विकटनृसिंहकवचम्
श्री नृसिंहाय नमः ।
ॐ अस्य श्री नृसिंहमन्त्रस्य प्रहराऋषिः । शिरसि ।
अनुष्टुभ् छन्दः मुखे । जीवो बीजं हृदि । अनन्तशक्तिः नाभौ ।
परमात्मा कीलकम् गुह्ये । श्रीनृसिंहदेवता प्रीत्यर्थे जपे विनियोगः ।
शत्रुहानिपरोमोक्षमर्थदिव्य न संशयः । अथदिग्बन्धः ।
पूर्वेनृसिंह रक्षेश्च ईशान्ये उग्ररूपकम् ।
उत्तरे वज्रको रक्षेत् वायव्याञ्च महाबले ।
पश्चिमे विकटो रक्षेत् नैरृत्यां अग्निरूपकम् ।
दक्षिणे रौद्र रक्षेच्च घोररूपञ्चाग्नेय्याम् ।
ऊर्ध्व रक्षेत्महाकाली अधस्ताद्दैत्यमर्दनः ।
एताभ्यो दशदिग्भ्यश्च सर्वं रक्षेत् नृसिंहकः ।
ॐ क्रीं छ्रुं नृं नृं ह्रीं ह्रीं रुं रुं स्वाहा ॥
ॐ नृसिंहाय नमः । ॐ वज्ररूपाय नमः । ॐ कालरूपाय नमः ।
ॐ दुष्टमर्दनाय नमः । ॐ शत्रुचूर्णाय नमः । ॐ भवहारणाय नमः ।
ॐ शोकहराय नमः । ॐ नरकेसरी वुं हुं हं फट् स्वाहा ।
इति दिग्बन्धनमन्त्रः ।
ॐ छ्रुं छ्रुं नृं नृं रुं रुं स्वाहा ।
ॐ वुं वुं वुं दिग्भ्यः स्वाहा । नृसिंहाय नमः ।
ॐ ह्रं ह्रं ह्रं नृसिंहाय नमः ।
अथ न्यासः ।
ॐ अं ऊं अङ्गुष्ठाभ्यां नमः । ॐ नृं नृं नृं तर्जनीभ्यां नमः ।
ॐ रां रां रां मध्यमाभ्यां नमः । ॐ श्रां श्रां श्रां अनामिकाभ्यां नमः ।
ॐ ईं ईं कनिष्ठिकाभ्यां नमः ।
ॐ भ्रां भ्रां भ्रां करतलकरपृष्ठाभ्यां नमः ।
ॐ व्रां व्रां व्रां हृदयाय नमः । ॐ ह्रां ह्रां ह्रां शिरसे स्वाहा ।
ॐ क्लीं क्लीं क्लीं शिखायै वौषट् । ॐ ज्रां ज्रां ज्रां कवचाय हुम् ।
ॐ श्रीं श्रीं श्रीं नेत्रत्रयायै वौषट् । ॐ आं आं अस्त्राय फट् ।
अथ नमस्कृत्य ।
ॐ नृसिंहकालाय कालरूपघोराय च ।
नमो नृसिंहदेवाय कारुण्याय नमो नमः ।
ॐ रां उग्राय नमः । ॐ धारकाय उग्राय उग्ररूपाय । ॐ ऊं धारणाय नमः ।
ॐ बिभीषणभद्राय नमो नमः । करालाय नमः । ॐ वज्ररूपाय नमः ।
ॐ ॐ ॐ ॐकाररूपाय नमः । ॐ ज्वालारूपाय नमः ।
ॐ परब्रह्मतो नृं रां रां रां नृसिंहाय सिंहरूपाय नमोनमः ।
ॐ नरकेसरी रां रां खं भीं नृसिंहाय नमः ।
ॐ अकारः सर्व संराजतु विश्वेशी विश्वपूजितो ।
ॐ विश्वेश्वराय नमः । ॐ ह्रों स्त्रां स्त्रां स्त्रां सर्वदेवेश्वरी
निरालम्बनिरञ्जननिर्गुणसर्वश्वैव तस्मै नमस्ते ।
ॐ रुं रुं रुं नृसिंहाय नमः ।
ॐ औं उग्राय उग्ररूपाय उग्रधराय ते नमः ।
ॐ भ्यां भ्यां विभीषणाय नमस्ते नमस्ते ।
ॐ भद्राय भद्र रूपाय भवकराय ते नमो नमः ।
ॐ व्रां व्रां व्रां वज्रदेहाय वज्रतुण्डाय नमो भव
वज्राय वज्रनखाय नमः ।
ॐ ह्रां ह्रां ह्रां हरित क्लीं क्लीं विष सर्वदुष्टानां च मर्दनं
दैत्यपिशाच्चाय अन्याश्च महाबलाय नमः ।
ॐ ल्रीं ल्रीं लृं कामनार्थं कलिकालाय नमस्ते कामरूपिणे ।
ॐ ज्रां ज्रां ज्रां ज्रां सर्वजगन्नाथ जगन्महीदाता जग्न्महिमा
जगव्यापिने देव तस्मै नमो नमः ।
ॐ श्री श्रीं श्री श्रीधर सर्वेश्वर श्रीनिवासिने ।
ॐ आं आं आं अनन्ताय अनन्तरूपाय विश्वरूपाय नमः ।
नमस्ते विश्वव्यापिणे । इति स्तुतिः ।
ॐ विकटाय नमः । ॐ उग्ररूपाय नमः स्वाहा ।
ॐ श्रीनृसिंहाय उद्विघ्नाय विकटोग्रतपसे लोभमोहविवर्जितं
त्रिगुणरहितं उच्चाटनभ्रमितं सर्वमायाविमुक्तं सिंह
रागविवर्जित विकटोग्र नृसिंह नरकेसरी ॥
ॐ रां रां रां रां रां ह्रं ह्रं क्षीं क्षीं धुं धुं फट् स्वाहा ॥
इति श्री महानृसिंहमन्त्रकवचं सम्पूर्णम् ।
शुभमस्तु । नृसिंहार्पणमस्तु ॥
Also termed by some as mahAnRisiMhamantrakavacham
Encoded and proofread by Mandar Puranik mandar.prog at hotmail.com