श्रीविष्णु अपरनाम वासुदेवसहस्रनामस्तोत्रम्
(पद्मपुराणे उत्तरखण्डे - वासुदेवसहस्रनामस्तोत्रं
नारदपञ्चरात्रे विष्णुसहस्रनामं च
ब्रह्मनारद - पार्वतीशिवसंवादात्मकम्)
विनियोगः
ॐ अस्य श्रीविष्णोर्नामसहस्रस्तोत्रस्य श्रीमहादेव ऋषिः ।
अनुष्टुप्छन्दः । श्रीविष्णुः परमात्मा देवता। ह्रीं बीजं।
श्रीं शक्तिः । क्लीं कीलकम्।
चतुर्वर्गधर्मार्थकाममोक्षप्राप्त्यर्थे नामपारायणे विनियोगः ।
ॐ वाउदेवाय विद्महे । महाहंसाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥
अथ करन्यासः ।
श्रीवासुदेवः परं ब्रह्मेत्यङ्गुष्ठाभ्यां नमः ।
मूलप्रकृतिरिति तर्जनीभ्यां नमः ।
महावराह इति मध्यमाभ्यां नमः ।
सूर्यवंशध्वज इति अनामिकाभ्यां नमः ।
ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति कनिष्ठिकाभ्यां नमः ।
यथार्थखण्डिताशेष इति करतलकरपृष्ठाभ्यां नमः ॥
अथ हृदयादिन्यासः ।
श्रीवासुदेवः परं ब्रह्मेइति हृदयम् ।
मूलप्रकृतिरिति शिरः ।
महावराह इति शिखा ।
सूर्यवंशध्वज इति कवचम् ।
ब्रह्मादिकाम्यललितजगदाश्चर्यशैशव इति नेत्रम् ।
पार्थार्थखण्डिताशेष इत्यस्त्रम् ।
नमो नारायणेति न्यासं सर्वत्र कारयेत् ॥
ॐ नमो नारायणायेति दिग्बन्धः ॥
॥ ध्यानम् ॥
ॐ नमो नारायणाय पुरुषाय महात्मने ।
विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ।
(विशुद्धशुद्धसत्त्वाय महाहंसाय धीमहि) ।
तन्नो देवः प्रचोदयात् ।
लमित्यादि पञ्चपूजा । ॐ नमो नारायणाय इति (२)
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः
क्लीं कृष्णाय विष्णवे (विद्महे) ह्रीं रामाय धीमहि ।
तन्नो देवः प्रचोदयात् ॥
क्ष्रौं (शं) नृसिंहाय विद्महे श्रीं श्रीकण्ठाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥
ॐ वासुदेवाय विद्महे देवकीसुताय धीमहि ।
तन्नः कृष्णः प्रचोदयात् ॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः क्लीं कृष्णाय
गोविन्दाय गोपीजनवल्लभाय नमः स्वाहा ।
इति मन्त्रं समुच्चार्य यजेद्वा विष्नुमव्ययम् ।
इति वा मन्त्रं यथोचितं जप्त्वा ध्यायेत् ।
ध्यानम् ।
विष्णुं भास्वत्किरीटाङ्गदवलयगणाकल्पहारोदराङ्घ्रिं
श्रीभूषं श्रीसुवक्षोमणि मकरमहाकुण्डलं मण्डिताशम् ।
हस्तोद्यच्चक्रशङ्खाम्बुजगलममलं पीतकौशेयवासं
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ॥
ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परः ।
परं धाम परं ज्योतिः परं तत्त्वं परं पदम् ॥ १॥
परं शिवः परो ध्येयः परं ज्ञानं परा गतिः ।
परमार्थः परं श्रेयः परानन्दः परोदयः ॥ २॥
परोऽव्यक्तात्परं व्योम परमर्द्धिः परेश्वरः ।
निरामयो निर्विकारो निर्विकल्पो निराश्रयः ॥ ३॥
निरञ्जनो निरातङ्को निर्लेपो निरवग्रहः ।
निर्गुणो निष्कलोऽनन्तोऽभयोऽचिन्त्यो बलोचितः ॥ ४॥
अतीन्द्रियोऽमितोऽपारोऽनीशोऽनीहोऽव्ययोऽक्षयः । (नित्योऽनीहो)
सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः ॥ ५॥
सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् ।
सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः ॥ ६॥
सर्ववासः सर्वरूपः सर्वादिः सर्वदुःखहा ।
सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् ॥ ७॥
