वामनस्तोत्रम् पद्मपुराणान्तर्गतम्

वामनस्तोत्रम् पद्मपुराणान्तर्गतम्

श्रीगणेशाय नमः । अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिन् जनार्दन । सत्त्वादिगुणभेदेन लोकव्यापारकारिणे ॥ १॥ नमस्ते बहुरूपाय अरूपाय नमो नमः । सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ २॥ नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशीलिने मङ्गलात्मने ॥ ३॥ यस्यावताररूपाणि ह्यर्जयन्ति मुनीश्वराः । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ ४॥ यं न जानन्ति श्रुतयो यं न जानन्ति सूरयः । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ ५॥ यस्यावलोकनं चित्रं मायोपद्रववारणम् । जगद्रूपं जगत्पालं तं वन्दे पद्मजाधवम् ॥ ६॥ यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णवः । करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥ ७॥ यत्पादाब्जजलक्लिन्नसेवारञ्जितमस्तकाः । अवापुः परमां सिद्धिं तं वन्दे सर्ववन्दितम् ॥ ८॥ यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसु निष्ठितम् । नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥ ९॥ अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु । प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ १०॥ ब्रह्माद्या अपि ये देवा यन्मायापाशयन्त्रिताः । न जानन्ति परं भावं तं वन्दे सर्वनायकम् ॥ ११॥ हृत्पद्मनिलयोऽज्ञानां दूरस्थ इव भाति यः । प्रमाणातीतसद्भावं तं वन्दे ज्ञानसाक्षिणम् ॥ १२॥ यन्मुखाद्ब्राह्मणो जातो बाहुभ्यः क्षत्रियोऽजनि । तथैव ऊरुतो वैश्यः पद्भ्यां शूद्रो अजायत ॥ १३॥ मनसश्चन्द्रमा जातो जातः सूर्यश्च चक्षुषः । मुखादिन्द्रस्तथाग्निश्च प्राणाद्वायुरजायत ॥ १४॥ त्वमिन्द्रः पवनः सोमस्त्वमीशानस्त्वमन्तकः । त्वमग्निर्निरृतिश्चैव वरुणस्त्वं दिवाकरः ॥ १५॥ देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसाः । गिरयः सिद्धगन्धर्वा नद्यो भूमिश्च सागराः ॥ १६॥ त्वमेव जगतामीशो पुन्नामास्ति परात्परः । var यन्नामास्ति त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ १७॥ इति स्तुत्वा देवधात्री देवं मत्वा पुनः पुनः । var नत्वा उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ १८॥ अनुग्राह्याऽस्मि देवेश हरे सर्वादिकारण । अकण्टकश्रियं देहि मत्सुतानां दिवौकसाम् ॥ १९॥ अन्तर्यामिन् जगद्रूप सर्वभूतपरेश्वर । तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥ २०॥ तथापि तव वक्ष्यामि यन्मे मनसि वर्तते । वृथापुत्रास्मिदेवेश रक्षोभिः परिपीडिता ॥ २१॥ एतान्न हन्तुमिच्छामि मत्सुता दितिजातयः । var दितिजा यतः तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥ २२॥ इत्युक्तो देवदेवस्तु पुनः प्रीतिमुपागतः । उवाच हर्षयन्साध्वीं कृपयाऽभिपरिप्लुतः ॥ २३॥ श्रीभगवानुवाच । प्रीतोऽस्मि देवि भद्रं ते भविष्यामि सुतस्तव । यतः सपत्नीतनयेष्वपि वात्सल्यशालिनी ॥ २४॥ त्वया च मे कृतं स्तोत्रं पठन्ति भुवि मानवाः । तेषां पुत्रा धनं सम्पन्न हीयन्ते कदाचन ॥ २५॥ अन्ते मत्पदमाप्नोति यद्विष्णोः परमं शुभम् ॥ २६॥ इति श्रीपद्मपुराणान्तर्गतं वामनस्तोत्रं समाप्तम् । Proofread by Dinesh Agarwal dinesh.garghouse at gmail.com, NA
% Text title            : vAmanastotram padmapurANAntargatam
% File name             : vAmanastotrampadmapurANa.itx
% itxtitle              : vAmanastotram (padmapurANAntargatam namaste devadevesha sarvavyApin janArdana)
% engtitle              : vAmanastotram from Padmapurana
% Category              : vishhnu, dashAvatAra, stotra, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Dinesh Agarwal  dinesh.garghouse at gmail.com, NA
% Description-comments  : From PadmapurANa
% Latest update         : July 12, 2012
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org