॥ भोजवृत्ति ॥

॥ पातञ्जलयोगसूत्रम् ॥ धारेश्वरभोजदेवविरचितराजमार्तण्डवृत्तिसमेतम् देहार्द्धयोगः शिवयोः स श्रेयांसि तनोतु वः । दुष्प्रापमपि यत्स्मृत्या जनः कैवल्यमश्नुते ॥ १॥ त्रिविधान्यपि दुःखानि यदनुस्मरणान्नृणाम् । प्रयान्ति सद्यो विलयं तं स्तुमः शिवमव्ययम् ॥ २॥ पतञ्जलिमुनेरुक्तिः काप्यपूर्वा जयत्यसौ । पुंप्रकृत्योर्वियोगोऽपि योग इत्युदितो यया ॥ ३॥ जयन्ति वाचः फणिभर्तुरान्तरस्फुरत्तमस्तोमनिशाकरत्विषः । विभाव्यमानाः सततं मनांसि याः सतां सदानन्दमयानि कुर्वते ॥ ४॥ शब्दानामनुशासनं विदधता पातञ्जले कुर्वता वृत्तिं राजमृगाङ्कसंज्ञकमपि व्यतन्वता वैद्यके । वाक्चेतोवपुषां मलः फणिभृतां भर्त्रेव येनोद्धृतस्तस्य श्रीरणरङ्गमल्लनृपतेर्वाचो जयन्त्युज्ज्वलाः ॥ ५॥ दुर्बोधं यदतीव तद्विजहति स्पष्टार्थमित्युक्तिभिः स्पष्टार्थेष्वतिविस्तृतिं विदधति व्यर्थैः समासादिकैः । अस्थानेऽनुपयोगिभिश्च बहुभिर्जल्पैर्भ्रमं तन्वते श्रोतृईणामिति वस्तुविप्लवकृतः सर्वेऽपि टीकाकृतः ॥ ६॥ उत्सृज्य विस्तरमुदस्य विकल्पजालं फल्गुप्रकाशमवधार्य च सम्यगर्थान् । सन्तःपतञ्जलिमते विवृतिर्मयेयमातन्यते बुधजनप्रतिबोधहेतुः ॥ ७॥ अथ समाधिपादः ॥ १॥ अथ योगानुशासनम् ॥ समाधि १॥ वृत्तिः --- अनेन सूत्रेण शास्त्रस्य सम्बन्धाभिधेयप्रयोजनान्याख्यायन्ते । अथशब्दोऽधिकारद्योतको मङ्गलार्थकश्च । योगो युक्तिः समाधानम् । युज समाधौ (धा० पा० ४।६७)। अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलैर्येन तदनुशासनम् । योगस्यानुशासनं योगानुशासनम् । तदाऽऽशास्त्रपरिसमाप्तेरधिकृतं बोद्धव्यमित्यर्थः । तत्र शास्त्रस्य व्युत्पाद्यतया योगः ससाधनः सफलोऽभिधेयः । तद्व्युत्पादनं च फलम् । व्युत्पादितस्य योगस्य कैवल्यं फलम् । शास्त्राभिधेययोः प्रतिपाद्यप्रतिपादकभावलक्षणः सम्बन्धः । अभिधेयस्य तत्फलस्य च कैवल्यस्य साध्यसाधनभावः । एतदुक्तं भवति --- व्युत्पाद्यस्य योगस्य साधनानि शास्त्रेण प्रदर्श्यन्ते । तत्साधनसिद्धो योगः कैवल्याख्यं फलमुत्पादयति ॥ १॥ तत्र को योग इत्याह --- योगश्चित्तवृत्तिनिरोधः ॥ समाधि २॥ वृत्तिः --- चित्तस्य निर्मलसत्त्वपरिणामरूपस्य या वृत्तयोऽङ्गाङ्गिभावपरिणामरूपास्तासां निरोधो बहिर्मुखतया परिणतिविच्छेदादन्तर्मुखतया प्रतिलोमपरिणामेन स्वकारणे लयो योग इत्याख्यायते । स च निरोधः सर्वासां चित्तभूमिनां सर्वप्राणिनां धर्मः कदाचित् कस्याञ्चिद्भूमवाविर्भवति । ताश्च क्षिप्तं मूढं विक्षिप्तम् एकाग्रं निरुद्धमिति चित्तस्य भूमयश्चित्तस्यावस्थाविशेषाः । तत्र क्षिप्तं रजस उद्रेकादस्थिरं बहिर्मुखतया सुखदुःखादिविषयेषु विकल्पितेषु व्यवहितेषु वा रजसा प्रेरितम् । तच्च सदैव दैत्यदानवादीनाम् । मूढं तमस उद्रेकात् कृत्याकृत्यविभागमन्तरेण क्रोधादिभिर्विरुद्धकृत्येष्वेव नियमितम् । तच्च सदैव रक्षःपिशाचादीनाम् । विक्षिप्तं तु सत्त्वोद्रेकाद्वैशिष्ट्येन परिहृत्य दुःखसाधनं सुखसाधनेष्वेव शब्दादिषु प्रवृत्तम् । तच्च सदैव देवानाम् । एतदुक्तं भवति --- रजसा प्रवृत्तिरूपं तमसा परापकारनियतं सत्त्वेन सुखमयं चित्तं भवति । एतास्तिस्रश्चित्तावस्थाः समाधावनुपयोगिन्यः । एकाग्रनिरुद्धरूपे द्वे च सत्त्वोत्कर्षाद्यथोत्तरमवस्थितत्त्वात् समाधावुपयोगं भजेते । सत्त्वादिक्रमव्युत्क्रमे त्वयमभिप्रायः --- द्वयोरपि रजस्तमसोरत्यन्तहेयत्वेऽप्येतदर्थं रजसः प्रथममुपादानम् । यावन्न प्रवृत्तिर्दर्शिता तावन्निवृत्तिर्न शक्यते दर्शयितुमिति द्वयोर्व्यत्ययेन प्रदर्शनम् । सत्त्वस्य त्वेतदर्थं पश्चात् प्रदर्शनं यत्, तस्योत्कर्षेणोत्तरे द्वे भूमी योगोपयोगिन्याविति । अनयोर्द्वयोरेकाग्रनिरुद्धयोर्भूम्योर्यश्चित्तस्यैकाग्रतारूपः परिणामः स योग इत्युक्तं भवति । एकाग्रे बहिर्वृत्तिनिरोधः । निरुद्धे च सर्वासां वृत्तिनां संस्काराणां च प्रविलय इत्यनयोरेव भूम्योर्योगस्य सम्भवः ॥ २॥ इदानीं सूत्रकारश्चित्तवृत्तिनिरोधपदानि व्याख्यातुकामः प्रथमं चित्तपदं व्याचष्टे --- तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ समाधि ३॥ वृत्तिः --- द्रष्टुः पुरुषस्य तस्मिन् काले स्वरूपे चिन्मात्रतायामवस्थानं स्थितिर्भवति । अयमर्थः --- उत्पन्नविवेकख्यातेश्चित्संक्रमाभावात् कर्तृत्वाभिमाननिवृत्तौ प्रोच्छन्नपरिणामायां बुद्धावात्मनः स्वरूपेणावस्थानं स्थितिर्भवति ॥ ३॥ व्युत्थानदशायां तु तस्य किं रूपमित्याह --- वृत्तिसारूप्यमितरत्र ॥ समाधि ४॥ वृत्तिः --- इतरत्र योगादन्यस्मिन् काले वृत्तयो या वक्ष्यमाणलक्षणास्ताभिः सारूप्यं तद्रूपत्वम् । अयमर्थः --- यादृश्यो वृत्तयः सुखदुःखमोहात्मिकाः प्रादुर्भवन्ति तादृग्रूप एव संवेद्यते व्यवहर्तृभिः पुरुषः । तदेवं यस्मिन्नेकाग्रतया परिणते चितिशक्तेः स्वस्मिन् रूपे प्रतिष्ठानं भवति यस्मिंश्चेन्द्रियवृत्तिद्वारेण विषयाकारेण परिणते पुरुषस्तद्रूपाकार इव परिभाव्यते । यथा जलतरङ्गेषु चलत्सु चन्द्रश्चलन्निव प्रतिभाषते तच्चित्तम् ॥ ४॥ वृत्तिपदं व्याख्यातुमाह --- वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ॥ समाधि ५॥ वृत्तिः --- वृत्तयश्चित्तपरिणामविशेषाः । वृत्तिसमुदायलक्षणस्याऽवयविनो याऽवयवभूता वृत्तयस्तदपेक्षया तयप्प्रत्ययः (अष्टा० ५।२।४२)। एतदुक्तं भवति --- पञ्च वृत्तयः कीदृश्यः । क्लिष्टा अक्लिष्टाः । क्लेशैर्वक्ष्यमाणलक्षणैराक्रान्ताः क्लिष्टाः । तद्विपरीता अक्लिष्टाः ॥ ५॥ एता एव पञ्च वृत्तयः सङ्क्षिप्य उद्दिश्यन्ते --- प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ समाधि ६॥ वृत्तिः --- आसां क्रमेण लक्षणमाह --- प्रत्यक्षानुमानागमाः प्रमाणानि ॥ समाधि ७॥ वृत्तिः --- अत्रातिप्रसिद्धत्वात् प्रमाणानां शास्त्रकारेण भेदनिरूपणेनैव गतत्वाल्लक्षणस्य पृथक् लक्षणं न कृतम् । प्रमाणलक्षणन्तु --- अविसंवादि ज्ञानं प्रमाणमिति । इन्द्रियद्वारेण बाह्यवस्तूपरागाच्चित्तस्य तद्विषयसामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् । गृहीतसम्बन्धाल्लिङ्गाल्लिङ्गिनि सामान्याध्यवसायोऽनुमानम् । आप्तवचनमागमः ॥ ७॥ एवं प्रमाणरूपां वृत्तिं व्याख्याय विपर्ययरूपामाह --- विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ समाधि ८॥ वृत्तिः --- अतथाभूतेऽर्थे तथोत्पद्यमानं ज्ञानं विपर्ययः । यथा शुक्तिकायां रजतज्ञानम् । अतद्रूपप्रतिष्ठमिति । तस्यार्थस्य यद्रूपं तस्मिन् रूपे न प्रतिष्ठति तस्यार्थस्य यत् पारमार्थिकं रूपं न तत् प्रतिभासयतीति यावत् । संशयोऽप्यतद्रूपप्रतिष्ठितत्वान्मिथ्याज्ञानम् । यथा स्थाणुर्वा पुरुषो वेति ॥ ८॥ विकल्पवृत्तिं व्याखातुमाह --- शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ समाधि ९॥ वृत्तिः --- शब्दजनितं ज्ञानं शब्दज्ञानम् । तदनुपतितुं शीलं यस्य सः शब्दज्ञानानुपाती । वस्तुनस्तथात्वमनपेक्षमाणो योऽध्यवसायः स विकल्प इत्युच्यते । यथा पुरुषस्य चैतन्यं स्वरूपमिति । अत्र देवदत्तस्य कम्बल इति शब्दजनिते ज्ञाने षष्ठ्या योऽध्यवसितो भेदस्तमिहाविद्यमानमपि समारोप्य प्रवर्ततेऽध्यवसायः । वस्तुतस्तु चैतन्यमेव पुरुषः ॥ ९॥ निद्रां व्याख्यातुमाह --- अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ समाधि १०॥ वृत्तिः --- अभावप्रत्यय आलम्बनं यस्याः सा तथोक्ता । एतदुक्तं भवति --- या सन्ततमुद्रिक्तत्वात्तमसः समस्तविषयपरित्यागेन प्रवर्तते वृत्तिः सा निद्रा । तस्याश्च सुखमहमस्वाप्समिति स्मृतिदर्शनात् स्मृतेश्चानुभवव्यतिरेकेणानुपपत्तेर्वृत्तित्त्वम् ॥ १०॥ स्मृतिं व्याख्यातुमाह --- अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ समाधि ११॥ वृत्तिः --- प्रमाणेनानुभूतस्य विषयस्य योऽयमसम्प्रमोषः संस्कारद्वारेण बुद्धावारोहः सा स्मृतिः । तत्र प्रमाणविपर्ययविकल्पा जाग्रदवस्थाः । ता एव तदनुभवबलात् प्रक्षीयमाणाः स्वप्नः var (प्रत्यक्षायमाणाः ) । निद्रा त्वसंवेद्यमानविषया । स्मृतिश्च प्रमाणविपर्ययविकल्पनिद्रानिमित्तः ॥ ११॥ एवं वृत्तीर्व्याख्याय सोपायं निरोधं व्याख्यातुमाह --- अभ्यासवैराग्याभ्यां तन्निरोधः ॥ समाधि १२॥ वृत्तिः --- अभ्यासवैराग्ये वक्ष्यमाणलक्षणे ताभ्यां प्रकाशप्रवृत्तिनियमरूपा या वृत्तयस्तासां निरोधो भवतीत्युक्तं भवति । तासां विनिवृत्तबाह्याभिनिवेशानामन्तर्मुखतया स्वकारण एव चित्ते शक्तिरूपतयाऽवस्थानम् । तत्र विषयदोषदर्शनजेन वैराग्येण तद्वैमुख्यमुत्पाद्यते । अभ्यासेन च सुखजनकं शान्तप्रवाहप्रदर्शनद्वारेण दृढस्थैर्यमुत्पाद्यते । इत्थं ताभ्यां भवति चित्तवृत्तिनिरोधः ॥ १२॥ अभ्यासं व्याख्यातुमाह --- तत्र स्थितौ यत्नोऽभ्यासः ॥ समाधि १३॥ वृत्तिः --- वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः परिणामः स्थितिस्तस्यां यत्न उत्साहः पुनःपुनस्तथात्वेन चेतसि निवेशनमभ्यास इत्युच्यते ॥ १३॥ तस्यैव विशेषमाह --- स तु दीर्घकालादरनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ समाधि १४॥ वृत्तिः --- बहुकालं नैरन्तर्येणादरातिशयेन च सेव्यमानो दृढभूमिः स्थिरो भवति । दार्ढ्याय प्रभवतीत्यर्थः ॥ १४॥ वैराग्यस्य लक्षणमाह --- दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ समाधि १५॥ वृत्तिः --- द्विविधो हि विषयो दृष्ट आनुश्रविकश्च । दृष्ट इहैवोपलभ्यमानः शब्दादिः । देवलोकादावानुश्रविकः । अनुश्रूयते गुरुमुखादित्यनुश्रवो वेदस्तत आगत आनुश्रविकः । तयोर्द्वयोरपि विषययोः परिणामविरसत्वदर्शनाद्विगतगर्धस्य या वशीकारसंज्ञा ममैते वश्या नाहमेतेषां वश्य इति योऽयं विमर्शस्तद्वैराग्यमुच्यते ॥ १५॥ तस्यैव विशेषमाह --- तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ समाधि १६॥ वृत्तिः --- तद्वैराग्यं परं प्रकृष्टं प्रथमं वैराग्यं विषयविषयं द्वितीयं गुणविषयमुत्पन्नगुणपुरुषविवेकख्यातेरेव भवति । निरोधसमाधेरत्यन्तानुकूलत्वात् ॥ १६॥ एवं योगस्य स्वरूपमुक्त्वा सम्प्रज्ञातस्वरूपभेदमाह --- वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ॥ समाधि १७॥ वृत्तिः --- समाधिरिति शेषः । सम्यक् संशयविपर्ययरहितत्वेन प्रज्ञायते प्रकर्षेण ज्ञायते भाव्यस्य रूपं येन स सम्प्रज्ञातः समाधिर्भावनाविशेषः । स वितर्कादिभेदाच्चतुर्विधः --- सवितर्कः सविचारः सानन्दः सास्मितश्च । भावना भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनःपुनर्निवेशनम् । भाव्यं च द्विविधम् --- ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि जडाजडभेदात् । जडानि चतुर्विंशतिः । अजडः पुरुषः । तत्र यदा महाभूतानीन्द्रियाणि स्थूलानि विषयत्वेनादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखसम्भेदेन च भावना क्रियते तदा सवितर्कः समाधिः । अस्मिन्नेवावलम्बने पूर्वापरानुसन्धानशब्दोल्लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः । तन्मात्रान्तःकरणलक्षणं सूक्ष्मविषयमालम्ब्य तस्य देशकालधर्मावच्छेदेन यदा भावना तदा सविचारः । तस्मिन्नेवावलम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन भावना क्रियमाणा निर्विचार इत्युच्यते । एवंपर्यन्तः समाधिः ग्राह्यसमापत्तिरिति व्यपदिश्यते । यदा तु रजस्तमोलेशानुविद्धमन्तःकरणसत्त्वं भाव्यते तदा गुणभावाच्चितिशक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकात् सानन्दः समाधिर्भवति । तस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहंकारत्वाद्विदेहशब्दवाच्याः । इयं ग्रहणसमापत्तिः । ततः परं रजस्तमोलेशानभिभूतशुद्धसत्त्वमालम्बनीकृत्य या प्रवर्तते भावना तस्यां ग्राह्यस्य न्यग्भावाच्चितिशक्तेरुद्रेकात् सत्तामात्रावशेषत्वेन समाधिः सास्मित इत्युच्यते । न चाहंकारास्मितयोरभेदः शङ्कनीयः । यतो यत्रान्तःकरणमहमिति उल्लेखेन विषयान् वेदयते सोऽहंकारः । यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिलीने चेतसि सत्तामात्रमवभाति साऽस्मिता । अस्मिन्नेव समाधौ ये कृतपरितोषाः परं परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते । ये परं पुरुषं ज्ञात्वा भावनायां प्रवर्तन्ते तेषामियं विवेकख्यातिर्ग्रहीतृसमापत्तिरित्युच्यते । तत्र सम्प्रज्ञाते समाधौ चतस्रोऽवस्थाः शक्तिरूपतयाऽवतिष्ठन्ते । तत्रैकैकस्यास्त्याग उत्तरोत्तरेति चतुरवस्थोऽयं सम्प्रज्ञातः समाधिः ॥ १७॥ असम्प्रज्ञातमाह --- विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ समाधि १८॥ वृत्तिः --- विरम्यतेऽनेनेति विरामो वितर्कादिचिन्तात्यागः । विरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययः । तस्याभ्यासः पौनःपुन्येन चेतसि निवेशनम् । तत्र या काचिद्वृत्तिरुल्लसति तस्या नेति नेतीति नैरन्तर्येण पर्युदसनं विरामप्रत्ययाभ्यासः । तत्पूर्वः सम्प्रज्ञातसमाधिः । संस्कारशेषोऽन्यस्तद्विलक्षणोऽयमसम्प्रज्ञात इत्यर्थः । न तत्र किञ्चिद्वेद्यम् । असम्प्रज्ञातो निर्बीजः समाधिः । इह चतुर्विधश्चित्तस्य परिणामः --- व्युत्थानं समाधिप्रारम्भ एकाग्रता निरोधश्च । तत्र क्षिप्तमूढे चित्तभूमी व्युत्थानम् । विक्षिप्ता भूमिः सत्वोद्रेकात् समाधिप्रारम्भः । निरुद्धैकाग्रते च पर्यन्तभूमी । प्रतिपरिणामं च संस्काराः । तत्र व्युत्थानजनिताः संस्काराः समाधिप्रारम्भजैः संस्कारैः प्रत्याहन्यन्ते । तज्जाश्चैकाग्रताजैः । निरोधजनितैरेकाग्रताजा निरोधजाः संस्काराः स्वरूपं च हन्यन्ते । यथा सुवर्णसंवलितं ध्मायमानं सीसकमात्मानं सुवर्णमलं च निर्दहति । एवमेकाग्रताजनितान् संस्कारान् निरोधजाः स्वात्मानं च निर्दहन्ति ॥ १८॥ तदेवं योगस्य स्वरूपं भेदं च संक्षेपेणोपायांश्चाभिधाय विस्ताररूपेणोपायं योगाभ्यासप्रदर्शनपूर्वकमुपक्रमते --- भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ समाधि १९॥ वृत्तिः --- विदेहाः प्रकृतिलयाश्च वितर्कादिभूमिकासूत्रे (१।१७) व्याख्याताः । तेषां समाधिर्भवप्रत्ययः । भवः संसारः स एव प्रत्ययः कारणं यस्य स भवप्रत्ययः । अयमर्थः --- आधिमात्रान्तर्भूता एव ते संसारे [आविर्भूता एव संसारे ते] तथाविधसमाधिभाजो भवन्ति । तेषां परतत्त्वाऽदर्शनाद्योगाभासोऽयम् । अतः परतत्त्वज्ञाने तद्भावनायां च मुक्तिकामेन महान् यत्नो विधेय इत्येतदर्थमुपदिष्टम् ॥ १९॥ तदन्येषान्तु --- श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ समाधि २०॥ वृत्तिः --- विदेहप्रकृतिलयव्यतिरिक्तानां श्रद्धादिपूर्वकः श्रद्धादयः पूर्वे उपाया यस्य स श्रद्धादिपूर्वकः । ते च श्रद्धादयः क्रमादुपायोपेयभावेन प्रवर्तमानाः सम्प्रज्ञातसमाधेरुपायतां प्रतिपद्यन्ते । तत्र श्रद्धा योगविषये चेतसः प्रसादः । वीर्यमुत्साहः । स्मृतिरनुभूतासम्प्रमोषः । समाधिरेकाग्रता । प्रज्ञा प्रज्ञातव्यविवेकः । तत्र श्रद्धावतो वीर्यं जायते योगविषय उत्साहवान् भवति । सोत्साहस्य च पाश्चात्यासु भूमिषु स्मृतिरुत्पद्यते । तत्स्मरणाच्च चेतः समाधीयते । समाहितचित्तश्च भाव्यं सम्यग्विवेकेन जानाति । त एते सम्प्रज्ञातस्य समाधेरुपायास्तस्याभ्यासात् पराच्च वैराग्याद्भवत्यसम्प्रज्ञातः ॥ २०॥ उक्तोपायवतां योगिनामुपायभेदाद्भेदानाह --- तीव्रसंवेगानामासन्नः ॥ समाधि २१॥ वृत्तिः --- समाधिलाभ इति शेषः। संवेगः क्रियाहेतुर्दृढतरः संस्कारः । स तीव्रो येषामधिमात्रोपायानां तेषामासन्नः समाधिलाभः समाधिफलं चासन्नं भवति । शीघ्रमेव सम्पद्यत इत्यर्थः ॥ २१॥ के ते तीव्रसंवेगा इत्याह --- मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ समाधि २२॥ वृत्तिः --- तेभ्य उपायेभ्यो मृद्वादिभेदभिन्नेभ्य उपायवतां विशेषो भवति । मृदुर्मध्योऽधिमात्र इत्युपायभेदाः । ते प्रत्येकं मृदुसंवेगमध्यसंवेगतीव्रसंवेगभेदात् त्रिधा । तद्भेदेन च नव योगिनो भवन्ति --- मृदूपायो मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । मध्योपायो मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । अधिमात्रोपायो मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेगश्च । अधिमात्र उपाये तीव्रे संवेगे च महान् यत्नः कर्तव्य इति भेदोपदेशः ॥ २२॥ इदानीमेतदुपायविलक्षणं सुगममुपायान्तरं दर्शयितुमाह --- ईश्वरप्रणिधानाद्वा ॥ समाधि २३॥ वृत्तिः --- ईश्वरो वक्ष्यमाणलक्षणः । तत्र प्रणिधानं भक्तिविशेषो विशिष्टमुपासनं सर्वक्रियाणां तत्रार्पणम् । विषयसुखादिकं फलमनिच्छन् सर्वाः क्रियास्तस्मिन् परमगुरावर्पयति । तत्प्रणिधानं समाधेस्तत्फललाभस्य च प्रकृष्ट उपायः ॥ २३॥ ईश्वरस्य प्रणिधानात् समाधिलाभ इत्युक्तम् । तत्रेश्वरस्य स्वरूपं प्रमाणं प्रभावं वाचकमुपासनाक्रमं तत्फलं च क्रमेण वक्तुमाह --- क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ समाधि २४॥ वृत्तिः --- क्लिश्नन्तीति क्लेशा अविद्यादयो वक्ष्यमाणाः । विहितनिषिद्धव्यामिश्ररूपाणि कर्माणि । विपच्यन्त इति विपाकाः कर्मफलानि जात्यायुर्भोगाः । आफलविपाकाच्चित्तभूमौ शेरत इत्याशयो वासनाख्यसंस्कारः । तैरपरामृष्टस्त्रिष्वपि कालेषु न संस्पृष्टः । पुरुषविशेषोऽन्येभ्यः पुरुषेभ्यो विशिष्यते इति विशेष ईश्वरः ईशनशील इच्छामात्रेण सकलजगदुद्धरणक्षमः । यद्यपि सर्वेषामात्मणां क्लेशादिस्पर्शो नास्ति तथापि चित्तगतास्तेषामुपदिश्यन्ते । यथा योद्धृगतो जयपराजयौ स्वामिनः । अस्य तु त्रिष्वपि कालेषु तथाविधोऽपि क्लेशादिपरामर्शो नास्ति । अतः सविलक्षण एव भगवानीश्वरः । तस्य च तथाविधमैश्वर्यमनादेः सत्त्वोत्कर्षात् । तस्य सत्त्वोत्कर्षस्य प्रकृष्टाज्ज्ञानादेव । न चानयोर्ज्ञानैश्वर्ययोरितरेतराश्रयत्वं परस्परानपेक्षत्वात् । ते द्वे ज्ञानैश्वर्ये ईश्वरसत्त्वे वर्तमाने अनादिभूते तेन तथाविधेन सत्त्वेन तस्यानादिरेव सम्बन्धः । प्रकृतिपुरुषसंयोगवियोगयोरीश्वरेच्छाव्यतिरेकेणानुपपत्तेः । यथेतरेषां प्राणिनां सुखदुःखमोहात्मकतया परिणतं चित्तं निर्मले सात्त्विके धर्मानुप्रख्ये प्रतिसङ्क्रान्तं चिच्छायासंक्रान्ते संवेद्यं भवति नैवमीश्वरस्य । तस्य केवल एव सात्त्विकः परिणाम उत्कर्षवाननादिसम्बन्धेन भोग्यतया व्यवस्थितः । अतः पुरुषान्तरविलक्षणतया स एव ईश्वरः । मुक्तात्मनान्तु पुनःपुनः क्लेशादियोगस्तैस्तैः शास्त्रोक्तैरुपायैर्निवर्तितः । अस्य पुनः सर्वदैव तथाविधत्वान्न मुक्तात्मतुल्यत्वम् । न चेश्वराणामनेकत्वम् । तेषां तुल्यत्वे भिन्नाभिप्रायत्वात् कार्यस्यैवानुपपत्तेः । उत्कर्षापकर्षयुक्तत्वे य एवोत्कृष्टः स एवेश्वरस्तत्रैव काष्ठाप्राप्तत्वादैश्वर्यस्य ॥ २४॥ एवमीश्वरस्य स्वरूपमभिधाय प्रमाणमाह --- तत्र निरतिशयं सार्वज्ञ्यबीजम् ॥ समाधि २५॥ वृत्तिः --- तस्मिन् भगवति सर्वज्ञत्वस्य यद्बीजमतीतानागतादिग्रहणस्याल्पत्वं महत्वं च मूलत्वाद्बीजमिव बीजम् । तत् तत्र निरतिशयं काष्ठां प्राप्तम् । दृष्टा ह्यल्पत्वमहत्वादीनां धर्माणां सातिशयानां काष्ठाप्राप्तिः । यथा परमाणावल्पत्वस्याकाशे परममहत्वस्य । एवं ज्ञानादयोऽपि चित्तधर्मास्तारतम्येन परिदृश्यमानाः क्वचिन्निरतिशयतामासादयन्ति । यत्र चैते निरतिशयाः स ईश्वरः । यद्यपि सामान्यमात्रेऽनुमानस्य पर्यवसितत्वान्न विशेषावगतिः सम्भवति तथापि शास्त्रादस्य सर्वज्ञत्वादयो विशेषा अवगन्तव्याः । तस्य स्वप्रयोजनाभावे कथं प्रकृतिपुरुषयोः संयोगवियोगावापादयतीति नाऽऽशङ्कनीयं तस्य कारुणिकत्वाद्भूतानुग्रह एव प्रयोजनम् । कल्पप्रलयमहाप्रलयेषु निःशेषान् संसारिण उद्धरिष्यामीति तस्याध्यवसायः । यद्यस्येष्टं तत्तस्य प्रयोजनमिति ॥ २५॥ एवमीश्वरस्य प्रमाणमभिधाय प्रभावमाह --- स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ समाधि २६॥ वृत्तिः --- आद्यानां स्रष्टृईणां ब्रह्मादीनामपि स गुरुरुपदेष्टा यतः स कालेन नावच्छिद्यतेऽनादित्वात् । तेषां ब्रह्मादीनां पुनरादिमत्त्वादस्ति कालेनावच्छेदः ॥ २६॥ एवं प्रभावमुक्त्वोपासनोपयोगाय वाचकमाह --- तस्य वाचकः प्रणवः ॥ समाधि २७॥ वृत्तिः --- इत्थमुक्तस्वरूपस्येश्वरस्य वाचकोऽभिधायकः प्रकर्षेण नूयते स्तूयतेऽनेनेति नौति स्तौतीति वा प्रणव ओंकारः । तयोश्च वाच्यवाचकलक्षणः सम्बन्धो नित्यः संकेतेन प्रकाश्यते न तु केनचित् क्रियते । यथा पितापुत्रयोर्विद्यमान एव सम्बन्धोऽस्यायं पिताऽस्यायं पुत्र इति केनचित् प्रकाश्यते ॥ २७॥ उपासनमाह --- तज्जपस्तदर्थभावनम् ॥ समाधि २८॥ वृत्तिः --- तस्य सार्धत्रिमात्रिकस्य प्रणवस्य जपो यथावदुच्चारणं तद्वाच्यस्य चेश्वरस्य भावनं पुनःपुनश्चेतसि निवेशनमेकाग्रताया उपायः । अतः समाधिसिद्धये योगिना प्रणवो जप्यस्तदर्थ ईश्वरश्च भावनीय इत्युक्तं भवति ॥ २८॥ उपासनायाः फलमाह --- ततः प्रत्यक्चेतनाऽधिगमोऽप्यन्तरायाभावश्च ॥ समाधि २९॥ वृत्तिः --- तस्माज्जपात्तदर्थभावनायाश्च योगिनः प्रत्यक्चेतनाऽधिगमो भवति । विषयप्रातिकूल्येन स्वान्तःकरणाभिमुखमञ्चति या चेतना दृक्षक्तिः सा प्रत्यक्चेतना तदधिगमो ज्ञानं भवतीत्यर्थः । अन्तराया वक्ष्यमाणाः । तेषामभावः शक्तिप्रतिबन्धोऽपि भवति ॥ २९॥ अथ केऽन्तराया इत्याशङ्कायामाह --- व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ समाधि ३०॥ वृत्तिः --- नवैते रजस्तमोबलात् प्रवर्तमानाश्चित्तस्य विक्षेपा भवन्ति । तैरेकाग्रताविरोधिभिश्चित्तं विक्षिप्यत इत्यर्थः । तत्र व्याधिर्धातुवैषम्यनिमित्तो ज्वरादिः । स्त्यानमकर्मण्यता चित्तस्य । उभयकोट्यालम्बनं ज्ञानं संशयः --- योगः साध्यो न वेति । प्रमादोऽनवधानता समाधिसाधनेष्वौदासीन्यम् । आलस्यं कायचित्तयोर्गुरुत्वं योगविषये प्रवृत्त्यभावहेतुः । अविरतिश्चित्तस्य विषयसम्प्रयोगात्मा गर्धः । भ्रान्तिदर्शनं शुक्तिकायां रजतवद्विपर्ययज्ञानम् । अलब्धभूमिकत्वं कुतश्चिन्निमित्तात् समाधिभूमेरलाभोऽसम्प्राप्तिः । अनवस्थितत्त्वं लब्धायामपि भूमौ चित्तस्य तत्राप्रतिष्ठा । त एते समाधेरेकाग्रताया यथायोगं प्रतिपक्षत्वादन्तराया इत्युच्यते ॥ ३०॥ चित्तविक्षेपकारकानन्यानप्यन्तरायान् प्रतिपादयितुमाह --- दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ समाधि ३१॥ वृत्तिः --- कुतश्चिन्निमित्तादुत्पन्नेषु विक्षेपेषु एते दुःखादयः प्रवर्तन्ते । तत्र दुःखं चित्तस्य रजसः परिणामो बाधनालक्षणो यद्बाधात् प्राणिनस्तदुपघाताय प्रवर्तन्ते । दौर्मनस्यं बाह्याभ्यन्तरैः कारणैर्मनसो दौःस्थ्यम् । अङ्गमेजयत्वं सर्वाङ्गीनो वेपथुरासनमनःस्थैर्यस्य बाधकः । प्राणो यद्बाह्यं वायुमाचामति स श्वासः, यत् कौष्ठ्यं वायुं निःश्वसिति स प्रश्वासः । एते विक्षेपैः सह प्रवर्तमाना यथोदिताभ्यासवैराग्याभ्यां निरोद्धव्या इत्येषामुपदेशः ॥ ३१॥ सोपद्रवविक्षेपप्रतिषेधार्थमुपायान्तरमाह --- तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ समाधि ३२॥ वृत्तिः --- तेषां विक्षेपाणां प्रतिषेधार्थमेकस्मिन् कस्मिंश्चिदभिमते तत्त्वेऽभ्यासश्चेतसः पुनःपुनर्निवेशनं कार्यः । यद्बलात् प्रत्युदितायामेकाग्रतायां ते विक्षेपाः प्रणाशमुपयान्ति ॥ ३२॥ इदानीं चित्तसंस्कारापादकपरिकर्मकथनमुपायान्तरमाह --- मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयानां भावनातश्चित्तप्रसादनम् ॥ समाधि ३३॥ वृत्तिः --- मैत्री सौहार्दम् । करुणा कृपा । मुदिता हर्षः । उपेक्षौदासीन्यम् । एता यथाक्रमं सुखितेषु दुःखितेषु पुण्यवत्स्वपुण्यवत्सु च विभावयेत् । तथाहि --- सुखितेषु साधुषु एषां सुखित्वमिति मैत्रीं कुर्यान्न तु ईर्ष्याम् । दुःखितेषु कथं नु नामैषां दुःखनिवृत्तिः स्यादिति कृपामेव कुर्यान्न ताटस्थ्यम् । पुण्यवत्सु पुण्यानुमोदनेन हर्षमेव कुर्यान्न तु किमेते पुण्यवन्त इति विद्वेषम् । अपुण्यवत्सु चौदासीन्यमेव भावयेन्नानुमोदनं न वा द्वेषम् । सूत्रे सुखदुःखादिशब्दैस्तद्वन्तः प्रतिपादिताः । तदेवं मैत्र्यादिपरिकर्मणा चित्ते प्रसीदति सुखेन समाधेराविर्भावो भवति । परिकर्म चैतद्बाह्यं कर्म । यथा गणिते मिश्रकादिव्यवहारो गणितनिष्पत्तये संकलितादिकर्मोपकारकत्वेन प्रधानकर्मनिष्पत्तये भवत्येवं द्वेषरागादिप्रतिपक्षभूतमैत्र्यादिभावनया समुत्पादितप्रसादं चित्तं सम्प्रज्ञातादिसमाधियोग्यं सम्पद्यते । रागद्वेषावेव मुख्यतया विक्षेपमुत्पादयतः । तौ चेत् समूलमुन्मूलितौ स्यातां तदा प्रसन्नत्वान्मनसो भवत्येकाग्रता ॥ ३३॥ उपायान्तरमाह --- प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ समाधि ३४॥ वृत्तिः --- प्रच्छर्दनं कौष्ट्यस्य वायोः प्रयत्नविशेषान्मात्राप्रमाणेन बहिर्निःसारणम् । मात्राप्रमाणेनैव प्राणस्य वायोर्बहिर्गतिविच्छेदो विधारणा । सा च द्वाभ्यां प्रकाराभ्यां बाह्यस्याभ्यन्तरापूरणेन पूरितस्य वा तत्रैव निरोधेन । तदेवं रेचकपूरककुम्भकस्त्रिविधः प्राणायामश्चित्तस्य स्थितिमेकाग्रतायां निबध्नाति सर्वासामिन्द्रियवृत्तीनां प्राणवृत्तिपूर्वकत्वात् । मनःप्राणयोश्च स्वव्यापारपरस्परमेकयोगक्षेमत्वाज्जीयमाणः प्राणः समस्तेन्द्रियवृत्तिनिरोधद्वारेण चित्तस्यैकाग्रतायां प्रभवति । समस्तदोषक्षयकारित्वं चास्यागमे श्रूयते । दोषकृताश्च सर्वा विक्षेपवृत्तयः । अतो दोषनिर्हरणद्वारेणाप्यस्यैकाग्रतायां सामर्थ्यम् ॥ ३४॥ इदानिमुपायान्तरप्रदर्शनोपक्षेपेण सम्प्रज्ञातस्य समाधेः पूर्वाङ्गं कथयति --- विषयवती वा प्रवृतिरुत्पन्ना स्थितिनिबन्धिनी ॥ समाधि ३५॥ वृत्तिः --- मनस इति वाक्यशेषः । विषया गन्धरसरूपस्पर्शशब्दास्ते विद्यन्ते फलत्वेन यस्याः सा विषयवती प्रवृत्तिर्मनसः स्थैर्यं करोति । तथाहि नासाग्रे चित्तं धारयतो दिव्यगन्धसंविदुपजायते । तादृश्य एव जिह्वाग्रे रससंबित् । ताल्वग्रे रूपसंवित् । जिह्वामध्ये स्पर्शसंवित् । जिह्वामूले शब्दसंवित् । तदेवं तत्तदिन्द्रियद्वारेण तस्मिंस्तस्मिन्विषये दिव्ये जायमाना संविच्चित्तस्यैकाग्रताया हेतुर्भवति । अस्ति योगस्य फलमिति योगिनः समाश्वासोत्पादनात् ॥ ३५॥ एवम्विधमेवोपायान्तरमाह --- विशोका वा ज्योतिष्मती ॥ समाधि ३६॥ वृत्तिः --- प्रवृत्तिरुत्पन्ना चित्तस्य स्थितिनिबन्धिनीति वाक्यशेषः । ज्योतिःशब्देन सात्त्विकः प्रकाश उच्यते । स प्रशस्तो भूयानतिशयवांश्च विद्यते यस्याः सा ज्योतिष्मती प्रवृत्तिः । विशोका विगतः सुखमयसत्त्वाभ्यासवशाच्छोको रजःपरिणामो यस्याः सा विशोका चेतसः स्थितिनिबन्धिनी । अयमर्थः --- हृत्पद्मसम्पूटमध्ये प्रशान्तकल्लोलक्षीरोदधिप्रख्यं चित्तस्य सत्त्वं भावयतः प्रज्ञालोकात् सर्ववृत्तिक्षये चेतसः स्थैर्यमुत्पद्यते ॥ ३६॥ उपायान्तरप्रदर्शनद्वारेण सम्प्रज्ञातसमाधेर्विषयं दर्शयति --- वीतरागविषयं वा चित्तम् ॥ समाधि ३७॥ वृत्तिः --- मनसः स्थितिनिबन्धनं भवतीति शेषः । वीतरागः परित्यक्तविषयाभिलाषस्तस्य यच्चित्तं परिहृतक्लेशं तदालम्बनीकृतं चेतसः स्थितिहेतुर्भवति ॥ ३७॥ एवंविधमुपायान्तरमाह --- स्वप्ननिद्राज्ञानालम्बनं वा ॥ समाधि ३८॥ वृत्तिः --- प्रत्यस्तमितबाह्येन्द्रियवृत्तेर्मनोमात्रेणैव यत्र भोक्तृत्वमात्मनः स स्वप्नः । निद्रा पूर्वोक्तलक्षणा । तदालम्बनं स्वप्नालम्बनं निद्रालम्बनं वा ज्ञानमालम्ब्यमानं चेतसः स्थितिं करोति ॥ ३८॥ नानारुचित्वात् प्राणिनां यस्मिन् कस्मिंश्चिद्वस्तुनि योगिनः श्रद्धा भवति । तस्य ध्यानेनापीष्टसिद्धिरिति प्रतिपादयितुमाह --- यथाभिमतध्यानाद्वा ॥ समाधि ३९॥ वृत्तिः --- यथाभिप्रेते वस्तुनि बाह्ये चन्द्रादावभ्यन्तरे नाडिचक्रादौ वा भाव्यमाने चेतः स्थिरीभवति ॥ ३९॥ एवमुपायान् प्रदर्श्य फलदर्शनायाह --- परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ समाधि ४०॥ वृत्तिः --- एभिरुपायैश्चित्तस्य स्थैर्यं भावयतो योगिनः सूक्ष्मविषयभावनाद्वारेण परमाण्वन्तो वशीकारोऽप्रतिघातरूपो जायते । न क्वचित् परमाणुपर्यन्ते सूक्ष्मे विषयेऽस्य मनः प्रतिहन्यते इत्यर्थः । एवं स्थूलमाकाशादिपरममहत्वपर्यन्तं भावयतो न क्वचिच्चेतसः प्रतिघात उत्पद्यते सर्वत्र स्वातन्त्र्यं भवतीत्यर्थः ॥ ४०॥ एवमेभिरुपायैः संस्कृतस्य चेतसः कीदृग्रूपं भवतीत्याह --- क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ समाधि ४१॥ वृत्तिः --- क्षीणा वृत्तयो यस्य स क्षीणवृत्तिस्तस्य ग्रहीतृग्रहणग्राह्येष्वात्मेन्द्रियविषयेषु तत्स्थतदञ्जनता समापत्तिर्भवति । तत्स्थत्वं तत्रैकाग्रता । तदञ्जनता तन्मयत्वम् । क्षीणभूते चित्ते विषयस्य भाव्यमानस्यैवोत्कर्षः । तथाविधा समापत्तिस्तद्रूपः परिणामो भवतीत्यर्थः । दृष्टान्तमाहाऽभिजातस्येव मणेरिति । यथाऽभिजातस्य निर्मलस्फटिकमणेस्तत्तदुपाधिवशात् तत्तद्रूपापत्तिरेवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः । यद्यपि ग्रहीतृग्रहणग्राह्येषु इत्युक्तं तथापि भूमिकाक्रमवशाद्ग्राह्यग्रहणग्रहीतृषु इति बोध्यम् । यतः प्रथमं ग्राह्यनिष्ठ एव समाधिस्ततो ग्रहणनिष्ठस्ततोऽस्मितामात्ररूपो ग्रहीतृनिष्ठः केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वासम्भवात् । ततश्च स्थूलसूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति । एवं ग्रहणे ग्रहीतरि च समापन्नं बोध्यव्यम् ॥ ४१॥ इदानीमुक्ताया एव समापत्तेश्चातुर्विध्यमाह --- शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ समाधि ४२॥ वृत्तिः --- श्रोत्रेन्दियग्राह्यः स्फोटरूपो वा शब्दः । अर्थो जात्यादिः । ज्ञानं सत्त्वप्रधाना बुद्धिवृत्तिः । विकल्प उक्तलक्षणः । तैः संकीर्णाः । यस्यामेते शब्दादयस्त्रयः परस्पराध्यासेन विकल्परूपेण प्रतिभासन्ते गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यनेनाकारेण सा सवितर्का समापत्तिरुच्यते ॥ ४२॥ उक्तलक्षणविपरीतां निर्वितर्कामाह --- स्मृतिपरिशुद्धौ स्वरूपशून्येवाऽर्थमात्रनिर्भासा निर्वितर्का ॥ समाधि ४३॥ वृत्तिः --- शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याकारप्रतिभासतया न्यग्भूतज्ञानांशत्वेन स्वरूपशून्येव निर्वितर्का समापत्तिः ॥ ४३॥ भेदान्तरं प्रतिपादयितुमाह --- एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ समधि ४४॥ वृत्तिः --- एतयैव सवितर्कया निर्वितर्कया च समापत्या सविचारा निर्विचारा च व्याख्याता । कीदृशी । सूक्ष्मविषया सूक्ष्मस्तन्मात्रेन्द्रियादिर्विषयो यस्याः सा तथोक्ता । एतेन पूर्वस्याः स्थूलविषयत्वं प्रतिपादितं भवति । सा हि महाभूतेन्द्रियालम्बना । शब्दार्थविषयत्वेन शब्दार्थविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा । देशकालधर्मादिरहितो धर्मिमात्रतया सूक्ष्मार्थस्तन्मात्रेन्द्रियरूपः प्रतिभाति यस्यां सा निर्विचारा ॥ ४४॥ अस्या एव सूक्ष्मविषयायाः किम्पर्यन्तः सूक्ष्मविषय इत्याह --- सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ समाधि ४५॥ वृत्तिः --- सविचारनिर्विचारयोः समापत्त्योर्यत् सूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्यवसानम् । न क्वचिल्लीयते न वा किञ्चिल्लिङ्गति गमयतीत्यलिङ्गं प्रधानम् । तत्पर्यन्तं सूक्ष्मविषयत्वम् । तथाहि --- गुणानां परिणामे चत्वारि पर्वाणि --- विशिष्टलिङ्गमविशिष्टलिङ्गं लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्गं भूतेन्द्रियाणि । अविशिष्टलिङ्गां तन्मात्रान्तःकरणानि । लिङ्गमात्रं बुद्धिः । अलिङ्गम् प्रधानमिति । नातः परं सूक्ष्ममस्तीत्युक्तं भवति ॥ ४५॥ एतासां समापत्तीनां प्रकृते प्रयोजनमाह --- ता एव सबीजः समाधिः ॥ समाधि ४६॥ वृत्तिः --- ता एवोक्तलक्षनाः समापत्तयः सबीजः सह बीजेनालम्बनेन वर्तत इति सबीजः सम्प्रज्ञातः समाधिरुच्यते सर्वासां सालम्बनत्वात् ॥ ४६॥ अथेतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह --- निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ समाधि ४७॥ वृत्तिः --- निर्विचारत्वं व्याख्यातम् (१।४४)। वैशारद्यं नैर्मल्यम् । सवितर्कां स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम् । ततोऽपि सूक्ष्मविषयायाः सविचारायाः । ततोऽपि निर्विचारायाः । तस्यास्तु निर्विकल्परूपायाः प्रकृष्टाभ्यासवशाद्वैशारद्ये नैर्मल्ये सत्यध्यात्मप्रसादः समुपजायते । चित्तं क्लेशवासनारहितं स्थितिप्रवाहयोग्यं भवति । एतदेव चित्तस्य वैशारद्यं यत् स्थितौ दार्ढ्यम् ॥ ४७,, तस्मिन् सति किं भवतीत्याह --- ऋतम्भरा तत्र प्रज्ञा ॥ समधि ४८॥ वृत्तिः --- ऋतं सत्यं विभर्ति कदाचिदपि न विपर्ययेणाच्छाद्यते सा ऋतम्भरा प्रज्ञा तस्मिन् भवतीत्यर्थः । तस्माच्च प्रज्ञालोकात् सर्वं यथावत् पश्यन् योगी प्रकृष्टं योगं प्राप्नोति ॥ ४८॥ अस्याः प्रज्ञान्तराद्वैलक्षण्यमाह --- श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ समाधि ४९॥ [ प्रज्ञाभ्यां सामान्यविषया इति पाठोऽपि दृश्यते । ] वृत्तिः --- श्रुतमागमज्ञानम् । अनुमानमुक्तलक्षणम् (१।७)। ताभ्यां या जायते प्रज्ञा सा सामान्यविषया । न हि शब्दलिङ्गयोरिन्द्रियवद्विशेषप्रतिपत्तौ सामर्थ्यम् । इयं पुनः निर्विचारवैशारद्यसमुद्भवा प्रज्ञा ताभ्यां विलक्षणा विशेषविषयत्वात् । अस्यां हि प्रज्ञायां सूक्ष्मव्यवहितविप्रकृष्टानामपि विशेषः स्फुटेनैव रूपेण भासते । अतस्तस्यामेव योगिना परः प्रयत्नः कर्तव्य इत्युपदिष्टं भवति ॥ ४९॥ अस्याः प्रज्ञायाः फलमाह --- तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ समाधि ५०॥ वृत्तिः --- तया प्रज्ञया जनितो यः संस्कारः सोऽन्यान् संस्कारान् व्युत्थानजान् समाधिजांश्च संस्कारान् प्रतिबध्नाति स्वकार्यकरणाक्षमान् करोतीत्यर्थः । यतस्तत्त्वरूपतयाऽनया जनिताः संस्कारा बलवत्वादतत्त्वरूपप्रज्ञाजनितान् संस्कारान् बाधितुं शक्नुवन्ति । अतस्तामेव प्रज्ञामभ्यसेदित्युक्तं भवति ॥ ५०॥ एवं सम्प्रज्ञातसमाधिमभिधायासम्प्रज्ञातं वक्तुमाह --- तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ समाधि ५१॥ वृत्तिः --- तस्यापि सम्प्रज्ञातस्य निरोधे विलये सति सर्वासां चित्तवृत्तीनां कारणे प्रविलयाद्या संस्कारमात्राद्वृत्तिरुदेति तस्यां नेति नेति केवलं पर्युदसनान्निर्बीजः समाधिर्भवति यस्मिन् सति पुरुषः स्वरूपनिष्ठः शुद्धो भवति ॥ ५१॥ तदत्राधिकृतस्य योगस्य लक्षणं चित्तवृत्तिनिरोधपदानां व्याख्यानमभ्यासवैराग्यलक्षणस्योपायद्वयस्य स्वरूपं भेदं चाभिधाय सम्प्रज्ञातासम्प्रज्ञातभेदेन योगस्य मुख्यामुख्यभेदमुक्त्वा योगाभ्यासप्रदर्शनपूर्वकं विस्तारेणोपायान् प्रदर्श्य सुगमोपायप्रदर्शनपरतया ईश्वरस्य स्वरूपप्रमाणप्रभाववाचकोपासनानि तत्फलानि च निर्णीय चित्तविक्षेपांस्तत्तत्सहभुवश्च दुःखादीन् विस्तरेण च तत्प्रतिषेधोपायानेकत्वाभ्यासमैत्र्यादिप्राणायामादीन् सम्प्रज्ञातासम्प्रज्ञातपूर्वाङ्गभूतविषयवती प्रवृत्तिरित्यादीनाख्यायोपसंहारद्वारेण च समापत्तिं लक्षणफलसहितां स्वस्वविषयसहितां चोक्त्वा सम्प्रज्ञातासम्प्रज्ञातयोरुपसंहारमभिधाय सबीजपूर्वकनिर्बीजसमाधिरभिहित इति व्याकृतो योगपादः । इति धारेश्वरभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलवृत्तौ समाधिपादः ॥ १॥ इति समाधिपादः ॥ १॥ --------------------------------------------- अथ साधनपादः ॥ २॥ ते ते दुष्प्रापयोगर्द्धिसिद्धये येन दर्शिताः । उपायाः स जगन्नाथस्त्र्यक्षोऽस्तु प्रार्थिताप्तये ॥ तदेवं प्रथमे पादे समाहितचित्तस्य सोपायं योगमभिधाय व्युत्थितचित्तस्यापि कथमुपायाभ्यासपूर्वको योगः स्वास्थ्यमुपयातीति तत्साधनानुष्ठानप्रतिपादनाय क्रियायोगमाह --- तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ साधन १॥ वृत्तिः --- तपः शास्त्रान्तरोपदिष्टं कृच्छ्रचान्द्रायणादि । स्वाध्यायः प्रणवपूर्वाणां मन्त्राणां जपः । ईश्वरप्रनिधानं सर्वक्रियाणां तस्मिन् परमगुरौ फलनिरपेक्षतया समर्पणम् । एतानि क्रियायोग इत्युच्यते ॥ १॥ स किमर्थमित्याह --- समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ साधन २॥ वृत्तिः --- क्लेशा वक्ष्यमाणास्तेषां तनूकरणं स्वकार्यकरणप्रतिबन्धः । समाधिरुक्तलक्षणः (१।१७)। तस्य भावना चेतसि पुनःपुनर्निवेशनं साऽर्थः प्रयोजनं यस्य स तथोक्तः । एतदुक्तं भवति --- एते तपःप्रभृतयोऽभ्यस्यमानाश्चित्तगतानविद्यादीन् क्लेशान् शिथिलीकुर्वन्तः समाधेरुपकारकतां भजन्ते । तस्मात् प्रथमं क्रियायोगविधानपरेण योगिना भवितव्यमित्युपदिष्टम् ॥ २॥ क्लेशतनूकरणार्थ इत्युक्तम् । तत्र के क्लेशा इत्याह --- अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ साधन ३॥ वृत्तिः --- अविद्यादयाः वक्ष्यमाणलक्षणाः पञ्च । ते बाधनालक्षणं परितापमुपजनयन्तः क्लेशशब्दवाच्या भवन्ति । ते हि चेतसि प्रवर्तमानाः संस्कारलक्षणं गुणपरिणामं द्रढयन्ति ॥ ३॥ सत्यपि सर्वेषां तुल्यक्लेशत्वे मूलभूतत्वादविद्यायाः प्राधान्यं प्रतिपादयितुमाह --- अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ साधन ४॥ वृत्तिः --- अविद्या मोहोऽनात्मन्यात्माभिमान इति यावत् । सा क्षेत्रं प्रसवभूमिरुत्तरेषामस्मितादीनां प्रत्येकं प्रसुप्ततन्वादिभेदेन चतुर्विधानाम् । अतो यत्राविद्या विपर्ययज्ञानरूपा शिथिलीभवति तत्र क्लेशानामस्मितादीनां नोद्भवो दृश्यते । विपर्ययज्ञानसद्भावे च तेषामुद्भवदर्शनात् स्थितमेव मूलत्वमविद्यायाः । प्रसुप्ततनुविच्छिन्नोदाराणामिति । तत्र ये क्लेशाश्चित्तभूमौ स्थिताः प्रबोधकाभावे स्वकार्यं नारभन्ते ते प्रसुप्ता इत्युच्यन्ते । यथा बालावस्थायां बालस्य हि वासनारूपाः स्थिता अपि क्लेशाः प्रबोधकसहकार्यभावे नाभिव्यज्यन्ते । ते तनवो ये स्वस्वप्रतिपक्षभावनया शिथिलीकृतकार्यसम्पादनशक्तयो वासनाऽवशेषतया चेतस्यवस्थिताः प्रभूतां सामग्रीमन्तरेण स्वकार्यमारब्धुमक्षमा यथाऽभ्यासवतो योगिनः । ते विच्छिन्ना ये केनचिद्बलवता क्लेशेनाभिभूतशक्तयस्तिष्ठन्ति यथा द्वेषावस्थायां रागो रागावस्थायां वा द्वेषः । न ह्यनयोः परस्परविरुद्धयोर्युगपत् सम्भवोऽस्ति । ते उदारा ये प्राप्तसहकारिसन्निधयः स्वं स्वं कार्यमभिनिर्वर्तयन्ति यथा सदैव योगपरिपन्थिनो व्युत्थानदशायाम् । एषां प्रत्येकं चतुर्विधानामपि मूलभूतत्वेन स्थिताऽप्यविद्याऽन्वयित्वेन प्रतीयते । न हि क्वचिदपि क्लेशानां विपर्ययान्वयनिरपेक्षाणां स्वरूपमुपलभ्यते । तस्मात् [पा० तस्यां च] मिथ्याज्ञानरूपायामविद्यायां सम्यग्ज्ञानेन निवर्तितायां दग्धबीजकल्पानामेषां न क्वचित् प्ररोहोऽस्ति । अतोऽविद्यानिमित्तत्वमविद्यान्वयश्चैतेषां निश्चीयते । अतः सर्वेऽप्यविद्याव्यपदेशभाजः । सर्वेषां च क्लेशानां चित्तविक्षेपकारित्वाद्योगिना प्रथममेव तदुच्छेदे यत्नः कार्य इति ॥ ४॥ अविद्यालक्षणमाह --- अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ साधन ५॥ वृत्तिः --- अतस्मिंस्तत्प्रतिभासोऽविद्येत्यविद्यायाः सामान्यलक्षणम् । तस्या एव भेदप्रतिपादनम् --- अनित्येषु घटादिषु नित्यत्वाभिमानोऽविद्येत्युच्यते । एवमशुचिषु कायादिषु शुचित्याभिमानो दुःखेषु विषयेषु सुखाभिमानोऽनात्मशरीर आत्माभिमानः । एतेनापुण्ये पुण्यभ्रमोऽनर्थेऽर्थभ्रमो व्याख्यातः ॥ ५॥ अस्मितां लक्षयितुमाह --- दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ साधन ६॥ वृत्तिः --- दृक्षक्तिः पुरुषः । दर्शनशक्ती रजस्तमोभ्यामनभिभूतः सात्विकः परिणामोऽन्तःकरणरूपः । अनयोर्भोक्तृभोग्यत्वेन जडाजडत्वेनात्यन्तभिन्नरूपयोरेकताभिमानोऽस्मितेत्युच्यते । यथा प्रकृतिर्वस्तुतः कर्तृत्वभोक्तृत्वरहितापि कर्त्र्यहमित्यभिमन्यते [पा० यथा प्रकृतिवता कर्तृत्वरहितेनापि कर्ताहमित्यभिमन्यते] सोऽयमस्मिताख्यो विपर्यासः क्लेशः ॥ ६॥ रागस्य लक्षणमाह --- सुखानुशयी रागः ॥ साधन ७॥ वृत्तिः --- सुखमनुशेत इति सुखानुशयी । सुखज्ञस्य सुखानुभूतिपूर्वकः सुखसाधनेषु तृष्णारूपो गर्धो रागसंज्ञकः क्लेशः ॥ ७॥ द्वेषलक्षणमाह --- दुःखानुशयी द्वेषः ॥ साधन ८॥ वृत्तिः --- दुःखमुक्तलक्षणम् । तदभिज्ञस्य तदनुस्मृतिपूर्वकं तत्साधनेष्वनभिलषतो योऽयं निन्दात्मकः क्रोधः स द्वेषलक्षणः क्लेशः ॥ ८॥ अभिनिवेशस्य लक्षणमाह --- स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ साधन ९॥ वृत्तिः --- पूर्वजन्मानुभूतमरणदुःखानुभववासनाबलाद्भयरूपः समुपजायमानः शरीरविषयादिभिर्मम वियोगो मा भूदित्यन्वहमनुबन्धरूपः सर्वस्यैवाऽऽकृमेर्ब्रह्मपर्यन्तं निमित्तमन्तरेण प्रवर्तमानोऽभिनिवेशाख्यः क्लेशः ॥ ९॥ तदेवं व्युत्थानस्य क्लेशात्मकत्वादेकाग्रताऽभ्यासकामेन प्रथमं क्लेशाः परिहर्तव्याः । न चाज्ञातानां तेषां परिहारः कर्तुं शक्य इति तज्ज्ञानाय तेषामुद्देशं लक्षणं क्षेत्रं विभागं चाभिधाय स्थूलसूक्ष्मभेदभिन्नानां तेषां प्रहाणोपायविभागमाह --- ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ साधन १०॥ वृत्तिः --- ते सुक्ष्माः क्लेशाः ये वासनारूपेणैव स्थिताः स्ववृत्तिरूपं परिणामं नारभन्ते । ते प्रतिप्रसवेन प्रतिलोमपरिणामेन हेयास्त्यक्तव्याः । स्वकारणेऽस्मितायां कृतार्थं सवासनं चित्तं यदा प्रविष्टं भवति तदा कुतस्तेषां निर्मूलानां सम्भवः ॥ १०॥ स्थूलानां हानोपायमाह --- ध्यानहेयास्तद्वृत्तयः ॥ साधन ११॥ वृत्तिः --- तेषां क्लेशानामारब्धकार्याणां याः सुखदुःखमोहात्मिका वृत्तयस्ता ध्यानहेयाः । ध्यानेनैव चित्तैकाग्रतालक्षणेन हातव्या इत्यर्थः । चित्तपरिकर्माभ्यासमात्रेणैव स्थूलत्वात् तासां निवृत्तिर्भवति । यथा वस्त्रादौ स्थूलो मलः प्रक्षालनमात्रेणैव निवर्तते । यस्तत्र सूक्ष्मांशः स तैस्तैरुपायैरुत्तापनप्रभृतिभिरेव निवर्तयितुं शक्यते ॥ ११॥ एवं क्लेशानां तत्त्वमभिधाय कर्माशयस्य तदभिधातुमाह --- क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ साधन १२॥ वृत्तिः --- कर्माशय इत्यनेन स्वरूपं तस्याभिहितम् । अतो वासनारूपाण्येव कर्माणि । क्लेशमूल इत्यनेन कारणमभिहितं यतः कर्मणां शुभाशुभानां क्लेशा एव निमित्तम् । दृष्टादृष्टजन्मवेदनीय इत्यनेन फलमुक्तम् । अस्मिन्नेव जन्मनि अनुभवनीयो दृष्टजन्मवेदनीयः । जन्मान्तरानुभवनीयोऽदृष्टजन्मवेदनीयः । तथाहि --- कानिचित् पुण्यानि देवताराधनादीनि तीव्रसंवेगेन कृतानि इहैव जन्मनि जात्यायुर्भोगलक्षणं फलं प्रयच्छन्ति यथा नन्दीश्वरस्य भगवन्महेश्वराराधनबलादिहैव जन्मनि जात्यादयो विशिष्टाः प्रादुर्भूताः । एवमन्वेषां विश्वामित्रादीनां तपःप्रभावाज्जात्यायुषी । केषाञ्चिज्जातिरेव यथा तीव्रसंवेगेन दुष्टकर्मकृतां नहुषादीनां जात्यन्तरादिपरिणामः । उर्वश्याश्च कार्तिकेयवने लतारूपतया । एवं व्यस्तसमस्तत्वेन यथायोग्यं योज्यमिति ॥ १२॥ इदानीं कर्माशयस्य स्वभेदभिन्नं फलमाह --- सति मूले तद्विपाको जात्यायुर्भोगाः ॥ साधन १३॥ वृत्तिः --- मूलमुक्तलक्षणाः क्लेशाः । तेष्वनभिभूतेषु सत्सु कर्मणां कुशलाकुशलरूउपाणां विपाकः फलं जात्यायुर्भोगा भवन्ति । जातिर्मनुष्यादिः । आयुश्चिरकालमेकशरीरसम्बन्धः । भोगा विषया इन्द्रियाणि सुखसंविद्दुःखसंविच्च सुखदुःखादीनि कर्मकरणभावबोधनव्युत्पत्या भोगशब्दस्य । इदमत्र तात्पर्यम् --- चित्तभूमावनादिकालसञ्चिताः कर्मवासना यथा यथा पाकमुपयान्ति तथा तथा गुणप्रधानभावेन स्थिता जात्यायुर्भोगलक्षणं स्वकार्यमारभन्ते ॥ १३॥ उक्तानां कर्मफलत्वेन जात्यादीनां स्वकारणकर्मानुसारिणां कार्यकर्तृत्वमाह --- ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ साधन १४॥ वृत्तिः --- ह्लादः सुखम्ं परितापो दुःखं तौ फलं येषां ते तथोक्ताः । पुण्यं कुशलं कर्म तद्विपरीतमपुण्यं ते कर्मणी कारणं येषां तेषां भावस्तस्मात् । एतदुक्तं भवति --- पुण्यकर्मारब्धा जात्यायुर्भोगा ह्लादफलाः । अपुण्यकर्मारब्धास्तु परितापफलाः । एतच्च प्राणिमात्रापेक्षया द्वैविध्यम् ॥ १४॥ योगिनस्तत्सर्वं दुःखमित्याह --- परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ साधन १५॥ वृत्तिः --- विवेकिनः परिज्ञातक्लेशादिविवेकस्य दृश्यमात्रं सकलमेव भोगसाधनं सविषं स्वाद्वन्नमिव दुःखमेव प्रतिकूलवेदनीयमेवेत्यर्थः । यस्मादत्यन्ताभिजातो योगी दुःखलेशेनाप्युद्विजते । यथा --- अक्षिपात्रमूर्णातन्तुस्पर्शमात्रेणैव महतीं पीडामनुभवति नेतरदङ्गं तथा विवेकी स्वल्पदुःखानुबन्धेनाप्युद्विजते । कथमित्याह --- परिणामतापसंस्कारदुःखैः । विषयाणामुपभुज्यमानानां यथायथं गर्धाभिवृद्धेस्तदप्राप्तिकृतस्य सुखदुःखस्यापरिहार्यतया दुःखान्तरसाधनत्वान्नास्त्येव सुखरूपतेति परिणामदुःखत्वम् । उपगृह्यमाणेषु सुखसाधनेषु तत्प्रतिपन्थिनं प्रति द्वेषस्य सर्वदैवावस्थितत्वात् सुखानुभवकालेऽपि तापदुःखं दुष्परिहरमिति तापदुःखता । संस्कारदुःखं तु स्वाभिमतानभिमतविषयसन्निधाने सुखसंविद्दुःखसंविच्चोपजायमाना तथाविधमेव स्वक्षेत्रे संस्कारमारभते । संस्काराच्च पुनस्तथाविधसंविदनुभव इत्यपरिमितसंस्कारोत्पत्तिद्वारेण सर्वस्यैव दुःखानुवेधाद्दुःखत्वम् । एवमुक्तं भवति --- क्लेशकर्माशयविपाकसंस्कारानुच्छेदात् सर्वस्यैव दुःखत्वम् । गुणवृत्तिविरोधाच्चेति । गुणानां सत्वरजस्तमसां या वृत्तयः सुखदुःखमोहरूपाः परस्परमभिभाव्याभिभावकत्वेन विरुद्धा जायन्ते । तासां सर्वत्रैव दुःखानुवेधाद् दुःखत्वम् । एतदुक्तं भवति --- ऐकान्तिकीमात्यन्तिकीं च दुःखनिवृत्तिमिच्छतो विवेकिन उक्तरूपकारणचतुष्टयाः सर्वे विषया दुःखरूपतया प्रतिभान्ति । तस्माच्च सर्वकर्मविपाको दुःखरूप एवेत्युक्तं भवति ॥ १५॥ तदेवमुक्तस्य क्लेशकर्माशयविपाकराशेरविद्याप्रभवत्वादविद्यायाश्च मिथ्याज्ञानरूपतया सम्यग्ज्ञानोच्छेद्यत्वात् सम्यग्ज्ञानस्य च ससाधनहेयोपादेयावधारणरूपत्वात् तदभिधानमाह --- हेयं दुःखमनागतम् ॥ साधन १६॥ वृत्तिः --- भूतस्यातिक्रान्तत्वादनुभूयमानस्य त्यक्तुमशक्यत्वादनागतमेव संसारदुःखं हातव्यमित्युक्तं भवति ॥ १६॥ हेयहेतुमाह --- द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ साधन १७॥ वृत्तिः --- द्रष्टा चिद्रूपः पुरुषः । दृश्यं बुद्धिसत्त्वं । तयोरविवेकख्यातिपूर्वको योऽसौ संयोगो भोक्तृभोग्यत्वेन सन्निधानं स हेयस्य दुःखस्य गुणपरिणामरूपस्य संसारस्य हेतुः कारणम् । तन्निवृत्या संसारनिवृत्तिर्भवतीत्यर्थः ॥ १७॥ द्रष्टृदृश्ययोः संयोग इत्युक्तम् । तत्र दृश्यस्य स्वरूपं कार्यं प्रयोजनं चाह --- प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ साधन १८॥ वृत्तिः --- प्रकाशः सत्त्वस्य धर्मः । क्रिया प्रवृत्तिरूपा रजसः । स्थितिर्नियमरूपा तमसः । ताः प्रकाशक्रियास्थितयः शीलं स्वाभाविकं रूपं यस्य तत्तथाविधमिति स्वरूपमस्य निर्दिष्टम् । भूतेन्द्रियात्मकमिति । भूतानि स्थूलसूक्ष्मभेदेन द्विविधानि पृथिव्यादीनि गन्धतन्मात्रादीनि च । इन्द्रियाणि बुद्धीन्द्रियकर्मेन्द्रियान्तःकरणभेदेन त्रिविधानि । उभयमेतद्ग्राह्यग्रहणरूपात्मा स्वरूपाभिन्नः परिणामो यस्य तत्तथाविधमित्यनेनास्य कार्यमुक्तम् । भोगः कथितलक्षणः । अपवर्गो विवेकख्यातिपूर्विका संसारनिवृत्तिः । तौ भोगापवर्गवर्थः प्रयोजनं यस्य तत्तथाविधं दृश्यमित्यर्थः ॥ १८॥ तस्य दृश्यस्य नानावस्थारूपपरिणामात्मकस्य हेयत्वेन ज्ञातव्यत्वात् तदवस्थाः कथयितुमाह --- विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ साधन १९॥ वृत्तिः --- गुणानां पर्वाण्यवस्थाविशेषाश्चत्वारो ज्ञातव्या इत्युपदिष्टं भवति । तत्र विशेषा महाभूतेन्द्रियाणि । अविशेषास्तन्मात्रान्तःकरणानि । लिङ्गमात्रं बुद्धिः । अलिङ्गमव्यक्तमित्युक्तम् । सर्वत्र त्रिगुणरूपस्याव्यक्तस्यान्वयित्वेन प्रत्यभिज्ञानादवश्यं ज्ञातव्यत्वेन योगकाले चत्वारि पर्वाणि निर्दिष्टानि ॥ १९॥ एवं हेयत्वेन दृश्यस्य प्रथमं ज्ञातव्यत्वात् तदवस्थासहितं व्याख्यायोपादेयं द्रष्टारं व्याख्यातुमाह --- द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ साधन २०॥ वृत्तिः --- द्रष्टा पुरुषो दृशिमात्रश्चेतनामात्रम् । मात्रग्रहणं धर्मधर्मिनिरासार्थम् । केचिद्धि चेतनामात्मनो धर्ममिच्छन्ति । स शुद्धोऽपि परिणामित्वाद्यभावेन स्वप्रतिष्ठोऽपि प्रत्ययानुपश्यः । प्रत्यया विषयोपरक्तानि विज्ञानानि तानि अनु अव्यवधानेन प्रतिसंक्रमाद्यभावेन पश्यति । एतदुक्तं भवति --- जातविषयोपरागायामेव बुद्धौ सन्निधिमात्रेणैव पुरुषस्य द्रष्टुत्वमिति ॥ २०॥ स एव भोक्तेत्याह --- तदर्थ एव दृश्यस्यात्मा ॥ साधन २१॥ [ तदर्थः एव ] वृत्तिः --- दृश्यस्य प्रागुक्तलक्षणस्य य आत्मा यत् स्वरूपं तदर्थ एव । तस्य पुरुषार्थभोक्तृत्वसम्पादनं नाम स्वार्थपरिहारेण प्रोयोजनम् । न हि प्रधानं प्रवर्तमानमात्मनः किञ्चित् प्रयोजनमपेक्ष्य प्रवर्तते किन्तु पुरुषस्य भोक्तृत्वं सम्पादयितुमिति ॥ २१॥ यद्येवं पुरुष्स्य भोगसम्पादनमेव प्रोयोजनं तदा स्म्पादिते तस्मिंस्तन्निष्प्रयोजनं विरतव्यापारं स्यात् । तस्मिंश्च परिणामशून्ये शुद्धत्वात् सर्वे द्रष्टारो बन्धरहिताः स्युः । ततश्च संसारोच्छेद इत्याशङ्क्याह --- कृतार्थं प्रति नष्टमप्यन्ष्टं तदन्यसाधारणत्वात् ॥ साधन २२॥ वृत्तिः --- यद्यपि विवेकख्यातिपर्यन्ताद्भोगसम्पादनात् कमपि कृतार्थं पुरुषं प्रति तन्नष्टं विरतव्यापारं तथापि सर्वपुरुषसाधारणत्वादन्यान् प्रत्यनष्टव्यापारमवतिष्ठते । अतः प्रधानस्य सकलभोक्तृसाधारणत्वान्न कदाचिदपि विनाशः । एकस्य मुक्तौ वा न सर्वमुक्तिप्रसङ्ग इत्युक्तं भवति ॥ २२॥ दृश्यद्रष्टारौ व्याख्याय संयोगं व्याख्यातुमाह --- स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ साधन २३॥ वृत्तिः --- कार्यद्वारेणास्य लक्षणं करोति । स्वशक्तिर्दृश्यस्य स्वभावः । स्वामिशक्तिर्द्रष्टुः स्वरूपम् । तयोर्द्वयोरपि संवेद्यसंवेदकत्वेन व्यवस्थितयोर्या स्वरूपोपलब्धिस्तस्याः कारणं यः स संयोगः । स च सहजो भोग्यभोक्तृभावस्वरूपानन्यः [ पा० स च सहजभोग्यभोक्तृभावस्वरूपान्नान्यः] । न हि तयोर्नित्ययोर्व्यापकयोः स्वरूपादतिरिक्तः कश्चित् संयोगः । यदेव भोग्यस्य भोग्यत्वं भोक्तुश्च भोक्तृत्वमनादिसिद्धं स एव संयोगः ॥ २३॥ तस्यापि कारणमाह --- तस्य हेतुरविद्या ॥ साधन २४॥ वृत्तिः --- या पूर्वं विपर्यासात्मिका मोहरूपाऽविद्या व्याख्याता (२।४-५) सा तस्याविवेकख्यातिरूपस्य संयोगस्य कारणम् ॥ २४॥ हेयं हानिक्रियाकर्मोच्यते । किं पुनस्तद्धानमित्याह --- तदभावे संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ साधन २५॥ वृत्तिः --- तस्या अविद्यायाः स्वरूपविरुद्धेन सम्यग्ज्ञानेनोन्मूलिताया योऽयमभावस्तस्मिन् सति तत्कार्यस्य संयोगस्याप्यभावस्तद्धानमित्युच्यते । अयमर्थः --- नैतस्याऽमूर्तवस्तुनो विभागो युज्यते [पा० नैतस्य मूर्तद्रव्यवत् परित्यागो युज्यते] किन्तु जातायां विवेकख्यातवविवेकनिमित्तः संयोगः स्वयमेव निवर्तत इति तस्य हानम् । यदेव च संयोगस्य हानं तदेव नित्यं केवलस्यापि पुरुषस्य कैवल्यं व्यपदिश्यते ॥ २५॥ तदेवं दृश्यसंयोगस्य स्वरूपं कारणं कार्यं चाभिहितम् । अथ हानोपायकथनद्वारेण उपादेयकारणमाह --- विवेकख्यातिरविप्लवा हानोपायः ॥ साधन २६॥ वृत्तिः --- अन्ये गुणा अन्यः पुरुष इत्येवंविधस्य विवेकस्य या ख्यातिः प्रख्या साऽस्य हानस्य दृश्यदुःखपरित्यागस्योपायः कारणम् । कीदृशी । अविप्लवा न विद्यते विप्लवो विच्छेदोऽन्तराऽन्तराऽभ्युत्थानरूपो यस्याः सा अविप्लवा । इदमत्र तात्पर्यम् --- प्रतिपक्षभावनाबलादविद्याप्रलये विनिवृत्तकर्तृत्वभोक्तृत्वाभिमानाया रजस्तमोमलानभिभूताया बुद्धेरन्तर्मुखा या चिच्छायासंक्रान्तिः सा विवेकख्यातिरुच्यते । तस्यां च सन्ततत्वेन प्रवृत्तायां सत्यां दृश्यस्याधिकारनिवृत्तेर्भवत्येव कैवल्यम् ॥ २६॥ उत्पन्नविवेकख्यातेः पुरुषस्य यादृशी प्रज्ञा भवति तां कथयन् विवेकख्यातेरेव स्वरूपमाह --- तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥ साधन २७॥ [तस्य सप्तधा प्रान्तभूमिः प्रज्ञा इति वा बहुसम्मतः सूत्रपाठः । ] वृत्तिः --- तस्योत्पन्नविवेकज्ञानस्य ज्ञातव्यविवेकरूपा प्रज्ञा प्रान्तभूमौ सकलसालम्बनसमाधिपर्यन्ते सप्तप्रकारा भवन्तीत्यर्थः । तत्र कार्यविमुक्तिरूपा चतुष्प्रकारा --- १। ज्ञातं मया ज्ञेयम् । ज्ञातव्यं न किञ्चिदस्ति । २। क्षीणा मे क्लेशाः । न किञ्चित् क्षेतव्यमस्ति । ३। अधिगतं मया ज्ञानम् । ४। प्राप्ता मया विवेकख्यातिरिति । प्रत्ययान्तरपरिहारेण तस्यामवस्थायामीदृश्येव प्रज्ञा जायते । ईदृशी प्रज्ञा कार्यविषयं निर्मलं ज्ञानं कार्यविमुक्तिरित्युच्यते । चित्तविमुक्तिस्त्रिधा --- ५। चरितार्था मे बुद्धिः । गुणा हृताधिकारा गिरिशिखरनिपतिता इव ग्रावाणो न पुनः स्थितिं यास्यन्ति । ६। स्वकारणे प्रविलयाभिमुखानां गुणानां मोहाभिधानमूलकारणाभावान्निष्प्रयोजनत्वाच्चामीषां कुतः प्ररोहो भवेत् । ७। स्वस्थीभूतश्च [पा० सात्मीभूतश्च] मे समाधिस्तस्मिन् सति स्वरुपप्रतिष्ठोऽहमिति । ईदृशी त्रिप्रकारा चित्तविमुक्तिः । तदेवमीदृश्यां सप्तविधभूमिप्रज्ञायामुपजातायां पुरुषः केवल इत्युच्यते ॥ २७॥ विवेकख्यातिः संयोगाभावहेतुरित्युक्तम् । तस्यास्तु उत्पत्तौ किं निमित्तमित्याह --- योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ साधन २८॥ वृत्तिः --- योगाङ्गानि वक्ष्यमाणानि । तेषामनुष्ठानाज्ज्ञानपूर्वकाभ्यासादाविवेकख्यातेरशुद्धिक्षये चित्तसत्त्वस्य प्रकाशावरणरूपक्लेशात्मकाशुद्धिक्षये या ज्ञानदीप्तिस्तारतम्येन सात्त्विकः परिणामो विवेकख्यातिपर्यन्तस्तस्याः ख्यातेर्हेतुरित्यर्थः ॥ २८॥ योगाङ्गानामनुष्ठानादशुद्धिक्षय इत्युक्तम् । कानि पुनस्तानि योगाङ्गानीति तेषामुद्देशमाह --- यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ साधन २९॥ वृत्तिः --- इह कानिचित् समाधेः साक्षादुपकारकाणि यथा धारणादीनि कानिचित् प्रतिपक्षभूतहिंसादिवितर्कोन्मूलनद्वारेण समाधिमुपकुर्वन्ति यथा यमादयः । तत्रासनादीनामुत्तरोतरमुपकारकत्वम् । तद्यथा --- सत्यासनजये प्राणायामस्थैर्यम् । एवमुत्तरत्रापि योज्यम् ॥ २९॥ क्रमेणैषां स्वरूपमाह --- अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ साधन ३०॥ वृत्तिः --- तत्र प्राणवियोगप्रयोजनव्यापारो हिंसा । सा च सर्वानर्थहेतुः । तदभावोऽहिंसा । हिंसायाः सर्वप्रकारेणैव परिहार्यत्वात् प्रथमं तदभावरूपाया अहिंसाया निर्देशः । सत्यं वाङ्मनसोर्यथार्थत्वम् । स्तेयं परस्वापहरणं तदभावोऽस्तेयम् । ब्रह्मचर्यमुपस्थसंयमः । अपरिग्रहो भोगसाधनानामनङ्गीकारः । त एतेऽहिंसादयः पञ्च यमशब्दवाच्या योगाङ्गत्वेन निर्दिष्टाः ॥ ३०॥ एषां विशेषमाह --- जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ साधन ३१॥ वृत्तिः --- जातिर्ब्राह्मणत्वादिः । देशस्तीर्थादिः । कालश्चतुर्दश्यादिः । समयो ब्राह्मणप्रयोजनादिः । एतैश्चतुर्भिरनवच्छिन्नाः पूर्वोक्ता अहिंसादयो यमाः सर्वासु क्षिप्तादिषु चित्तभूमिषु भवा महाव्रतमित्युच्यते । तद्यथा --- ब्राह्मणं न हनिष्यामि तीर्थे न कंचन हनिष्यामि चतुर्दश्यां न हनिष्यामि देवब्राह्मणप्रयोजनव्यतिरेकेण कमपि न हनिष्यामीति । एवं चतुर्विधावच्छेदव्यतिरेकेण किंचित् कदाचित् कस्मिंश्चिदर्थे न हनिष्यामीत्यनवच्छिन्नाः । एवं सत्यादिषु यथायोगं योज्यम् । इत्थमनियतीकृताः सामान्येनैव प्रवृत्ता महाव्रतमित्युच्यते न पुनः परकीयपरिच्छिन्नावधारणम् [पा० न पुनः परिच्छिन्नावधारणम् ॥ ३१॥ नियमानाह --- शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ साधन ३२॥ वृत्तिः --- शौचं द्विविधम् --- बाह्यमाभ्यन्तरं च । बाह्यं मृज्जलादिभिः कायादिप्रक्षालनम् । आभ्यन्तरं मैत्र्यादिभिश्चित्तमलानां प्रक्षालनम् । सन्तोषस्तुष्टिः । शेषाः प्रागेव (२।१) कृतव्याख्यानाः । एते शौचादयो नियमशब्दवाच्याः ॥ ३२॥ कथमेषां योगाङ्गत्वमित्याह --- वितर्कबाधने प्रतिपक्षभावनम् ॥ साधन ३३॥ वृत्तिः --- वितर्क्यन्ते इति वितर्का योगपरिपन्थिनो हिंसादयः । तेषां प्रतिपक्षभावने सति यदा बाधा भवति तदा योगः सुकरो भवतीति भवत्येव यमनियमयोर्योगाङ्गत्वम् ॥ ३३॥ इदानीं वितर्काणां स्वरूपं भेदप्रकारं फलं च क्रमेणाह --- वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभाअवनम् ॥ साधन ३४॥ वृत्तिः --- एते पूर्वोक्ता हिंसादयः प्रथमं त्रिधा भिद्यन्ते कृतकारितानुमोदनभेदेन । तत्र स्वयं निष्पादिताः कृताः । कुरु कुर्विति प्रयोजकव्यापारेण समुत्पादिताः कारिताः । अन्येन क्रियमाणाः साध्वित्यङ्गीकृता अनुमोदिताः । एतच्च त्रैविध्यं परस्परं व्यामोहनिराकरणावधारणायोच्यते । अन्यथा मन्दमतिरेवं मन्येत न मया स्वयं हिंसा कृतेति नास्ति मे दोषः । एतेषां कारणप्रतिपादनाय लोभक्रोधमोहपूर्वका इति । यद्यपि लोभः प्रथमं निर्दिष्टस्तथाऽपि सर्वक्लेशानां मोहस्याऽनात्मन्यात्माभिमानलक्षणस्य निदानत्वात् तस्मिन् सति स्वपरविभागपूर्वकत्वेन लोभक्रोधादीनामुद्भवान्मूलत्वमवसेयम् । मोहपूर्विका सर्वा दोषजातिरित्यर्थः । लोभस्तृष्णा । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मः । प्रत्येकं कृतादिभेदेन त्रिप्रकारा अपि हिंसादयो मोहादिकारणत्वेन त्रिधा भिद्यन्ते । एषामेव पुनरवस्थाभेदेन त्रैविध्यमाह --- मृदुमध्याधिमात्राः । मृदवो मन्दाः न तीव्रा नापि मध्याः । मध्या नापि मन्दा नापि तीव्राः । अधिमात्रास्तीव्राः । पाश्चात्त्या नवभेदाः । इत्थं त्रैविध्ये सति सप्तविंशतिर्भवति । मृद्वादीनामपि प्रत्येकं मृदुमध्याधिमात्रभेदात् त्रैविध्यं सम्भवति । तद्यथायोगं योज्यम् । तद्यथा --- मृदुमृदुर्मृदुमध्यो मृदुतीव्र इति । एषां फलमाह --- दुःखाज्ञानानन्तफला दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः । अज्ञानं मिथ्याज्ञानं संशयविपर्ययरूपम् । ते दुःखाज्ञानेऽनन्तमपरिच्छिन्नं फलं येषां ते तथोक्ताः । इत्थं तेषां स्वरूपकारणादिभेदेन ज्ञातानां प्रतिपक्षभावनया योगिना परिहारः कर्तव्य इत्युपदिष्टं भवति ॥ ३४॥ एषामभ्यासवशात् प्रकर्षमागच्छतामनुनिष्पादिन्यः सिद्धयो यथा भवन्ति तथा क्रमेण प्रतिपादयितुमाह --- अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ साधन ३५॥ वृत्तिः --- तस्याऽहिंसां भावयतः सन्निधौ सहजविरोधिनामप्यहिनकुलादीनां वैरत्यागो निर्मत्सरतयाऽवस्थानं भवति । हिंस्रस्वभावा अपि हिंसां त्यजन्तीत्यर्थः [पा० हिंस्रा अपि हिंस्रत्वं परित्यजन्तीत्यर्थः] ॥ ३५॥ सत्याभ्यासवतः किं भवतीत्याह --- सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ साधन ३६॥ वृत्तिः --- क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति । तस्य तु सत्याभ्यासवतो योगिनस्तथा सत्यं प्रकृष्यते यथा क्रियायामकृतायामपि योगी फलमाप्नोति । तद्वचनाद्यस्य कस्यचित् क्रियामकुर्वतोऽपि क्रियाफलं भवतीत्यर्थः ॥ ३६॥ अस्तेयाभ्यासवतः फलमाह --- अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ साधन ३७॥ वृत्तिः --- अस्तेयं यदाऽभ्यसति तदास्य तत्प्रकर्षान्निरभिलाषस्यापि सर्वतो दिव्यानि रत्नान्युपतिष्ठन्ते ॥ ३७॥ ब्रह्मचर्याभ्यासस्य फलमाह --- ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ साधन ३८॥ वृत्तिः --- यः किल ब्रह्मचर्यमभ्यस्यति तस्य तत्प्रकर्षान्निरतिशयं वीर्यं सामर्थ्यमाविर्भवति । वीर्यनिरोधे हि ब्रह्मचर्यस्य प्रकर्षाच्छरीरेन्द्रियमनःसु वीर्यं प्रकर्षमागच्छति ॥ ३८॥ अपरिग्रहस्य फलमाह --- अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ साधन ३९॥ वृत्तिः --- कथमित्यस्य भावः कथन्ता । जन्मनः कथन्ता जन्मकथन्ता । तस्याः सम्बोधः सम्यग्ज्ञानं जन्मान्तरे कोऽहमासं कीदृशः किंकार्यकारीति जिज्ञासायां सर्वमेव सम्यग्जानातीत्यर्थः । न केवलं भोगसाधनपरिग्रह एव परिग्रहो यावदात्मनः शरीरपरिग्रहोऽपि परिग्रहो भोगसाधनत्वाच्छरीरस्य । तस्मिन् सति रागानुबन्धाद्बहिर्मुखायामेव प्रवृत्तौ न तात्त्विकज्ञानप्रादुर्भावः । यदा पुनः शरीरादिपरिग्रहनैरपेक्ष्येण माध्यस्थ्यमवलम्बते तदा मध्यस्थस्य रागादित्यागात् सम्यग्ज्ञानहेतुर्भवत्येव पूर्वापरजन्मसम्बोधः ॥ ३९॥ उक्ता यमानां सिद्धयः । अथ नियमानामाह --- शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ साधन ४०॥ वृत्तिः --- यः शौचं भावयति तस्य स्वाङ्गेष्वपि कारणस्वरूपपर्यालोचनद्वारेण जुगुप्सा घृणा समुपजायते --- अशुचिरयं कायो नात्राग्रहः कार्य इति । अमुनैव हेतुना परैरन्यैश्च कायवद्भिरसंसर्गः सम्पर्काभावः संसर्गपरिवर्जनमित्यर्थः । यः किल स्वमेव कायं जुगुप्सते तत्तदवद्यदर्शनात् स कथं परकीयैस्तथाभूतैश्च कायैः संसर्गमनुभवति ॥ ४०॥ शौचस्यैव फलान्तरमाह --- सत्त्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ साधन ४१॥ वृत्तिः --- भवन्तीति वाक्यशेषः । सत्त्वं प्रकाशसुखाद्यात्मकं तस्य शुद्धी रजस्तमोभ्यामनभिभवः । सौमनस्यं खेदाननुभवेन मानसी प्रीतिः । एकाग्रता नियतविषये चेतसः स्थैर्यम् । इन्द्रियजयो विषयपराङ्मुखाणामिन्द्रियाणामात्मन्यवस्थानम् । आत्मदर्शने विवेकख्यातिरूपे चित्तस्य योग्यत्वं समर्थत्वम् । शौचाभ्यासवत एव एते सत्त्वशुद्ध्यादयः क्रमेण प्रादुर्भवन्ति । तथाहि --- सत्त्वशुद्धेः सौमनस्यम् । सौमनस्यादेकाग्रता । एकाग्रताया इन्द्रियजयः । तस्मादात्मदर्शनयोग्यतेति ॥ ४१॥ सन्तोषाभ्यासस्य फलमाह --- सन्तोषादनुत्तमः सुखलाभः ॥ साधन ४२॥ वृत्तिः --- सन्तोषप्रकर्षेण योगिनस्तथाविधमान्तरं सुखमाविर्भवति यस्य बाह्यं विषयसुखं शतांशेनापि न समम् ॥ ४२॥ तपसः फलमाह --- कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ साधन ४३॥ वृत्तिः ---तपः समभ्यस्यमानं चेतसः क्लेशादिलक्षणाशुद्धिक्षयद्वारेण कायेन्द्रियाणां सिद्धिप्रकर्षमादधाति । अयमर्थः --- चान्द्रायणादिना चित्तक्लेशक्षयस्तत्क्षयादिन्द्रियादीनां सूक्ष्मव्यवहितविप्रकृष्टदर्शनादिसामर्थ्यमाविर्भवति कायस्य यथेच्छम् अणुत्वमहत्त्वादीनि ॥ ४३॥ स्वाध्यायस्य फलमाह --- स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ साधन ४४॥ वृत्तिः --- अभिप्रेतमन्त्रजपादिलक्षणे स्वाध्याये प्रकृष्यमाणे योगिन इष्टयाऽभिप्रेतया देवतया सम्प्रयोगो भवति । सा देवता प्रत्यक्षा भतीत्यर्थः ॥ ४४॥ ईश्वरप्रणिधानस्य फलमाह --- समाधिसिद्धिरीश्वरप्रणिधानात् ॥ साधन ४५॥ वृत्तिः --- ईश्वरे यत् प्रणिधानं भक्तिविशेषस्तस्मात् समाधेरुक्तलक्षणस्याविर्भावो भवति यस्मात् स भगवानीश्वरः प्रसन्नः सन्नन्तरायरूपान् क्लेशान् परिहृत्य समाधिं सम्बोधयति ॥ ४५॥ यमनियमानुक्त्वा आसनमाह --- स्थिरसुखमासनम् ॥ साधन ४६॥ वृत्तिः --- आस्यतेऽनेनेत्यासनं पद्मासनदण्डासनस्वस्तिकासनादि । तद्यदा स्थिरं निष्कम्पं सुखमनुद्वेजनीयं च भवति तदा योगाङ्गतां भजते ॥ ४६॥ तस्यैव स्थिरसुखप्राप्त्यर्थमुपायमाह --- प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥ साधन ४७॥ वृत्तिः --- तदासनं प्रयत्नशैथिल्येनाऽऽनन्त्यसमापत्त्या च स्थिरं सुखं भवतीति सम्बन्धः । यदा यदाऽऽसनं बध्नामीति इच्छां करोति प्रयत्नशैथिल्येऽप्यक्लेशेनैव तदा तदाऽऽसनं सम्पद्यते । यदा चाकाशादिगत आनन्त्ये चेतसः समापत्तिः क्रियतेऽवधानेन [पा० अव्यवधानेन] तादात्म्यमापद्यते तदा देहाहंकाराभावान्नासनं दुःखजनकं भवति । अस्मिंश्चासनजये सति समाध्यन्तरायभूता न प्रभवन्त्यङ्गमेजयत्वादयः ॥ ४७॥ तस्यैवानुनिष्पादि फलमाह --- ततो द्वन्द्वानभिघातः ॥ साधन ४८॥ वृत्तिः --- तस्मिन्नासनजये सति द्वन्द्वैः शीतोष्णक्षुत्तृष्णादिभिर्योगी नाभिहन्यत इत्यर्थः ॥ ४८॥ आसनजयादनन्तरं प्राणायाममाह --- तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ साधन ४९॥ वृत्तिः --- आसनस्थैर्ये सति तन्निमित्तकप्राणायामलक्षणो योगाङ्गविशेषोऽनुष्ठेयो भवति । कीदृशः । स्वासप्रश्वासयोर्गतिविच्छेदलक्षणः । श्वासप्रश्वासौ निरुक्तौ (१।३१) तयोस्त्रिधा रेचनस्तम्भनपूरणद्वारेण बाह्याभ्यन्तरेषु स्थानेषु गतेः प्रवाहस्य विच्छेदो धारणं प्राणायाम उच्यते ॥ ४९॥ तस्यैव सुखावगमाय विभज्य स्वरूपं कथयति --- स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ साधन ५०॥ वृत्तिः --- बाह्यवृत्तिः श्वासो रेचकः । अन्तर्वृत्तिः प्रश्वासः पूरकः । आन्तरस्तम्भवृत्तिः कुम्भकः । तस्मिन् जलमिव कुम्भे निश्चलतया प्राणा अवस्थाप्यन्त इति कुम्भकः । त्रिविधोऽयं प्राणायामः देशेन कालेन संख्यया चोपलक्षितो दीर्घसूक्ष्मसंज्ञो भवति । देशोपलक्षितो यथा नासाद्द्वादशान्तादि नासामारभ्य द्वादशाङ्गुलिपर्यन्तमित्यर्थः । कालोपलक्षितो यथा षट्त्रिंशन्मात्रादिप्रमाणः । संख्ययोपलक्षितो यथा इयतो वारान् कृत एतावद्भिः श्वासप्रश्वासैः प्रथम उद्घातो भवतीति । एतज्ज्ञानाय संख्याग्रहणमुपात्तम् । उद्घातो नाम नाभिमूलात् प्रेरितस्य वायोः शिरस्यभिहननम् ॥ ५०॥ त्रीन् प्राणायामानभिधाय चतुर्थमभिधातुमाह --- बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ साधन ५१॥ वृत्तिः --- प्राणस्य बाह्यो विषयो नासाद्द्वादशान्तादिः । आभ्यन्तरो विषयो हृदयनाभिचक्रादिः । तौ द्वौ विषयावाक्षिप्य पर्यालोच्य यः स्तम्भरूपी गतिविच्छेदः स चतुर्थः प्राणायामः । तृतीयस्मात् कुम्भकाख्यादयमस्य विशेषः --- स बाह्याभ्यन्तरविषयावपर्यालोच्यैव सहसा तप्तोपलनिपतितजलन्यायेन युगपत् स्तम्भवृत्त्या निष्पाद्यते [पा० निष्पद्यते] । अस्य तु विषयद्वयाक्षेपको निरोधः । अयमपि पूर्ववद्देशकालसंख्याभिरुपलक्षितो द्रष्टव्यः ॥ ५१॥ चतुर्विधस्यास्य फलमाह --- ततः क्षीयते प्रकाशावरणम् ॥ साधन ५२॥ वृत्तिः --- ततस्तस्मात् प्राणायामात् प्रकाशस्य चित्तसत्त्वगतस्य यदावरणं क्लेशरूपं तत् क्षीयते विनश्यतीत्यर्थः ॥ ५२॥ फलान्तरमाह --- धारणासु च योग्यता मनसः ॥ साधन ५३॥ वृत्तिः --- धारणा वक्ष्यमाणलक्षणास्तासु प्राणायामैः क्षीणदोषं मनो यत्र यत्र धार्यते तत्र तत्र स्थिरीभवति न विक्षेपं भजते ॥ ५३॥ प्रत्याहारस्य लक्षणमाह --- स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ साधन ५४॥ वृत्तिः --- इन्द्रियाणि विषयेभ्यः प्रतीपमाह्रियन्तेऽस्मिन्निति प्रत्याहारः । स च कथं निष्पद्यत इत्याह --- चक्षुरादीनामिन्द्रियाणां स्वविषयो रूपादिस्तेन सम्प्रयोगस्तदाभिमुख्येन वर्तनम् तदभावस्तदाभिमुख्यं परित्यज्य स्वरूपमात्रेऽवस्थानम् । तस्मिन् सति चित्तमात्रानुकारिणीन्द्रियाणि भवन्ति यतश्चित्तमनुवर्तमानानि मधुकरराजमिव मक्षिकाः सर्वाणीन्द्रियाणि प्रतीयन्ते । अतश्चित्तनिरोधे तानि प्रत्याहृतानि भवन्ति । तेषां तत्स्वरूपानुकारः प्रत्याहार उक्तः ॥ ५४॥ प्रत्याहारफलमाह --- ततः परमा वश्यतेन्द्रियाणाम् ॥ साधन ५५॥ वृत्तिः --- अभ्यस्यमाने हि प्रत्याहारे तथा वश्यान्यायत्तानीन्द्रियाणि सम्पद्यन्ते यथा बाह्यविषयाभिमुखतां नीयमानान्यपि न यान्तीत्यर्थः ॥ ५५॥ तदेवं प्रथमपादोक्तलक्षणस्य योगस्याङ्गभूतक्लेशतनूकरणफलं क्रियायोगमभिधाय क्लेशानामुद्देशं स्वरूपं कारणं क्षेत्रं फलं चोक्त्वा कर्मणामपि भेदं कारणं स्वरूपं फलं चाभिधाय विपाकस्य कारणम् स्वरूपं चाभिहितम् । ततस्त्याज्यत्वात् क्लेशादिनां ज्ञानव्यतिरेकेण त्यागस्याऽशक्यत्वाज्ज्ञानस्य च शास्त्रायत्तत्वात् शास्त्रस्य हेयहानकारणोपादेयोपादानकारणबोधकत्वेन चतुर्व्यूहत्वात् हेयस्य हानव्यतिरेकेण स्वरूपानिष्पत्तेर्हानसहितं चतुर्व्यूहं स्वस्वकारणसहितमभिधाय उपादेयकारणभूताया विवेकख्यातेः कारणभूतानामन्तरङ्गबहिरङ्गभावेन स्थितानां यमादीनां स्वरूपं फलसहितं व्याकृत्य आसनादीनां धारणापर्यन्तानां परस्परमुपकार्योपकारकभावेनावस्थितानामुद्देशमभिधाय प्रत्येकं लक्षणकरणपूवकं फलमभिहितम् । तदयं योगो यमनियमादिभिः प्राप्तबीजभाव आसनप्राणायामैरङ्कुरितः प्रत्याहारेण पुष्पितो ध्यानधारणासमाधिभिः फलिष्यतीति व्याख्यातः साधनपादः । इति धारेश्वरभोजविरचितायां राजमार्तण्डाभिधायां पातञ्जलवृत्तौ साधनपादः ॥ २॥ इति साधनपादः ॥ २॥ अथ विभूतिपादः ॥ ३॥ यत्पादपद्मस्मरणादणिमादिविभूतयः । भवन्ति भविनामस्तु भूतनाथः स भूतये ॥ तदेवं पूर्वोद्दिष्टं धारणाद्यङ्गत्रयं निर्णेतुं संयमसंज्ञाभिधानपूर्वकं बाह्याभ्यन्तरादिसिद्धिप्रतिपादनाय लक्षयितुमुपक्रमते । तत्र धारणायाः स्वरूपमाह --- देशबन्धश्चित्तस्य धारणा ॥ विभूति १॥ वृत्तिः --- देशे नाभिचक्रनासाग्रादौ चित्तस्य बन्धो विषयान्तरपरिहारेण यत् स्थिरीकरणं सा चित्तस्य धारणोच्यते । अयमर्थः --- मैत्र्यादिचित्तपरिकर्मवासितान्तःकरणेन यमनियमवता जितासनेन परिहृतप्राणविक्षेपेण प्रत्याहृतेन्द्रियग्रामेण निर्बाधे प्रदेश ऋजुकायेन जितद्वन्द्वेन योगिना नासाग्रादौ सम्प्रज्ञातस्य समाधेरभ्यासाय चित्तस्य स्थिरीकरणं कर्तव्यमिति ॥ १॥ धारणामभिधाय ध्यानमभिधातुमाह --- तत्र प्रत्ययैकतानता ध्यानम् ॥ विभूति २॥ वृत्तिः --- तत्र तस्मिन् प्रदेशे यत्र चित्तं धृतं तत्र प्रत्ययस्य ज्ञानस्य या एकतानता विसदृशपरिणामपरिहारद्वारेण यदेव धारणायामवलम्बनीकृतं तदवलम्बनतयैव निरन्तरमुत्पत्तिः सा ध्यानमुच्यते ॥ २॥ चरमयोगाङ्गं समाधिमाह --- तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ विभूति ३॥ वृत्तिः --- तदेवोक्तलक्षणं ध्यानं यत्रार्थमात्रनिर्भासमर्थाकारसमावेशादुद्भूतार्थरूपं न्यग्भूतज्ञानस्वरूपत्वेन स्वरूपशून्यतामिवाऽऽपद्यते स समाधिरित्युच्यते । सम्यगाधीयत एकाग्रीक्रियते विक्षेपान् परिहृत्य मनो यत्र स समाधिः ॥ ३॥ उक्तलक्षणस्य योगाङ्गत्रयस्य व्यवहाराय स्वशास्त्रे तान्त्रिकीं संज्ञां कर्तुमाह --- त्रयमेकत्र संयमः ॥ विभूति ४ ॥ वृत्तिः --- एकस्मिन् विषये धारणाध्यानसमाधित्रयं प्रवर्तमानं संयमसंज्ञया शास्त्रे व्यवह्रियते ॥ ४॥ तस्य फलमाह --- तज्जयात्प्रज्ञालोकः ॥ विभूति ५ ॥ वृत्तिः --- तस्य संयमस्य जयादभ्यासेन सात्म्योत्पादनात् प्रज्ञाया विवेकख्यातेरालोकः प्रसवो भवति । प्रज्ञा ज्ञेयं सम्यगवभासयतीत्यर्थः ॥ ५॥ तस्योपयोगमाह --- तस्य भूमिषु विनियोगः ॥ विभूति ६॥ वृत्तिः --- तस्य संयमस्य भूमिषु स्थूलसूक्ष्मावलम्बनभेदेन स्थितासु चित्तवृत्तिषु विनियोगः कर्तव्यः । अधरामधरां चित्तभूमिं जितां जितां ज्ञात्वोत्तरस्यां भूमौ संयमः कार्यः । स ह्यनात्मीईकृताधरभूमिरुत्तरस्यां भूमौ संयमं कुर्वाणः फलभाग्भवति ॥ ६॥ साधनपादे योगाङ्गान्यष्टावुद्दिश्य पञ्चानां लक्षणं विधाय त्रयाणां कथं न कृतमित्याशङ्क्याह --- त्रयमन्तरङ्गं पूर्वेभ्यः ॥ विभूति ७॥ वृत्तिः --- पूर्वेभ्यो यमादिभ्यो योगाङ्गेभ्यः पारम्पर्येण समाधेरूपकारकेभ्यो धारणादियोगाङ्गत्रयं सम्प्रज्ञातस्य समाधेरन्तरङ्गं समाधिस्वरूपनिष्पादनात् ॥ ७॥ तस्यापि समाध्यन्तरापेक्षया बहिरङ्गत्वमाह --- तदपि बहिरङ्गं निर्बीजस्य ॥ विभूति ८॥ वृत्तिः --- निर्बीजस्य निरालम्बनस्य शून्यभावनाऽपरपर्यायस्य समाधेरेतदपि योगाङ्गत्रयं बहिरङ्गं पारम्पर्येणोपकारकत्वात् ॥ ८॥ इदानीं योगसिद्धीर्व्याख्यातुकामः संयमस्य विषयविशुद्धिं कर्तुं क्रमेण परिणामत्रयमाह --- व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ विभूति ९॥ वृत्तिः --- व्युत्थानं क्षिप्तमूढविक्षिप्ताख्यं भूमित्रयम् । निरोधः प्रकृष्टसत्त्वस्याङ्गितया चेतसः परिणामः । ताभ्यां व्युत्थाननिरोधाभ्यां यौ जनितौ संस्कारौ तयोर्यथाक्रमम् अभिभवप्रादुर्भावौ यदा भवतः । अभिभवो न्यग्भूततया कार्यकरणासामर्थ्येनावस्थानम् । प्रादुर्भावो वर्तमानेऽध्वन्यभिव्यक्तरूपतयाऽऽविर्भाबः । तदा निरोधक्षणे चित्तस्योभयक्षणवृत्तित्वादन्वयो यः स निरोधपरिणाम उच्यते । अयमर्थः --- यदा व्युत्थानसस्काररूपो धर्मस्तिरोभूतो भवति निरोधसंस्काररूपश्चाविर्भवति धर्मिरूपतया च चित्तमुभयान्वयित्वेऽपि निरोधात्मनाऽवस्थितं प्रतीयते तदा स निरोधपरिणामशब्देन व्यवह्रियते । चलत्वाद्गुणवृत्तस्य यद्यपि चेतसो निश्चलत्वं नास्ति तथाप्येवम्भूतः परिणामः स्थैर्यमुच्यते ॥ ९॥ तस्यैव फलमाह --- तस्य प्रशान्तवाहिता संस्कारात् ॥ विभूति १०॥ वृत्तिः --- तस्य चेतसो निरुक्तान्निरोधसंस्कारात् प्रशान्तवाहिता भवति । परिहृतविक्षेपतया सदृशप्रवाहपरिणामि चित्तं भवतीत्यर्थः ॥ १०॥ निरोधपरिणाममभिधाय समाधिपरिणाममाह --- सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ विभूति ११॥ वृत्तिः --- सर्वार्थता चलत्वान्नानाविधार्थग्रहणं चित्तस्य विक्षेपो धर्मः । एकस्मिन्नेवालम्बने सदृशपरिणामितैकाग्रता । साऽपि चित्तस्य धर्मः । तयोर्यथाक्रमं क्षयोदयौ सर्वार्थतालक्षणस्य धर्मस्य क्षयोऽत्यन्ताभिभव एकाग्रतालक्षणस्य धर्मस्य प्रादुर्भावोऽभिव्यक्तिश्चित्तस्योद्रिक्तसत्त्वस्यान्वयितयाऽवस्थानं समाधिपरिणाम इत्युच्यते । पूर्वस्मात् परिणामादस्यायं विशेषः --- तत्र संस्कारलक्षणयोः धर्मयोरभिभवप्रादुर्भावौ पूर्वस्य व्युत्थानसंस्काररूपस्य न्यग्भाव उत्तरस्य निरोधसंस्काररूपस्योद्भवोऽनभिभूतत्वेनावस्थानम् । इह तु क्षयोदयाविति सर्वात्मतारूपस्य विक्षेपस्यात्यन्ततिरस्कारादनुत्पत्तिरतीतेऽध्वनि प्रवेशः क्षय एकाग्रतालक्षणस्य धर्मस्योद्भवो वर्तमानेऽध्वनि प्रकटत्वम् ॥ ११॥ तृतीयमेकाग्रतापरिणाममाह --- शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ विभूति १२॥ वृत्तिः --- समाहितस्यैव चित्तस्यैकप्रत्ययो वृत्तिविशेषः शान्तोऽतीतमध्वानं प्रविष्टः । अपरस्तूदितो वर्तमानेऽध्वनि स्फुरितः । द्वावपि समाहितचित्तत्वेन तुल्यावेकरूपालम्बनत्वेन सदृशौ प्रत्ययौ । उभयत्रापि समाहितस्यैव चित्तस्यान्वयित्वेनावस्थानम् । स एकाग्रतापरिणाम इत्युच्यते ॥ १२॥ चित्तपरिणामोक्तं रूपमन्यत्राप्यतिदिशन्नाह --- एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ विभूति १३॥ वृत्तिः --- एतेन त्रिविधेनोक्तेन चित्तपरिणामेन भूतेषु स्थूलसूक्ष्मेष्विन्द्रियेषु बुद्धिकर्मान्तःकरणभेदेनावस्थितेषु धर्मलक्षणावस्थाभेदेन त्रिविधः परिणामो व्याख्यातोऽवगन्तव्यः । अवस्थितस्य धर्मिणः पूर्वधर्मनिवृत्तौ धर्मान्तरापत्तिर्धर्मपरिणामः । यथा --- मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारो धर्मपरिणाम इत्युच्यते । लक्ष्णपरिणामो यथा --- तस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः । तत्परित्यागेनातीताध्वपरिग्रहः । अवस्थापरिणामो यथा --- तस्यैव घटस्य प्रथमद्वितीययोः सदृशयोः काललक्षणयोरन्वयित्वेन । यतश्च गुणवृत्तिर्नाऽपरिणम्यमाना क्षणमप्यस्ति ॥ १३॥ ननु कोऽयं धर्मीत्याशङ्क्य धर्मिणो लक्षणमाह --- शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ विभूति १४॥ वृत्तिः --- शान्ता ये कृतस्वस्वव्यापारा अतीतेऽध्वनि अनुप्रविष्टाः । उदिता य अनागतमध्वानं परित्यज्य वर्तमानेऽध्वनि स्वव्यापारं कुर्वन्ति । अव्यपदेश्या ये शक्तिरूपेण स्थिता व्यपदेष्टुं न शक्यन्ते । तेषां यथास्वं सर्वात्मकत्वमित्येवमादयो नियतकार्यकारणरूपयोग्यतयावच्छिन्ना शक्तिरेवेह धर्मशब्देनाभिधीयते । तं त्रिविधमपि धर्मं योऽनुपतत्यनुवर्ततेऽन्वयित्वेन स्वीकरोति स शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मीत्युच्यते । यथा --- सुवर्णं रुचकरूपधर्मपरित्यागेन स्वस्तिकरूपधर्मान्तरपरिग्रहे सुवर्णरूपतयाऽनुवर्तमानं तेषु धर्मेषु कथंचिद्भिन्नेषु धर्मिरूपतया सामान्यात्मना धर्मरूपतया विशेषात्मना स्थितमन्वयित्वेनावभासते ॥ १४॥ एकस्य धर्मिणः कथमनेके परिणामा इत्याशङ्कामपनेतुमाह --- क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ विभूति १५॥ वृत्तिः --- धर्माणामुक्तलक्षणानां यः क्रमस्तस्य यत् प्रतिक्षणमन्यत्वं परिदृश्यमानं परिणामस्योक्तलक्षणस्यान्यत्वे नानाविधत्वे हेतुर्लिङ्गं ज्ञापकं भवति । अयमर्थः --- योऽयं नियतः क्रमो मृच्चूर्णान्मृत्पिण्डस्ततः कपालानि तेभ्यश्च घट इत्येवं क्रमरूपः परिदृश्यमानः परिणामस्याऽन्यत्वमावेदयति । तस्मिन्नेव धर्मिणि यो लक्षणपरिणामस्याऽवस्थापरिणामस्य च क्रमः सोऽप्यनेनैव न्यायेन परिणामान्यत्वे गमकोऽवगन्तव्यः । सर्व एव भावा नियतेनैव क्रमेण प्रतिक्षणं परिणम्यमानाः परिदृश्यन्ते । अतः सिद्धं क्रमान्यत्वात् परिणामान्यत्वम् । सर्वेषां चित्तादीनां परिणममानानां केचिद्धर्माः प्रत्यक्षेणैवोपलभ्यन्ते । यथा सुखादयः संस्थानादयश्च । केचिदेकान्तेनानुमानगम्याः । यथा धर्मसंस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगमः ॥ १५॥ इदानीमुक्तस्य संयमस्य विषयप्रदर्शनद्वारेण सिद्धीः प्रतिपादयितुमाह --- परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ विभूति १६॥ वृत्तिः --- धर्मलक्षणावस्थाभेदेन यत् परिणामत्रयमुक्तं तत्र संयमात् तस्मिन् विषये पूर्वोक्तसंयमस्य करणादतीतानागतज्ञानं योगिनः समाधेर्भवति । इदमत्र तात्पर्यम् --- अस्मिन् धर्मिण्ययं धर्म इदं लक्षणमियमवस्था चाऽनागतादध्वनः समेत्य वर्तमानेऽध्वनि स्वव्यापारं विधायातीतमध्वानं प्रविशतीत्येवं परिहृतविक्षेपतया यदा संयमं करोति तदा यत्किंचिदनुत्पन्नमतिक्रान्तं वा तत् सर्वं योगी जानाति । यतश्चित्तस्य शुद्धसत्त्वप्रकाशरूपत्वात् सर्वार्थग्रहणसामर्थ्यमविद्यादिभिर्विक्षेपैरपक्रियते । यदा तु तैस्तैरुपायैर्विक्षेपाः परिह्रियन्ते तदा निवृत्तमलस्येवादर्शस्य सर्वार्थग्रहणसामर्थ्यमेकाग्रताबलादाविर्भवति ॥ १६॥ सिद्ध्यन्तरमाह --- शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ विभूति १७॥ वृत्तिः --- शब्दः श्रोत्रेन्द्रियग्राह्यो नियतक्रमवर्णात्मा नियतैकार्थप्रतिपत्त्यवच्छिन्नः । यदि वा क्रमरहितस्फोटात्मा शास्त्रसंस्कृतबुद्धिग्राह्यः [पा० ध्वनिसंस्कृतबुद्धिग्राह्यः] । उभयथाऽपि पदरूपो वाक्यरूपश्च तयोरेकार्थप्रतिपत्तौ सामर्थ्यात् । अर्थो जातिगुणक्रियादिः । प्रत्ययो ज्ञानं विषयाकारा बुद्धिवृत्तिः । एषां शब्दार्थज्ञानानां व्यवहारे इतरेतराध्यासाद्भिन्नानामपि बुद्ध्येकरूपतासम्पादनात् संकीर्णत्वम् । तथाहि --- गामानयेत्युक्ते कश्चिद्गोलक्षणमर्थं गोत्वजात्यवच्छिन्नं सास्नादिमत् पिण्डरूपं शब्दं च तद्वाचकं ज्ञानं च तद्ग्राहकमभेदेनैवाध्यवस्यति न त्वस्य गोशब्दो वाचकोऽयं गोशब्दस्य वाच्यस्तयोरिदं ग्राहकं ज्ञानमिति भेदेन व्यवहरति । तथाहि --- कोऽयमर्थः कोऽयं शब्दः किमिदं ज्ञानमिति पृष्टः सर्वत्रैकरूपमेवोत्तरं ददाति गौरिति । स यद्येकरूपतां न प्रतिपद्यते कथमेकरूपमुत्तरं प्रयच्छति । एवं तस्मिन्नवस्थिते योऽयं [पा० एकस्मिन् विषये योऽयम् । एतस्मिन् स्थिते योऽयम् वा] प्रविभाग इदं शब्दस्य तत्त्वं यद्वाचकत्वं नाम इदमर्थस्य यद्वाच्यत्वमिदं ज्ञानस्य यत् प्रकाशकत्वमिति प्रविभागं विधाय तस्मिन् प्रविभागे यः संयमं करोति तस्य सर्वेषां भूतानां मृगपक्षिसरीसृपादीनां यद्रुतं यः शब्दस्तत्र ज्ञानमुत्पद्यते । अनेनैवाभिप्रायेण तेन प्राणिनायं शब्दः समुच्चारित इति सर्वं जानाति ॥ १७॥ सिद्ध्यन्तरमाह --- संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ विभूति १८॥ वृत्तिः --- द्विविधाश्चित्तस्य वासनारूपाः संस्काराः । केचित् स्मृतिमात्रोत्पादनफलाः केचिज्जात्यायुर्भोगलक्षणा विपाकहेतवो यथा धर्माधर्माख्याः । तेषु संस्कारेषु यदा संयमं करोति एवं मया सोऽर्थोऽनुभूत एवं मया सा क्रिया निष्पादितेति पूर्ववृत्तमनुसन्दधानो भावयन्नेव प्रबोधकमन्तरेणोद्बुद्धसंस्कारः सर्वमतीतं स्मरति । क्रमेण साक्षात्कृतेषूद्बुद्धेषु संस्कारेषु पूर्वजन्मान्तरानुभूतानपि जात्यादीन् प्रत्यक्षेण पश्यति ॥ १८॥ सिद्ध्यन्तरमाह --- प्रत्ययस्य परचित्तज्ञानम् ॥ विभूति १९॥ वृत्तिः --- प्रत्ययस्य परचित्तस्य केनचिन्मुखरागादिना लिङ्गेन गृहीतस्य यदा संयमं करोति तदा परकीयचित्तस्य ज्ञानमुत्पद्यते सरागमस्य चित्तं वीतरागं वेति । परचित्तगतान् सर्वानपि धर्मान् जानातीत्यर्थः ॥ १९॥ अस्यैव परचित्तज्ञानस्य विशेषज्ञानमाह --- न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ विभूति २०॥ वृत्तिः --- तस्य परस्य यच्चित्तं तत् सालम्बनं स्वकीयेनाऽऽलम्बनेन सहितं न शक्यते ज्ञातुमालम्बनस्य केनचिल्लिङ्गेनाविषयीकृतत्वात् । लिङ्गाद्धि चित्तमात्रं परस्यावगतं न तु नीलविषयमस्य चित्तं पीतविषयमिति वा । यच्च न गृहीतं तत्र संयमस्य कर्तुमशक्यत्वान्न भवति परचित्तस्य यो विषयस्तत्र ज्ञानम् । तस्मात् परकीयचित्तं नाऽऽलम्बनसहितं गृह्यते तस्याऽऽलम्बनस्याऽगृहीतत्वात् । चित्तधर्माः पुनर्गृह्यन्त एव । यदा तु किमनेनाऽऽलम्बितमिति प्रणिधानं करोति तदा तत्संयमात्तद्विषयमपि ज्ञानमुत्पद्यत एव ॥ २०॥ सिद्ध्यन्तरमाह --- कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंयोगेऽन्तर्धानम् ॥ विभूति २१॥ वृत्तिः --- कायः शरीरं तस्य रूपं चक्षुर्ग्राह्यो गुणस्तस्मिन्नस्त्यस्मिन् काये रूपमिति संयमात्तस्य रूपस्य चक्षुर्ग्राह्यत्वरूपा या शक्तिस्तस्याः स्तम्भे भावनावशात् प्रतिबन्धे चक्षुष्प्रकाशासंयोगे चक्षुषः प्रकाशः सत्त्वधर्मस्तस्याऽसंयोगे तद्ग्रहणव्यापाराभावे योगिनोऽन्तर्धानं भवति । न केनचिदसौ दृश्यत इत्यर्थः । एतेनैव रूपान्तर्धानोपायप्रदर्शनेन शब्दादीनां श्रोत्रादिग्राह्याणामन्तर्धानमुक्तं वेदितव्यम् ॥ २१॥ सिद्ध्यन्तरमाह --- सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ विभूति २२॥ वृत्तिः --- आयुर्विपाकं यत् पूर्वकृतं कर्म तद्द्विप्रकारं सोपक्रमं निरुपक्रमं च । तत्र सोपक्रमं यत् फलजननाय सहोपक्रमेण कार्यकरणाभिमुख्येन वर्तते यथोष्णप्रदेशे प्रसारितार्द्रवासः शीघ्रमेव शुष्यति । उक्तविपरीतं निरुपक्रमं यथा तदेवार्द्रवासः संवर्तितमनुष्णप्रदेशे चिरेण शुष्यति । तस्मिन् द्विविधे कर्मणि यः संयमं करोति --- किं मम कर्म शीघ्रविपाकं चिरविपाकं वा --- एवं ध्यानदार्ढ्यादपरान्तज्ञानमस्योत्पद्यते । अपरान्तः शरीरवियोगस्तस्मिञ्ज्ञानममुष्मिन् कालेऽमुष्मिन् देशे मम शरीरवियोगो भविष्यतीति निःसंशयं जानाति । अरिष्टेभ्यो वा । अरिष्टानि त्रिविधानि । आध्यात्मिकाधिभौतिकाधिदैविकानि । तत्राध्यात्मिकानि --- पिहितकरणः कोष्ठ्यस्य वायोर्घोषं न शृणोतीत्येवमादीनि । आधिभौतिकानि --- अकस्माद्विकृतपुरुषदर्शनादीनि । आधिदैविकानि --- अकाण्ड एव द्रष्टुमशक्यानि स्वर्गादिपदार्थदर्शनादीनि । तेभ्यः शरीरवियोगकालं जानाति । यद्यप्ययोगिनामप्यरिष्टेभ्यः प्रायेण तज्ज्ञानमुत्पद्यते तथापि तेषां सामान्याकारेण तत् संशयरूपं योगिनां पुनर्नियतदेशकालतया प्रत्यक्षवदव्यभिचारि ॥ २२॥ परिकर्मनिष्पादिताः सिद्धीः प्रतिपादयितुमाह --- मैत्र्यादिषु बलानि ॥ विभूति २३॥ वृत्तिः --- मैत्रीकरुणामुदितोपेक्षासु यो विहितसंयमस्तद्बलानि तासां मैत्र्यादीनां सम्बन्धीनि प्रादुर्भवन्ति । मैत्रीकरुणामुदितोपेक्षास्तथाऽस्य प्रकर्षं गच्छन्ति यथा सर्वस्य मित्रत्वादिकमय्ऽं प्रतिपद्यते ॥ २३॥ सिद्ध्यन्तरमाह --- बलेषु हस्तिबलादीनि ॥ विभूति २४॥ वृत्तिः --- हस्त्यादिसम्बन्धिषु बलेषु कृतसंयमस्य तद्बलानि हस्त्यादिबलान्याविर्भवन्ति । तदयमर्थः --- यस्मिन् हस्तिबले वायुवेगे सिंहवीर्ये वा तन्मयीभावेनाऽयं संयमं करोति तत्तत्सामर्थ्ययुक्तं सत्त्वमस्य [ पा० तत्तत्सामर्थ्ययुक्तत्वात्सर्वमस्य ] प्रादुर्भवतीत्यर्थः ॥ २४॥ सिद्ध्यन्तरमाह --- प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ विभूति २५॥ वृत्तिः --- प्रवृत्तिर्विषयवती ज्योतिष्मती च प्रागुक्ता (१।३५-३६)। तस्या य आलोकः सात्त्विकप्रकाशस्तस्य निखिलेषु विषयेषु न्यासात् तद्वासितानां विषयाणां भावनातः सन्तःकरणेषु इन्द्रियेषु च प्रकृष्टशक्तिमापन्नेषु सुसूक्ष्मस्य परमाण्वादेर्व्यवहितस्य भूम्यन्तर्गतस्य निधानादेर्विप्रकृष्टस्य मेर्वपरपार्श्ववर्तिनो रसायनादेर्ज्ञानमुत्पद्यते ॥ २५॥ एतत्समानवृत्तान्तसिद्ध्यन्तरमाह --- भुवनज्ञानं सूर्ये संयमात् ॥ विभूति २६॥ वृत्तिः --- सूर्ये प्रकाशमये यः संयमः करोति तस्य सप्तसु भूर्भुवःस्वःप्रभृतिषु लोकेषु यानि भुवनानि तत्तत्सन्निवेशभाञ्जि पुराणि [ पा० स्थानानि ] तेषु यथावदस्य ज्ञानमुत्पद्यते । पूर्वस्मिन् सूत्रे सात्त्विकप्रकाश आलम्बनतयोक्तः । इह तु भौतिक इति विशेषः ॥ २६॥ भौतिकप्रकाशान्तरालम्बनद्वारेण सिद्ध्यन्तरमाह --- चन्द्रे ताराव्यूहज्ञानम् ॥ विभूति २७॥ वृत्तिः --- ताराणां ज्योतिषां यो व्यूहो विशिष्टः सन्निवेशस्तस्य चन्द्रे कृतसंयमस्य ज्ञानमुत्पद्यते । सूर्यप्रकाशेन हततेजस्कत्वात्ताराणां सूर्यसंयमात्तज्ज्ञानं न शक्यं भवितुमर्हतीति पृथगुपायोऽभिहितः ॥ २७॥ सिद्ध्यन्तरमाह --- ध्रुवे तद्गतिज्ञानम् ॥ विभूति २८॥ वृत्तिः --- ध्रुवे निश्चले ज्योतिषां प्रधाने कृतसंयमस्य तासां ताराणां या गतिः प्रत्येकं नियतकाला नियतदेशा च तस्या ज्ञानमुत्पद्यते --- इयं ताराऽयं ग्रह इयता कालेनाऽमुं राशिमिदं नक्षत्रं यास्यतीति सर्वं जानाति । इदं कालज्ञानस्य फलमित्युक्तं भवति ॥ २८॥ बाह्याः सिद्धीः प्रतिपाद्याऽन्तराः सिद्धीः प्रतिपादयितुमुपक्रमते --- नाभिचक्रे कायव्यूहज्ञानम् ॥ विभूति २९॥ वृत्तिः --- शरीरमध्यवर्ति नाभिसंज्ञकं यत् षोडशारं चक्रं तस्मिन् कृतसंयमस्य योगिनः कायगतो योऽसौ व्यूहो विशिष्टरसमलधातुनाड्यादीनामवस्थानं तत्र ज्ञानमुत्पद्यते । इदमुक्तं भवति --- नाभिचक्रं शरीरमध्यवर्ति सर्वतः प्रसृतानां नाड्यादीनां मूलभूतम् । अतस्तत्र कृतावधानस्य समग्रसन्निवेशो यथावदाभाति ॥ २९॥ सिद्ध्यन्तरमाह --- कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ विभूति ३०॥ वृत्तिः --- कण्ठे गले कूपः कण्ठकूपः । जिह्वामूले जिह्वातन्तोरधस्तात् कूप इव कूपो गर्ताकारप्रदेशः प्राणादेर्यत्सम्पर्कात् क्षुत्पिपासादयः प्रादुर्भवन्ति तस्मिन् कृतसंयमस्य योगिनः क्षुत्पिपासादयो निवर्तन्ते । घण्टिकाधस्तात् स्रोतसा धार्यमाणे तस्मिन् भाविते भवत्येवंविधा सिद्धिः ॥ ३०॥ सिद्ध्यन्तरमाह --- कूर्मनाड्यां स्थैर्यम् ॥ विभूति ३१॥ वृत्तिः --- कण्ठकूपस्याधस्ताद्या कूर्माख्या नाडी तस्यां कृतसंयमस्य चेतसः स्थैर्यमुत्पद्यते । तत्स्थानमनुप्रविष्टस्य चञ्चलता न भवतीत्यर्थः । यदि वा कायस्य स्थैर्यमुत्पद्यते न केनचित् स्पन्दयितुं शक्यत इत्यर्थः ॥ ३१॥ सिद्ध्यन्तरमाह --- मूर्धज्योतिषि सिद्धदर्शनम् ॥ विभूति ३२॥ वृत्तिः --- शिरःकपाले ब्रह्मरन्ध्राख्ये छिद्रे प्रकाशाधारत्वाज्ज्योतिषि । यथा गृहाभ्यन्तरस्थस्य मणेः प्रसरन्ती प्रभा कुञ्चिताकारेव सर्वप्रदेशे संघटते तथा हृदयस्थः सात्त्विकः प्रकाशः प्रसृतस्तत्र सम्पिण्डितत्वं भजते । तत्र कृतसंयमस्य ये द्यावापृथिव्योरन्तरालवर्तिनः सिद्धा दिव्याः पुरुषास्तेषामितरप्राणिभिरदृश्यानाम् तस्य दर्शनं भवति । तान् पश्यति तैश्च स सम्भाषत इत्यर्थः ॥ ३२॥ सर्वज्ञत्व उपायमाह --- प्रातिभाद्वा सर्वम् ॥ विभूति ३३॥ वृत्तिः --- निमित्तानपेक्षं मनोमात्रजन्यमविसंवादकं द्रागुत्पद्यमानं [ पा० प्रागुत्पद्यमानं ] ज्ञानं प्रतिभा । तस्यां संयमे क्रियमाणे प्रातिभं विवेकख्यातेः पूर्वभावि तारकं ज्ञानमुदेति । यथोदेष्यतः सवितुः पूर्वं प्रभा प्रादुर्भवति तद्वद्विवेकख्यातेः पूर्वं तारकं सर्वविषयं ज्ञानमुत्पद्यते । तस्मिन् सति संयमान्तरानपेक्षः सर्वं जानातीत्यर्थः ॥ ३३॥ सिद्ध्यन्तरमाह --- हृदये चित्तसंवित् ॥ विभूति ३४॥ वृत्तिः --- हृदयं शरीरस्य प्रदेशविशेषः । तस्मिन्नधोमुखस्वल्पपुण्डरीकाभ्यन्तरेऽन्तःकरणसत्त्वस्य स्थानम् । तत्र कृतसंयमस्य स्वपरचित्तज्ञानमुत्पद्यते । स्वचित्तगताः सर्वा वासनाः परचित्तगतांश्च रागादीञ्जानातीत्यर्थः ॥ ३४॥ सिद्ध्यन्तरमाह --- सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थान्यस्वार्थसंयमात्पुरुषज्ञानम् ॥ विभूति ३५॥ [ परार्थत्वात् स्वार्थसंयमात् इत्येव बहुसम्मतः सूत्रपाठः । ] वृत्तिः --- सत्त्वं प्रकाशसुखात्मकः प्राधानिकः परिणामविशेषः । पुरुषो भोक्ताऽधिष्ठातृरूपः । तयोरत्यन्तासंकीर्णयोर्भोग्यभोक्तृरूपत्वादचेतनचेतनत्वाच्च भिन्नयोर्यः प्रत्ययस्याविशेषो भेदेनाप्रतिभासनं तस्मात् सत्त्वस्यैव कर्तृताप्रत्ययेन या सुखदुःखसंवित् स भोगः । सत्त्वस्य स्वार्थनैरपेक्ष्येण परार्थः पुरुषार्थनिमित्तः । तस्मादन्यो यः स्वार्थः पुरुषस्वरूपमात्रालम्बनः परित्यक्ताहंकारसत्त्वे या चिच्छायासंक्रान्तिस्तत्र कृतसंयमस्य पुरुषविषयं ज्ञानमुत्पद्यते । तत्र तदेवं रूपं स्वालम्बनं ज्ञानं सत्त्वनिष्ठं पुरूषो [पा० सत्त्वनिष्ठः पुरुषः] जानातीत्यर्थः । न पुनः पुरुषो ज्ञाता ज्ञानस्य विषयभावमापद्यते ज्ञेयत्वापत्तेर्ज्ञातृज्ञेयत्वयोरत्यन्तविरोधात् ॥ ३५॥ अस्यैव संयमस्य फलमाह --- ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ विभूति ३६॥ वृत्तिः --- ततः पुरुषसंयमादभ्यस्यमानाद्व्युत्थितस्यापि ज्ञानानि जायन्ते । तत्र प्रातिभं पूर्वोक्तं ज्ञानं तस्याविर्भवनात् सूक्ष्मादिकमर्थं पश्यति । श्रावणं श्रोत्रेन्द्रियजं ज्ञानं तस्माच्च प्रकृष्टं दिव्यं शब्दं जानाति । वेदना स्पर्शेन्द्रियजं ज्ञानं वेद्यतेऽनयेति कृत्वा तान्त्रिक्या संज्ञया व्यवह्रियते । तस्माद्दिव्यस्पर्शविषयं ज्ञानं समुपजायते । आदर्शश्चक्षुरिन्द्रियजं ज्ञानम् । आ समन्ताद्दृश्यतेऽनुभूयते रूपमनेनेति कृत्वा तस्य प्रकर्षाद्दिव्यं रूपज्ञानमुत्पद्यते । आस्वादो रसनेन्द्रियजं ज्ञानम् । आस्वाद्यतेऽनेनेति कृत्वा तस्मिन् प्रकृष्टे दिव्ये रसे संविदुपजायते । वार्ता गन्धसंवित् । वृत्तिशब्देन तान्त्रिक्या परिभाषया घ्राणेन्द्रियमुच्यते । वर्तते गन्धविषये इति वृत्तेर्घ्राणेन्द्रियाज्जाता वार्ता गन्धसंवित् । तस्यां प्रकृष्यमानायां दिव्यगन्धोऽनुभूयते ॥ ३६॥ एतेषां फलविशेषाणां विषयविभागमाह --- ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ विभूति ३७॥ वृत्तिः --- ते प्राक्प्रतिपादिताः फलविशेषाः समाधेः प्रकर्षे गच्छत उपसर्गा उपद्रवा विघ्नाः । तत्र हर्षस्मयादिकरणेन [ पा० हर्षविस्मयादिकरणेन ] समाधिः शिथिलीभवति । व्युत्थाने तु पुनर्व्यवहारदशायां विशिष्टफलदायकत्वात् सिद्धयो भवन्ति ॥ ३७॥ सिद्ध्यन्तरमाह --- बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ विभूति ३८॥ वृत्तिः --- व्यापकत्वादात्मचित्तयोर्नियतकर्मवशादेव शरीरान्तर्गतयोरेव भोक्तृभोग्यभावेन यत् संवेदनमुपजायते स एव शरीरबन्ध इत्युच्यते । तद्यदा समाधिवशाद्बन्धकारणं धर्माधर्माख्यं शिथिलं भवति तानवमापद्यते । चित्तस्य च योऽसौ प्रचारो हृदयप्रवेशादिन्द्रियद्वारेण विषयाभिमुख्येन प्रसरस्तस्य संवेदनं ज्ञानम् --- इयं चित्तवहा नाडी । अनया चित्तं वहति । इयं च प्राणादिवहाभ्यो [ पा० रसप्राणादिवहाभ्यो ] नाडीभ्यो विलक्षणेति --- स्वपरशरीरयोर्यदा संचारं जानाति तदा परकीयं मृतं जीवच्छरीरं वा चित्तसञ्चारद्वारेण प्रविशति । चित्तं च परशरीरे प्रविशदिन्द्रियाण्यप्यनुवर्तन्ते मधुकरराजमिव मक्षिकाः । अथ परशरीरप्रविष्टो योगी स्वशारीरवत् तेन सर्वं व्यवहरति । यतो व्यापकयोश्चित्तपुरुषयोर्भोगसङ्कोचे कारणं कर्म तच्चेत् समाधिना क्षिप्तं तदा स्वातन्त्र्यात् सर्वत्रैव भोगनिष्पत्तिः ॥ ३८॥ सिद्ध्यन्तरमाह --- उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ विभूति ३९॥ वृत्तिः --- समस्तानामिन्द्रियाणां तुषज्वालावद्या युगपदुत्थिता वृत्तिः सा जीवनशब्दवाच्या । तस्याः क्रियाभेदात् प्राणापानादिसंज्ञाभिर्व्यपदेशः । तत्र हृदयान्मुखनासिकाद्वारेण वायोः प्रायणात् प्राण इत्युच्यते । नाभिदेशात् पादाङ्गुष्ठपर्यन्तमपनयनादपानः । नाभिदेशं परिवेष्ट्य समन्तान्नयनात् समानः । कृकाटिकादेशादाशिरोवृत्तेरुन्नयनादुदानः । व्याप्य नयनात् सर्वशरीरव्यापी व्यानः । तत्रोदानस्य संयमद्वारेण जयादितरेषां वायूनां रोधादूर्ध्वगतित्वेन जले महानद्यादौ महति वा कर्दमे तीक्ष्णेषु कण्टकेषु वा न मज्जत्यतिलघुत्वात् [ पा० न सज्जते।तिलघुत्वात् ] । तूलपिण्डवज्जलादौ मज्जितोऽप्युद्गच्छतीत्यर्थः ॥ ३९॥ सिद्ध्यन्तरमाह --- समानजयात्प्रज्वलनम् ॥ विभूति ४०॥ [ ज्वलनम् इत्येव् बहुसम्मतः सूत्रपाठः । ] वृत्तिः --- अग्निमावेष्ट्य व्यवस्थितस्य समानाख्यस्य वायोर्जयात् संयमेन वशीकारान्निरावरणस्याग्नेरुद्भूतत्त्वात्तेजसा [ पा० अग्नेरूर्ध्वत्वात् ] प्रज्वलन्निव योगी प्रतिभाति ॥ ४०॥ सिद्ध्यन्तरमाह --- श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ विभूति ४१॥ वृत्तिः --- श्रोत्रं शब्दग्राहकमाहंकारिकमिन्द्रियम् । आकाशं व्योम शब्दतन्मात्रकार्यम् । तयोः सम्बन्धो देशदेशिभावलक्षणस्तस्मिन् कृतसंयमस्य योगिनो दिव्यं श्रोत्रं प्रवर्तते । युगपत् सूक्ष्मव्यवहितविप्रकृष्टशब्दग्रहणसमर्थं भवतीत्यर्थः ॥ ४१॥ सिद्ध्यन्तरमाह --- कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥ विभूति ४२॥ वृत्तिः --- कायः पाञ्चभौतिकं शरीरम् । तस्याकाशेनावकाशदायकेन यः सम्बन्धस्तत्र संयमं विधाय लघुनि तूलादौ समापत्तिं तन्मयीभावलक्षणां विधाय प्राप्तातिलघुभावो योगी प्रथमं यथारुचि जले संचरणक्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मिभिश्च विहरन् यथेष्टमाकाशेन गच्छति ॥ ४२॥ सिद्ध्यन्तरमाह --- बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ विभूति ४३॥ वृत्तिः --- शरीराद्बहिर्या मनसः शरीरनैरपेक्ष्येण वृत्तिः सा महाविदेहा नाम विगताहंकारकार्यवेगा [ पा० विगतशरीराहंकारदार्ढ्यद्वारेण ] उच्यते । ततस्तस्यां कृतात् संयमात् प्रकाशावरणक्षयः सात्त्विकस्य चित्तस्य यः प्रकाशः तस्य यदावरणं क्लेशकर्मादि तस्य क्षयः प्रविलयो भवति । अयमर्थः --- शरीराहंकारे सति या मनसो बहिर्वृत्तिः सा कल्पितेत्युच्यते । यदा पुनः शरीरादहंकारभावं परित्यज्य स्वातन्त्र्येण मनसो वृत्तिः साऽकल्पिता । तस्यां संयमाद्योगिनः सर्वे चित्तमलाः क्षीयन्ते ॥ ४३॥ तदेवं पूर्वान्तविषयाः परान्तविषया मध्यभावाश्च सिद्धीः प्रतिपाद्याऽनन्तरं भुवनज्ञानादिरूपा बाह्याः कायव्यूहादिरूपा आभ्यन्तराः परिकर्मनिष्पन्नभूताश्च मैत्र्यादिषु बलानीत्येवमाद्याः समाध्युपयोगिनीश्चान्तःकरणबहिःकरणलक्षणेन्द्रियभवाः प्राणादिवायुभवाश्च सिद्धीश्चित्तदार्ढ्याय समाधेश्चाश्वासोत्पत्तये प्रतिपाद्येदानीं स्वदर्शनोपयोगिसबीजनिर्बीजसमाधिसिद्धये विविधोपायप्रदर्शनायाह --- स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ विभूति ४४॥ वृत्तिः --- पञ्चानां पृथिव्यादीनां भूतानां ये पञ्चाऽवस्थाविशेषरूपा धर्माः स्थूलत्वादयस्तत्र कृतसंयमस्य भूतजयो भवति । भूतान्यस्य वश्यानि भवन्तीत्यर्थः । तथा हि --- भूतानां परिदृश्यमानं विशिष्टाकारवत् स्थूलरूपम् । स्वरूपपञ्चैषां यथाक्रमं कार्यं गन्धस्नेहोष्णताप्रेरणावकाशदानलक्षणम् । सूक्ष्मं च यथाक्रमं भूतानां कारणत्वेन व्यवस्थितानि गन्धादितन्मात्राणि । अन्वयिनो गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वत्रैवाऽन्वयित्वेन समुपलभ्यन्ते । अर्थवत्त्वं तेषु एव गुणेषु भोगापवर्गसम्पादनाख्या शक्तिः । तदेवं भूतेषु पञ्चसु उक्तधर्मलक्षणावस्थाभिन्नेषु प्रत्यवस्थं संयमं कुर्वन् योगी भूतजयी भवति । तद्यथा --- प्रथमं स्थूलरूपे संयमं विधाय तदनु स्वरूपे इत्येवं क्रमेण तस्य कृतसंयमस्य संकल्पानुविधायिन्यो वत्सानुसारिण्य इव गावो भूतप्रकृतयो भवन्तीत्यर्थः ॥ ४४॥ तस्यैव भूतजयस्य फलमाह --- ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्माऽनभिघातश्च ॥ विभूति ४५॥ वृत्तिः --- १। अणिमा परमाणुरूपतापत्तिः । २। महिमा महत्त्व्प्राप्तिः । ३। लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । ४। गरिमा गुरुत्वप्राप्तिः । ५। प्राप्तिरङ्गुल्यग्रेण चन्द्रादिस्पर्शनशक्तिः । ६। प्राकाम्यमिच्छानभिघातः । ७। शरीरान्तःकरणेश्वरत्वमीशित्वम् । ८। सर्वत्र प्रभविष्णुता वशित्वम् । सर्वाण्येव भूतान्यनुगामित्वात्तदुक्तं नातिक्रामन्ति । ९। यत्रकामावसायो यस्मिन् विषयेऽस्य कामः स्वेच्छा भवति तस्मिन् विषये योगिनोऽध्यवसायो भवति । तं विषयं स्वीकारद्वारेणाभिलाषसमाप्तिपर्यन्तं नयतीत्यर्थः । त एतेऽणिमाद्याः समाध्युपयोगिनो भूतजयाद्योगिनः प्रादुर्भवन्ति । यथा परमाणुत्वं प्राप्तो वज्रादीनामप्यन्तः प्रविशति । एवं सर्वत्र योज्यम् । एतेऽणिमादयोऽष्टौ गुणा महासिद्धय उच्यन्ते । कायसम्पद्वक्ष्यमाणा (३।४६) तां प्राप्नोति । तद्धर्माऽनभिघातश्च तस्य कायस्य ये धर्मा रूपादयस्तेषामनभिघातो नाशो न कुतश्चिद्भवति नास्य रूपमग्निर्दहति न वायुः शोषयतीत्यादि योज्यम् ॥ ४५॥ कायसम्पदमाह --- रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ विभूति ४६॥ वृत्तिः --- रूपलावण्यबलानि प्रसिद्धानि । वज्रसंहननत्वं वज्रवत् कठिना संहतिरस्य शरीरे भवतीत्यर्थः । इति कायस्य आविर्भूतगुणसम्पत् ॥ ४६॥ एवं भूतजयमभिधाय प्राप्तभूमिकाविशेषस्येन्द्रियजयमाह --- ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ विभूति ४७॥ वृत्तिः --- ग्रहणमिन्द्रियाणां विषयाभिमुखी वृत्तिः । स्वरूपं सामान्येन प्रकाशकत्वम् । अस्मिता अहंकारानुगमः । अन्वयार्थवत्त्वे पूर्ववत् (३।४४)। एतेषां इन्द्रियाणामवस्थापञ्चके पूर्ववत् संयमं कृत्वेन्द्रियजयी भवति ॥ ४७॥ तस्य फलमाह --- ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ विभूति ४८॥ वृत्तिः --- शरीरस्य मनोवदनुत्तमगतिलाभो मनोजवित्वम् । कायनिरपेक्षाणामिन्द्रियाणां वृत्तिलाभो विकरणभावः । सर्ववशित्वं प्रधानजयः । एताः सिद्ध्ययो जितेन्द्रियस्य प्रादुर्भवन्ति । ताश्चास्मिन् शास्त्रे मधुप्रतीका इत्युच्यन्ते । यथा मधुन एकदेशोऽपि स्वदत एवं प्रत्येकमेताः सिद्धयः स्वदन्त इति मधुप्रतीकाः ॥ ४८॥ इन्द्रियजयमभिधायाऽन्तःकरणजयमाह --- सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ विभूति ४९॥ वृत्तिः --- तस्मिन् बुद्धेः सात्त्विके परिणामे कृतसंयमस्य या सत्त्वपुरुषयोरुत्पद्यते विवेकख्यातिर्गुणानां कर्तृत्वाभिमानशिथिलीभावरूपा तन्माहात्म्यात् तत्रैव स्थितस्य योगिनः सर्वाधिष्ठातृत्वं सर्वज्ञातृत्वं च समाधेर्भवति । सर्वेषां गुणपरिणामानां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव च शान्तोदिताव्यपदेश्यधर्मित्वेनावस्थितानां यथावद्विवेकज्ञानं सर्वज्ञातृत्वम् । एषां चास्मिञ्छास्त्रे परस्यां वशीकारसंज्ञायां प्राप्तायां विशोका नाम सिद्धिरित्युच्यते ॥ ४९॥ क्रमेण भूमिकान्तरमाह --- तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ विभूति ५०॥ वृत्तिः --- तस्यामपि विशोकायां सिद्धौ यदा वैराग्यमुत्पद्यते योगिनस्तदा तस्माद्दोषाणां रागादीनां यद्बीजमविद्यादयस्तस्य क्षये निर्मूलने कैवल्यमात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य गुणानामधिकारपरिसमाप्तौ स्वरूपप्रतिष्ठत्वम् [ पा० स्वरूपनिष्ठत्वम् ] ॥ ५०॥ तस्मिन्नेव समाधौ स्थित्युपायमाह --- स्वाम्युपनिमन्त्रणे सङ्गस्मयाऽकरणं पुनरनिष्टप्रसङ्गात् ॥ विभूति ५१॥ वृत्तिः --- चत्वारो योगिनो भवन्ति । तत्राभ्यासवान् प्रवृत्तमात्रज्योतिः प्रथमः । ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । अतिक्रान्तभावनीयश्चतुर्थः । तत्र चतुर्थस्य समाधेः प्राप्तसप्तविधभूमिप्रान्तप्रज्ञो भवति । ऋतम्भरप्रज्ञस्य द्वितीयां मधुमतीसंज्ञां भूमिकां साक्षात्कुर्वतः स्वामिनो देवा उपनिमन्त्रयितारो भवन्ति । दिव्यस्त्रीरसायनादिकम् [दिव्यस्त्रीवसनादिकम् ] उपढौकयन्तीति तस्मिन्नुपनिमन्त्रणे नाऽनेन सङ्गः कर्तव्यो नापि स्मयः । सङ्गतिकरणे पुनर्विषयभोगे पतति स्मयकरणे कृतकृत्यमात्मानं मन्यमानो न समाधावुत्सहते । अतः सङ्गस्मययोस्तेन वर्जनं कर्तव्यम् ॥ ५१॥ अस्यामेव फलभूतायां विवेकख्यातौ पूर्वोक्तसंयमव्यतिरिक्तमुपायान्तरमाह --- क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ विभूति ५२॥ वृत्तिः --- क्षणः सर्वान्त्यः कालावयवो यस्य कलाः प्रभवितुं न शक्यन्ते । तथाविधानां कालक्षणानां यः क्रमः पौर्वापर्येण परिणामस्तत्र संयमात् प्रागुक्तं विवेकजं ज्ञानमुत्पद्यते । अयमर्थः --- अयं कालक्षणोऽमुष्मात् कालक्षणादुत्तरोऽयमस्मात् पूर्व इत्येवंविधे क्रमे कृतसंयमस्यात्यन्तसूक्ष्मेऽपि क्षणक्रमे यदा भवति साक्षात्कारस्तदाऽन्यदपि सूक्ष्मं महदादि साक्षात्करोतीति विवेकज्ञानोत्पत्तिः ॥ ५२॥ अस्यैव संयमस्य विषयविवेकोपक्षेपणायाह --- जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ विभूति ५३॥ वृत्तिः --- पदार्थानां भेदहेतवो जातिलक्षणदेशा भवन्ति । क्वचिद्भेदहेतुर्जातिः । यथा गौरियं महिषीयमिति । जात्या तुल्ययोर्लक्षणं भेदहेतुः । इयं कर्बुरेयमरुणेति । जात्या लक्षणेनाभिन्नयोर्भेदहेतुर्देशो द्रृष्टः । यथा तुल्यप्रमाणयोरामलकयोर्भिन्नदेशस्थितयोः । यत्र पुनर्भेदोऽवधारयितुं न शक्यते यथा एकदेशस्थितयोः शुक्लयोः पार्थिवयोः परमाण्वोस्तथाविधे विषये भेदाय कृतसंयमस्य भेदेन ज्ञानमुत्पद्यते तदा तदभ्यासात् सूक्ष्माण्यपि तत्त्वानि भेदेन प्रतिपद्यते । एतदुक्तं भवति --- यत्र केनचिदुपायेन भेदो नावधारयितुं शक्यस्तत्र संयमाद्भवत्येव भेदप्रतिपत्तिः ॥ ५३॥ सूक्ष्माणां तत्त्वानामुक्तस्य विवेकजन्यज्ञानस्य संज्ञाविषयस्वाभाव्यं व्याख्यातुमाह --- तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ विभूति ५४॥ वृत्तिः --- उक्तसंयमबलादेवाऽन्त्यायां भूमिकायामुत्पन्नं ज्ञानं तारकमिति तारयत्यगाधात् संसारसागराद्योगिनमित्यान्वर्थिक्या संज्ञया तारकमित्युच्यते । अस्य विषयमाह --- सर्वविषयमिति । सर्वाणि तत्त्वानि महदादीनि विषयोऽस्येति सर्वविषयम् । स्वभावश्चास्य सर्वथाविषयत्वम् । सर्वाभिरवस्थाभिः स्थूलसूक्ष्मादिभेदेन तैस्तैः परिणामैः सर्वेण प्रकारेणाऽवस्थितानि तत्त्वानि विषयोऽस्येति सर्वथाविषयम् । स्वभावान्तरमाह --- अक्रमं चेति । निःशेषनानावस्थापरिणतस्यात्मकभावग्रहणेनास्य [पा० निःशेषनानाऽवस्थापरिणतद्वित्र्यात्मकभावग्रहणे नाऽस्य] क्रमो विद्यत इत्यक्रमम् । सर्वं करतलामलकवद्युगपत् पश्यतीत्यर्थः ॥ ५४॥ अस्माच्च विवेकजात् तारकाख्याज्ज्ञानात् किं भवतीत्याह --- सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥ विभूति ५५॥ वृत्तिः --- सत्त्वपुरुषावुक्तलक्षणौ (२।६, २।१८, २।२०)। तयोः शुद्धिसाम्ये कैवल्यम् । सत्त्वस्य सर्वकर्तृत्वाभिमाननिवृत्या स्वकारणानुप्रवेशः शुद्धिः । पुरुषस्य शुद्धिरुपचरितभोगाभाव इति द्वयोः समानायां शुद्धौ पुरुषस्य कैवल्यमुत्पद्यते । मोक्षो भवतीत्यर्थः ॥ ५५॥ तदेवमन्तरङ्गं योगाङ्गत्रयमभिधाय तस्य च संयमसंज्ञां कृत्वा संयमस्य विषयप्रदर्शनार्थं परिणामत्रयमुपपाद्य संयमबलोत्पद्यमानाः पूर्वान्तपरान्तमध्यभवाः सिद्धीरुपदर्श्य समाध्यभ्यासोपपत्तये [ पा० समाध्याश्वासोत्पत्तये ] बाह्या भुवनज्ञानादिरूपा आभ्यन्तराश्च कायव्यूहज्ञानादिरूपाः प्रदर्श्य समाध्युपयोगायेन्द्रियप्राणजयादिपूर्विकाः परमपुरुषार्थसिद्धये यथाक्रममवस्थासहितभूतजयेन्द्रियसत्त्वजयोद्भवाश्च व्याख्याय विवेकज्ञानोपपत्तये तांस्तानुपायानुपन्यस्य तारकस्य सर्वसमाध्यवस्थापर्यन्तभवस्य स्वरूपमभिधाय तत्समापत्तेः कृताधिकारस्य चित्तसत्त्वस्य स्वकारणानुप्रवेशात् कैवल्यमुत्पद्यत इत्यभिहितमिति निर्णीतो विभूतिपादस्तृतीयः । इति धारेश्वरभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलवृत्तौ विभूतिपादस्तृतीयः । इति विभूतिपादः । अथ कैवल्यपादः यदाज्ञयैव कैवल्यं विनोपायैः प्रजायते । तमेकमजमीशानं चिदानन्दमयं स्तुमः ॥ इदानीं विप्रतिपत्तिसमुत्थभ्रान्तिनिराकरणेन युक्त्या कैवल्यस्वरूपज्ञापनाय [ पा० ज्ञानाय ] कैवल्यपादोऽयमारभ्यते । तत्र याः पूर्वमुक्ताः सिद्धयस्तासां नानाविधजन्मादिकारणप्रतिपादनद्वारेणैवं बोधयति --- मदीया या एताः सिद्धयस्ताः सर्वाः पूर्वजन्माभ्यस्तसमाधिबलाज्जन्मादिनिमित्तमात्रत्वेनाऽऽश्रित्य प्रवर्तन्ते । ततश्चानेकभवसाध्यस्य समाधेर्न क्षतिरस्तीत्याश्वासोत्पादनाय समाधिसिद्धेश्च प्राधान्यख्यापनार्थं कैवल्योपयोगार्थं चाह --- जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ कैवल्य १॥ वृत्तिः --- काश्चन जन्मनिमित्ता एव सिद्धयो यथा पक्ष्यादीनामाकाशगमनादयः । यथा वा कपिलमहर्षिप्रभृतीनां जन्मसमनन्तरमेवोपजायमाना ज्ञानादयः सांसिद्धिका गुणाः । ओषधिसिद्धयो यथा पारदादिरसायनाद्युपयोगात् । मन्त्रसिद्धिर्यथा मन्त्रजपात् केषांचिदाकाशगमनादिः । तपःसिद्धिर्यथा विश्वामित्रादीनाम् । समाधिसिद्धिः प्राक्प्रतिपादिता । एताः सिद्धयः पूर्वजन्मक्षयितक्लेशानामेवोपजायन्ते । तस्मात् समाधिसिद्धाविवाऽन्यासां सिद्धीनां समाधिरेव जन्मान्तराभ्यस्तः कारण्म् । मन्त्रादीनि निमित्तमात्राणि ॥ १॥ ननु नन्दीश्वरादिकानां जात्यादिपरिणामोऽस्मिन्नेव जन्मनि दृश्यते । तत् कथं जन्मान्तराभ्यस्तस्य समाधेः कारणत्वमुच्यत इत्याशङ्क्याह --- जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ कैवल्य २॥ वृत्तिः --- योऽयमिहैव जन्मनि नन्दीश्वरादीनां जात्यादिपरिणामः स प्रकृत्यापूरात् । पाश्चात्त्या एव हि प्रकृतयोऽमुष्मिञ्जन्मनि विकारानापूरयन्ति जात्यन्तराकारेण परिणमन्ति ॥ २॥ ननु धर्माधर्मादयस्तत्र क्रियमाना उपलभ्यन्ते । तत् कथं प्रकृतीनामापूरकत्वम् इत्याह --- निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ कैवल्य ३॥ वृत्तिः --- निमित्तं धर्मादि । तत् प्रकृतीनामर्थान्तरपरिणामे न प्रयोजकम् । न हि कार्येण कारणं प्रवर्तते । कुत्र तर्हि तस्य धर्मादेर्व्यापार इत्याह --- वरणभेदस्तु ततः क्षेत्रिकवत् । ततस्तस्मादनुष्ठीयमानाद्धर्माद्वरणमावरणकमधर्मादि तस्यैव विरोधित्वाद्भेदः क्षयः क्रियते । तस्मिन् प्रतिबन्धके क्षीणे प्रकृतयः स्वयमभिमतकार्याय प्रभवन्ति । दृष्टान्तमाह --- क्षेत्रिकवत् । यथा क्षेत्रिकः कृषीबलः केदारात् केदारान्तरं जलं निनीषुर्जलप्रतिबन्धकावरणभेदमात्रं करोति । तस्मिन् भिन्ने जलं स्वयमेव प्रसरद्रूपं परिणामं गृह्णाति न तु जलप्रसरणे तस्य कश्चित् प्रयत्नः । एवं धर्मादेर्बोद्धव्यम् ॥ ३॥ यदा साक्षात्कृततत्त्वस्य योगिनो युगपत् कर्मफलभोगायाऽऽत्मीयनिरतिशयविभूत्यनुभवाद् युगपदनेकशरीरनिर्मित्सा जायते तदा कुतस्तानि चित्तानि प्रभवन्तीत्याह --- निर्माणचित्तान्यस्मितामात्रात् ॥ कैवल्य ४॥ वृत्तिः --- योगिनः स्वयं निर्मितेषु कायेषु यानि चित्तानि तानि मूलकारणादस्मितामात्रादेव तदिच्छया प्रसरन्ति । अग्नेर्विस्फुलिङ्गा इव युगपत् परिणमन्ति ॥ ४॥ ननु बहूनां चित्तानां भिन्नाभिप्रायत्वान्नैककार्यकर्तृत्वं स्यादित्याह --- प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ कैवल्य ५॥ वृत्तिः --- तेषामनेकेषां चेतसां प्रवृत्तिभेदे व्यापारनानात्व एअकं योगिनश्चित्तं प्रयोजकं प्रेरकमधिष्ठातृत्वेन । तेन न भिन्नमतत्वम् । अयमर्थः --- यथात्मीयशरीरे मनश्चक्षुःपाण्यादीनि यथेच्छं प्रेरयत्यधिष्ठातृत्वेनैएवं कायान्तरेष्वपीति ॥ ५॥ जन्मादिप्रभवत्वात् सिद्धीनां चित्तमपि तत्प्रभवं पञ्चविधमेव । अतो जन्मादिप्रभवाच्चित्तात् समाधिप्रभवस्य चित्तस्य वैलक्षण्यमाह --- तत्र ध्यानजमनाशयम् ॥ कैवल्य ६॥ वृत्तिः --- ध्यानजं समाधिजं यच्चित्तं तत् पञ्चसु मध्येऽनाशयं कर्मवासनारहितमित्यर्थः ॥ ६॥ यथेतरचित्तेभ्यो योगिनश्चित्तं विलक्षणं क्लेशादिरहितं तथा कर्मापि विलक्षणमित्याह --- कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ कैवल्य ७॥ वृत्तिः --- शुभफलदं कर्म यागादि शुक्लम् । अशुभफलदं ब्रह्महत्यादि कृष्णम् । उभयसंकीर्णं शुक्लकृष्णम् । तत्र शुक्लं कर्म विचक्षणानां दानतपःस्वाध्यायादिमतां पुरुषाणाम् । कृष्णं कर्म दानवानाम् [ नारकानाम् ] । शुक्लकृष्णं मनुष्याणाम् । योगिनान्तु संन्यासवतां त्रिविधकर्मविपरीतं यत् फलत्यागानुसन्धानेनैवानुष्ठानान्न किञ्चित् फलमारभते ॥ ७॥ अस्यैव कर्मणः फलमाह --- ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ कैवल्य ८॥ वृत्तिः --- इह हि द्विविधा कर्मवासनाः स्मृतिमात्रफला जात्यायुर्भोगफलाश्च । तत्र जात्यायुर्भोगफला एकानेकजन्मभवा इत्यनेन पूर्वमेव (२।१२--१३) कृतनिर्णयाः । यास्तु स्मृतिमात्रफलास्तास्ततः कर्मणो येन कर्मणा यादृक् शरीरमारब्धं देवमनुष्यतिर्यगादिभेदेन तस्य विपाकस्याऽनुगुणा अनुरूपा या वासनास्तासामेव तस्मादभिव्यक्तिर्वासनानां भवति । अयमर्थः --- येन कर्मणा पूर्वं देवतादिशरीरमारब्धं जात्यन्तरशतव्यवधानेन पुनस्तथाविधस्यैव शरीरस्यारम्भे तदनुरूपा एव स्मृतिफला वासनाः प्रकटीभवन्ति । लोकान्तरेष्वेवार्थेषु तस्य स्मृत्यादयो जायन्ते । इतरास्तु सत्योऽपि अव्यक्तसंज्ञास्तिष्ठन्ति न तस्यां दशायां नारकादिशरीरोद्भवा वासना व्यक्तिमायान्ति ॥ ८॥ आसामेव वासनानां कार्यकारणाभावानुपपत्तिमाशङ्क्य समर्थयितुमाह --- जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ कैवल्य ९॥ वृत्तिः --- इह नानायोनिषु भ्रमतां संसारिणां कांचिद्योनिमनुभूय यदा योन्यन्तरसहस्रव्यवधानेन पुनस्तामेव योनिं प्रतिपद्यते तदा तस्यां पूर्वानुभूतायां योनौ तथाविधशरीरादिव्यञ्जकापेक्षया वासना याः प्रकटीभूता आसंस्तास्तथाविधव्यञ्जकाभावात्तिरोहिताः पुनस्तथाविधव्यञ्जकशरीरादिलाभे प्रकटीभवन्ति । जातिदेशकालव्यवधानेऽपि तासां स्वानुरूपस्मृत्यादिफलसाधन आनन्तर्यं नैरन्तर्यम् । कुतः । स्मृतिसंस्कारयोरेकरूपत्वात् । तथाहि --- अनुष्ठीयमानात् कर्मणश्चित्तसत्त्वे वासनारूपः संस्कारः समुत्पद्यते । स च स्वर्गनरकादीनां फलानां चाङ्कुरीभावः कर्मणां वा यागादीनां शक्तिरूपतयाऽवस्थानम् । कर्तुर्वा तथाविधभोग्यभोक्तृत्वरूपं सामर्थ्यम् । संस्कारात् स्मृतिः स्मृतेश्च सुखदुःखोपभोगस्तदनुभवाच्च पुनरपि संस्कारस्मृत्यादयः । एवं च यस्य स्मृतिसंस्कारादयो भिन्नास्तस्याऽऽनन्तर्याभावे दुर्लभः कार्यकारणभावः । अस्माकं तु यदानुभव एव संस्कारीभवति संस्कारश्च स्मृतिरूपतया परिणमते तदैकस्यैव चित्तस्यानुसन्धातृत्वेन स्थितत्वान्न कार्यकारणभावो दुर्घटः ॥ ९॥ भवत्वानन्तर्यं कार्यकारणभावश्च वासनानाम् यदा तु प्रथममेवानुभवः प्रवर्तते तदा किं वासनानिमित्त उत निर्निमित्त इति शङ्कां व्यपनेतुमाह --- तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ कैवल्य १०॥ वृत्तिः --- तासां वासनानामनादित्वम् । न विद्यत आदिर्यस्य तस्य भावस्तत्त्वं तासामादिर्नास्तीत्यर्थः । कुत इति । आशिषो नित्यत्वात् । येयमाशीर्महामोहरूपा सदैव सुखसाधनानि मे भूयासुर्मा कदाचन तैर्मे वियोगो भूदिति यः संकल्पविशेषो वासनानां कारणं तस्य नित्यत्वादनादित्वमित्यर्थः । एतदुक्तं भवति --- कारणस्य सन्निहितत्वादनुभवसंस्कारादीनां कार्याणां प्रवृत्तिः केन वार्यते । अनुभवसंस्कारानुबिद्धं संकोचविकाशधर्मि चित्तं तत्तदभिव्यञ्जकविपाकलाभात् तत्तत्फलरूपतया परिणमत इत्यर्थः ॥ १०॥ तासामानन्त्याद्धानं कथं भवतीत्याशङ्क्य हानोपायमाह --- हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ कैवल्य ११॥ वृत्तिः --- वासनानामनन्तरानुभवो हेतुस्तस्याप्यनुभवस्य रागादयस्तेषामविद्येति साक्षात् पारम्पर्येण हेतुः । फलं शरीरादि स्मृत्यादि च । आश्रयो बुद्धिसत्त्वम् । आलम्बनं यदेवानुभवस्य तदेव वासनानाम् । अतस्तैर्हेतुफलाश्रयालम्बनैरनन्तानामपि वासनानां संगृहीतत्वात् । एषां हेत्वादीनामभावे ज्ञानयोगाभ्यां दग्धबीजकल्पत्वे विहिते निर्मूलत्वान्न वासनाः प्ररोहन्ति न कार्यमारभन्त इति तासामभावः ॥ ११॥ ननु प्रतिक्षणं चित्तस्य नश्वरत्वोपलब्धेर्वासनानां तत्फलानां च कार्यकारणभावेन युगपदभावित्वाद्भेदे कथमेकत्वमित्याशङ्क्यैकत्वसमर्थनायाह --- अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ कैवल्य १२॥ वृत्तिः ---इहात्यन्तमसतां भावानामुत्पत्तिर्न युक्तिमती तेषां सत्त्वसम्बन्धायोगात् । न हि शशविषाणादीनां क्वचिदपि सत्त्वसम्बन्धो दृष्टः । निरुपाख्ये च कार्ये किमुद्दिश्य कारणानि प्रवर्तेरन् । न ह्यसन्तं विषयमालोच्य कश्चित् प्रवर्तते । सतामपि विरोधान्नाभावसम्बन्धोऽस्ति । यत् स्वरूपं लब्धसत्ताकं तत् कथं निरुपाख्यतामभावरूपतां वा भजते न विरुद्धं रूपं स्वीकरोतीत्यर्थः । तस्मात् सतामभावासम्भवादसतां चोत्पत्त्यसम्भवात् तैस्तैर्धर्मैर्विपरिणममानो धर्मी सदैकरूप एवावतिष्ठते । धर्मास्तु त्र्यध्वकत्वेन [ पा० अधिकत्वेन ] त्रैकालिकत्वेन तत्र व्यवस्थिताः स्वस्मिन् स्वस्मिन्नध्वनि व्यवस्थिताः न स्वरूपं त्यजन्ति । वर्तमानेऽध्वनि व्यवस्थिताः केवलं भोग्यतां भजन्ते । तस्माद्धर्माणामेवातीतानागताद्यध्वभेदात् तेनैव रूपेण कार्यकारणभावोऽस्मिन् दर्शने प्रतिपद्यते । तस्मादपवर्गपर्यन्तमेकमेव चित्तं धर्मितयाऽनुवर्तमानं न निह्नोतुं पार्यते ॥ १२॥ त एते धर्मधर्मिणः किंरूपा इत्याह --- ते व्यक्तसूक्ष्मा गुणात्मानः ॥ कैवल्य १३॥ वृत्तिः --- य एते धर्मधर्मिणः प्रोक्तास्ते व्यक्तसूक्ष्मभेदेन व्यवस्थिताः गुणाः सत्त्वरजस्तमोरूपास्तदात्मानस्तत्स्वभावास्तत्परिणामरूपा इत्यर्थः । यतः सत्त्वरजस्तमोभिः सुखदुःखमोहरूपैः सर्वासां बाह्याभ्यन्तरभेदभिन्नानां भावव्यक्तीनामन्वयानुगमो दृश्यते । यद्यदन्वयि तत्तत् परिणामरूपं दृष्टम् । यथा घटादयो मृदन्विता मृत्परिणामरूपाः ॥ १३॥ यद्येते त्रयो गुणाः सर्वत्र मूलकारणं कथमेको धर्मीति व्यपदेश इत्याशङ्क्याह --- परिणामैकत्वाद्वस्तुतत्त्वम् ॥ कैवल्य १४॥ वृत्तिः --- यद्यपि त्रयो गुणास्तथापि तेषामङ्गाङ्गिभावगमनलक्षणो यः परिणामः क्वचित् सत्त्वमङ्गि क्वचिद्रजः क्वचिच्च तम इत्येवंरूपस्तस्यैकत्वाद्वस्तुनस्तत्त्वमेकमुच्यते । यथा --- इयं पृथिवी । अयं वायुरित्येवमादि ॥ १४॥ ननु ज्ञानव्यतिरिक्ते सत्यर्थे वस्त्वेकमनेकं वा वक्तुं युज्यते । यदा च विज्ञानमेव वासनावशात् कार्यकारणभावेनावस्थितं तथा तथा प्रतिभाति तदा कथमेतच्छक्यते वक्तुमित्याशङ्क्याह --- वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥ कैवल्य १५॥ वृत्तिः --- तयोर्ज्ञानार्थयोर्विविक्तः पन्था विविक्तो मार्गो देश इति यावत् । कथम् । वस्तुसाम्ये चित्तभेदात् । समाने वस्तुनि स्त्र्यादावुपलभ्यमाने नानाप्रमातृईणां चित्तस्य भेदः सुखदुःखमोहरूपतया समुपलभ्यते । तथाहि एकस्यां रूपलावण्यवत्यां योषिति उपलभ्यमानायां सरागस्य सुखमुत्पद्यते सपत्न्यास्तु द्वेषः परिव्राजकादेर्घृणेत्येकस्मिन् वस्तुनि नानाविधचित्तोदयात् कथं चित्तकार्यत्वं वस्तुन एकचित्तकार्यत्वे वस्त्वेकरूपतयैवाऽवभासेत । किञ्च चित्तकार्यत्वे वस्तुनो यदीयस्य चित्तस्य तद्वस्तु कार्यं तस्मिन्नर्थान्तरव्यासक्ते तद्वस्तु न किञ्चित् स्यात् । भवत्विति चेन्न । तदेव कथमन्यैर्बहुभिरुपलभ्येत । उपलभ्यते च तस्मान्न चित्तकार्यम् । अथ युगपद्बहुभिः सोऽर्थः क्रियते तदा बहुनिर्मितस्यार्थस्यैकनिर्मिताद्वैलक्षण्यं स्यात् । यदा तु वैलक्षण्यं नेष्यते तदा कारणभेदे सति कार्यभेदस्याभावे निर्हेतुकमेकरूपं वा जगत् स्यात् । एतदुक्तं भवति --- सत्यपि भिन्ने कारणे यदि कार्यस्याभेदस्तदा समग्रं जगन्नानाविधकारणजन्यमेकरूपं स्यात् । कारणभेदाननुगमात् स्वातन्त्र्येण निर्हेतुकं वा स्यात् । यद्येवं कथं तेन त्रिगुणात्मना चित्तेनैकस्यैव प्रमातुः सुखदुःखमोहमयानि ज्ञानानि जन्यन्ते [पा० कथं तेन त्रिगुणात्मनाऽर्थे नैकस्यैव प्रमातुः सुखदुःखमोहभयानि ज्ञानानि न जन्यन्ते] । मैवम् । यथाऽर्थस्त्रिगुणस्तथा चित्तमपि त्रिगुणम् । तस्यार्थप्रतिभासोत्पत्तौ धर्मादयः सहकारिकारणम् । तदुद्भवाभिभववशात् कदाचिच्चित्तस्य तेन तेन रूपेणाभिव्यक्तिः । तथा च --- कामुकस्य सन्निहितायां योषिति धर्मसहकृतं चित्तं सत्त्वस्याङ्गितया परिणममानं सुखमयं भवति । तदेवाऽधर्मसहकारि रजसोऽङ्गितया दुःखरूपं सपत्नीमात्रस्य भवति । तीव्राधर्मसहकारितया परिणममानं तमसोऽङ्गित्वेन कोपनायाः सपत्न्या मोहमयं भवति । तस्माद्विज्ञानव्यतिरेकेणास्ति ग्राह्यार्थः [पा० ग्राह्योऽर्थः] । तदेवं विज्ञानार्थयोस्तादात्म्यविरोधान्न कार्यकारणभावः । कारणाभेदे सत्यपि कार्यभेदप्रसङ्गादिति ज्ञानाद्व्यतिरिक्तत्वमर्थस्य व्यवस्थितम् ॥ १५॥ यद्येवं ज्ञानं चेत् प्रकाशकत्वाद्ग्रहणस्वभावमर्थश्च प्रकाश्यत्वाद्ग्राह्यस्वभावस्तदा युगपत् सर्वानर्थान् कथं न गृह्णाति । न स्मरति चेत्याशङ्कां परिहर्तुमाह --- तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ कैवल्य १६॥ वृत्तिः --- तस्यार्थस्योपरागादाकारसमर्पणाच्चित्ते बाह्यं वस्तु ज्ञातमज्ञातं च भवति । अयमर्थः --- सर्वः पदार्थ आत्मलाभे चित्तं सामग्रीमपेक्षते । नीलादिज्ञानं चोपजायमानमिन्द्रियप्रणालिकया समागतमर्थोपरागं सहकारिकारणत्वेनापेक्षते । व्यतिरिक्तस्यार्थस्य सम्बन्धाभावाद्ग्रहीतुमशक्यत्वात् । ततश्च येनैवार्थेनास्य स्वरूपोपरागः कृतस्तमेवार्थं तज्ज्ञानं व्यवहारयोग्यतां नयति । ततः सोऽर्थो ज्ञात उच्यते । येन चाऽऽकारो न समर्पितः स न ज्ञातत्वेन व्यवह्रियते । यस्मिंश्चानुभूतेऽर्थे सादृश्यादिरर्थः संस्कारमुद्बोधयन् सहकारितां प्रतिपद्यते तस्मिन्नेवार्थे स्मृतिरुपजायत इति न सर्वत्र ज्ञानं नापि स्मृतिरिति न कश्चिद्विरोधः ॥ १६॥ यद्येवं प्रमातापि पुरुषो यस्मिन् काले नीलं वेदयते न तस्मिन् काले पीतादिमतश्चित्तसत्त्वस्यापि कदाचित् ग्रहीतृरूपत्वादाकारग्रहणे परिणामित्वं प्राप्तमित्याशङ्कां परिहर्तुमाह --- सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ कैवल्य १७॥ वृत्तिः --- या एताश्चित्तस्य प्रमाणविपर्ययादिरूपा वृत्तयः, तास्तत्प्रभोश्चित्तस्य ग्रहीतुः पुरुषस्य सदा सर्वकालमेव ज्ञाताः [पा० ग़्येयाः] । तस्य चिद्रूपतयाऽपरिणामित्वात् परिणामित्वाभावादित्यर्थः । यद्यसौ परिणामी स्यात् तदा परिणामस्य कादाचित्कत्वात् तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत । अयमर्थः --- पुरुषस्य चिद्रूपस्य सदैवाधिष्ठातृत्वेन व्यवस्थितस्य यदन्तरङ्गं निर्मलं सत्त्वम् तस्यापि सदैवावस्थितत्वाद्येनार्थेनोपरक्तं भवति तथाविधस्यार्थस्य सदैव चिच्छायासंक्रान्तिसद्भावस्तस्यां सत्यां सिद्धं ज्ञातृत्वमिति न कदाचित् काचित् परिणामित्वाशङ्का ॥ १७॥ ननु चित्तमेव यदि सत्त्वोत्कर्षात् प्रकाशकम् तदा स्वपरप्रकाशरूपत्वादात्मानमर्थं च प्रकाशयतीति तावतैव व्यवहारसमाप्तिः । किं ग्रहीत्रन्तरेणेत्याशङ्कामपनेतुमाह --- न तत्स्वाभासं दृश्यत्वात् ॥ कैवल्य १८॥ वृत्तिः --- तच्चित्तं स्वाभासं स्वप्रकाशकं न भवति पुरुषवेद्यं भवतीति यावत् । कुतः । दृश्यत्वात् । यत् किल दृश्यं तत् द्रष्टृवेद्यं दृष्टं यथा घटादि । दृश्यं च चित्तं तस्मान्न स्वाभासम् ॥ १८॥ ननु साध्याविशिष्टोऽयं हेतुः । दृश्यत्वमेव चित्तस्यासिद्धम् । किञ्च स्वबुद्धिसंवेदनद्वारेण हिताहितप्राप्तिपरिहाररूपा वृत्तयो दृश्यन्ते । तथाहि --- क्रुद्धोऽहं भीतोऽहमत्र मे राग इत्येवमाद्या संवित् बुद्धेरसंवेदने नोपपद्यत इत्याशङ्कामपनेतुमाह --- एकसमये चोभयानवधारणम् ॥ कैवल्य १९॥ वृत्तिः --- अर्थस्य संवित्तिरिदन्तया व्यवहारयोग्यतापादनम् । अयमर्थः सुखहेतुर्दुःखहेतुर्वेति । बुद्धेः संविदहमित्येवमाकारेण सुखदुःखरूपतया व्यवहारक्षमतापादनम् । एवंविधं च व्यापारद्वयमर्थप्रत्यक्षकाले न युगपत् कर्तुं शक्यं विरोधात् । न हि विरुद्धयोर्व्यापारयोर्युगपत् सम्भवोऽस्ति । अत एकस्मिन् काल उभयस्य स्वरूपस्याऽर्थस्य चावधारयितुमशक्यत्वान्न चित्तं स्वप्रकाशकं भवति । किन्तु एवंविधव्यापारद्वयनिष्पाद्यस्य फलद्वयस्यासंवेदनाद्बहिर्मुखतयैव स्वनिष्ठत्वेन चित्तस्य स्वयं वेदनादर्थनिष्ठमेव फलं न स्वनिष्ठमित्यर्थः ॥ १९॥ ननु मा भूद्बुद्धेः स्वयं ग्रहणं बुद्ध्यन्तरेण भविष्यतीत्याशङ्क्याह --- चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ कैवल्य २०॥ वृत्तिः --- यदि हि बुद्धिर्बुद्ध्यन्तरेण वेद्यते साऽपि बुद्धिः स्वयमबुद्धा बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं [ पा० बोधकम् ] बुद्ध्यन्तरं कल्पनीयं तस्याऽप्यन्यदित्यनवस्थानात् पुरुषान्तरेणार्थप्रतीतिर्न स्यात् । न हि प्रतीतवप्रतीतायामर्थः प्रतीतो भवति । स्मृतिसंकरश्च प्राप्नोति --- रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनां समुत्पत्तेर्बुद्धिजनितैः संस्कारैर्यदा युगपद्बह्वयः स्मृतयः क्रियन्ते तदा बुद्धेरपर्यवसानाद्बुद्धिस्मृतीनां च बह्वीनां युगपदुत्पत्तेः कस्मिन्नर्थे स्मृतिरियमुत्पन्नेति ज्ञातुमश्क्यत्वात् स्मृतीनां संकरः स्यात् । इयं रूपे स्मृतिरियं रसे स्मृतिरिति न ज्ञायेत ॥ २०॥ ननु बुद्धेः स्वप्रकाशत्वाभावे बुद्ध्यन्तरे चासंवेदने कथमयं विषयसंवेदनरूपो व्यवहार इत्याशङ्क्य स्वसिद्धान्तमाह --- चित्तेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ कैवल्य २१॥ वृत्तिः --- पुरुषश्चिद्रूपत्वाच्चितिः साऽप्रतिसंक्रमा । न विद्यते प्रतिसक्रमोऽन्यत्र गमनं यस्याः सा तथोक्ता । अन्येनासङ्कीर्णेति यावत् । यथा गुणा अङ्गाङ्गिभावलक्षणे परिणामे अङ्गिनं गुणं संक्रामन्ति तद्रूपतामिवाऽऽपद्यन्ते । यथा वा लोके परमाणवः प्रसरन्तो विषयमारूपयन्ति [ पा० आरोपयन्ति ] नैवं चितिशक्तिस्तस्याः सर्वदैकरूपतया सुप्रतिष्ठितत्वेन व्यवस्थितत्वात् । अतस्तत्सन्निधाने यदा बुद्धिस्तदाकारतामापद्यते चेतनेवोपजायते [ पा० चेतनोपजायते ] बुद्धिवृत्तिप्रतिसक्रान्ता च यदा चिच्छक्तिर्बुद्धिवृत्तिविशिष्टतया संवेद्यते [ पा० बुद्धिवृत्त्यावेशात्तथा सम्पद्यते ] तदा बुद्धेः स्वस्या आत्मनो वेदनं संवेदनं भवतीत्यर्थः ॥ २१॥ इत्थं स्वसंविदितं चित्तं सर्वानुग्रहणसामर्थ्येन सकलव्यवहारनिर्वाहक्षमं भविष्यतीत्याह --- द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ कैवल्य २२॥ वृत्तिः --- द्रष्टा पुरुषस्तेनोपरक्तं तत्सन्निधानेन तद्रूपतामिव प्राप्नोति दृश्योपरक्तं विषयोपरक्तं गृहीतविषयाकारपरिणामं यदा भवति तदा तदेव चित्तं सर्वार्थग्रहणसमर्थं भवति । यथा निर्मलं स्फटिकदर्पणाद्येव प्रतिबिम्बग्रहणसमर्थम् । एवं रजस्तमोभ्यामनभिभूतं सत्त्वं शुद्धत्वाच्चिच्छायाग्रहणसमर्थं भवति । न पुनरशुद्धत्वाद्रजस्तमसी । तन्न्यग्भूतरजस्तमोरूपमङ्गितया सत्त्वं निश्चलप्रदीपशिखाकारं सदैकरूपतया परिणममानं चिच्छायाग्रहणसामर्थ्यादामोक्षप्राप्तेरवतिष्ठते । यथाऽयस्कान्तसन्निधाने लोहस्य चलनमाविर्भवत्येवं चिद्रूपपुरुषसन्निधाने सत्त्वस्याभिव्यङ्ग्यमभिव्यज्यते चैतन्यम् । अत एवास्मिन्दर्शने द्वे चिच्छक्ती --- नित्योदिताऽभिव्यङ्ग्या च । नित्योदिता चिच्छक्तिः पुरुषसन्निधानादभिव्यक्तमभिव्यङ्ग्यचैतन्यं सत्त्वम् । अभिव्यङ्ग्या चिच्छक्तिस्तदत्यन्तसन्निहितत्वादन्तरङ्गं पुरुषस्य भोग्यतां प्रतिपद्यते । तदेव शान्तब्रह्मवादिभिः सांख्यैः पुरुषस्य परमात्मनोऽधिष्ठेयं कर्मानुरूपं सुखदुःखभोक्तृतया व्यपदिश्यते । यत्त्वनुद्रिक्तत्वादेकस्यापि गुणस्य कदाचित् कस्यचिदङ्गित्वात् त्रिगुणं प्रतिक्षणं परिणममानं सुखदुःखमोहात्मकमनिर्मलं तत्तस्मिन् कर्मानुरूपे शुद्धे सत्त्वे स्वाकारसमर्पणद्वारेण संवेद्यतामापादयति तच्छुद्धमाद्यं चित्तसत्त्वमेवेति प्रतिसङ्क्रान्तचिच्छायमन्यतो गृहीतविषयाकारेण चित्तेनोपढौकितमाकारं चित्सङ्क्रान्तिबलात् चेतनायमानं वास्तवचैतन्याभावेऽपि सुखदुःखस्वरूपं भोगमनुभवति । स एवं भोगोऽत्यन्तसन्निधानेन विवेकाग्रहणादभोक्तुरपि पुरुषस्य भोग इति व्यपदिष्यते । अनेनैवाभिप्रायेण विन्ध्यवासिनोक्तम् --- सत्त्वतप्यत्वमेव पुरुषतप्यत्वमिति । अन्यत्रापि --- प्रतिबिम्बे प्रतिबिम्बमानच्छायासदृशच्छायोद्भवः प्रतिबिम्बशब्देनोच्यते । एवं सत्त्वेऽपि पौरुषेयचिच्छायासदृशचिदभिव्यक्तिः प्रतिसङ्क्रान्तिशव्दार्थ इति । ननु प्रतिबिम्बं नाम निर्मलस्य नियतपरिणामस्य निर्मले दृष्टम् । यथा मुखस्य दर्पणे । अत्यन्तनिर्मलस्य व्यापकस्यापरिणामिनः पुरुषस्य तस्मादत्यन्तनिर्मलात् पुरुषादनिर्मले सत्त्वे कथं प्रतिबिम्बनमुपपद्यते । उच्यते --- प्रतिबिम्बनस्य स्वरूपमनवगच्छता भवतेदमभ्यधायि । यैव सत्त्वगताया अभिव्यङ्ग्यायाश्चिच्छक्तेः पुरुषस्य सान्निध्यादभिव्यक्तिः सैव प्रतिबिम्बनमुच्यते । यादृशी पुरुषगता चिच्छक्तिस्तच्छायाप्यत्राविर्भवति । यदप्युक्तमत्यन्तनिर्मलः पुरुषः कथमनिर्मले सत्त्वे प्रतिसंक्रामतीति तदप्यनैकान्तिकम् । नैर्मल्यादपकृष्टेऽपि जलादावादित्यादयः प्रतिसंक्रान्ताः समुपलभ्यन्ते । यदप्युक्तमनवच्छिन्नस्य नास्ति प्रतिसंक्रान्तिरिति तदप्ययुक्तं व्यापकस्याप्याकाशस्य दर्पनादौ प्रतिसंक्रान्तिदर्शनात् । एवं सति न काचिदनुपपत्तिः प्रतिबिम्बदर्शनस्य । ननु सात्त्विकपरिणामरूपे बुद्धिसत्त्वे पुरुषसन्निधानादभिव्यङ्ग्यायाश्चिच्छक्तेर्बाह्याकारसंक्रान्तौ पुरुषस्य सुखदुःखरूपो भोग इत्युक्तम् तदनुपपन्नम् । तदेव चित्तसत्त्वं प्रकृतावपरिणतायां कथं सम्भवति किमर्थश्च तस्याः परिणामः । अथोच्येत पुरुषस्यार्थोपभोगसम्पादनं तया कर्तव्यम् । अतः पुरुषार्थकर्तव्यतयाऽस्या युक्त एव परिणामः । तच्चानुपपन्नम् । पुरुषार्थकर्तव्यताया एवानुपपत्तेः । पुरुषार्थो मया कर्तव्य एवंविधोऽध्यवसायः पुरुषार्थकर्तव्यतोच्यते । जडायाश्च प्रकृतेः कथं प्रथममेवंविधोऽध्यवसायः । अस्ति चेदध्यवसायः कथं जडत्वम् । अत्रोच्यते --- अनुलोमप्रतिलोमलक्षणपरिणामद्वये सहजं शक्तिद्वयमस्ति । तदेव पुरुषार्थकर्तव्यतोच्यते । सा च शक्तिरचेतनाया अपि प्रकृतेः सहजैव । तत्र महदादिमहाभूतपर्यन्तोऽस्या बहिर्मुखतयाऽनुलोमः परिणामः । पुनः स्वकारणानुप्रवेशनद्वारेणास्मिताऽन्तः परिणामः प्रतिलोमः । इत्थं पुरुषस्य भोगपरिसमाप्तेः [पा० आ भोगपरिसमप्तेः] सहजशक्तिद्वयक्षयात् कृतार्था प्रकृतिर्न पुनः परिणाममारभते । एवंविधायां च पुरुषार्थकर्तव्यतायां जडाया अपि प्रकृतेर्न काचिदनुपपत्तिः । ननु यदीदृशी शक्तिः सहजैव प्रधानस्यास्ति तत् किमर्थं मोक्षार्थिभिर्मोक्षाय यत्नः क्रियते । मोक्षस्य चानर्थनीयत्वे तदुपदेशकशास्त्रस्यानर्थक्यं स्यात् । उच्यते --- योऽयं प्रकृतिपुरुषयोरनादिर्भोग्यभोक्तृत्वलक्षणः [ पा० भोक्तृभाबलक्षणः ] सम्बन्धस्तस्मिन् सति व्यक्तचेतनायाः प्रकृतेः कर्तृत्वाभिमानाद्दुःखानुभवे सति कथमियं दुःखनिवृत्तिरात्यन्तिकी मम स्यादिति भवत्येवाध्यवसायः । अतो दुःखनिवृत्त्युपायोपदेशकशास्त्रोपदेशापेक्षाऽस्त्येव प्रधानस्य । तथाभूतमेव कर्मानुरूपं बुद्धिसत्त्वं शास्त्रोपदेशस्य विषयः । दर्शनान्तरेष्वप्येवंविध एवाविद्यास्वभावः शास्त्रेऽधिक्रियते [ अभिधीयते ] । स च मोक्षाय प्रयतमान एवंविधशास्त्रोपदेशं सहकारिणमपेक्ष्य मोक्षाख्यं फलमासादयति । सर्वाण्येव कार्याणि प्राप्तायां सामग्र्यामात्मानं लभन्ते । अस्य प्रतिलोमपरिणामद्वारेणैवोत्पाद्यस्य मोक्षाख्यस्य कार्यस्येदृश्येव सामग्री प्रमाणेन निश्चिता प्रकारान्तरेणानुपपत्तेः । अतस्तां विना कथं भवितुमर्हति । अतः स्थितमेतत् --- संक्रान्तविषयोपरागमभिव्यक्तचिच्छायं बुद्धिसत्त्वं विषयनिश्चयद्वारेण समग्रां लोकयात्रां निर्वाहयतीति । एवंविधमेव चित्तं पश्यन्तो भ्रान्ताः स्वसंवेदनं चित्तं चित्तमात्रं च जगदित्येवं ब्रुवाणाः प्रतिबोधिता भवन्ति ॥ २२॥ ननु यद्येवंविधादेव चित्तात् सकलव्यवहारनिष्पत्तिः कथं प्रमाणशून्यो द्रष्टाऽभ्युपगम्यत इत्याशङ्क्य द्रष्टुः प्रमाणमाह --- तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ कैवल्य २३॥ वृत्तिः --- तदेव चित्तं संख्यातुमशक्याभिर्वासनाभिश्चित्रमपि नानारूपमपि परार्थं परस्य स्वामिनो भोक्तुर्भोगापवर्गलक्षणमर्थं साधयतीति । कुतः । संहत्यकारित्वात् संहत्य सम्भूय मिलित्वाऽर्थक्रियाकारित्वात् । यच्च संहत्यार्थक्रियाकारि तत् परार्थं दृष्टम् । यथा शयनासनादि । सत्त्वरजस्तमांसि च चित्तलक्षणपरिणामभाञ्जि संहत्यकारीणि चआतः परार्थानि । यः परः स पुरुषः । ननु यादृशेन शयनासनादीनां परेण शरीरवता पारार्थ्यमुपलब्धं तद्दृष्टान्तबलेन तादृश एव परः सिध्यति । यादृशश्च भवतां परोऽसंहतरूपोऽभिप्रेतस्तद्विपरीतस्य सिद्धेरयमिष्टविघातकृद्धेतुः । उच्यते --- यद्यपि सामान्येन परार्थमात्रे व्याप्तिर्गृहीता तथाऽपि सत्त्वादिविलक्षणधर्मिपर्यालोचनया तद्विलक्षण एव भोक्ता परः सिध्यति । यथा चन्दनावृते शिखरिणि विलक्षणाद्धूमाद्वह्निरनुमीयमान इतरवह्निविलक्षणश्चन्दनप्रभव एव प्रतीयते । एवमिहापि विलक्षणस्य सत्त्वाख्यस्य भोग्यस्य परार्थत्वेऽनुमीयमाने तथाविध एव भोक्ताऽधिष्ठाता परश्चिन्मात्ररूपोऽसंहतः सिध्यति । यदि च तस्य परत्वं सर्वोत्कृष्टत्वमेवं प्रतीयते तथापि तामसेभ्यो विषयेभ्यः प्रकृष्यते शरीरं प्रकाशरूपेन्द्रियाश्रयत्वात् । तस्मादपि प्रकृष्यन्ते इन्द्रियाणि । ततोऽपि प्रकृष्टं सत्त्वं प्रकाशरूपम् । तस्यापि यः प्रकाशकः प्रकाश्यविलक्षणः स चिद्रूप एव [ पा० इव ] भवतीति कुतस्तस्य संहतत्वम् ॥ २३॥ इदानीं शास्त्रफलं कैवल्यं निर्णेतुं दशभिः सूत्रैरुपक्रमते --- विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ कैवल्य २४॥ वृत्तिः --- एवं सत्त्वपुरुषयोरन्यत्वे साधिते यस्तयोर्विशेषं पश्यति --- अयमस्मादन्य इत्येवंरूपम् --- तस्य विज्ञातचित्तरूपसत्त्वस्य चित्ते याऽऽत्मभावभावना सा निवर्तते । चित्तमेव कर्तृ ज्ञातृ भोक्त्रित्यभिमानो निवर्तते ॥ २४॥ तस्मिन् सति किं भवतीत्याह --- तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ कैवल्य २५॥ वृत्तिः --- यदस्याज्ञाननिम्नपथं बहिर्मुखं विषयोपभोगफलं चित्तमासीत्तदिदानीं विवेकनिम्नं विवेकमार्गमन्तर्मुखं कैवल्यप्राग्भारं कैवल्यप्रारम्भं सम्पद्यत इति ॥ २५॥ अस्मिंश्च विवेकवाहिनि चित्ते येऽन्तरायाः प्रादुर्भवन्तितेषां हेतुप्रतिपादनद्वारेण त्यागोपायमाह --- तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ कैवल्य २६॥ वृत्तिः --- तस्मिन् समाधौ स्थितस्य छिद्रेष्वन्तरायेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि प्राग्भूतेभ्यः व्युत्थानानुभवजेभ्यः संस्कारेभ्योऽहं ममेत्येवंरूपाणि क्षीयमाणेभ्योऽपि प्रादुर्भवन्ति । अन्तःकरणोच्छित्तिद्वारेण तेषां हानं कर्तव्यमित्युक्तं भवति ॥ २६॥ हानोपायश्च पूर्वमेवोक्त इत्याह --- हानमेषां क्लेशवदुक्तम् ॥ कैवल्य २७॥ वृत्तिः --- यथा क्लेशानामविद्यादीनां हानं पूर्वमुक्तम् (२।१०--११) तथा संस्काराणामपि कर्तव्यम् । यथा ते ज्ञानाग्निना प्लुष्टा दग्धबीजकल्पा न पुनश्चित्तभूमौ प्ररोहं लभन्ते तथा संस्कारा अपि ॥ २७॥ एवं च प्रत्ययान्तरान्तरानुदये स्थिरीभूते समाधौ यादृशस्य योगिनः समाधेः प्रकर्षप्राप्तिर्भवति तथाविधमुपायमाह --- प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ कैवल्य २८॥ वृत्तिः --- प्रसंख्यानं यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणस्वरूपविभावनम् । तस्मिन् सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये सर्वप्रकारविवेकख्यातेः परिशेषाद्धर्ममेघः समाधिर्भवति । प्रकृष्टमशुक्लकृष्णं धर्मं परमपुरुषार्थसाधकं मेहति सिञ्चतीति धर्ममेघः । अनेन प्रकृष्टधर्मस्यैव ज्ञानहेतुत्वमित्युपपादितं भवति ॥ २८॥ तस्माद्धर्ममेघात् किं भवतीत्याह --- ततः क्लेशकर्मनिवृत्तिः ॥ कैवल्य २९॥ वृत्तिः --- क्लेशानामविद्यादीनामभिनिवेशान्तानां कर्मणां च शुक्लादिभेदेन त्रिविधानां ज्ञानोदयात् पूर्वपूर्वकारणनिवृत्या निवृत्तिर्भवति ॥ २९॥ तेषु निवृत्तेषु किं भवतीत्याह --- तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ कैवल्य ३०॥ वृत्तिः --- आव्रियते चित्तमेभिरित्यावरणानि क्लेशास्त एव मलास्तेभ्योऽपेतस्य तद्विरहितस्य ज्ञानस्य गगननिभस्यानन्त्यादनवच्छेदाज्ज्ञेयमल्पं गणनास्पदं भवति । अक्लेशेनैव सर्वं ज्ञेयं जानातीत्यर्थः ॥ ३०॥ ततः किमित्याह --- ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ कैवल्य ३१॥ वृत्तिः --- कृतो निष्पादितो भोगापवर्गलक्षणः पुरुषार्थः प्रयोजनं यैस्ते कृतार्थाः । गुणाः सत्त्वरजस्तमांसि । तेषां परिणाम आपुरुषार्थसमाप्तेरानुलोम्येन प्रातिलोम्येनाङ्गाङ्गिभावः स्थितिलक्षणः । तस्य योऽसौ क्रमो वक्ष्यमाणस्तस्य परिसमाप्तिर्निष्ठा । न पुनरुद्भव इत्यर्थः ॥ ३१॥ क्रमस्योक्तस्य लक्षणमाह --- क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ कैवल्य ३२॥ वृत्तिः --- क्षणोऽल्पीयान् कालस्तस्य योऽसौ प्रतियोगी क्षणविलक्षणः परिणामापरान्तनिर्ग्राह्योऽनुभूतेषु क्षणेषु पश्चात् संकलनबुद्ध्यैव यो गृह्यते स क्षणानां क्रम उच्यते । न ह्यननुभूतेषु क्रमः परिज्ञातुं शक्यः ॥ ३२॥ इदानीं फलभूतस्य कैवल्यस्यासाधारणस्वरूपमाह --- पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति ॥ कैवल्य ३३॥ [ चितिशक्तिः इति बहुसम्मतः सूत्रपाठः । ] वृत्तिः --- समाप्तभोगापवर्गलक्षणपुरुषार्थानां गुणानां यः प्रतिप्रसवः प्रतिलोमस्य परिणामस्य समाप्तौ विकारानुद्भवो यदि व चितिशक्तेर्वृत्तिसारूप्यनिवृत्तौ स्वरूपमात्रेऽवस्थानं तत् कैवल्यमुच्यते ॥ ३३॥ तदेवं सिद्ध्यन्तरेभ्यो विलक्षणां सर्वसिद्धिमूलभूतां समाधिसिद्धिमभिधाय जात्यन्तरपरिणामलक्षणस्य च सिद्धिविशेषस्य प्रकृत्यापूरणमेव कारणमित्युपपाद्य धर्मादीनां प्रतिबन्धकनिवृत्तमात्रे एव सामर्थ्यमिति प्रदर्श्य निर्माणचित्तानामस्मितामात्रादुद्भव इत्युक्त्वा तेषां च योगिचित्तमेवाधिष्ठापकमिति प्रदर्श्य योगिचित्तस्य चित्तान्तरवैलक्षण्यमभिधाय तत्कर्मणामलौकिकत्वं चोपपाद्य विपाकानुगुणानां वासनानामभिव्यक्तिसामर्थ्यं कार्यकारणयोश्चैक्यप्रतिपादनेन व्यवहितानामपि वासनानामानन्तर्यमुपपाद्य तासामानन्त्येऽपि हेतुफलादिद्वारेण हानमुपदर्श्य अतीतादिष्वध्वसु धर्माणां सद्भावमुपपाद्य विज्ञानवादं निराकृत्य साकारवादं च प्रतिष्ठाप्य पुरुषस्य ज्ञातृत्वमुक्त्वा चित्तद्वारेण सकलव्यवहारनिष्पत्तिमुपपाद्य पुरुषसत्त्वे प्रमाणमुपदर्श्य कैवल्यनिर्णयाय दशभिः सूत्रैः क्रमेणोपयोगिनोऽर्थानभिधाय शास्त्रान्तरेऽप्येतदेव कैवल्यमित्युपपाद्य कैवल्यस्वरूपं निर्णीतमिति व्याकृतः कैवल्यपादः ।
[ इह श्रीभोजदेवस्य राजमार्तण्डवृत्तिर्वस्तुतः समाप्ता । तथाऽपि कतिपयानि पृष्ठानि प्रलापपूर्णानि संयोजितान्यस्मिन् स्थाने केनचित् पाषण्डेनाऽयौक्तिकानि तिरस्कृतानि च सर्वैरपि योगिभिः । न केवलं सर्वान्यपि दर्शनानि खण्डितानि किञ्चिद्वेदविरुद्धं मतमपि तेन प्रचारितम् । जिज्ञासोः पाठकस्य कौतूहलनिवृत्त्यर्थमेतानि पृष्ठान्यत्र समाविष्टानि । ]
