुत्तरम् । रुक्मिणं ग्लहजिद्रामः पौत्रोद्वाहोत्सवेऽवधीत् ॥१०४॥ नास्त्येव वनिताभ्योऽन्यत् त्रिलोक्यां सुखदायकम् । श्रीशः षोडशसाहस्रैर्दारै रेमे शताधिकैः ॥१०५॥ कार्याणि निर्वहत्येकः समर्थः सुबहून्यपि । क्रियाकृन्नारदेनेशो दृष्टः प्रत्यङ्गनागृहम् ॥१०६॥ बहुभिर्हेतुभिः कार्यमेकमारभते बुधः । इन्द्रप्रस्थं स उक्तोऽयाद्दूतनारदसूद्धवैः ॥ १०७॥ सुसंमन्त्र्य प्रवृत्तस्य सिद्धिरव्यभिचारिणी । भीमः प्राप्य जरासन्धं जघान हरिसंमतः ॥ १०८॥ स्वयं यदि भवेत्साधुर्लभेदेव स मङ्गलम् । सहदेवोऽभिषिक्तश्च भूपाः कृष्णेन मोचिताः ॥ १०९॥ न श्रावयेद्वचः क्रूरं मत्सरं च परित्यजेत् । यज्ञोत्सवे जघानाजश्चैद्यमाप्ताग्रपूजनः ॥ ११०॥ महानारब्धकार्यस्य समाप्तिकरणं गुणः । पार्थानां पूरयित्वागाद्राजसूयं प्रभुः पुरम् ॥ १११॥ अपकारप्रतीकारं सद्यः कुर्यात्स्वभीतये । प्रेक्ष्याद्रुत्य पुरं भग्नं शाल्वं हत्वाच्युतोऽविशत् ॥ ११२॥ मित्रं विपदि सम्पत्तावपि तुल्यक्रियं हि यत् । आकर्ण्याप्तवनान्पार्थानाश्वास्येशोऽगमत्पुरम् ॥ ११३॥ संसर्ग एव महतां फलाय महते भवेत् कृष्णहस्ताम्बुजस्पर्शान्नृगो मुक्तः कुयोनितः ॥ ११४॥ अकृतोपद्रवो लोके पूज्यते न महानपि । व्रजं गतेन रामेणाकृष्टा तं यमुनार्चयत् ॥ ११५॥ स नश्यत्येव शीघ्रं यः करोत्युत्तमहेलनम् । लोकद्विट् द्विविदो धूर्तो हलिना निहतः कपिः ॥ ११६॥ नीचात्सिध्यति कोऽप्यर्थो न साम्ना किन्तु दण्डतः । ससाम्बोऽगाद्बलः पुर्यां कृष्टाया कुरुभिः स्तुतः ॥ ११७॥ धनिके निर्धने वापि भक्ते कार्योऽत्यनुग्रहः । हरिर्गत्वा मुदं चक्रे मैथिलश्रुतदेवयोः ॥ ११८॥ उपकारं न कुर्वीत नाशे प्राप्तेऽपि दुर्मतेः । शम्भुर्दत्तवरो भीतो वृकाद्वैकुण्ठमाव्रजत् ॥ ११९॥ युक्त्या यत्सुकरं भूरिपौरुषैस्तन्न साधयेत् । वाक्यैर्व्यनाशयद्विष्णुर्दारको मोहयन्वृकम् ॥ १२०॥ ते श्रेष्ठा विक्रियन्ते न ये हेतौ विकृते सति । भृगुणाङ्घ्रिप्रहारोऽपि नतोऽग्र्यो निश्चितोऽच्युतः ॥ १२१॥ भावि जानन्नपि हितं वदेदनपकीर्तये । उपप्लाव्ये गतः पार्थान्दूत्यं चक्रे जगत्पतिः ॥ १२२॥ नङ्क्ष्यन्तं न स्वतो हन्याद्भीषयेताभिभावुकम् । प्रदर्श्यानन्तरूपत्वं कृष्णोऽगाद्बद्धुमिच्छितः ॥ १२३॥ दूषणत्वमवाप्नोति गुणोऽप्यसमये नृणाम् । प्रबोध्येशेन युद्धाय विरक्तः प्रेरितोऽर्जुनः ॥ १२४॥ नैव कुर्यात्समर्थोऽपि किञ्चिदन्यस्य कीर्तये । नीत्वार्जुनं शिवोपान्तं प्राप्तेऽर्स्त्रेऽभ्यगमद्धरिः ॥ १२५॥ भवितव्यं भवत्येव स्वकाले समुपस्थिते । शान्तेनापि हतः सूतो रामेण मुनिमानितः ॥ १२६॥ अपकृत्या सुधीः खिन्नानुपकृत्या प्रहर्षयेत् । ऋषीणामिष्टकृद्दैत्यमवधीद्बल्वलं बलः ॥ १२७॥ दोषं कुर्यान्न कस्यापि विशेषाद्बलशालिनः । दुर्योधनोऽपि भीमेन सानुबन्धो हतो द्विषन् ॥ १२८॥ समर्थानपि कार्याप्त्यै कर्तव्यो बृहदाश्रयः । प्रपेदिरे महद्राज्यं पाण्डवाः केशवं श्रिताः ॥ १२९॥ गृहीत्वैकमसङ्ख्यातं प्रददाति महामतिः । सम्पदोऽदात्कुचेलाय हरिः पृथुकमुष्टिभुक् ॥ १३०॥ कार्या नैवात्मनः श्लाघा प्रतिज्ञाप्यतिगर्वितः । द्विजात्मजप्रदानेऽतिक्लेशमाप यतोऽर्जुनः ॥ १३१॥ अश्वमेधमपि त्यक्त्वा कुर्यान्मित्रेप्सितं द्रुतम् । आनीयेशः स्वधाम्नोऽदात्सार्जुनो विप्रबालकान् ॥ १३२॥ न करोति स यो वक्ति विधत्ते स न वक्ति यः । विकत्थमानः कृष्णेन दन्तवक्त्रो निषूदितः ॥ १३३॥ निस्तीर्णसर्वकार्याब्धिर्नितरां परिमोदिते । रेमे स्त्रीपुत्रपौत्राद्यैर्द्वारकायां श्रियःपतिः ॥ १३४॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते सप्तत्या दशमेऽर्धमन्तमपरं स्कन्धे सुपद्यैरगात् ॥ १३५॥ इति श्रीसुनीतिभागवते दशमस्कन्धे उत्तरार्धं समाप्तम् ॥
एकादशः स्कन्धः । यस्य प्रेरणया द्विजा यदुकुलं शेपुश्च यो वर्णितः कव्याद्यैरपि नारदेन गतये धाम्नोऽर्जितोऽजादिभिः । सद्विप्रोद्धवमुख्यभक्तसुखकृन्नीत्वा क्षयं यादवान् धामाप्तो विजयो यदिष्टमकरोत्कृष्णः स नो रक्षतात् ॥ १॥ श्रीकृष्णं वृणुते जगन्ति पुनते मध्वं च ये प्रीणते सद्धर्मान् ब्रुवते प्रियं प्रददते सत्तत्त्वमामन्वते । न स्स्वान् संस्तुवते गुणान् विदधते श्रेयो यशस्तन्वते दुष्टान् संधुनते ह्यघं विलुनते सन्तः प्रसीदन्तु ते ॥ २॥ गीतमेकादशे स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ फलत्येव द्विजस्योक्तिर्विशिष्टस्य विशेषतः । सम्प्राप्तं मुसलं विप्रशापाद्यदुकुमारकैः ॥ ४॥ लभते महतोऽभीष्टमपकुर्वन्नपि क्वचित् । कामाद्या उर्वशीं चार्वीं प्रापुर्नारायणान्मुनेः ॥ ५॥ स्वयमेव हितोपायं पृच्छेत्कुर्याद्यथोदितम् । कव्याद्युक्तान्निमिर्धर्मानातिष्ठन्नाप सद्गतिम् ॥ ६॥ सतां गुरौ प्रकृत्यैव विनयो व्यसनं श्रुतौ । वसुदेवो भागवतान् धर्मान् शुश्राव नारदात् ॥ ७॥ योग्यं किञ्चिदपि स्वेष्टं सतां सम्मतमाचरेत् । इयेष धाम गन्तुं स्वं कृष्णो ब्रह्ममुखर्थितः ॥ ८॥ हिताहिते नरं स्वीयं वेदयन्त्येव सज्जनाः । उत्पातेषूद्धवं भक्तं कृष्णो दृष्टेष्वबोधयत् ॥ ९॥ सद्बुद्ध्यैव प्रकर्तव्यं स्वकीयं सकलं जनैः । अवधूतो गुरूनूचे यदवे बुद्ध्युपाश्रितान् ॥ १०॥ महाधिकारिणोऽभीश्टं चिन्तनादेव सिध्यति । हंसोऽजचिन्तितस्तत्त्वं सनकादिभ्य उक्तवान् ॥ ११॥ सर्वसम्पत्सु नष्टासु सद्बुद्धिर्जायते नृणाम् । खिन्नः क्षीणधनो भिक्षुरावन्त्योऽभूद्द्विजः सुधीः ॥ १२॥ स्वधर्मान्नोच्चलेज्जानन्सुखदुःखप्रदं मनः । न चुकोप स्वधर्मस्थो भिक्षुर्दुष्टैरुपद्रुतः ॥ १३॥ दुःखकृद्विषयासङ्गो वैराग्यं सुखसाधनम् । निर्वेदेनोर्वशीत्यक्तः सुखं प्राप पुरूरवाः ॥ १४॥ प्राज्ञं प्रत्येव साधूपदेशः स्यान्न निरर्थकः । उद्धवो हरिणा प्रोक्तो ययौ बदरिकाश्रमम् ॥ १५॥ यतेत श्रेयसे तावद्यावत्स्वस्थं कलेवरम् । प्रभासमाप्य कृष्णोक्ता यादवा धर्ममाचरन् ॥ १६॥ अदृष्टवशतो भावि निरोद्धुं कः प्रभुर्भवेत् । उन्मत्ता यादवाः प्राप्ताः क्ष्ययं घ्नन्तो मिथस्तृणैः ॥ १७॥ नोपकारोऽपकारश्च भक्तिरेव प्रयोजिका । विद्धः स्तुतो जराव्याधं भगवाननयद्दिवम् ॥ १८॥ सर्वानप्युद्धरेत्कृच्छ्राद्विशेषेणोद्धारेन्निजान् । इन्द्रप्रस्थाप्तयेऽन्येषां कृष्णो दारुकमादिशत् ॥ १९॥ प्रभुः सम्मान्यते सार्वैर्नितान्तमुपकारकः । कृष्णो विवेश धाम स्वं स्तूयमानोऽब्जजादिभिः ॥ २०॥ किं देहेनाखिलार्थैः किं महात्मविरहो यदि । कृष्नादीन् वसुदेवाद्या अपश्यन्तो जहुस्तनूः ॥ २१॥ धीरो हि कुरुते धैर्यं विहितं च विपद्यपि । अर्जुनः कारयामास बन्धूनां सांपरायिकम् ॥ २२॥ स सुहृद्यो ददातीष्टं न जहाति विपद्गतम् । सर्वान्नीत्वार्जुनो वज्रमिन्द्रप्रस्थेऽभ्यषेचयत् ॥ २३॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते ऽगाच्छ्लोकैर्दशभिर्लसन् द्विगुणितैः स्कन्धोऽन्तमेकादशः ॥ २४॥ इति श्रीसुनीतिभागवते एकादशस्कन्धः समाप्तः ॥
द्वादशः स्कन्धः । ब्रह्माद्याः स्तुवते रमापि जुषते सम्यङ् न यं जानते केऽप्युत्पादयते जगत्समुचिते काले स्म यस्त्रायते । एकः संहरते तथा स नुदते ज्ञानादिदो द्योतते भक्तान् प्रीणयते स्वधाम नयते नारायणः प्रीयताम् ॥ १॥ कल्की यो जनमेजयः पितृवधादारब्धसर्पाध्वरा- द्यद्दासो विरतो यजूंषि सवितुः श्रीयाज्ञवल्क्योऽध्यगात् । मार्कण्डेयमुनिर्जितस्मरमुखोऽपश्यल्लयं चाच्युतः यद्भक्त्यादि वरानवाप गिरिशात्कृष्णः स नो रक्षतात् ॥ २॥ वर्णितं द्वादशे स्कन्धे भगवद्भक्तसद्यशः । गीयते नीतिरूपेण विष्णुवैष्णवतुष्टये ॥ ३॥ कार्योऽन्येषु न विश्वासः सर्वेष्वपि कलौ युगे । रिपुञ्जयाद्या निहताः स्वकीयैर्मुनिकादिभिः ॥ ४॥ यदा यदुचितं प्राज्ञो विदधाति तदैव तत् । हनिष्यत्यसतः कल्की शुको राज्ञार्चितो ययौ ॥ ५॥ धनैः को वश्यतां नैति प्रयत्नैः किं न साध्यते । काश्यपं तर्पयित्वार्थैर्नृपतिं तक्षकोऽदशत् ॥ ६॥ क्षुद्रान् कृतपरद्रोहान्नाङ्गीकुर्याद्बृहन्नपि । तक्षकाङ्गीकृतेरिन्द्रः सर्पसत्रे प्रचालितः ॥ ७॥ मान्यान् सम्मानयेज्जह्यात्स्वायोग्यकरणे रतिम् । सर्पसत्रान्निववृते गुरूक्तो जनमेजयः ॥ ८॥ न नश्यति दुरुक्त्या किं सदुक्त्या किं न सिध्यति । याज्ञवल्क्यो गुरुत्यक्तो यजूंष्याप स्तुताद्रवेः ॥ ९॥ निःस्पृहस्य तृणं सर्वं महदुल्लङ्घितुस्तथा । जेतुं शेकुर्न कामाद्या मार्कण्डेयं जितान्तकम् ॥ १०॥ कामयन्ते गरीयांसो बृहदेव न चात्यणु । मायां द्रष्टुं ययाचे स मुनिर्नारायणं मुनिम् ॥ ११॥ क्वचिद्बिभेति धीरोऽपि क्वचिद्धृष्यति विस्मितः । मार्कण्डेयो लये भीतो दृष्टे विष्णावमोदत ॥ १२॥ गुणिनामेव कुर्वन्ति प्रियमप्रार्थिता अपि । विष्णुभक्त्यादि रुद्रोऽदान्मार्कण्डेयाय मोदितः ॥ १३॥ लक्ष्मीशोरुमतेर्लसद्गुणततेः सन्मध्वपूजारतेः श्रीमत्सागरवेङ्कटेशविबुधाद्यं शान्तबायी सुतम् । रामं प्राप सुनीतिभागवत उत्कृष्टेऽत्र तन्निर्मिते सच्छ्लोकैर्दशभिः शुभैर्विलसितः स्कन्धोऽगमद्द्वादशः ॥ १४॥ श्रीमद्भागवताखिलातिपृथुलस्कन्धार्थसम्बोधिनी सद्भक्त्यावधृता चतुःशतलघुश्लोकीयमुर्वी बुधैः । पापं नाशयति ह्यशेषविपदः श्रीकृष्णभक्तिं महा- सम्पत्तिं च ददाति मुक्तिमतुलां धर्मार्थकामान् शुभम् ॥ इति श्रीमत्सागरवेङ्कटेशाचार्यपुत्रेण रामेण कृते सुनीतिभागवते द्वादशः स्कन्धः समाप्तः ॥ श्रीकृष्णाय नमः । श्री वेदव्यासाय नमः ॥ The Suniti Bhagavatam of Sagara rAmAchArya of the 17th Century is based on a manuscript at Sukrtindra Oriental Research Institute, Cochin, Kerala. The author gives in each verse a principle of right conduct in the first line, and as an illustration of it, the story of the Bhagavata in the second line. Encoded and proofread by PSA Easwaran
% Text title            : sunItibhAgavatam
% File name             : sunItibhAgavatam.itx
% itxtitle              : sunItibhAgavatam (rAmAchAryakRitam)
% engtitle              : sunItibhAgavatam
% Category              : vishhnu, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Sagara Ramacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (translation)
% Latest update         : October 7, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org