श्रीवेङ्कटेशस्तुतिः
आनन्दनिलये शेते तल्पे वैकुण्ठभूधरे ।
क्रीडते रमया सार्धं श्रीनिवासमहं भजे ॥ १॥
श्रीनिवासः परं दैवं श्रीनिवासः परं सखा ।
श्रीनिवासः परं ज्ञानं श्रीनिवासः परा गतिः ॥ २॥
॥ इति श्रीवादिराजतीर्थश्रीचरणकृता श्रीवेङ्कटेशस्तुतिः ॥
Encoded and proofread by
Malleswara Rao Yellapragada malleswararaoy at yahoo.com