सर्वातिशायितः सर्वाध्यक्षः सर्वसुरेश्वरः ।
षड्विंशको महाविष्णुर्महागुह्यो महाविभुः ॥ ८॥
नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः ।
मायापतिर्योगपतिः कैवल्यपतिरात्मभूः ॥ ९॥
जन्ममृत्युजरातीतः कालातीतो भवातिगः ।
पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः ॥ १०॥
योगिप्रियो योगमयो भवबन्धैकमोचकः । (योगप्रियो)
पुराणपुरुषः प्रत्यक्चैतन्यः पुरुषोत्तमः ॥ ११॥
वेदान्तवेद्यो दुर्ज्ञेयस्तापत्रयविवर्जितः ।
ब्रह्मविद्याश्रयोऽनाद्यः स्वप्रकाशः स्वयम्प्रभुः ॥ १२॥ (ब्रह्मविद्याश्रयोऽनाघः)
सर्वोपेय उदासीनः प्रणवः (१००) सर्वतः समः । (सर्वोपाय)
सर्वानवद्यो दुष्प्राप्यस्तुरीयस्तमसः परः ॥ १३॥
कूटस्थः सर्वसंश्लिष्टो वाङ्गमनोगोचरातिगः ।
सङ्कर्षणः सर्वहरः कालः सर्वभयङ्करः ॥ १४॥
अनुल्लंघ्यश्चित्रगतिर्महारुद्रो दुरासदः ।
मूलप्रकृतिरानन्दः प्रद्युम्नो विश्वमोहनः ॥ १५॥
महामायो विश्वबीजं पराशक्तिसुखैकभूः ।
सर्वकाम्योऽनन्तलीलः सर्वभूतवशङ्करः ॥ १६॥
अनिरुद्धः सर्वजीवो हृषीकेशो मनः पतिः ।
निरुपाधिप्रियो हंसोऽक्षरः सर्वनियोजकः ॥ १७॥
ब्रह्मप्राणेश्वरः सर्वभूतभृद्देहनायकः ।
क्षेत्रज्ञः प्रकृतिस्वामी पुरुषो विश्वसूत्रधृक् ॥ १८॥
अन्तर्यामी त्रिधामाऽन्तःसाक्षी त्रिगुण ईश्वरः । (निर्गुअण ईश्वरः)
योगिगम्यः पद्मनाभः शेषशायी श्रियःपतिः ॥ १९॥
श्रीसदोपास्यपादाब्जो नित्यश्रीः श्रीनिकेतनः । (श्रीशिवोपास्यपादाब्जो)
नित्यवक्षःस्थलस्थश्रीः श्रीनिधिः श्रीधरो हरिः ॥ २०॥
वश्यश्रीर्निश्चलश्रीदो विष्णुः क्षीराब्धिमन्दिरः ।
कौस्तुभोद्भासितोरस्को माधवो जगदार्तिहा ॥ २१॥
श्रीवत्सवक्षा निःसीमकल्याणगुणभाजनम् ।
पीताम्बरो जगन्नाथो जगत्त्राता जगत्पिता ॥ २२॥
जगद्बन्धुर्जगत्स्रष्टा जगद्धाता जगन्निधिः ।
जगदेकस्फुरद्वीर्योऽनहंवादी जगन्मयः ॥ २३॥ (वीर्यो नाहंवादी)
सर्वाश्चर्यमयः सर्वसिद्धार्थः सर्वरञ्जितः ।
सर्वामोघोद्यमो ब्रह्मरुद्राद्युत्कृष्टचेतनः ॥ २४॥
शम्भोः पितामहो ब्रह्मपिता शक्राद्यधीश्वरः ।
सर्वदेवप्रियः सर्वदेवमूर्तिरनुत्तमः ॥ २५॥
सर्वदेवैकशरणं सर्वदेवैकदैवतम् । (सर्वदेवैकदेवता)
यज्ञभुग्यज्ञफलदो यज्ञेशो यज्ञभावनः ॥ २६॥
यज्ञत्राता यज्ञपुमान्वनमाली द्विजप्रियः ।
द्विजैकमानदो (२००) विप्रकुलदेवोऽसुरान्तकः ॥ २७॥
सर्वदुष्टान्तकृत्सर्वसज्जनानन्यपालकः ।
सप्तलोकैकजठरः सप्तलोकैकमण्डनः ॥ २८॥
सृष्टिस्थित्यन्तकृच्चक्री शार्ङ्गधन्वा गदाधरः ।
शङ्खभृन्नन्दकी पद्मपाणिर्गरुडवाहनः ॥ २९॥
अनिर्देश्यवपुः सर्वपूज्यस्त्रैलोक्यपावनः ।
अनन्तकीर्तिर्निःसीमपौरुषः सर्वमङ्गलः ॥ ३०॥
सूर्यकोटिप्रतीकाशो यमकोटिदुरासदः ।
मयकोटिजगत्स्रष्टा वायुकोटिमहाबलः ॥ ३१॥ (ब्रह्मकोटि)
कोटीन्दुजगदानन्दी शम्भुकोटिमहेश्वरः ।
कन्दर्पकोटिलावण्यो दुर्गाकोट्यरिमर्दनः ॥ ३२॥
समुद्रकोटिगम्भीरस्तीर्थकोटिसमाह्वयः ।
कुबेरकोटिलक्ष्मीवाञ्शक्रकोटिविलासवान् ॥ ३३॥
हिमवत्कोटिनिष्कम्पः कोटिब्रह्माण्डविग्रहः ।
कोट्यश्वमेधपापघ्नो यज्ञकोटिसमार्चनः ॥ ३४॥
सुधाकोटिस्वास्थ्यहेतुः कामधुक्कोटिकामदः ।
ब्रह्मविद्याकोटिरूपः शिपिविष्टः शुचिश्रवाः ॥ ३५॥
