$1
श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्
$1

श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्

(पद्मपुराणे उत्तरखण्डे - वासुदेवसहस्रनामस्तोत्रं नारदपञ्चरात्रे विष्णुसहस्रनामं च ब्रह्मनारद - पार्वतीशिवसंवादात्मकम्) विनियोगः ॐ अस्य श्रीविष्णोर्नामसहस्रस्तोत्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः । श्रीविष्णुः परमात्मा देवता। ह्रीं बीजं। श्रीं शक्तिः । क्लीं कीलकम्। चतुर्वर्गधर्मार्थकाममोक्षप्राप्त्यर्थे नामपारायणे विनियोगः । ॐ वाउदेवाय विद्महे । महाहंसाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ अथ करन्यासः । श्रीवासुदेवः परं ब्रह्मेत्यङ्गुष्ठाभ्यां नमः । मूलप्रकृतिरिति तर्जनीभ्यां नमः । महावराह इति मध्यमाभ्यां नमः । सूर्यवंशध्वज इति अनामिकाभ्यां नमः । ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति कनिष्ठिकाभ्यां नमः । यथार्थखण्डिताशेष इति करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः । श्रीवासुदेवः परं ब्रह्मेइति हृदयम् । मूलप्रकृतिरिति शिरः । महावराह इति शिखा । सूर्यवंशध्वज इति कवचम् । ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति नेत्रम् । पार्थार्थखण्डिताशेष इत्यस्त्रम् । नमो नारायणेति न्यासं सर्वत्र कारयेत् ॥ ॐ नमो नारायणायेति दिग्बन्धः ॥ ॥ ध्यानम् ॥ ॐ नमो नारायणाय पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि । (विशुद्धशुद्धसत्त्वाय महाहंसाय धीमहि) । तन्नो देवः प्रचोदयात् । लमित्यादि पञ्चपूजा । ॐ नमो नारायणाय इति (२) ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्लीं कृष्णाय विष्णवे (विद्महे) ह्रीं रामाय धीमहि । तन्नो देवः प्रचोदयात् ॥ क्ष्रौं (शं) नृसिंहाय विद्महे श्रीं श्रीकण्ठाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ ॐ वासुदेवाय विद्महे देवकीसुताय धीमहि । तन्नः कृष्णः प्रचोदयात् ॥ ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय नमः स्वाहा । इति मन्त्रं समुच्चार्य यजेद्वा विष्नुमव्ययम् । इति वा मन्त्रं यथोचितं जप्त्वा ध्यायेत् । ध्यानम् । विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदराङ्घ्रिं श्रीभूषं श्रीसुवक्षोमणि मकरमहाकुण्डलं मण्डिताशम् । हस्तोद्यच्चक्रशङ्खाम्बुजगलममलं पीतकौशेयवासं विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥ ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परः । परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ १॥ परं शिवः परो ध्येयः परं ज्ञानं परा गतिः । परमार्थः परं श्रेयः परानन्दः परोदयः ॥ २॥ परोऽव्यक्तात्परं व्योम परमर्द्धिः परेश्वरः । निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ ३॥ निरञ्जनो निरातङ्को निर्लेपो निरवग्रहः । निर्गुणो निष्कलोऽनन्तोऽभयोऽचिन्त्यो बलोचितः ॥ ४॥ अतीन्द्रियोऽमितोऽपारोऽनीशोऽनीहोऽव्ययोऽक्षयः । (नित्योऽनीहो) सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ ५॥ सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् । सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ ६॥ सर्ववासः सर्वरूपः सर्वादिः सर्वदुःखहा । सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥ ७॥ सर्वातिशायितः सर्वाध्यक्षः सर्वसुरेश्वरः । षड्विंशको महाविष्णुर्महागुह्यो महाविभुः ॥ ८॥ नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः । मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ ९॥ जन्ममृत्युजरातीतः कालातीतो भवातिगः । पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ १०॥ योगिप्रियो योगमयो भवबन्धैकमोचकः । (योगप्रियो) पुराणपुरुषः प्रत्यक्चैतन्यः पुरुषोत्तमः ॥ ११॥ वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः । ब्रह्मविद्याश्रयोऽनाद्यः स्वप्रकाशः स्वयम्प्रभुः ॥ १२॥ (ब्रह्मविद्याश्रयोऽनाघः) सर्वोपेय उदासीनः प्रणवः (१००) सर्वतः समः । (सर्वोपाय) सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः ॥ १३॥ कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः । सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ १४॥ अनुल्लंघ्यश्चित्रगतिर्महारुद्रो दुरासदः । मूलप्रकृतिरानन्दः प्रद्युम्नो विश्वमोहनः ॥ १५॥ महामायो विश्वबीजं पराशक्तिसुखैकभूः । सर्वकाम्योऽनन्तलीलः सर्वभूतवशङ्करः ॥ १६॥ अनिरुद्धः सर्वजीवो हृषीकेशो मनः पतिः । निरुपाधिप्रियो हंसोऽक्षरः सर्वनियोजकः ॥ १७॥ ब्रह्मप्राणेश्वरः सर्वभूतभृद्देहनायकः । क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ १८॥ अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः । (निर्गुअण ईश्वरः) योगिगम्यः पद्मनाभः शेषशायी श्रियःपतिः ॥ १९॥ श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः । (श्रीशिवोपास्यपादाब्जो) नित्यवक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ २०॥ वश्यश्रीर्निश्चलश्रीदो विष्णुः क्षीराब्धिमन्दिरः । कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ २१॥ श्रीवत्सवक्षा निःसीमकल्याणगुणभाजनम् । पीताम्बरो जगन्नाथो जगत्त्राता जगत्पिता ॥ २२॥ जगद्बन्धुर्जगत्स्रष्टा जगद्धाता जगन्निधिः । जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः ॥ २३॥ (वीर्यो नाहंवादी) सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरञ्जितः । सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ २४॥ शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः । सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः ॥ २५॥ सर्वदेवैकशरणं सर्वदेवैकदैवतम् । (सर्वदेवैकदेवता) यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ २६॥ यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः । द्विजैकमानदो (२००) विप्रकुलदेवोऽसुरान्तकः ॥ २७॥ सर्वदुष्टान्तकृत्सर्वसज्जनानन्यपालकः । सप्तलोकैकजठरः सप्तलोकैकमण्डनः ॥ २८॥ सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः । शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ २९॥ अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः । अनन्तकीर्तिर्निःसीमपौरुषः सर्वमङ्गलः ॥ ३०॥ सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः । मयकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥ ३१॥ (ब्रह्मकोटि) कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः । कन्दर्पकोटिलावण्यो दुर्गाकोट्यरिमर्दनः ॥ ३२॥ समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः । कुबेरकोटिलक्ष्मीवाञ्शक्रकोटिविलासवान् ॥ ३३॥ हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः । कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ ३४॥ सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः । ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ ३५॥ विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः । आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ ३६॥ वैकुण्ठेश्वरमाहात्म्यो महायोगेश्वरोत्सवः । (वैकुण्ठोऽनन्तमाहात्म्यो) नित्यतृप्तो लसद्भावो निःशङ्को नरकान्तकः ॥ ३७॥ दीनानाथैकशरणं विश्वैकव्यसनापहः । जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः ॥ ३८॥ योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः । अधोक्षजो विश्वरेताः प्रजापतिशताधिपः ॥ ३९॥ शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः । सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ ४०॥ जगत्सेतुर्धर्मसेतुधरो विश्वधुरन्धरः । निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥ ४१॥ वश्यमायो वश्यविश्वो विष्वक्सेनो सुरोत्तमः । सर्वश्रेयःपतिर्दिव्योऽनर्घ्यभूषणभूषितः ॥ ४२॥ (दिव्यानर्घ्य) सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा । समस्तदेवसर्वस्वं सर्वदैवतनायकः ॥ ४३॥ समस्तदेवकवचं सर्वदेवशिरोमणिः । समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः ॥ ४४॥ समस्तभयहृन्नामा भगवान्विष्टरश्रवाः । विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः (३००) ॥ ४५॥ सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः । ब्रह्मशम्भुः शतार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट् ॥ ४६॥ (शम्भुपरार्धायु) विराड् भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः । परार्थकर्ता कृत्यज्ञः स्वार्थकृत्यसदोज्ज्ञितः ॥ ४७॥ सदानन्दः सदाभद्रः सदाशान्तः सदाशिवः । सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः ॥ ४८॥ सदापूतः पावनाग्र्यो वेदगुह्यो वृषाकपिः । सहस्रनामा त्रियुगश्चतुर्मूर्तिश्चतुर्भुजः ॥ ४९॥ भूतभव्यभवन्नाथो महापुरुषपूर्वजः । नारायणो मुञ्जकेशः सर्वयोगविनिःसृतः ॥ ५०॥ (मञ्जुकेशः) वेदसारो यज्ञसारः सामसारस्तपोनिधिः । साध्यः श्रेष्ठः पुराणर्षिर्निष्ठाशान्तिः परायणम् ॥ ५१॥ शिवस्त्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः । नरः कृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ ५२॥ आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा । त्रिकालजितकन्दर्प उर्वशीसृङ्मुनीश्वरः ॥ ५३॥ आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः । सर्वदेवमयो ब्रह्मगुरुर्वागीश्वरीपतिः ॥ ५४॥ अनन्तविद्याप्रभवो मूलाविद्याविनाशकः । सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः ॥ ५५॥ (नमज्जाड्य) अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपारगः । आदिविद्वान्वेदकर्ता वेदात्मा श्रुतिसागरः ॥ ५६॥ ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः । विद्याराजो ज्ञानमूर्तिर्ज्ञानसिन्धुरखण्डधीः ॥ ५७॥ मत्स्यदेवो महाश‍ृङ्गो जगद्बीजवहित्रधृक् । (दृक्) लीलाव्याप्ताखिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ ५८॥ (अम्भोधिएऋग्वेआदिप्रवर्तकः) आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः । अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥ ५९॥ आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः । हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ ६०॥ समस्तपितृभीतिघ्नः समस्तपितृजीवनम् । हव्यकव्यैकभुक् (४००) हव्यकव्यैकफलदायकः ॥ ६१॥ रोमान्तर्लीनजलधिः क्षोभिताशेषसागरः । महावराहो यज्ञस्य ध्वंसको याज्ञिकाश्रयः ॥ ६२॥ (यज्ञघ्नध्वंसको) श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा । एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकभञ्जनः ॥ ६३॥ ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः । कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् ॥ ६४॥ मातृचक्रप्रमथनो महामातृगणेश्वरः । अचिन्त्यामोघवीर्याढ्यः समस्तासुरघस्मरः ॥ ६५॥ हिरण्यकशिपुच्छेदी कालः सङ्कर्षिणीपतिः । कृतान्तवाहनासह्यः समस्तभयनाशनः ॥ ६६॥ (वाहनः सद्यः) सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः । समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ ६७॥ भैरवेशो हरार्तिघ्नः कालकल्कोटिदुरासदः । दैत्यगर्भस्राविनामा स्फुटद्ब्रह्माण्डगर्जितः ॥ ६८॥ स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः । ब्रह्मचर्यशिरःपिण्डी दिक्पालोऽर्धाङ्गभूषणः ॥ ६९॥ द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः । योगिनीग्रस्तगिरिजात्राता भैरवतर्जकः ॥ ७०॥ वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशम्बरः । (उग्रो यमारिः कालसंवरः) क्रोधेश्वरो रुद्रचण्डीपरिवारादिदुष्टभुक् ॥ ७१॥ सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्तकः । असाध्यसर्वदेवघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥ ७२॥ (सर्वरोगघ्नः) गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा । देवदानवदुर्दर्शो जगद्भयदभीषणः ॥ ७३॥ (भीषकः) समस्तदुर्गतित्राता जगद्भक्षकभक्षकः । उग्रशाम्बरमार्जारः कालमूषकभक्षकः ॥ ७४॥ (उग्रेशोऽम्बर) अनन्तायुधदोर्दण्डी नृसिंहो वीरभद्रजित् । योगिनीचक्रगुह्येशः शक्रारिपशुमांसभुक् ॥ ७५॥ रुद्रो नारायणो मेषरूपशङ्करवाहनः । मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् ॥ ७६॥ तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः । (वामाचाराकिलेष्टदः) महाशिवः शिवारुढो भैरवैककपालधृक् ॥ ७७॥ झिल्लीचक्रेश्वरः शक्रदिव्यमोहनरूपदः । (किल्ली, हिल्ली) गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ ७८॥ ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः । सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ ७९॥ उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः । बलिस्वाराज्यदः सर्वदेवविप्रान्नदोऽच्युतः (५००) ॥ ८०॥ उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः । व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ ८१॥ ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतधर्माङ्घ्रिधावनः । var द्रुतकर्माद्रिधारणः द्रुतधर्माऽहिधावनः अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ ८२॥ राहुमूर्धापराङ्गछिद् भृगुपत्नीशिरोहरः । पापत्रस्तः सदापुण्यो दैत्याशानित्यखण्डनः ॥ ८३॥ पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् । स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ ८४॥ वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः । विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥ ८५॥ पराशक्तिसदाश्लिष्टो योगानन्दः सदोन्मदः । समस्तेन्द्रारितेजोहृत्परमामृतपद्मपः ॥ ८६॥ अनसूयागर्भरत्नं भोगमोक्षसुखप्रदः । जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत् ॥ ८७॥ (शक्तिधृक्) मातृहत्यादिनिर्लेपः स्कन्दजिद्विप्रराज्यदः । सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् ॥ ८८॥ सप्तद्वीपवतीदाता शिवाचार्ययशःप्रदः । भीमः परशुरामश्च शिवाचार्यैकविप्रभुक् ॥ ८९॥ (विश्वभूः) शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः । द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तजित् ॥ ९०॥ अद्वितीयतपोमूर्तिर्ब्रह्मचर्यैकदक्षिणः । मनुः श्रेष्ठः सतां सेतुर्महीयान्वृषभो विराट् ॥ ९१॥ आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् । पृथुर्जन्माद्येकदक्षो गीःश्रीकीर्तिस्वयंवृतः ॥ ९२॥ जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठोऽद्वयास्त्रधृक् । (जगद्गति) सनकादिमुनिप्राप्यभगवद्भक्तिवर्धनः ॥। ९३॥ वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः । सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः ॥ ९४॥ काकुत्स्थो वीरराड् राजा राजधर्मधुरन्धरः । (वीरराजार्यो) नित्यस्वःस्थाश्रयः सर्वभद्रग्राही शुभैकदृक् ॥। ९५॥ नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः । सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान् ॥ ९६॥ (सर्वशस्त्रास्त्रग्रामवीर्यवान्) जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः । (जगदीशो) समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा ॥ ९७॥ अतीन्द्रो ज्ञानविज्ञानपारदश्च क्षमाम्बुधिः । सर्वप्रकृष्टशिष्टेष्टो (६००) हर्षशोकाद्यनाकुलः ॥ ९८॥ पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः । गुहादेशार्पितैश्वर्यः शिवस्पर्धिजटाधरः ॥। ९९॥ (शिवस्पर्धाजटाधरः) चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः । यथेष्टामोघसर्वास्त्रो देवेन्द्रतनयाक्षिहा ॥ १००॥ ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा । ब्रह्मशापहताशेषदण्डकारण्यपावनः ॥ १०१॥ चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृक् । खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः ॥ १०२॥ जटायुषोऽग्निगतिदोऽगस्त्यसर्वस्वमन्त्रराट् । (कबन्धस्वर्गदायकः, पात्रराट्)) लीलाधनुष्कोट्यापास्तदुन्दुभ्यस्थिमहाचयः ॥ १०३॥ सप्ततालव्यधाकृष्टध्वजपातालदानवः । सुग्रीवराज्यदोऽहीनमनसैवाभयप्रदः ॥ १०४॥ हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् । सनागदैत्यबाणैकव्याकुलीकृतसागरः ॥ १०५॥ सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः । समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ १०६॥ असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः । (समूलोत्साददक्षिणः) वरदृप्तजगच्छल्यपौलस्त्यकुलकृन्तनः ॥ १०७॥ रावणिघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा । रावणैकशिरच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ १०८॥ स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रानिन्द्रताहरः । (देवेन्द्रारातिनिर्हरः) रक्षोदेवत्वहृद्धर्माधर्मध्नश्च पुरुष्टुतः ॥ १०९॥ नतिमात्रदशास्यारिर्दत्तरज्यविभीषणः । सुधावृष्टिभृताशेषस्वसैन्योज्जीवनैककृत् ॥ ११०॥ देवब्राह्मणनामैकधाता सर्वामरार्चितः । ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियः ॥ १११॥ (रुद्रादिवन्ध्यायितशताप्रियः) अयोध्याखिलराजन्यः सर्वभूतमनोहरः । (राजाग्र्यः) स्वामितुल्यकृपादण्डो हीनोत्कृष्टैकसत्प्रियः ॥ ११२॥ (स्वाम्यतुल्य) स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः । व्याधव्याजानुचितकृत्तारकोऽखिलतुल्यकृत् ॥ ११३॥ (वधयाजानु) पार्वत्याऽधिकयुक्तात्मा प्रियात्यक्तः स्मरारिजित् । (पावित्र्याधिक्य) साक्षात्कुशलवच्छद्मेन्द्रादितातोऽपराजितः ॥ ११४॥ (छद्मद्रावितो ह्यपराजितः) कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः । शरसन्धाननिर्धूतधरणीमण्डलोदयः ॥ ११५॥ (मण्डलो जयः) ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः । ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकः ॥ ११६॥ स्वर्नीतगर्दभाश्वादिश्चिरायोध्यावनैककृत्त् । रामो द्वितीयसौमित्रिर्लक्ष्मणः प्रहतेन्द्रजित् ॥ ११७॥ विष्णुभक्त्याप्तरामाङ्घ्रिः पादुकाराज्यनिर्वृतः । (विष्णुभक्तः सरामाङ्घ्रि) भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ ११८॥ शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः । (वैद्यराड्) नित्यामृतकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ ११९॥ सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः । छिन्नमूर्धोपदेशार्कः शेषाङ्गस्थापितामरः ॥ १२०॥ विश्वार्थाशेषकृद्राहुशिरश्छेदाक्षताकृतिः । वाजपेयादिनामाग्निर्वेदधर्मापरायणः (७००) ॥ १२१॥ श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् । विश्वप्रकाशितज्ञानयोगो मोहतमिस्रहा ॥ १२२॥ देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः । योगस्वामी ध्यानभङ्गसगरात्मजभस्मकृत् ॥ १२३॥ धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः । शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्वहः ॥ १२४॥ भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः । महाप्रलयविश्वैकोऽद्वितीयोऽखिलनागराट् ॥ १२५॥ शेषदेवः सहस्राक्षः सहस्रास्यशिरोभुजः । फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ १२६॥ कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः । नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ १२७॥ असन्तोषदृष्टिमात्रपातितैकदशाननः । बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ १२८॥ मुष्टिकघ्नो द्विविदहा कालिन्दीकर्षणो बलः । रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः ॥ १२९॥ देवकीवसुदेवाह्वकश्यपादितिनन्दनः । वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ १३०॥ (कुलेश्वरः) नराकृतिः परं ब्रह्म सव्यसाचिवरप्रदः । ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशैशवः ॥ १३१॥ पूतनाध्नः शकटभिद्यमलार्जुनभञ्जनः । (भञ्जकः) वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ १३२॥ दामोदरो गोपदेवो यशोदाऽऽनन्ददायकः । (आनन्दकारकः) कालीयमर्दनः सर्वगोपगोपीजनप्रियः ॥ १३३॥ लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः । अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ १३४॥ सद्यः कुवलयापीडघाती चाणूरमर्दनः । कंसारिरुग्रसेनादिराज्यव्यापारितापरः ॥ १३५॥ सुधर्माङ्कितभूर्लोको जरासन्धबलान्तकः । त्यक्तभग्नजरासन्धो भीमसेनयशःप्रदः ॥ १३६॥ सान्दीपनिमृतापत्यदाता कालान्तकादिजित् । समस्तनारकित्राता सर्वभूपतिकोटिजित् ॥ १३७॥ रुक्मिणीरमणो रुक्मिशासनो नरकान्तकः । समस्तसुन्दरीकान्तो मुरारिर्गरुडध्वजः ॥ १३८॥ एकाकिजितरुद्रार्कमरुदाद्यखिलेश्वरः । देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ १३९॥ बाणबाहुसहस्रच्छिन्नन्द्यादिगणकोटिजित् । लीलाजितमहादेवो महादैवेकपूजितः ॥ १४०॥ इन्द्रार्थार्जुननिर्भङ्गजयदः पाण्डवैकधृक् । काशीराजशिरश्छेत्ता रुद्रशक्त्त्येकमर्दनः ॥ १४१॥ विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः । (प्रसादाढ्यः) शम्भुप्रतिज्ञाविध्वंसी काशीनिर्दग्ध नायकः (८००) ॥ १४२॥ काशीशगणकोटिघ्नो लोकशिक्षाशिवार्चकः । (द्विजार्चकः) युवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ १४३॥ (शिवतीव्रत) शङ्करैकप्रतिष्ठाधृक् स्वांशशङ्करपूजकः । शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ १४४॥ (व्रतप्रीतः) महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा । स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृत् ॥ १४५॥ यमुनापतिरानीतपरिलीनशिवात्मजः । (द्विजात्मजः) श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवः ॥ १४६॥ दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः । (मुक्तिदो द्वारकेश्वरः) आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृत् ॥ १४७॥ अक्रूरोद्भवमुख्यैकभक्तस्वच्छन्दमुक्तिदः । सबालस्त्रीजलक्रीडोऽमृतवापीकृतार्णवः ॥ १४८॥ ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् । परिलीनद्विजसुतानेताऽर्जुनमदापहः ॥ १४९॥ गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः । पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहहृत् ॥ १५०॥ गर्भशापच्छलध्वस्तयादवोर्वीभयापहः । जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः ॥ १५१॥ कामदेवो रतिपतिर्मन्मथः शम्बरान्तकः । अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः ॥ १५२॥ पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीप्रियः । (कामेश्वरीपतिः) उषापतिर्विश्वकेतुर्विश्वतृप्तोऽधिपूरुषः ॥ १५३॥ चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः । चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिकः ॥ १५४॥ (कोटिसूः) आश्रमात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत् । महाभारतनिर्माता कवीन्द्रो बादरायणः ॥ १५५॥ कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः । वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् ॥ १५६॥ बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः । निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः ॥ १५७॥ (श्रीधनो) दैत्यवेदबहिष्कर्ता वेदार्थश्रुतिगोपकः । शौद्धोदनिर्दृष्टदिष्टः सुखदः सदसस्पतिः ॥ १५८॥ यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः । चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ १५९॥ पाखण्डवेदमार्गेशः पाखण्डश्रुतिगोपकः । कल्की विष्णुयशःपुत्रः कलिकालविलोपकः ॥ १६०॥ समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत् । सत्यप्रवर्तको देवद्विजदीर्घक्षुधापहः ॥ १६१॥ अश्ववारादिरेवान्तः पृथ्वीदुर्गतिनाशनः । सद्यःक्ष्मानन्तलक्ष्मीकृत् नष्टनिःशेषधर्मवित् ॥ १६२॥ अनन्तस्वर्णयागैकहेमपूर्णाखिलद्विजः । (स्वर्ग) असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ १६४॥ (विश्वबन्धो) आत्मतत्त्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः । भर्तृश्रेष्ठः (९००) प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः ॥ १६४॥ कश्यपो देवराजेन्द्रः प्रह्लादो दैत्यराट् शशी । (देवराडिन्द्रः) नक्षत्रेशो रविस्तेजःश्रेष्ठः शुक्रः कवीश्वरः ॥ १६५॥ महर्षिराड् भृगुर्विष्णुरादित्येशो बलिः स्वराट् । वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराड् गुरुः ॥ १६६॥ विद्वत्तमश्चित्ररथो गन्धर्वाग्र्योऽक्षरोत्तमः । वर्णादिरग्र्यः स्त्री गौरी शक्त्याग्र्या श्रीश्च नारदः ॥ १६७॥ देवर्षिराट् पाण्डवाग्र्योऽर्जुनो वादप्रवादराट् । पवनः पवनेशानो वरुणो यादसां पतिः ॥ १६८॥ (पावनः पावनेशानो) गङ्गातीर्थोत्तमो द्यूतं छत्रकाग्र्यं वरौषधम् । अन्नं सुदर्शनोऽस्त्राग्र्यं वज्रं प्रहरणोत्तमम् ॥ १६९॥ उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः । अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥ १७०॥ अध्यात्मविद्या विद्याग्र्यः प्रणवश्छन्दसां वरः । मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः ॥ १७१॥ दिनाद्यात्मा पूर्वसिद्धः कपिलः सामवेदराट् । तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ १७२॥ दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुहृत्तमः । चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ १७३॥ सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्नृवरो नृपः । वर्णेशो ब्राह्मणश्चेतः करणाग्र्यो (१०००) नमो नमः ॥ १७४॥ इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् । सर्वापराधशमनं परं भक्तिविवर्धनम् ॥ १७५॥ अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम् । (सर्वस्वर्गैकसाधनम्) विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् ॥ १७६॥ समस्तसुखदं सद्यः परनिर्वाणदायकम् । कामक्रोधादि निःशेषमनोमलविशोधनम् ॥ १७७॥ शान्तिदं पावनं नॄणां महापातकिनामपि । सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ १७८॥ समस्तविघ्नशमनं सर्वारिष्टविनाशनम् । घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम् ॥ १७९॥ ऋणत्रयापहं गुह्यं धनधान्ययशस्करम् । सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम् ॥ १८०॥ तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् । जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्तकम् ॥ १८१॥ राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् । वन्ध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम् ॥ १८२॥ (चाऽऽशु) भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम् । माङ्गल्यं पुण्यमायुष्यं श्रवणात् पठनाज्जपात् ॥ १८३॥ (सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः । पुराणशास्त्रस्मृतयः श्रुताः स्युः पठितास्तथा ॥ जप्त्वाऽस्यैकाक्षरं श्लोकं पादं वा पठति प्रिये । नित्यं सिध्यति सर्वेष्टमचिरात्किमुताखिलम् ॥ नानेन सदृशं सद्यःप्रत्ययं सर्वकर्मसु । इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ॥ नावैष्णवाय दातव्यं विकल्पापहतात्मने । भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ॥ देयं पुत्राय शिष्याय सुहृदे हितकाम्यया । मत्प्रसादादतो नेदं ग्रहीष्यन्त्यल्पमेधसः ॥ कलौ सद्यःफलं कल्पग्रामं नेष्यति नारदः । लोकानां भाग्यहीनानां येन दुःखं विनश्यति ॥ द्वित्रेषु वैष्णवेष्वेतदार्यावर्ते भविष्यति ॥) नास्ति विष्णोः परं धाम नास्ति विष्णोः परन्तपः । (परो जपः) नास्ति विष्णो परो धर्मो नास्ति मन्त्रो ह्यवैष्णवः ॥ १८४॥ नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः । सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः ॥ १८५ सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् । पार्वत्युवाच धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते ॥ १८६॥ यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् । कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वर प्रभो ॥ १८७॥ त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत् । विष्णोः सहस्रनामैतत् प्रत्यहं वृषभध्वज ॥ १८८॥ नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो । महादेव उवाच राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ १८९॥ ॥ इति श्रीपद्मपुराणे उत्तरखण्डे पार्वतीशिवसंवादे श्रीविष्णोर्नामसहस्रं च वासुदेवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ (द्वीसप्ततितमोऽध्यायः) Variations are shown witn parenthesis on the right side of any line. Also this appears to be almost same s Vishnusahasranamastotram from Narada pancharatra Proofread by DPD, PSA Easwaran, NA
$1
% Text title            : shrIviShNu or vAsudevasahasranAmastotram
% File name             : viShNusahasranAmastotrapadmapurana.itx
% itxtitle              : viShNusahasranAmastotram vAsudevasahasranAmastotram cha (padmapurANAntargatam)
% engtitle              : shrIviShNu or vAsudevasahasranAmastotram
% Category              : sahasranAma, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD, help from Alex
% Proofread by          : DPD, PSA Easwaran, NA
% Source                : padmapuraNe uttarakhande evaM nAradapancharAtre
% Indexextra            : (1, 2, Kannada)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : November 6, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org