$1
विष्ण्वष्टकम्
$1

विष्ण्वष्टकम्

श्रीगणेशाय नमः । पुरः सृष्टाविष्टः पुरुष इति तत्प्रेक्षणमुखः सहस्राक्षो भुक्त्वा फलमनुशयी शास्ति तमुत । स्वयं शुद्धं शान्तं निरवधिसुखं नित्यमचलं नमामि श्रीविष्णुं जलधितनयासेवितपदम् ॥ १॥ अनन्तं सत्सत्यं भवभयहरं ब्रह्म परमं सदा भातं नित्यं जगदिदमितः कल्पितपरम् । मुहुर्ज्ञानं यस्मिन् रजतमिव शुक्तौ भ्रमहरं नमामि०॥ २॥ मतौ यत्सद्रूपं मृगयति बुधोऽतन्निरसनात् न रज्जौ सर्पोऽपि मुकुरजठरे नास्ति वदनम् । अतोऽपार्थं सर्वं न हि भवति यस्मिंश्च तमहं नमामि०॥ ३॥ भ्रमद्धीविक्षिप्तेन्द्रियपथमनुष्यैर्हृदि विभुं नयं वै वेद स्वेन्द्रियमपि वसन्तं निजमुखम् । सदा सेव्यं भक्तैर्मुनिमनसि दीप्तं मुनिनुतं नमामि०॥ ४॥ बुधा यत्तद्रूपं न हि तु नैर्गुण्यममलं यथा ये व्यक्तं ते सततमकलङ्के श्रुतिनुतम् । यदाहुः सर्वत्रास्खलितगुणसत्ताकमतुलं नमामि०॥ ५॥ लयादौ यस्मिन्यद्विलयमप्युद्यत्प्रभवति तथा जीवोपेतं गुरुकरुणया बोधजनने । गतं चात्यन्तान्तं व्रजति सहसा सिन्धुनदवन्नमामि०॥ ६॥ जडं सङ्घातं यन्निमिषलवलेशेन चपलं यथा स्वं स्वं कार्यं प्रथयति महामोहजनकम् । मनोवादग्जीवानां न निविशति यं निर्भयपदं नमामि०॥ ७॥ गुणाख्याने यस्मिन्प्रभवति न वेदोऽपि नितरां निषिध्यद्वाक्यार्थैश्चकितचकितं योऽस्य वचनम् । स्वरूपं यद्गत्वा प्रभुरपि च तूष्णीं भवति तं नमामि श्रीविष्णुं जलधितनयासेवितपदम् ॥ ८॥ विण्वष्टकं यः पठति प्रभाते नरोऽप्यखण्डं सुखमश्नुते च । यन्नित्यबोधाय सुबुद्धिनोक्तं रधूत्तमाख्येन विचार्य सम्यक् ॥ ९॥ इति श्रीविष्ण्वष्टकं सम्पूर्णम् ॥ Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : viShNvaShTakam 1
% File name             : viShNvaShTakam.itx
% itxtitle              : viShNvaShTakam 1 (puraH sRiShTAviShTaH)
% engtitle              : viShNvaShTakam 1
% Category              : aShTaka, vishhnu, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Latest update         : January 19, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org