विश्वम्भरस्तीर्थपादः पुण्यश्रवणकीर्तनः ।
आदिदेवो जगज्जैत्रो मुकुन्दः कालनेमिहा ॥ ३६॥
वैकुण्ठेश्वरमाहात्म्यो महायोगेश्वरोत्सवः । (वैकुण्ठोऽनन्तमाहात्म्यो)
नित्यतृप्तो लसद्भावो निःशङ्को नरकान्तकः ॥ ३७॥
दीनानाथैकशरणं विश्वैकव्यसनापहः ।
जगत्कृपाक्षमो नित्यं कृपालुः सज्जनाश्रयः ॥ ३८॥
योगेश्वरः सदोदीर्णो वृद्धिक्षयविवर्जितः ।
अधोक्षजो विश्वरेताः प्रजापतिशताधिपः ॥ ३९॥
शक्रब्रह्मार्चितपदः शम्भुब्रह्मोर्ध्वधामगः ।
सूर्यसोमेक्षणो विश्वभोक्ता सर्वस्य पारगः ॥ ४०॥
जगत्सेतुर्धर्मसेतुधरो विश्वधुरन्धरः ।
निर्ममोऽखिललोकेशो निःसङ्गोऽद्भुतभोगवान् ॥ ४१॥
वश्यमायो वश्यविश्वो विष्वक्सेनो सुरोत्तमः ।
सर्वश्रेयःपतिर्दिव्योऽनर्घ्यभूषणभूषितः ॥ ४२॥ (दिव्यानर्घ्य)
सर्वलक्षणलक्षण्यः सर्वदैत्येन्द्रदर्पहा ।
समस्तदेवसर्वस्वं सर्वदैवतनायकः ॥ ४३॥
समस्तदेवकवचं सर्वदेवशिरोमणिः ।
समस्तदेवतादुर्गः प्रपन्नाशनिपञ्जरः ॥ ४४॥
समस्तभयहृन्नामा भगवान्विष्टरश्रवाः ।
विभुः सर्वहितोदर्को हतारिः स्वर्गतिप्रदः (३००) ॥ ४५॥
सर्वदैवतजीवेशो ब्राह्मणादिनियोजकः ।
ब्रह्मशम्भुः शतार्धायुर्ब्रह्मज्येष्ठः शिशुः स्वराट् ॥ ४६॥ (शम्भुपरार्धायु)
विराड् भक्तपराधीनः स्तुत्यः स्तोत्रार्थसाधकः ।
परार्थकर्ता कृत्यज्ञः स्वार्थकृत्यसदोज्ज्ञितः ॥ ४७॥
सदानन्दः सदाभद्रः सदाशान्तः सदाशिवः ।
सदाप्रियः सदातुष्टः सदापुष्टः सदार्चितः ॥ ४८॥
सदापूतः पावनाग्र्यो वेदगुह्यो वृषाकपिः ।
सहस्रनामा त्रियुगश्चतुर्मूर्तिश्चतुर्भुजः ॥ ४९॥
भूतभव्यभवन्नाथो महापुरुषपूर्वजः ।
नारायणो मुञ्जकेशः सर्वयोगविनिःसृतः ॥ ५०॥ (मञ्जुकेशः)
वेदसारो यज्ञसारः सामसारस्तपोनिधिः ।
साध्यः श्रेष्ठः पुराणर्षिर्निष्ठाशान्तिः परायणम् ॥ ५१॥
शिवस्त्रिशूलविध्वंसी श्रीकण्ठैकवरप्रदः ।
नरः कृष्णो हरिर्धर्मनन्दनो धर्मजीवनः ॥ ५२॥
आदिकर्ता सर्वसत्यः सर्वस्त्रीरत्नदर्पहा ।
त्रिकालजितकन्दर्प उर्वशीसृङ्मुनीश्वरः ॥ ५३॥
आद्यः कविर्हयग्रीवः सर्ववागीश्वरेश्वरः ।
सर्वदेवमयो ब्रह्मगुरुर्वागीश्वरीपतिः ॥ ५४॥
अनन्तविद्याप्रभवो मूलाविद्याविनाशकः ।
सर्वज्ञदो जगज्जाड्यनाशको मधुसूदनः ॥ ५५॥ (नमज्जाड्य)
अनन्तमन्त्रकोटीशः शब्दब्रह्मैकपारगः ।
आदिविद्वान्वेदकर्ता वेदात्मा श्रुतिसागरः ॥ ५६॥
ब्रह्मार्थवेदहरणः सर्वविज्ञानजन्मभूः ।
विद्याराजो ज्ञानमूर्तिर्ज्ञानसिन्धुरखण्डधीः ॥ ५७॥
मत्स्यदेवो महाशृङ्गो जगद्बीजवहित्रधृक् । (दृक्)
लीलाव्याप्ताखिलाम्भोधिश्चतुर्वेदप्रर्वतकः ॥ ५८॥ (अम्भोधिएऋग्वेआदिप्रवर्तकः)
आदिकूर्मोऽखिलाधारस्तृणीकृतजगद्भरः ।
अमरीकृतदेवौघः पीयूषोत्पत्तिकारणम् ॥ ५९॥
आत्माधारो धराधारो यज्ञाङ्गो धरणीधरः ।
हिरण्याक्षहरः पृध्वीपतिः श्राद्धादिकल्पकः ॥ ६०॥
समस्तपितृभीतिघ्नः समस्तपितृजीवनम् ।
हव्यकव्यैकभुक् (४००) हव्यकव्यैकफलदायकः ॥ ६१॥
रोमान्तर्लीनजलधिः क्षोभिताशेषसागरः ।
महावराहो यज्ञस्य ध्वंसको याज्ञिकाश्रयः ॥ ६२॥ (यज्ञघ्नध्वंसको)
श्रीनृसिंहो दिव्यसिंहः सर्वानिष्टार्थदुःखहा ।
एकवीरोऽद्भुतबलो यन्त्रमन्त्रैकभञ्जनः ॥ ६३॥
ब्रह्मादिदुःसहज्योतिर्युगान्ताग्न्यतिभीषणः ।
कोटिवज्राधिकनखो जगद्दुष्प्रेक्ष्यमूर्तिधृक् ॥ ६४॥
