आद्यंत श्लोकाणि

आद्यंत श्लोकाणि

श्री गीताभाष्यम् आदि देवंनारायणं नत्वा सर्वदोषविवर्जितम् । परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि लेशतः ॥ १॥ अंत्य पूर्णादोषमहाविष्णोर्गीतामाश्रित्य लेशतः । निरूपणं कृतं तेन प्रियतां मे सदा विभुः ॥ १॥ ॥ श्री ब्रह्मसूत्रभाष्यम् ॥ आदि नारायणं सर्वगुणैरुदीर्णं दोषवर्जितम् । ज्ञेयं गम्यं गुरूंश्चापि नत्व सूत्रार्थमुच्यते ॥ १॥ अंत्य ज्ञानानंदादिभिस्सर्वैर्गुणैः पूर्णाय विष्णवे । नमोऽस्तु गुरवे नित्यं सर्वथातिप्रियाय मे ॥ १॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलम् । बट्तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् । वायोरामवचनोयं प्रथमकं पृक्षो द्वितीयं वपुः । मध्वोयत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेनहि ॥ २॥ नित्यानंदो हरिर्पूर्णो नित्यदा प्रियतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ ३॥ ॥ श्रीमदणुभाष्यम् ॥ आदि विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽऽगमोदितः । समन्वयादीक्षतेश्च पूर्णानंदोऽंतरः खवत् ॥ १॥ अंत्य नमो नमोऽशेषदोषदूर पूर्णगुणात्मने । विरिञ्चि शर्वपूर्वेड्यवंद्याय श्रीवराय ते ॥ १॥ ॥ श्रीमदनुव्याख्यानम् ॥ आदि नारायणं निखिलपूर्णगुणैकदेहं । निर्दोषमाप्यतममप्यखिलैस्सुवाक्यैः । अस्योद्भवादिदमशेषविशेषतोऽपि । वंद्यं सदा प्रियतमं मम सन्नमामि ॥ १॥ तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव । विशेषतोमे परमाख्यविद्या व्याख्यां करोम्यन्वपि चाहमेव ॥ २॥ अंत्य निःशेषदोषरहित कल्याणाखिलसद्गुण । भूतिस्वयंभुशर्वादिवंद्यं त्वां नौमि मे प्रियं ॥ १॥ ॥ श्रीप्रमाणलक्षणम् ॥ आदि अशेषगुरुमीशेशं नारायणमनामयम् । सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ॥ १॥ अंत्य अशेषमानमेयैक साक्षिणेऽक्षयमूर्तये । अजेशपुरुहूतेड्य नमो नारायणाय ते ॥ १॥ ॥ श्रीकथालक्षणम् ॥ आदि नृसिंहमाखिलाज्ञानतिमिराशिशिरद्युतिं । सम्प्रणम्य प्रवक्ष्यामि कथालक्षणमञ्जस ॥ १॥ अंत्य सदोदितामितज्ञानपूरवारितहृत्तमाः । नरसिंहः प्रियतमः प्रियतां पुरुषोत्तमः ॥ १॥ ॥ श्रीउपाधिखण्डनम् ॥ आदि नारायणोऽगण्यगुणनित्यैकनिलयाकृतिः । अशेषदोषरहितः प्रियतां कमलालयः ॥ १॥ अंत्य मायावादतमोव्याप्तमिति तत्त्वदृषा जगत् । भातं सर्वज्ञसूर्येण प्रीतये श्रीपदेस्सदा ॥ १॥ नमोऽमंदनिजानंदसुंदरसांद्रमूर्तये । इंदिरापतये नित्यानंदभोजनदायिने ॥ २॥ ॥ श्रीमायावादखण्डनम् ॥ आदि नरसिंहोऽखिलाज्ञानमतध्वांतदिवाकरः । जयत्यमितसज्ज्ञान सुखशक्तिपयोनिधिः ॥ १॥ अंत्य नास्तिनारायण समं न भूतो न भविष्यति । एतेन सत्यवाक्येन सर्वार्थांसाधयाम्यहम् ॥ १॥ ॥ श्रीमिथ्यात्वानुमानधिखण्डनम् ॥ आदि विमतं मिथ्या दृश्यत्वाद्यदित्थं तत्तथा यथा सम्प्रतिपन्नम् । इत्युक्ते जगतोऽभावादाश्रयासिद्धः पक्षः ॥ १॥ अंत्य यो दृश्यते सदानंदनित्यव्यक्तचिदात्मना । निर्दोषाखिलकल्याणगुणं वन्दे रमापतिम् ॥ १॥ ॥ श्रीतत्त्वसङ्ख्यानम् ॥ आदि स्वतंत्रमस्वतंत्रं च द्विविधं तत्त्वमिष्यते । स्वतंत्रोभगवान्विष्णुः भावाभावौद्विधेतरत् ॥ १॥ अंत्य सृष्टिः स्थितिः संहृतिश्च नियमोऽज्ञानबोधने । बंधो मोक्षः सुखं दुःखमावृतिर्ज्योतिरेव च । विष्णुनास्य समस्तस्य समासव्यासयोगतः ॥ १॥ ॥ श्रीतत्त्वविवेकः ॥ आदि स्वतंत्रं परतंत्रं च प्रमेयं द्विविधं मतम् । स्वतंत्रोभगवान्विष्णुः निर्दोषाखिलसद्गुणः ॥ १॥ अंत्य य येतत्परतन्त्रं तु सर्वमेव हरेः सदा । वशमित्येव जानाति संसारान्मुच्यते हि सः ॥ १॥ ॥ श्रीतत्त्वोद्योतम् ॥ आदि सर्वत्राखिल सच्छक्तिः स्वतंत्रोऽशेषदर्शनः । नित्यातादृशचिच्छेत्ययंतेष्टो नो रमापतिः ॥ १॥ अंत्य सत्यचिचेत्यपतये मुक्तामुक्तोत्तमाय ते । नमोनारायणायार्यवृंदवंदितपदद्वय ॥ १॥ जयत्यमितपौरुषः स्वजनतेष्टचिंतामणिः । अजेशमुखवंदितो गुणगणार्णवः श्रीपतिः ॥ २॥ सर्वज्ञासन्मुनींद्रोच्चसन्मनः पङ्कजाश्रयः । अजितो जयति श्रीशो रमाबाहुलताश्रयः ॥ ३॥ ॥ श्रीकर्मनिर्णयः ॥ आदि य ईज्यते विधीशानशक्रपूर्वैमुखैः सदा । रमाप्रणयिने तस्मै सर्वयज्ञाभुजे नमः ॥ १॥ अंत्य नमोनारायणायाजभव शक्रोष्णरुङ्मुखैः । सदा वंदितपादाय श्रीपाय प्रेयसेऽधिकम् ॥ १॥ ॥ श्रीविष्णुतत्त्वविनिर्णयः ॥ आदि सदागमैक विज्ञेयं समतीतक्षराक्षरम् । नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥ १॥ विशेषणानि यानिह कथितानि सदुक्तिभिः । साधयिष्यामि तान्येव क्रमात् सज्जन संविदे ॥ २॥ अंत्य स्वतंत्रायाखिलेशाय निर्दोषगुणरूपिणे । प्रेयसे मे सुपूर्णाय नमो नारायणाय ते ॥ १॥ ॥ श्रीऋग्भाष्यम् ॥ आदि नारायणं निखिलपूर्णगुणार्णमुच्च । सूर्यामित्तद्युतिमशेषनिरस्तदोषम् । सर्वेश्वरं गुरुमजेशनुतं प्रणम्य । वक्ष्याम्यृगर्थमतितुष्टिकरं तदस्य ॥ १॥ अंत्य उपपृत्तः क्षत्रियैस्स आवेशेन जनार्दनः । हन्ति शत्रूंश्च तैर्देवो भये च स्वाश्रयं ददौ ॥ १॥ वर्ताऽभिगंता तरुता जेता चास्य न हि क्वचित् । युद्धं महाधनं त्वर्भं प्रसिद्धं धनमेव हि ॥ २॥ ॥ श्रीऐतरेयभाष्यम् ॥ आदि नारायणं निखिलपूर्णगुणैकदेहम् । सर्वज्ञमच्युतमपेतसमस्तदोषम् । प्राणस्य सर्वचिदचिद्परमेश्वरस्य । साक्षादधीश्वरमियां शरणं रमेशम् ॥ १॥ महाभूतिश्श्रुतिस्सैशां महाभूतिर्यतो हरिः । विशेषेणात्र कथितः सर्वज्ञाः शाश्वतः प्रभुः ॥ २॥ अंत्य पूर्णागण्यगुणोदारधाम्ने नित्याय वेदसे । अमंदानंदसांद्राय प्रेयसे विष्णवे नमः ॥ १॥ ॥ श्रीतैत्तिरीयभाष्यम् ॥ आदि सत्यं ज्ञानमनंतमानंदं ब्रह्म सर्वशक्त्येकं । सर्वैदेवैरीड्यं विष्ण्वाख्यं सर्वदैमि सुप्रेष्ठम् ॥ १॥ अंत्य पूर्णगण्यगुणोदारधाम्ने नित्याय वेदसे । अमंदानंदसांद्राय प्रेयसे विष्णवे नमः ॥ १॥ ॥ श्रीबृहदारण्यकभाष्यम् ॥ आदि प्राणादेरीशितारं परमुखनिधिं सर्वदोषव्यपेतम् । सर्वांतस्थं सुपूर्णं प्रकृति पतिमजं सर्वबाह्यं सुनित्यम् । सर्वज्ञं सर्वशक्तिं सुरमुनिमनुजाद्यैस्सदा सेव्यमानम् । विष्णुं वन्दे सदाहं सकलजगदनाद्यंतमानंददं तम् ॥ १॥ अंत्य पूर्णगण्यगुणोदारधाम्ने नित्याय वेधसे । अमंदानंदसांद्राय प्रेयसे विष्णवे नमः ॥ १॥ ॥ श्रीईशावास्यभाष्यम् ॥ आदि नित्यानित्य जगद्धात्रे नित्याय ज्ञानमूर्तये । पूर्णनंदाय हरये सर्वयज्ञभुजे नमः ॥ १॥ यस्माद्ब्रह्मेन्द्ररुद्रदेवतानां श्रियोऽपि च । ज्ञानस्फूर्तिस्सदा तस्मै हरये गुरवे नमः ॥ २॥ अंत्य पूर्णशक्तिचिदानंदश्रीतेजः स्पष्टमूर्तये । ममाभ्यधिक मित्राय नमो नारायणाय ते ॥ १॥ ॥ श्रीकठकभाष्यम् ॥ आदि नमो भगवते तस्मै सर्वतः परमाय ते । सर्वप्राणिहृदिस्थाय वामनाय नमो नमः ॥ १॥ अंत्य नमो भगवते तस्मै विष्णवे प्रभविष्णवे । यस्याहमाप्त आप्तेभ्यः यो मे आप्ततमस्सदा ॥ १॥ ॥ श्रीछान्दोग्यभाष्यम् ॥ आदि अत्युद्रिक्त विदोष सत्सुख महाज्ञानैकतान्प्रभा । सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् ॥ १॥ सृष्टिस्थाननिरोधनित्यनियति ज्ञानप्रकाशावृत्ति । ध्वांतामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे । हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमापतिम् । अस्तुवद्विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ २॥ अंत्य नित्यानंदो हरिःपूर्णो नित्यदा प्रियतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ १॥ ॥ श्रीआथर्वणभाष्यम् ॥ आदि आनंदमजरं नित्यमजमक्षयमच्युतम् । अनंतशक्तिं सर्वज्ञं नमस्ये पुरुषोत्तमम् ॥ १॥ मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोऽजनि । मित्रश्च वरुणस्चाथो प्रहेतिर्हेतिरेव च । ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः । सनकाद्यास्तु वाराहे ब्रह्मा विष्णोः सुतोग्रजः ॥ २॥ अंत्य प्रियतां भगवन्मह्यं प्रेष्ठप्रेष्ठतमस्सदा । मम नित्यं नमाम्येनं परमोदारसद्गुणम् ॥ १॥ ॥ श्रीमाण्डूक्यभाष्यम् ॥ आदि पूर्णनंदज्ञानशक्ति स्वरूपं नित्यमव्ययम् । चतुर्धा सर्वभोक्तारं वंदे विष्णुं परं पदम् ॥ १॥ अंत्य एकोऽपि निर्विशेषोऽपि चतुर्धा व्यवहारभाक् । यस्तं वंदे चिदानंदं विष्णुं विश्वादिरूपिणम् ॥ १॥ ॥ श्रीषट्प्रश्नभाष्यम् ॥ आदि नमो भगवते तस्मै प्राणादिप्रभविष्णवे । अमंदानंदसांद्राय वासुदेवाय वेदसे ॥ १॥ अंत्य नमो नमोऽस्तु हरये प्रेष्ठप्रेष्ठतमाय मे । परमानंदसंदोहसांद्रानंद वपुष्मते ॥ १॥ ॥ श्रीतळवाकारोपनिषद्भाष्यम् ॥ आदि अनंत गुणपूर्णत्वादगम्याय सुरैरपि । सर्वेष्टदात्रे देवानां नमो नारायणाय ते ॥ १॥ अंत्य यश्चिदानंद सच्छक्ति सम्पूर्णो भगवान्परः । नमोऽस्तु विष्णवे तस्मै प्रेष्ठाय प्रेयसां च मे ॥ १॥ ॥ श्रीगीतातात्पर्यम् ॥ आदि समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् । नारायणं नमस्कृत्य गीतातात्पर्यमुच्यते ॥ १॥ अंत्य नमस्ते वासुदेवाय प्रेयसां मे प्रियोत्तम । समस्तगुणसम्पूर्ण निर्दोषानंद दायिने ॥ १॥ निःशेषदोषरहित कल्याणाशेषलसद्गुण । भूतिस्वयंभूशर्वादिवंद्यं त्वां नौमि मे प्रियम् ॥ २॥ नमोजभवभूर्यक्षपुरः सरसुराश्रय । नारायणारणं मह्यं रमापते प्रेयसां प्रिय ॥ ३॥ ॥ श्रीन्यायविवरणम् ॥ आदि चेतनाचेतनजगन्नियंत्रेऽशेषसंविदे । नमोनारायणयाजशर्वशक्रादिवंदितम् ॥ १॥ अंत्य चेतनाचेतनास्यास्य समस्तस्य यदिच्छया । स मम सुकृतेनैव प्रियतां पुरुषोत्तमः ॥ १॥ ॥ श्रीनरसिंहनखस्तुतिः ॥ आदि पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटा । कुंभोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः । श्रीमत्कंठीरवास्य प्रतत सुनखरा दारितारातिदूर । प्रद्ध्वस्तध्वांत शांत प्रवितत मनसा भावितानाकिवृंदैः ॥ १॥ अंत्य लक्ष्मीकांत समंततोऽपिकलयन् नैवेशितुस्ते समम् । पश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः । यद्रोशोत्कर दक्ष नेत्र कुटिलः प्रांतोत्थिताग्नि स्फुरत् । खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २॥ ॥ श्रीयमकभारतम् ॥ आदि ध्यायेत परमानंदं यन्मातापतिमयदपरमानंदम् । उज्झितपरमानंदं पत्याद्याद्याश्रमैः सदैव परमानंदम् ॥ १॥ अंत्य इति नारायणनामा सुखतीर्थसुपूजितस्सुरायणनामा । पूर्णगुणैरधिकज्ञाणेच्छाभक्तिभिस्स्वधिक पूर्णः ॥ १॥ ॥ श्रीद्वादशस्तोत्रम् ॥ आदि वन्दे वन्द्यं सदानंदं वासुदेवं निरञ्जनम् । इन्दिरापतिमाद्यादि वरदेश वरप्रदम् ॥ १॥ अंत्य आनंदचंद्रिकास्यंदक वंदे आनंदतीर्थपरानंद वरद ॥ १॥ ॥ श्रीकृष्णामृतमहार्णवम् ॥ आदि अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श‍ृतः । यो ददात्यमृतत्त्वं हि स मां रक्षतु केशवः ॥ १॥ अंत्य श्रीमदानंदतीर्थाख्य सहस्रकिरणोत्थिता । गोततिः सततं सेव्या गीर्वाणैः सिद्धिदा भवेत् ॥ १॥ ॥ श्रीतंत्रसारसंग्रहः ॥ आदि जयत्यब्जभवेशेंद्रवंदितः कमलापतिः । अनंत विभवानंद दशश्तिज्ञानादिसद्गुणः ॥ १॥ विधिं विधाय सर्गादौ तेन पृष्टोऽब्जलोचनः । आह देवो रमोत्सङ्गविलसत्पादपल्लवः ॥ २॥ यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः । प्रियतां प्रीत एवालं विष्णुर्मे परमः सुहृत् ॥ ३॥ अंत्य अशेषदोषोज्झितपूर्णसद्गुणं सदाविशेषापगतोरुरूपम् । नमामि नारायणमप्रतीपं सदा प्रियेभ्यः परमादरेण ॥ १॥ ॥ श्रीसदाचारस्मृतिः ॥ आदि यस्मिन्सर्वाणिकर्माणि संन्यस्याध्यात्म चेतसा । निराशी निर्ममो याति परं जयति सोऽच्युत ॥ १॥ अंत्य अशेषकल्याण गुणनित्यानुभवसत्तनुः । अशेषदोषरहितः प्रियतां पुरुषोत्तमः ॥ १॥ ॥ श्रीभागवततात्पर्यनिर्णयः ॥ आदि सृष्टिस्थित्यप्येहानियतिदृशितमोबंधमोक्षाश्च । यस्मादस्य श्रीब्रह्मरुद्रप्रभृति सुरनरव्यद्यीशशक्त्रवात्मकस्य । विष्णोर्व्यस्तास्समस्तास्सकलगुणनिधिसर्वदोषव्यपेतः । पूर्णनंदोऽव्ययो यो गुरुरपि परमंश्चितयेत्तं महांतम् ॥ १॥ अंत्य नित्यादोषस्वरूपाय गुणपूर्णायसर्वदा । नारायणाय हरये नमः प्रेष्ठतमाय मे ॥ १॥ ॥ श्रीभारततात्पर्यनिर्णयः ॥ आदि नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियति प्रदाय । ज्ञानप्रदाय विबुधासुर सौख्यदुःख सत्कारणय वितताय नमो नमस्ते ॥ १॥ आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात्स एकः । संशांतसंविदखिलं जठरे निधाय लक्ष्मीभुजांतरगतस्स्वरोतोऽपिचाग्रे ॥ २॥ अंत्य तस्मादयं ग्रंथवरोऽखिलोरुधर्मादिमोक्षांतपुमर्थहेतुः । किञ्चोदितैस्तस्यगुणैस्तदोन्यैर्नारायणः प्रीतिमुपैत्यतोलम् ॥ १॥ यस्सर्वगुणसम्पूर्णस्सर्वदोषविवर्जितः । प्रियतां प्रीत एवालं विष्णुर्मे परमस्सुहृत् ॥ २॥ ॥ श्रीयतिप्रणवकल्प ॥ आदि नत्वा नारायणं वन्दे पूर्णं ब्रह्महरार्चितम् । यतेराचरणं वक्ष्ये पूर्णशास्त्रनुसारतः ॥ १॥ समिच्चर्वादिकान्हुत्व सम्यक्पुरुषसूक्ततः । सर्वेशामभयं दत्वा विरक्तः प्रव्रजेद्धरिम् ॥ २॥ अंत्य ध्येयो नारायणो नित्यं सृष्टिस्थित्यंतकारकः । भक्तानां मुक्तिदो नित्यामधमाज्ञानिनां तमः ॥ १॥ तदर्थान् ब्रह्मसूत्रेण सम्यङ्ग्निर्णय तत्त्वतः । विष्णोस्सर्वोत्तमत्वं हि सर्वदा प्रतिपादय ॥ २॥ ॥ श्रीजयंतीनिर्णय ॥ आदि रोहिण्यामर्धरात्रे तु यदा कृष्णाष्टमि भवेत् । जयंतीनाम सा प्रोक्ता सर्वपापप्रणाशिनि ॥ १॥ प्रभातकाले मेधावी योगायेती यथाविधि । नित्यान्हीकं प्रकुर्वीत भगवंतमनुस्मरन् । विश्वायेति च मंत्रेण ततः स्वापं समाचरेत् ॥ २॥ अंत्य सर्वायेति च मन्त्रेण ततः पारणमाचरेत् । धर्मायेति ततः स्वस्थो मुच्यते सर्वकिल्बिषैः ॥ १॥ ॥ श्रीकृष्णस्तुतिः ॥ अंबरगङ्गाचुंबितपादः पदतलविगलितगुरुतरशकटः । काळियनागक्ष्वेलन हंता सरसिजनवदल्विकसितनयनः । कालघनालिकुर्बुरकायः शरशतशकलित सुररिपुनिवहः । संततमस्मान्पातु मुरारिः सततगसमजवखगपतिनिरतः । ॥ भारतीरमणमुख्यप्राणांतर्गत श्रीकृष्णर्पणमस्तु ॥ Encoded by H. P. Raghunandan hpraghu at genius.tisl.soft.net and Shrisha Rao shrao at nyx.net
% Text title            : Adya.nta shlokANi
% File name             : Adi_antya.itx
% itxtitle              : Adyanta shlokANi
% engtitle              : Adya.nta shlokANi
% Category              : vedanta, yoga
% Location              : doc_yoga
% Sublocation           : yoga
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : H. P. Raghunandan and Shrisha Rao
% Proofread by          : H. P. Raghunandan and Shrisha Rao
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org