श्रीविष्णुस्तुतिः
श्रीगणेशाय नमः ॥
बहुदुःखभरोदर्कस्तमसोग्रतमोऽधमः ।
नरको नर को वा तं मतिमानतिवर्तते ॥ १॥
नरकान्तकपादाब्जपरिचर्यापरान्नरान् ।
विना विनायकाद्यर्चापरोऽप्युच्चतरोरितः ॥ २॥
पतेत्तत्र न तत्त्राणं कुर्युस्ते पर्युपासिताः ।
पश्य दृश्यपदद्वद्वस्यार्थं न व्यर्थधीर्भव ॥ ३॥
असुरो हि सुरक्लेशकरो नरकनामकः ।
तस्य हन्ता सतां चिन्तासन्तापाद्यन्तकृन्न किम् ॥ ४॥
विशेषेण घ्नन्ति कायं विघ्नास्तेषामधीश्वरः ।
आरब्धशुभकार्याणां विरुद्धस्य हि नायकाः ॥ ५॥
अजामिलो द्विजः पूर्वमतिचक्राम केन तान् ।
ससुरा कस्य भजकाः कुतो वा तत्र चक्रमुः ॥ ६॥
इति चिन्तय तेनापि सन्देहं छिन्धि सन्मते ।
गङ्गासेतू पापभङ्गकरौ कः कुरुते प्रभुः ॥ ७॥
हयाननस्य वाक्शेष्यो नाभिपुत्रः पदार्चकः ।
गुरुर्हि तस्य भ्रूभङ्गः शिवाय स्यात्सतां सदा ॥ ८॥
वादिराजयतिप्रोक्तं स्तोत्रमेतत्पठन्सदा ।
वादे विजयमाप्नोति नाधो याति कदाचन ॥ ९॥
इति श्रीवादिराजकृता विष्णुस्तुतिः समाप्ता ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com