मातृचक्रप्रमथनो महामातृगणेश्वरः ।
अचिन्त्यामोघवीर्याढ्यः समस्तासुरघस्मरः ॥ ६५॥
हिरण्यकशिपुच्छेदी कालः सङ्कर्षिणीपतिः ।
कृतान्तवाहनासह्यः समस्तभयनाशनः ॥ ६६॥ (वाहनः सद्यः)
सर्वविघ्नान्तकः सर्वसिद्धिदः सर्वपूरकः ।
समस्तपातकध्वंसी सिद्धमन्त्राधिकाह्वयः ॥ ६७॥
भैरवेशो हरार्तिघ्नः कालकल्कोटिदुरासदः ।
दैत्यगर्भस्राविनामा स्फुटद्ब्रह्माण्डगर्जितः ॥ ६८॥
स्मृतमात्राखिलत्राताऽद्भुतरूपो महाहरिः ।
ब्रह्मचर्यशिरःपिण्डी दिक्पालोऽर्धाङ्गभूषणः ॥ ६९॥
द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुरः ।
योगिनीग्रस्तगिरिजात्राता भैरवतर्जकः ॥ ७०॥
वीरचक्रेश्वरोऽत्युग्रोऽपमारिः कालशम्बरः । (उग्रो यमारिः कालसंवरः)
क्रोधेश्वरो रुद्रचण्डीपरिवारादिदुष्टभुक् ॥ ७१॥
सर्वाक्षोभ्यो मृत्युमृत्युः कालमृत्युनिवर्तकः ।
असाध्यसर्वदेवघ्नः सर्वदुर्ग्रहसौम्यकृत् ॥ ७२॥ (सर्वरोगघ्नः)
गणेशकोटिदर्पघ्नो दुःसहाशेषगोत्रहा ।
देवदानवदुर्दर्शो जगद्भयदभीषणः ॥ ७३॥ (भीषकः)
समस्तदुर्गतित्राता जगद्भक्षकभक्षकः ।
उग्रशाम्बरमार्जारः कालमूषकभक्षकः ॥ ७४॥ (उग्रेशोऽम्बर)
अनन्तायुधदोर्दण्डी नृसिंहो वीरभद्रजित् ।
योगिनीचक्रगुह्येशः शक्रारिपशुमांसभुक् ॥ ७५॥
रुद्रो नारायणो मेषरूपशङ्करवाहनः ।
मेषरूपशिवत्राता दुष्टशक्तिसहस्रभुक् ॥ ७६॥
तुलसीवल्लभो वीरो वामाचारोऽखिलेष्टदः । (वामाचाराकिलेष्टदः)
महाशिवः शिवारुढो भैरवैककपालधृक् ॥ ७७॥
झिल्लीचक्रेश्वरः शक्रदिव्यमोहनरूपदः । (किल्ली, हिल्ली)
गौरीसौभाग्यदो मायानिधिर्मायाभयापहः ॥ ७८॥
ब्रह्मतेजोमयो ब्रह्मश्रीमयश्च त्रयीमयः ।
सुब्रह्मण्यो बलिध्वंसी वामनोऽदितिदुःखहा ॥ ७९॥
उपेन्द्रो नृपतिर्विष्णुः कश्यपान्वयमण्डनः ।
बलिस्वाराज्यदः सर्वदेवविप्रान्नदोऽच्युतः (५००) ॥ ८०॥
उरुक्रमस्तीर्थपादस्त्रिपदस्थस्त्रिविक्रमः ।
व्योमपादः स्वपादाम्भःपवित्रितजगत्त्रयः ॥ ८१॥
ब्रह्मेशाद्यभिवन्द्याङ्घ्रिर्द्रुतधर्माङ्घ्रिधावनः ।
var द्रुतकर्माद्रिधारणः द्रुतधर्माऽहिधावनः
अचिन्त्याद्भुतविस्तारो विश्ववृक्षो महाबलः ॥ ८२॥
राहुमूर्धापराङ्गछिद् भृगुपत्नीशिरोहरः ।
पापत्रस्तः सदापुण्यो दैत्याशानित्यखण्डनः ॥ ८३॥
पूरिताखिलदेवेशो विश्वार्थैकावतारकृत् ।
स्वमायानित्यगुप्तात्मा भक्तचिन्तामणिः सदा ॥ ८४॥
वरदः कार्तवीर्यादिराजराज्यप्रदोऽनघः ।
विश्वश्लाघ्योऽमिताचारो दत्तात्रेयो मुनीश्वरः ॥ ८५॥
पराशक्तिसदाश्लिष्टो योगानन्दः सदोन्मदः ।
समस्तेन्द्रारितेजोहृत्परमामृतपद्मपः ॥ ८६॥
अनसूयागर्भरत्नं भोगमोक्षसुखप्रदः ।
जमदग्निकुलादित्यो रेणुकाद्भुतशक्तिकृत् ॥ ८७॥ (शक्तिधृक्)
मातृहत्यादिनिर्लेपः स्कन्दजिद्विप्रराज्यदः ।
सर्वक्षत्रान्तकृद्वीरदर्पहा कार्तवीर्यजित् ॥ ८८॥
सप्तद्वीपवतीदाता शिवाचार्ययशःप्रदः ।
भीमः परशुरामश्च शिवाचार्यैकविप्रभुक् ॥ ८९॥ (विश्वभूः)
शिवाखिलज्ञानकोषो भीष्माचार्योऽग्निदैवतः ।
द्रोणाचार्यगुरुर्विश्वजैत्रधन्वा कृतान्तजित् ॥ ९०॥
अद्वितीयतपोमूर्तिर्ब्रह्मचर्यैकदक्षिणः ।
मनुः श्रेष्ठः सतां सेतुर्महीयान्वृषभो विराट् ॥ ९१॥
आदिराजः क्षितिपिता सर्वरत्नैकदोहकृत् ।
पृथुर्जन्माद्येकदक्षो गीःश्रीकीर्तिस्वयंवृतः ॥ ९२॥
