$1
नारदाय शौनककृतविष्णुस्तुतिः
$1

नारदाय शौनककृतविष्णुस्तुतिः

ऋषय ऊचुः ॥ कथं सनत्कुमारस्तु नारदाय महात्मने । प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ ॥ १॥ कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ । हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः ॥ २॥ सूत उवाच ॥ सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः । निर्ममा निरहङ्काराः सर्वे ते ह्यूर्ध्वरेतसः ॥ ३॥ तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः । सनत्कुमारश्च विभुः सनातन इति स्मृताः ॥ ४॥ विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः । सहस्रसूर्यसङ्काशाः सत्यसन्धा मुमुक्षवः ॥ ५॥ एकदा मेरुश‍ृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् । इष्टां मार्गेऽथ ददृशुः गङ्गां विष्णुपदीं द्विजाः ॥ ६॥ तां निरीक्ष्य समुद्युक्ताः स्नातुं सीताजलेऽभवन् । एतस्मिन्नन्तरे तत्र देवर्षिर्नारदो मुनिः ॥ ७॥ आजगाम द्विजश्रेष्ठा दृष्ट्वा भ्रातॄन्स्वकाग्रजान् । तान्दृष्ट्वा स्नातुमुद्युक्तान्नमस्कृत्य कृताञ्जिलिः ॥ ८॥ गुणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः । नारायणाच्युतानन्त वासुदेव जनार्दन ॥ ९॥ यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते ॥ पद्माक्ष कमलाकान्त गङ्गाजनक केशव । क्षिरोदशायिन्देवेश दामोदर नमोऽस्तु ते ॥ १०॥ श्रीराम विष्णो नरसिंह वामन प्रद्युम्नसङ्कर्षण वासुदेव । अजानिरुद्धामलरुङ्मुरारे त्वं पाहि नः सर्वभयादजस्रम् ॥ ११॥ इत्युच्चरन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् । उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः ॥ १२॥ तेषां चापि तु सीताया जले लोकमलापहे । स्नात्वा सन्तर्प्य देवर्षिपितॄन्विगतकल्मषाः ॥ १३॥ उत्तीर्य्य सन्ध्योपास्यादि कृत्वाऽऽचारं स्वकं द्विजाः । कथां प्रचक्रुर्विविधाः नारायणगुणाश्रिताः ॥ १४॥ कृतत्रियेषु मुनिषु गङ्गातीरे मनोरमे । चकार नारदः प्रश्नं नानाख्यानकथान्तरे । १५॥ नारद उवाच । सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः । यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ॥ १६॥ लोकोद्धारपरान्युष्मान्दीनेषु कृतसौहृदान् । पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ॥ १७॥ येनेदमखिलं जातं जगत्स्थावरजङ्गमम् । गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ॥ १८॥ कथं च त्रिविधं कर्म सफलं जायते नृणाम् । ज्ञानस्य लक्षणं ब्रूत तपसश्चापि मानदाः ॥ १९॥ अतिथेः पूजनं वापि येन विष्णुः प्रसीदति ॥ एवमादीनि गुह्यानि हरितुष्टिकराणि च । अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥ २०॥ शौनक उवाच ॥ नमः पराय देवाय परस्मात्परमाय च । परावरनिवासाय सगुणायागुणाय च ॥ २१॥ अमायायाऽऽत्मसंज्ञाय मायिने विश्वरूपिणे । योगीश्वराय योगाय योगगम्याय विष्णवे ॥ २२॥ ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे । ज्ञानेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसम्पदे ॥ २३॥ ध्यानाय ध्यानगम्याय ध्यातृपापहराय च । ध्यानेश्वराय सुधिये ध्येयध्यातृस्वरूपिणे ॥ २४॥ आदित्यचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः । यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतोऽस्मि ॥ २५॥ यो ब्रह्मरूपी जगतां विधाता स एव पाता द्विजविष्णुरूपी । कल्पान्तरुद्राख्यतनुः स देवः शेतेंऽघ्रिपानस्तमजं भजामि ॥ २६॥ यन्नामसङ्कीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः । विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ॥ २७॥ शिवस्वरूपी शिवभक्तिभाजां यो विष्णुरूपी हरिभावितानाम् । सङ्कल्पपूर्वात्मकदेहहेतुस्तमेव नित्यं शरणं प्रपद्ये ॥ २८॥ यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् । देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतोऽस्मि ॥ २९॥ लेभेऽवतीर्योग्रनृसिंहरूपी यो दैत्यवक्षः कठिनं शिलावत् । विदार्य संरक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं नमामि ॥ ३०॥ व्योमादिभिर्मूषितमात्मसंज्ञं निरञ्जनं नित्यममेयतत्त्वम् । जगद्विधातारमकर्मकं च परं पुराणं पुरुषं नतोऽस्मि ॥ ३१॥ ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसङ्घैः । स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मानमहं भजामि ॥ ३२॥ यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै । यस्मिन्नेष्यति पश्चाच्च तमस्मि शरणं गतः ॥ ३३॥ यः स्थितो विश्वरूपेण सङ्गीवात्र प्रतीयते । असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ॥ ३४॥ हृदि स्थितोऽपि यो देवो मायया मोहितात्मनाम् । न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः ॥ ३५॥ सर्वसंगनिवृत्तानां ध्यानयोगरतात्मनाम् । सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ॥ ३६॥ दधार मन्दरं पृष्ठे नीरोदेऽमृतमन्थने । देवतानां हितार्थाय तं कूर्मं शरणं गतः ॥ ३७॥ दंष्ट्राङ्कुरेण योऽनन्तः समुद्धृत्यार्णवाद्धराम् । तस्थाविदं जगत्कृत्स्नं वाराहं तं नतोऽस्म्यहम् ॥ ३८॥ प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् । विदार्य हतवान्यो हि तं नृसिंहं नतोऽस्म्यहम् ॥ ३९॥ लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः । आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतोऽजितम् ॥ ४०॥ हैहयस्यापराधेन ह्येकविंशतिसङ्ख्यया । क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतोऽस्मि तम् ॥ ४१॥ आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः । घ्नतवान्राक्षसानीकं रामचन्द्रं नतोऽस्म्यहम् ॥ ४२॥ मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च । सञ्जहार कुलं स्वं यस्तं श्रीकृष्णमहं भजे ॥ ४३॥ भूम्यादिलोकत्रितयं सन्तृप्तात्मानमात्मनि । पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ॥ ४४॥ युगान्ते पापिनोऽशुद्धान्भित्त्वा तीक्ष्णसुधारया । स्थापयामास यो धर्मं कृतादौ तं नमाम्यहम् ॥ ४५॥ एवमादीन्यनेकानि यस्य रूपाणि पाण्डवाः । न शक्यं तेन सङ्ख्यातुं कोट्यब्दैरपि तं भजे ॥ ४६॥ महिमानं तु यन्नाम्नः परं गन्तुं मुनीश्वराः । देवासुराश्च मनवः कथं तं क्षुल्लको भजे ॥ ४७॥ यन्नामश्रवणेनापि महापातकिनो नराः । पवित्रतां प्रपद्यन्ते तं कथं स्तौमि चाल्पधीः ॥ ४८॥ यथाकथञ्चिद्यन्नाम्नि कीर्तिते वा श्रुतेऽपि वा । पापिनस्तु विशुद्धाः स्युः शुद्धा मोक्षमवाप्नुयुः ॥ ४९॥ आत्मन्यात्मानमाधाय योगिनो गतकल्मषाः । पश्यन्ति यं ज्ञानरूपं तमस्मि शरणं गतः ॥ ५०॥ साङ्ख्याः सर्वेषु पश्यन्ति परिपूर्णात्मकं हरिम् । तमादिदेवमजरं ज्ञानरूपं भजाम्यहम् ॥ ५१॥ सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरम् । सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ॥ ५२॥ यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् । दशाङ्गुलं योऽत्यतिष्ठत्तमीशमजरं भजे ॥ ५३॥ अणोरणीयांसमजं महतश्च महत्तरम् । गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ॥ ५४॥ ध्यातः स्मृतः पूजितो वा श्रितः प्रणमितोऽपि वा । स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥ ५५॥ इति स्तुवन्तं परमं परेशं हर्षाम्बुसंरुद्धविलोचनास्ते । मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रमुदं प्रजग्मुः ॥ ५६॥ य इदं प्रातरुत्थाय पठेद्वै पौरुषं स्तवम् । सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥ ५७॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदाय शौनककृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः ॥ २॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : viShNustuti by nArada and shaunaka from nAradapurANa
% File name             : viShNustutinAradakRitanAradapurANa.itx
% itxtitle              : viShNustutiH (nAradapurANAntargatA nAradAya shaunakakRitA)
% engtitle              : viShNustuti by nArada and shaunaka from nAradapurANa
% Category              : vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Source                : Naradapurana Purvabhag Adhyaya 2
% Indexextra            : (Purana text 1, 2)
% Latest update         : January 4, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org