अदितिकृता वासुदेवस्तुतिः

अदितिकृता वासुदेवस्तुतिः

अदितिरुवाच - नमः सर्वार्तिनाशाय नमः पुष्करमालिने । नमः परमकल्याणकल्याणायादिवेधसे ॥ १॥ नमः पङ्कजनेत्राय नमः पङ्कजनाभये । श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ॥ २॥ नमः पङ्कजसम्भूतिसम्भवायात्मयोनये । नमः शङ्खासिहस्ताय नमः कनकरेतसे ॥ ३॥ तथात्मज्ञानविज्ञान योगिचिन्त्यात्मयोगिने । निर्गुणायाविशेषाय हरये ब्रह्मरूपिणे ॥ ४॥ जगत्प्रतिष्ठितं यत्र जगता यो न दृश्यते । नमः स्थूलातिसूक्ष्माय तस्मै देवाय शङ्खिने ॥ ५॥ यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः । अपश्यद्भिर्जगत्यत्र न देवो हृदि संस्थितः ॥ ६॥ यस्मिन्नेव विनश्येत यस्यैतदखिलं जगत् । तस्मै समस्तजगतामाधाराय नमो नमः ॥ ७॥ आद्यः प्रजापतिपतिर्यः प्रभूणां पतिः परः । पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥ ८॥ यः प्रवृत्तौ निवृत्तौ च इज्यते कर्मभिः स्वकैः । स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥ ९॥ यश्चिन्त्यमानो मनसा सद्यः पापं व्यपोहति । नमस्तस्मै विशुद्धाय पराय हरिवेधसे ॥ १०॥ यं बुद्ध्वा सर्वभूतानि देवदेवेशमव्ययम् । न पुनर्जन्ममरणे प्राप्नुवन्ति नमामि तम् ॥ ११॥ यो यज्ञे यज्ञपरमैरिज्यते यज्ञसंज्ञितः । तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥ १२॥ गीयते सर्वदेवेषु वेदविद्भिर्विदां पतिः । यस्तस्मै वेदवेद्याय विष्णवे जिष्णवे नमः ॥ १३॥ यतो विश्वं समुत्पन्नं यस्मिंश्च लयमेष्यति । विश्वागम प्रतिष्ठाय नमस्तस्मै महात्मने ॥ १४॥ ब्रह्मादि स्तम्बपर्यन्तं येन विश्वमिदं ततम् । मायाजालं समुत्तर्तुं तमुपेन्द्रं नमाम्यहम् ॥ १५॥ यस्तु तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः । विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥ १६॥ यमाराध्य विशुद्धेन मनसा कर्मणा गिरा । तरन्त्यविद्यामखिलां तमुपेन्द्रं नमाम्यहम् ॥ १७॥ विषादतोषरोषाद्यैःर्योऽजस्रं सुखदुःखजैः । नृत्यत्यखिलभूतस्थस्तमुपेन्द्रं नमाम्यहम् ॥ १८॥ मूर्तं तमोऽसुरमयं तद्वधाद्विनिहन्ति यः । रात्रिजं सूर्यरूपीव तमुपेन्द्रं नमाम्यहम् ॥ १९॥ कपिलादिस्वरूपस्थो यश्चाज्ञानमयं तमः । हन्ति ज्ञानप्रदानेन तमुपेन्द्रं नमाम्यहम् ॥ २०॥ यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम् । पश्यतः कर्म सततमुपेन्द्रं तं नमाम्यहम् ॥ २१॥ यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् । नानृतं तमजं विष्णुं नमामि प्रभवाप्ययम् ॥ २२॥ यच्च तत्सत्यमुक्तं मे भूयांश्चातो जनार्दनः । सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥ २३॥ एवं स्तुतः स भगवान् वासुदेव उवाच ताम् । अदृश्यः सर्वभूतानां तस्याः सन्दर्शने स्थितः ॥ २४॥ मनोरथां स्त्वमदिते यानिच्छस्यभिवाङ्छितान् । तांस्त्वं प्राप्स्यसि धर्मज्ञे मत्प्रसादान्न संशयः ॥ २५॥ श‍ृणुष्व सुमहाभागे वरो यस्ते हृदि स्थितः । तमाशु व्रियतां कामं श्रेयस्ते सम्भविष्यति । मद्दर्शनं हि विफलं न कदाचिद्भविष्यति ॥ २६॥ इति मत्स्यपुराणे अदितिकृता वासुदेवस्तुतिः समाप्ता । इति विष्णुधर्मेषु पञ्चसप्तत्याध्यायान्तर्गतं अदितिकृतं विष्णुस्तोत्रं सम्पूर्णम् matsyapurANa adhyAya 244 shlokAH 12-37 Also in viShNudharma upapurANam adhyAya 75 shlokAH 11-31 Transliterated by Subrahmanyam Yvs Proofread by Subrahmanyam Yvs, Malleswara Rao
% Text title            : vAsudevastutiH aditikRitA
% File name             : vAsudevastutiaditi.itx
% itxtitle              : vAsudevastutiH (matsyapurANAntargataM evaM viShNudharmopapurANAntargatA aditikRitA namaH sarvArtinAshAya)
% engtitle              : vAsudevastutiH
% Category              : vishhnu, krishna, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Subrahmanyam Yvs
% Proofread by          : Subrahmanyam Yvs, Malleswara Rao Yellapragada
% Source                : matsyapurANa adhyAya 244 shlokAH 12-37, viShNudharmaupapurANa adhyAya 75 shlokAH 11-31
% Latest update         : July 21, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org