जगद्वृत्तिप्रदश्चक्रवर्तिश्रेष्ठोऽद्वयास्त्रधृक् । (जगद्गति)
सनकादिमुनिप्राप्यभगवद्भक्तिवर्धनः ॥। ९३॥
वर्णाश्रमादिधर्माणां कर्ता वक्ता प्रवर्तकः ।
सूर्यवंशध्वजो रामो राधवः सद्गुणार्णवः ॥ ९४॥
काकुत्स्थो वीरराड् राजा राजधर्मधुरन्धरः । (वीरराजार्यो)
नित्यस्वःस्थाश्रयः सर्वभद्रग्राही शुभैकदृक् ॥। ९५॥
नररत्नं रत्नगर्भो धर्माध्यक्षो महानिधिः ।
सर्वश्रेष्ठाश्रयः सर्वशास्त्रार्थग्रामवीर्यवान् ॥ ९६॥ (सर्वशस्त्रास्त्रग्रामवीर्यवान्)
जगद्वशो दाशरथिः सर्वरत्नाश्रयो नृपः । (जगदीशो)
समस्तधर्मसूः सर्वधर्मद्रष्टाऽखिलाघहा ॥ ९७॥
अतीन्द्रो ज्ञानविज्ञानपारदश्च क्षमाम्बुधिः ।
सर्वप्रकृष्टशिष्टेष्टो (६००) हर्षशोकाद्यनाकुलः ॥ ९८॥
पित्राज्ञात्यक्तसाम्राज्यः सपत्नोदयनिर्भयः ।
गुहादेशार्पितैश्वर्यः शिवस्पर्धिजटाधरः ॥। ९९॥ (शिवस्पर्धाजटाधरः)
चित्रकूटाप्तरत्नाद्रिर्जगदीशो वनेचरः ।
यथेष्टामोघसर्वास्त्रो देवेन्द्रतनयाक्षिहा ॥ १००॥
ब्रह्मेन्द्रादिनतैषीको मारीचघ्नो विराधहा ।
ब्रह्मशापहताशेषदण्डकारण्यपावनः ॥ १०१॥
चतुर्दशसहस्रोग्ररक्षोघ्नैकशरैकधृक् ।
खरारिस्त्रिशिरोहन्ता दूषणघ्नो जनार्दनः ॥ १०२॥
जटायुषोऽग्निगतिदोऽगस्त्यसर्वस्वमन्त्रराट् । (कबन्धस्वर्गदायकः, पात्रराट्))
लीलाधनुष्कोट्यापास्तदुन्दुभ्यस्थिमहाचयः ॥ १०३॥
सप्ततालव्यधाकृष्टध्वजपातालदानवः ।
सुग्रीवराज्यदोऽहीनमनसैवाभयप्रदः ॥ १०४॥
हनूमद्रुद्रमुख्येशः समस्तकपिदेहभृत् ।
सनागदैत्यबाणैकव्याकुलीकृतसागरः ॥ १०५॥
सम्लेच्छकोटिबाणैकशुष्कनिर्दग्धसागरः ।
समुद्राद्भुतपूर्वैकबद्धसेतुर्यशोनिधिः ॥ १०६॥
असाध्यसाधको लङ्कासमूलोत्कर्षदक्षिणः । (समूलोत्साददक्षिणः)
वरदृप्तजगच्छल्यपौलस्त्यकुलकृन्तनः ॥ १०७॥
रावणिघ्नः प्रहस्तच्छित् कुम्भकर्णभिदुग्रहा ।
रावणैकशिरच्छेत्ता निःशङ्केन्द्रैकराज्यदः ॥ १०८॥
स्वर्गास्वर्गत्वविच्छेदी देवेन्द्रानिन्द्रताहरः । (देवेन्द्रारातिनिर्हरः)
रक्षोदेवत्वहृद्धर्माधर्मध्नश्च पुरुष्टुतः ॥ १०९॥
नतिमात्रदशास्यारिर्दत्तरज्यविभीषणः ।
सुधावृष्टिभृताशेषस्वसैन्योज्जीवनैककृत् ॥ ११०॥
देवब्राह्मणनामैकधाता सर्वामरार्चितः ।
ब्रह्मसूर्येन्द्ररुद्रादिवृन्दार्पितसतीप्रियः ॥ १११॥ (रुद्रादिवन्ध्यायितशताप्रियः)
अयोध्याखिलराजन्यः सर्वभूतमनोहरः । (राजाग्र्यः)
स्वामितुल्यकृपादण्डो हीनोत्कृष्टैकसत्प्रियः ॥ ११२॥ (स्वाम्यतुल्य)
स्वपक्षादिन्यायदर्शी हीनार्थाधिकसाधकः ।
व्याधव्याजानुचितकृत्तारकोऽखिलतुल्यकृत् ॥ ११३॥ (वधयाजानु)
पार्वत्याऽधिकयुक्तात्मा प्रियात्यक्तः स्मरारिजित् । (पावित्र्याधिक्य)
साक्षात्कुशलवच्छद्मेन्द्रादितातोऽपराजितः ॥ ११४॥ (छद्मद्रावितो ह्यपराजितः)
कोशलेन्द्रो वीरबाहुः सत्यार्थत्यक्तसोदरः ।
शरसन्धाननिर्धूतधरणीमण्डलोदयः ॥ ११५॥ (मण्डलो जयः)
ब्रह्मादिकाम्यसान्निध्यसनाथीकृतदैवतः ।
ब्रह्मलोकाप्तचाण्डालाद्यशेषप्राणिसार्थकः ॥ ११६॥
स्वर्नीतगर्दभाश्वादिश्चिरायोध्यावनैककृत्त् ।
रामो द्वितीयसौमित्रिर्लक्ष्मणः प्रहतेन्द्रजित् ॥ ११७॥
विष्णुभक्त्याप्तरामाङ्घ्रिः पादुकाराज्यनिर्वृतः । (विष्णुभक्तः सरामाङ्घ्रि)
भरतोऽसह्यगन्धर्वकोटिघ्नो लवणान्तकः ॥ ११८॥
शत्रुघ्नो वैद्यराजायुर्वेदगर्भौषधीपतिः । (वैद्यराड्)
नित्यामृतकरो धन्वन्तरिर्यज्ञो जगद्धरः ॥ ११९॥
सूर्यारिघ्नः सुराजीवो दक्षिणेशो द्विजप्रियः ।
छिन्नमूर्धोपदेशार्कः शेषाङ्गस्थापितामरः ॥ १२०॥
विश्वार्थाशेषकृद्राहुशिरश्छेदाक्षताकृतिः ।
वाजपेयादिनामाग्निर्वेदधर्मापरायणः (७००) ॥ १२१॥
श्वेतद्वीपपतिः साङ्ख्यप्रणेता सर्वसिद्धिराट् ।
विश्वप्रकाशितज्ञानयोगो मोहतमिस्रहा ॥ १२२॥
देवहूत्यात्मजः सिद्धः कपिलः कर्दमात्मजः ।
योगस्वामी ध्यानभङ्गसगरात्मजभस्मकृत् ॥ १२३॥
धर्मो वृषेन्द्रः सुरभीपतिः शुद्धात्मभावितः ।
शम्भुस्त्रिपुरदाहैकस्थैर्यविश्वरथोद्वहः ॥ १२४॥
भक्तशम्भुजितो दैत्यामृतवापीसमस्तपः ।
महाप्रलयविश्वैकोऽद्वितीयोऽखिलनागराट् ॥ १२५॥
शेषदेवः सहस्राक्षः सहस्रास्यशिरोभुजः ।
फणामणिकणाकारयोजिताब्ध्यम्बुदक्षितिः ॥ १२६॥
कालाग्निरुद्रजनको मुसलास्त्रो हलायुधः ।
नीलाम्बरो वारुणीशो मनोवाक्कायदोषहा ॥ १२७॥
असन्तोषदृष्टिमात्रपातितैकदशाननः ।
बलिसंयमनो घोरो रौहिणेयः प्रलम्बहा ॥ १२८॥
मुष्टिकघ्नो द्विविदहा कालिन्दीकर्षणो बलः ।
रेवतीरमणः पूर्वभक्तिखेदाच्युताग्रजः ॥ १२९॥
देवकीवसुदेवाह्वकश्यपादितिनन्दनः ।
वार्ष्णेयः सात्वतां श्रेष्ठः शौरिर्यदुकुलोद्वहः ॥ १३०॥ (कुलेश्वरः)
नराकृतिः परं ब्रह्म सव्यसाचिवरप्रदः ।
ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशैशवः ॥ १३१॥
पूतनाध्नः शकटभिद्यमलार्जुनभञ्जनः । (भञ्जकः)
वातासुरारिः केशिघ्नो धेनुकारिर्गवीश्वरः ॥ १३२॥
दामोदरो गोपदेवो यशोदाऽऽनन्ददायकः । (आनन्दकारकः)
कालीयमर्दनः सर्वगोपगोपीजनप्रियः ॥ १३३॥
लीलागोवर्धनधरो गोविन्दो गोकुलोत्सवः ।
अरिष्टमथनः कामोन्मत्तगोपीविमुक्तिदः ॥ १३४॥
सद्यः कुवलयापीडघाती चाणूरमर्दनः ।
कंसारिरुग्रसेनादिराज्यव्यापारितापरः ॥ १३५॥
सुधर्माङ्कितभूर्लोको जरासन्धबलान्तकः ।
त्यक्तभग्नजरासन्धो भीमसेनयशःप्रदः ॥ १३६॥
सान्दीपनिमृतापत्यदाता कालान्तकादिजित् ।
समस्तनारकित्राता सर्वभूपतिकोटिजित् ॥ १३७॥
रुक्मिणीरमणो रुक्मिशासनो नरकान्तकः ।
समस्तसुन्दरीकान्तो मुरारिर्गरुडध्वजः ॥ १३८॥
एकाकिजितरुद्रार्कमरुदाद्यखिलेश्वरः ।
देवेन्द्रदर्पहा कल्पद्रुमालङ्कृतभूतलः ॥ १३९॥
बाणबाहुसहस्रच्छिन्नन्द्यादिगणकोटिजित् ।
लीलाजितमहादेवो महादैवेकपूजितः ॥ १४०॥
इन्द्रार्थार्जुननिर्भङ्गजयदः पाण्डवैकधृक् ।
काशीराजशिरश्छेत्ता रुद्रशक्त्त्येकमर्दनः ॥ १४१॥
विश्वेश्वरप्रसादाक्षः काशीराजसुतार्दनः । (प्रसादाढ्यः)
शम्भुप्रतिज्ञाविध्वंसी काशीनिर्दग्ध नायकः (८००) ॥ १४२॥
काशीशगणकोटिघ्नो लोकशिक्षाशिवार्चकः । (द्विजार्चकः)
युवतीव्रतपोवश्यः पुरा शिववरप्रदः ॥ १४३॥ (शिवतीव्रत)
शङ्करैकप्रतिष्ठाधृक् स्वांशशङ्करपूजकः ।
शिवकन्याव्रतपतिः कृष्णरूपशिवारिहा ॥ १४४॥ (व्रतप्रीतः)
महालक्ष्मीवपुर्गौरीत्राता वैदलवृत्रहा ।
स्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृत् ॥ १४५॥
यमुनापतिरानीतपरिलीनशिवात्मजः । (द्विजात्मजः)
श्रीदामरङ्कभक्तार्थभूम्यानीतेन्द्रवैभवः ॥ १४६॥
दुर्वृत्तशिशुपालैकमुक्तिकोद्धारकेश्वरः । (मुक्तिदो द्वारकेश्वरः)
आचाण्डालादिकप्राप्यद्वारकानिधिकोटिकृत् ॥ १४७॥
अक्रूरोद्भवमुख्यैकभक्तस्वच्छन्दमुक्तिदः ।
सबालस्त्रीजलक्रीडोऽमृतवापीकृतार्णवः ॥ १४८॥
ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिज्जीवनैककृत् ।
परिलीनद्विजसुतानेताऽर्जुनमदापहः ॥ १४९॥
गूढमुद्राकृतिग्रस्तभीष्माद्यखिलगौरवः ।
पार्थार्थखण्डिताशेषदिव्यास्त्रः पार्थमोहहृत् ॥ १५०॥
गर्भशापच्छलध्वस्तयादवोर्वीभयापहः ।
जराव्याधारिगतिदः स्मृतिमात्राखिलेष्टदः ॥ १५१॥
कामदेवो रतिपतिर्मन्मथः शम्बरान्तकः ।
अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः ॥ १५२॥
पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीप्रियः । (कामेश्वरीपतिः)
उषापतिर्विश्वकेतुर्विश्वतृप्तोऽधिपूरुषः ॥ १५३॥
चतुरात्मा चतुर्व्यूहश्चतुर्युगविधायकः ।
चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिकः ॥ १५४॥ (कोटिसूः)
आश्रमात्मा पुराणर्षिर्व्यासः शाखासहस्रकृत् ।
महाभारतनिर्माता कवीन्द्रो बादरायणः ॥ १५५॥
कृष्णद्वैपायनः सर्वपुरुषार्थैकबोधकः ।
वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् ॥ १५६॥
बुद्धो ध्यानजिताशेषदेवदेवो जगत्प्रियः ।
निरायुधो जगज्जैत्रः श्रीधरो दुष्टमोहनः ॥ १५७॥ (श्रीधनो)
दैत्यवेदबहिष्कर्ता वेदार्थश्रुतिगोपकः ।
शौद्धोदनिर्दृष्टदिष्टः सुखदः सदसस्पतिः ॥ १५८॥
यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः ।
चतुष्कोटिपृथक्तत्त्वं प्रज्ञापारमितेश्वरः ॥ १५९॥
पाखण्डवेदमार्गेशः पाखण्डश्रुतिगोपकः ।
कल्की विष्णुयशःपुत्रः कलिकालविलोपकः ॥ १६०॥
समस्तम्लेच्छदुष्टघ्नः सर्वशिष्टद्विजातिकृत् ।
सत्यप्रवर्तको देवद्विजदीर्घक्षुधापहः ॥ १६१॥
अश्ववारादिरेवान्तः पृथ्वीदुर्गतिनाशनः ।
सद्यःक्ष्मानन्तलक्ष्मीकृत् नष्टनिःशेषधर्मवित् ॥ १६२॥
अनन्तस्वर्णयागैकहेमपूर्णाखिलद्विजः । (स्वर्ग)
असाध्यैकजगच्छास्ता विश्ववन्द्यो जयध्वजः ॥ १६४॥ (विश्वबन्धो)
आत्मतत्त्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः ।
भर्तृश्रेष्ठः (९००) प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः ॥ १६४॥
कश्यपो देवराजेन्द्रः प्रह्लादो दैत्यराट् शशी । (देवराडिन्द्रः)
नक्षत्रेशो रविस्तेजःश्रेष्ठः शुक्रः कवीश्वरः ॥ १६५॥
महर्षिराड् भृगुर्विष्णुरादित्येशो बलिः स्वराट् ।
वायुर्वह्निः शुचिश्रेष्ठः शङ्करो रुद्रराड् गुरुः ॥ १६६॥
विद्वत्तमश्चित्ररथो गन्धर्वाग्र्योऽक्षरोत्तमः ।
वर्णादिरग्र्यः स्त्री गौरी शक्त्याग्र्या श्रीश्च नारदः ॥ १६७॥
देवर्षिराट् पाण्डवाग्र्योऽर्जुनो वादप्रवादराट् ।
पवनः पवनेशानो वरुणो यादसां पतिः ॥ १६८॥ (पावनः पावनेशानो)
गङ्गातीर्थोत्तमो द्यूतं छत्रकाग्र्यं वरौषधम् ।
अन्नं सुदर्शनोऽस्त्राग्र्यं वज्रं प्रहरणोत्तमम् ॥ १६९॥
उच्चैःश्रवा वाजिराजः ऐरावत इभेश्वरः ।
अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराट् ॥ १७०॥
अध्यात्मविद्या विद्याग्र्यः प्रणवश्छन्दसां वरः ।
मेरुर्गिरिपतिर्मार्गो मासाग्र्यः कालसत्तमः ॥ १७१॥
दिनाद्यात्मा पूर्वसिद्धः कपिलः सामवेदराट् ।
तार्क्ष्यः खगेन्द्रो ऋत्वग्र्यो वसन्तः कल्पपादपः ॥ १७२॥
दातृश्रेष्ठः कामधेनुरार्तिघ्नाग्र्यः सुहृत्तमः ।
चिन्तामणिर्गुरुश्रेष्ठो माता हिततमः पिता ॥ १७३॥
सिंहो मृगेन्द्रो नागेन्द्रो वासुकिर्नृवरो नृपः ।
वर्णेशो ब्राह्मणश्चेतः करणाग्र्यो (१०००) नमो नमः ॥ १७४॥
इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् ।
सर्वापराधशमनं परं भक्तिविवर्धनम् ॥ १७५॥
अक्षयब्रह्मलोकादिसर्वार्थाप्येकसाधनम् । (सर्वस्वर्गैकसाधनम्)
विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् ॥ १७६॥
समस्तसुखदं सद्यः परनिर्वाणदायकम् ।
कामक्रोधादि निःशेषमनोमलविशोधनम् ॥ १७७॥
शान्तिदं पावनं नॄणां महापातकिनामपि ।
सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ १७८॥
समस्तविघ्नशमनं सर्वारिष्टविनाशनम् ।
घोरदुःखप्रशमनं तीव्रदारिद्र्यनाशनम् ॥ १७९॥
ऋणत्रयापहं गुह्यं धनधान्ययशस्करम् ।
सर्वैश्वर्यप्रदं सर्वसिद्धिदं सर्वधर्मदम् ॥ १८०॥
तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् ।
जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्तकम् ॥ १८१॥
राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहृत् ।
वन्ध्यानां सुतदं चायुःक्षीणानां जीवितप्रदम् ॥ १८२॥ (चाऽऽशु)
भूतग्रहविषध्वंसि ग्रहपीडाविनाशनम् ।
माङ्गल्यं पुण्यमायुष्यं श्रवणात् पठनाज्जपात् ॥ १८३॥
(सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः ।
पुराणशास्त्रस्मृतयः श्रुताः स्युः पठितास्तथा ॥
जप्त्वाऽस्यैकाक्षरं श्लोकं पादं वा पठति प्रिये ।
नित्यं सिध्यति सर्वेष्टमचिरात्किमुताखिलम् ॥
नानेन सदृशं सद्यःप्रत्ययं सर्वकर्मसु ।
इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये ॥
नावैष्णवाय दातव्यं विकल्पापहतात्मने ।
भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने ॥
देयं पुत्राय शिष्याय सुहृदे हितकाम्यया ।
मत्प्रसादादतो नेदं ग्रहीष्यन्त्यल्पमेधसः ॥
कलौ सद्यःफलं कल्पग्रामं नेष्यति नारदः ।
लोकानां भाग्यहीनानां येन दुःखं विनश्यति ॥
द्वित्रेषु वैष्णवेष्वेतदार्यावर्ते भविष्यति ॥)
नास्ति विष्णोः परं धाम नास्ति विष्णोः परन्तपः । (परो जपः)
नास्ति विष्णो परो धर्मो नास्ति मन्त्रो ह्यवैष्णवः ॥ १८४॥
नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः ।
सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः ॥ १८५
सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् ।
पार्वत्युवाच
धन्यास्म्यनुगृहितास्मि कृतार्थास्मि जगत्पते ॥ १८६॥
यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ।
कामाद्यासक्तचित्तत्वात्किं तु सर्वेश्वर प्रभो ॥ १८७॥
त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत् ।
विष्णोः सहस्रनामैतत् प्रत्यहं वृषभध्वज ॥ १८८॥
नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो ।
महादेव उवाच
राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ १८९॥
॥ इति श्रीपद्मपुराणे उत्तरखण्डे पार्वतीशिवसंवादे
श्रीविष्णोर्नामसहस्रं च वासुदेवसहस्रनामस्तोत्रं सम्पूर्णम् ॥
(द्वीसप्ततितमोऽध्यायः)
Variations are shown witn parenthesis on the right side of
any line. Also this appears to be almost same s Vishnusahasranamastotram
from Narada pancharatra
Proofread by DPD, PSA Easwaran, NA