[ न केवलमस्मद्दर्शने क्षेत्रज्ञः कैवल्यावस्थायामेवंविधश्चिद्रूपः यावद्दर्शनान्तरेष्वपि विमृष्यमाण एवंरूपोऽवतिष्ठते । तथाहि --- संसारदशायामात्मा कर्तृत्वभोक्तृत्वानुसन्धातृत्वमयः प्रतीयतेऽन्यथा यद्ययमेकः क्षेत्रज्ञस्तथाविधो न स्यात्तदा ज्ञानक्षणानामेव पूर्वापरानुसन्धातृशून्यानामात्मभावे नियतः कर्मफलसम्बन्धो न स्यात् कृतहानाकृताभ्यागमप्रसङ्गश्च । यदि येनैव शास्त्रोपदिष्टमनुष्ठितं कर्म तस्यैव भोक्तृत्वं भवेत्तदा हिताहितप्राप्तिपरिहाराय सर्वस्य प्रवृत्तिर्घटेत सर्वस्यैव व्यवहारस्य हानोपादानलक्षणस्यानुसन्धानेनैव प्राप्तत्वाज्ज्ञानक्षणानां परस्परभेदेनानुसन्धानशून्यत्वात् तदनुसन्धानाभावे कस्यचिदपि व्यवहारानुपपत्तेः कर्ता भोक्ताऽनुसन्धाता यः स आत्मेति व्यवस्थाप्यते । मोक्षदशायां तु सकलग्राह्यग्राहकलक्षणव्यवहाराभावाच्चैतन्यमात्रमेव तस्यावशिष्यते तच्चैतन्यं चितिमात्रत्वेनैवोपपद्यते न पुनरात्मसंवेदनेन । यस्माद्विषयग्रहणसमर्थनमेव चिते रूपं नात्मग्राहकत्वम् । तथाहि --- अर्थश्चित्या गृह्यमाणोऽयमिति गृह्यते स्वरूपं गृह्यमाणमहमिति न पुनर्युगपद्बहिर्मुखताऽन्तर्मुखतालक्षणव्यापारद्वयं परस्परविरुद्धं कर्तुं शक्यम् । अत एकस्मिन् समये व्यापारद्वयस्य कर्तुमशक्यत्वाच्चिद्रूपतयैवावशिष्यते । अतो मोक्षावस्थायां निवृत्ताधिकारेषु गुणेषु चिन्मात्ररूप एवात्माऽवतिष्ठत् इत्येव युक्तम् । संसारदशायां तु एवम्भूतस्यैव कर्तृत्वं भोक्तृत्वमनुसन्धातृत्वं च सर्वमुपपद्यते । तथाहि --- योऽयं प्रकृत्या सहानादिर्नैसर्गिकोऽस्य भोग्यभोक्तृत्वलक्षणसम्बन्धोऽविवेकख्यातिमूलः । अस्मिन् सति पुरुषार्थकर्तव्यतारूपशक्तिद्वयसद्भावे या महदादिभावेन परिणतिस्तस्यां संयोगे सति यदात्मनोऽधिष्ठातृत्वं चिच्छायासमर्पणसामर्थ्यं बुद्धिसत्त्वस्य च संक्रान्तचिच्छायाग्रहणसामर्थ्यं चिदवष्टब्धायाश्च बुद्धेर्योऽयं कर्तृत्वभोक्तृत्वाध्यवसायस्तत एव सर्वस्यानुसन्धानपूर्वकस्य व्यवहारस्य निष्पत्तेः किमन्यैः फल्गुभिः कल्पनाजल्पैः । यदि पुनरेवम्भूतमार्गव्यतिरेकेण पारमार्थिकमात्मनः कर्तृत्वाद्यङ्गीक्रियेत तदाऽस्य परिणामित्वप्रसङ्गः । परिणामित्वाच्चानित्यत्वे तस्याऽऽत्मत्वमेव न स्यात् । यथा ह्येकस्मिन्नेव समये एकेनैकरूपेण न परस्परविरुद्धावस्थानुभवः सम्भवति । तथाहि --- यस्यामवस्थायामात्मसमवेते सुखे समुत्पन्ने तस्यानुभवितृत्वं न तस्यामेवावस्थायां दुःखानुभवितृत्वम् । अतोऽवस्थानानात्वात् तदभिन्नस्यावस्थावतो नानात्वम् । नानात्वाच्च परिणामित्वान्नात्मत्वम् । नापि नित्यत्वम् । अत एव शान्तब्रह्मवादिभिः सांख्यैरात्मनः सदैव संसारदशायां मोक्षदशायां चैकं रूपमङ्गीक्रियते । ये तु वेदान्तवादिनश्चिदानन्दमयत्वमात्मनो मोक्षं मन्यन्ते तेषां न युक्तः पक्षः । तथाहि --- आनन्दस्य सुखस्वरूपत्वात् सुखस्य च सदैव संवेद्यमानतयैव प्रतिभासात् संवेद्यमानत्वं च संवेदनव्यतिरेकेणानुपपन्नमिति संबेद्यसंवेदनयोर्द्वयोरभ्युपगमादद्वैतहानिः । अथ सुखात्मकत्वमेव तस्योच्येत तद्विरुद्धधर्माध्यासादनुपपन्नम् । न हि संवेदनं संवेद्यं चैकं भवितुमर्हतीति । किञ्चाद्वैतवादिभिः कर्मात्मपरमात्मभेदेनात्मा द्विविधः स्वीकृतः । इत्थं च तत्र येनैव रूपेण सुखदुःखभोक्तृत्वं कर्मात्मनस्तेनैव रूपेण यदि परमात्मनः स्यात्तदा कर्मात्मवत् परमात्मनः परिणामित्वमविद्यास्वभावत्वं च स्यात् । अथ न तस्य साक्षाद्भोक्तृत्वं किन्तु तदुपढौकितमुदासीनतयाऽधिष्ठातृत्वेन स्वीकरोति तदाऽस्मद्दर्शनानुप्रवेशः । आनन्दरूपता च पूर्वमेव निराकृता । किञ्चाविद्यास्वभावत्वे निःस्वभावत्वात् कर्मात्मनां कः शास्त्राधिकारी । न तावन्नित्यनिर्मुक्तत्वात् परमात्मा । नाप्यविद्या स्वभावत्वात् कर्मात्मा । ततश्च सकलशास्त्रवैयर्थ्यप्रसङ्गः । अविद्यामयत्वे च जगतोऽङ्गीक्रियमाणे कस्याविद्येति विचार्यते । न तावत् परमात्मनो नित्यमुक्तत्वाद्विद्यारूपत्वाच्च । कर्मात्मनोऽपि परमार्थतो निःस्वभावतया शशविषाणप्रख्यत्वे कथमविद्यासम्बन्धः । अथोच्यते नम । एतदेवाविद्याया अविद्यात्वं यदविचारणीयत्वम् । यैव हि विचारेण दिनकरस्पृष्टनीहारवद्विमलमुपयाति साऽविद्येत्युच्यते । मैवम् । यद्वस्तु किञ्चित् कार्यं करोति तदवश्यं कुतश्चिद्भिन्नमभिन्नं वा वक्तव्यम् । अविद्यायाश्च संसारलक्षणकार्यकर्तृत्वमवश्यमङ्गीकर्तव्यम् । तस्मिन् सत्यपि यद्यनिर्वाच्यत्वमुच्यते तदा कस्यचिदपि वाच्यत्वं न स्यात् ब्रह्मणोऽप्यवाच्यत्वप्रसक्तिः । तस्मादधिष्ठातृतारूपव्यतिरेकेण नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वं च चिद्रूपत्वमेव तद्व्यतिरिक्तस्य धर्मस्य कस्यचित् प्रमाणानुपपत्तेः । यैरपि नैयायिकादिभिरात्मा चेतनायोगाच्चेतन इत्युच्यते चेतनापि तस्य मनःसंयोगजा । तथाहि --- इच्छाज्ञानप्रयत्नादयो ये गुणास्तस्य व्यवहारदशायामात्ममनःसंयोगादुत्पद्यन्ते तैरेव च गुणैः स्वयं ज्ञाता कर्ता भोक्तेति व्यपदिश्यते । मोक्षदशायां तु मिथ्याज्ञाननिवृत्तौ तन्मूलानां दोषाणामपि निवृत्तिः । तेषां बुद्ध्यादीनां विशेषगुणानामत्यन्तोच्छित्तिः स्वरूपमात्रप्रतिष्ठत्वमात्मनोऽङ्गीकृतं तेषामयुक्तः पक्षः । यतस्तस्यां दशायां नित्यत्वव्यापकत्वादयो गुणा आकाशादीनामपि सन्ति । अतस्तद्वैलक्षण्येनात्मनश्चिद्रूपत्वमवश्यमङ्गीकार्यम् । आत्मत्वविलक्षणजातियोग इति चेन्न । सर्वस्यैव तज्जातियोगः सम्भवति । अतो जातिभ्यो वैलक्षण्यमात्मनोऽवश्यमङ्गीकर्तव्यम् । तस्याधिष्ठातृत्वं चिद्रूपतयैव घटते नान्यथा । यैरपि मीमांसकैः कर्मकर्तृरूप आत्माऽङ्गीक्रियते तेषामपि न युक्तः पक्षः । तथाहि --- अहंप्रत्ययग्राह्य आत्मेति तेषां प्रतिज्ञा । अहंप्रत्यये च कर्तृत्वं कर्मत्वं चात्मन एव । न चैतद्विरुद्धत्वादुपपद्यते । कर्तृत्वं प्रमातृत्वं कर्मत्वं च प्रमेयत्वम् । न चैतद्विरुद्धधर्माध्यासो युगपदेकस्य घटते । यद्विरुद्धधर्माध्यस्तं न तदेकं यथा भावाभावौ । विरुद्धे च कर्तृत्वकर्मत्वे । अथोच्यते --- न कर्तृत्वकर्मत्वयोर्विरोधः किन्तु कर्तृत्वकरणत्वयोः । नैतद्युक्तम् । विरुद्धधर्माध्यासस्य तुल्यत्वात् कर्तृत्वकर्मत्वयोरेव विरोधो न कर्तृत्वकर्मत्वयोः । तस्मादहंप्रत्ययग्राह्यत्वंपरिहृत्यात्मनोऽधिष्ठातृत्वमेवोपपन्नम् । तच्च चेतनत्वमेव । यैरपि द्रव्यबोधपर्यायभेदेनात्मनोऽव्यापकस्य शरीरपरिमाणस्य परिणामित्वमिष्यते तेषामुत्थानपराहत एव पक्षः । परिणामित्वे चिद्रूपताहानिः । चिद्रूपताऽभावे किमात्मन आत्मत्वम् । तस्मादात्मन आत्मत्वमिच्छता चिद्रूपत्वमेवाङ्गीकर्तव्यम् । तच्चाधिष्ठातृत्वमेव । केचित् कर्तृरूपमेवात्मानमिच्छन्ति । तथाहि --- विषयसान्निध्ये या ज्ञानलक्षणा क्रिया समुत्पन्ना तस्या विषयसंवित्तिः फलम् । तस्यां च फलरूपायां संवित्तौ स्वरूपं प्रकाशरूपतया प्रतिभासते । विषयश्च ग्राह्यतया । आत्मा च ग्राहकतया । घटमहं जानामीत्याकारेण तस्याः समुत्पत्तेः । क्रियायाश्च कारणं कर्तेव भवतीत्यतः कर्तृत्वं भोक्तृत्वं चात्मनो रूपमिति । तदनुपपन्नम् । यस्मात्तासां संवित्तीनां स किं कर्तृत्वं युगपत् प्रतिपद्यते क्रमेण वा । युगपत् कर्तृत्वे क्षणान्तरे तस्य कर्तृत्वं न स्यात् । अथ क्रमेण कर्तृत्वं तदैकरूपस्य न घटते । एकेन रूपेण चेत्तस्य कतृत्वं तदैकस्य सदैव सन्निहितत्वात् सर्वं फलमेकरूपं स्यात् । अथ नानारूपतया तस्य कर्तृत्वम् । तदा परिणामित्वम् । परिणामित्वाच्च न चिद्रूपत्वम् । अतश्चिद्रूपत्वमात्मन इच्छद्भिर्न साक्षात्कर्तृत्वमङ्गीकर्तव्यम् । यादृशमस्माभिः कर्तृत्वमात्मनः प्रतिपादितं कूटस्थस्य नित्यस्य चिद्रूपस्य तदेवोपपन्नम् । एतेन स्वप्रकाशस्यात्मनो विषयसंवित्तिद्वारेण ग्राहकत्वमभिव्यज्यत इति ये वदन्ति तेऽपि अनेनैव निराकृताः । केचिद्विमर्शात्मकत्वेनात्मनश्चिन्मयत्वमिच्छन्ति । त आहुः --- न विमर्शव्यतिरेकेण चिद्रूपत्वमात्मनो निरूपयितुं शक्यम् । जडाद्वैलक्षण्यमेव चिद्रूपत्वमुच्यते । तच्च विमर्शव्यतिरेकेण निरूप्यमाणं नान्यथाऽवतिष्ठते । --- तदनुपपन्नम् । इदमित्थमेव रूपमिति यो विचारः सः विमर्श इत्युच्यते । स चास्मिताव्यतिरेकेण नोत्थानमेव लभते । तथाहि --- आत्मन्युपजायमानो विमर्शोऽहमेवम्भूत इत्यनेनाऽऽकारेण संवेद्यते । ततश्चाहंशब्दसम्भिन्नस्यात्मलक्षणस्याअर्थस्य तत्र स्फुरणान्न तत्र विकल्पस्वरूपताऽतिक्रमः । विकल्पश्चाध्यवसायात्मा बुद्धिधर्मो न चिद्धर्मः । कूटस्थनित्यत्वेन चितेः सदैकरूपत्वान्नित्यत्वान्नाहङ्कारानुप्रवेशः । तदनेन सविमर्शत्वमात्मनः प्रतिपादयता बुद्धिरेवात्मत्वेन भ्रान्त्या प्रतिपादिता न प्रकाशात्मनः परस्य पुरुषस्य स्वरूपमवगतमिति । इत्थं सर्वेष्वेव दर्शनेष्वधिष्ठातृत्वं विहाय नान्यदात्मनो रूपमुपपद्यते । अधिष्ठातृत्वं च चिद्रूपत्वम् । तच्च जडाद्वैलक्षण्यमेव । चिद्रूपतया यदधितिष्ठति तदेव भोग्यतां नयति । यच्च चेतनाधिष्ठितं तदेव सकलव्यापारयोग्यं भवति । एवं च सति नित्यत्वात् प्रधानस्य व्यापारनिवृत्तौ यदात्मनः कैवल्यमस्माभिरुक्तं तद्विहाय दर्शनान्तराणां नान्या गतिः । तस्मादिदमेव युक्तमुक्तं वृत्तिसारूप्यपरिहारेण स्वरूपे प्रतिष्ठा चितिशक्तेः कैवल्यम् । ] सर्वे यस्य वशाः प्रतापवसतेः पादान्तसेवानतिप्रभ्रश्यन्मुकुटेषु मूर्धसु दधत्याज्ञां धरित्रीभृतः । यद्वक्त्राम्बुजमाप्य गर्वमसमं वाग्देवता संश्रिता स श्रीभोजपतिः फणाधिपतिकृत्सूत्रेषु वृत्तिं व्यधात् ॥ इति श्रीधारेश्वरभोजदेवविरचितायां राजमार्तण्डाभिधायां पातञ्जलवृत्तौ कैवल्यपादश्चतुर्थः । समाप्तश्चायं ग्रन्थः । ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
अथ पातञ्जलयोगसूत्राणि । अथ समाधिपादः ॥ १॥ अथ योगानुशासनम् ॥ समाधि १॥ योगश्चित्तवृत्तिनिरोधः ॥ समाधि २॥ तदा द्रष्टुः स्वरूपेऽवस्थानम् ॥ समाधि ३॥ वृत्तिसारूप्यमितरत्र ॥ समाधि ४॥ वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः ॥ समाधि ५॥ प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ समाधि ६॥ प्रत्यक्षानुमानागमाः प्रमाणानि ॥ समाधि ७॥ विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ॥ समाधि ८॥ शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ समाधि ९॥ अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ समाधि १०॥ अनुभूतविषयासम्प्रमोषः स्मृतिः ॥ समाधि ११॥ अभ्यासवैराग्याभ्यां तन्निरोधः ॥ समाधि १२॥ तत्र स्थितौ यत्नोऽभ्यासः ॥ समाधि १३॥ स तु दीर्घकालादरनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ समाधि १४॥ दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् ॥ समाधि १५॥ तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् ॥ समाधि १६॥ वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः ॥ समाधि १७॥ विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ समाधि १८॥ भवप्रत्ययो विदेहप्रकृतिलयानाम् ॥ समाधि १९॥ श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ समाधि २०॥ तीव्रसंवेगानामासन्नः ॥ समाधि २१॥ मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ समाधि २२॥ ईश्वरप्रणिधानाद्वा ॥ समाधि २३॥ क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ समाधि २४॥ तत्र निरतिशयं सार्वज्ञ्यबीजम् ॥ समाधि २५॥ स पूर्वेषामपि गुरुः कालेनानवच्छेदात् ॥ समाधि २६॥ तस्य वाचकः प्रणवः ॥ समाधि २७॥ तज्जपस्तदर्थभावनम् ॥ समाधि २८॥ ततः प्रत्यक्चेतनाऽधिगमोऽप्यन्तरायाभावश्च ॥ समाधि २९॥ व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि चित्तविक्षेपास्तेऽन्तरायाः ॥ समाधि ३०॥ दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ॥ समाधि ३१॥ तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ॥ समाधि ३२॥ मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयानां भावनातश्चित्तप्रसादनम् ॥ समाधि ३३॥ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ॥ समाधि ३४॥ विषयवती वा प्रवृतिरुत्पन्ना स्थितिनिबन्धिनी ॥ समाधि ३५॥ विशोका वा ज्योतिष्मती ॥ समाधि ३६॥ वीतरागविषयं वा चित्तम् ॥ समाधि ३७॥ स्वप्ननिद्राज्ञानालम्बनं वा ॥ समाधि ३८॥ यथाभिमतध्यानाद्वा ॥ समाधि ३९॥ परमाणुपरममहत्त्वान्तोऽस्य वशीकारः ॥ समाधि ४०॥ क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ॥ समाधि ४१॥ शब्दार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का समापत्तिः ॥ समाधि ४२॥ स्मृतिपरिशुद्धौ स्वरूपशून्येवाऽर्थमात्रनिर्भासा निर्वितर्का ॥ समाधि ४३॥ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ॥ समधि ४४॥ सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ समाधि ४५॥ ता एव सबीजः समाधिः ॥ समाधि ४६॥ निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ समाधि ४७॥ ऋतम्भरा तत्र प्रज्ञा ॥ समधि ४८॥ श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ॥ समाधि ४९॥ [ प्रज्ञाभ्यां सामान्यविषया इति पाठोऽपि दृश्यते । ] तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ॥ समाधि ५०॥ तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः ॥ समाधि ५१॥ इति समाधिपादः ॥ १॥ अथ साधनपादः ॥ २॥ तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ साधन १॥ समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ साधन २॥ अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ साधन ३॥ अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् ॥ साधन ४॥ अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ साधन ५॥ दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ साधन ६॥ सुखानुशयी रागः ॥ साधन ७॥ दुःखानुशयी द्वेषः ॥ साधन ८॥ स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः ॥ साधन ९॥ ते प्रतिप्रसवहेयाः सूक्ष्माः ॥ साधन १०॥ ध्यानहेयास्तद्वृत्तयः ॥ साधन ११॥ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ साधन १२॥ सति मूले तद्विपाको जात्यायुर्भोगाः ॥ साधन १३॥ ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात् ॥ साधन १४॥ परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः ॥ साधन १५॥ हेयं दुःखमनागतम् ॥ साधन १६॥ द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ साधन १७॥ प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम् ॥ साधन १८॥ विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ साधन १९॥ द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ साधन २०॥ तदर्थ एव दृश्यस्यात्मा ॥ साधन २१॥ [तदर्थः एव ] कृतार्थं प्रति नष्टमप्यन्ष्टं तदन्यसाधारणत्वात् ॥ साधन २२॥ स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ साधन २३॥ तस्य हेतुरविद्या ॥ साधन २४॥ तदभावे संयोगाभावो हानं तद्दृशेः कैवल्यम् ॥ साधन २५॥ विवेकख्यातिरविप्लवा हानोपायः ॥ साधन २६॥ तस्य सप्तधा प्रान्तभूमौ प्रज्ञा ॥ साधन २७॥ [ तस्य सप्तधा प्रान्तभूमिः प्रज्ञा इति वा बहुसम्मतः सूत्रपाठः ] योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः ॥ साधन २८॥ यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि ॥ साधन २९॥ अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ साधन ३०॥ जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ॥ साधन ३१॥ शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ साधन ३२॥ वितर्कबाधने प्रतिपक्षभावनम् ॥ साधन ३३॥ वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति प्रतिपक्षभाअवनम् ॥ साधन ३४॥ अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ साधन ३५॥ सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ॥ साधन ३६॥ अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् ॥ साधन ३७॥ ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ साधन ३८॥ अपरिग्रहस्थैर्ये जन्मकथन्तासम्बोधः ॥ साधन ३९॥ शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ साधन ४०॥ सत्त्वशुद्धिसौमनस्यैकाग्रतेन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ साधन ४१॥ सन्तोषादनुत्तमः सुखलाभः ॥ साधन ४२॥ कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः ॥ साधन ४३॥ स्वाध्यायादिष्टदेवतासम्प्रयोगः ॥ साधन ४४॥ समाधिसिद्धिरीश्वरप्रणिधानात् ॥ साधन ४५॥ स्थिरसुखमासनम् ॥ साधन ४६॥ प्रयत्नशैथिल्यानन्त्यसमापत्तिभ्याम् ॥ साधन ४७॥ ततो द्वन्द्वानभिघातः ॥ साधन ४८॥ तस्मिन्सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः ॥ साधन ४९॥ स तु बाह्याभ्यन्तरस्तम्भवृत्तिर्देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः ॥ साधन ५०॥ बाह्याभ्यन्तरविषयाक्षेपी चतुर्थः ॥ साधन ५१॥ ततः क्षीयते प्रकाशावरणम् ॥ साधन ५२॥ धारणासु च योग्यता मनसः ॥ साधन ५३॥ स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ॥ साधन ५४॥ ततः परमा वश्यतेन्द्रियाणाम् ॥ साधन ५५॥ इति साधनपादः ॥ २॥ अथ विभूतिपादः ॥ ३॥ देशबन्धश्चित्तस्य धारणा ॥ विभूति १॥ तत्र प्रत्ययैकतानता ध्यानम् ॥ विभूति २॥ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ॥ विभूति ३॥ त्रयमेकत्र संयमः ॥ विभूति ४ ॥ तज्जयात्प्रज्ञालोकः ॥ विभूति ५ ॥ तस्य भूमिषु विनियोगः ॥ विभूति ६॥ त्रयमन्तरङ्गं पूर्वेभ्यः ॥ विभूति ७॥ तदपि बहिरङ्गं निर्बीजस्य ॥ विभूति ८॥ व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ॥ विभूति ९॥ तस्य प्रशान्तवाहिता संस्कारात् ॥ विभूति १०॥ सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥ विभूति ११॥ शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥ विभूति १२॥ एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥ विभूति १३॥ शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ विभूति १४॥ क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ विभूति १५॥ परिणामत्रयसंयमादतीतानागतज्ञानम् ॥ विभूति १६॥ शब्दार्थप्रत्ययानामितरेतराध्यासात्सङ्करस्तत्प्रविभागसंयमात्सर्वभूतरुतज्ञानम् ॥ विभूति १७॥ संस्कारसाक्षात्करणात्पूर्वजातिज्ञानम् ॥ विभूति १८॥ प्रत्ययस्य परचित्तज्ञानम् ॥ विभूति १९॥ न च तत्सालम्बनं तस्याविषयीभूतत्वात् ॥ विभूति २०॥ कायरूपसंयमात्तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासंयोगेऽन्तर्धानम् ॥ विभूति २१॥ सोपक्रमं निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ विभूति २२॥ मैत्र्यादिषु बलानि ॥ विभूति २३॥ बलेषु हस्तिबलादीनि ॥ विभूति २४॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ॥ विभूति २५॥ भुवनज्ञानं सूर्ये संयमात् ॥ विभूति २६॥ चन्द्रे ताराव्यूहज्ञानम् ॥ विभूति २७॥ ध्रुवे तद्गतिज्ञानम् ॥ विभूति २८॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ विभूति २९॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ विभूति ३०॥ कूर्मनाड्यां स्थैर्यम् ॥ विभूति ३१॥ मूर्धज्योतिषि सिद्धदर्शनम् ॥ विभूति ३२॥ प्रातिभाद्वा सर्वम् ॥ विभूति ३३॥ हृदये चित्तसंवित् ॥ विभूति ३४॥ सत्त्वपुरुषयोरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः परार्थान्यस्वार्थसंयमात्पुरुषज्ञानम् ॥ विभूति ३५॥ [ परार्थत्वात् स्वार्थसंयमात् इत्येव बहुसम्मतः सूत्रपाठः । ] ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ विभूति ३६॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः ॥ विभूति ३७॥ बन्धकारणशैथिल्यात्प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥ विभूति ३८॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ विभूति ३९॥ समानजयात्प्रज्वलनम् ॥ विभूति ४०॥ [ ज्वलनम् इत्येव् बहुसम्मतः सूत्रपाठः ] श्रोत्राकाशयोः सम्बन्धसंयमाद्दिव्यं श्रोत्रम् ॥ विभूति ४१॥ कायाकाशयोः सम्बन्धसंयमाल्लघुतूलसमापत्तेश्चाकाशगमनम् ॥ विभूति ४२॥ बहिरकल्पिता वृत्तिर्महाविदेहा ततः प्रकाशावरणक्षयः ॥ विभूति ४३॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ विभूति ४४॥ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्मानभिघातश्च ॥ विभूति ४५॥ रूपलावण्यबलवज्रसंहननत्वानि कायसम्पत् ॥ विभूति ४६॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादिन्द्रियजयः ॥ विभूति ४७॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ विभूति ४८॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ विभूति ४९॥ तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥ विभूति ५०॥ स्वाम्युपनिमन्त्रणे सङ्गस्मयाऽकरणं पुनरनिष्टप्रसङ्गात् ॥ विभूति ५१॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ विभूति ५२॥ जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ विभूति ५३॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ विभूति ५४॥ सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥ विभूति ५५॥ इति विभूतिपादः ॥ ३॥ अथ कैवल्यपादः ॥ ४॥ जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ कैवल्य १॥ जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥ कैवल्य २॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥ कैवल्य ३॥ निर्माणचित्तान्यस्मितामात्रात् ॥ कैवल्य ४॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥ कैवल्य ५॥ तत्र ध्यानजमनाशयम् ॥ कैवल्य ६॥ कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ कैवल्य ७॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥ कैवल्य ८॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ कैवल्य ९॥ तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ कैवल्य १०॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावः ॥ कैवल्य ११॥ अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ कैवल्य १२॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ कैवल्य १३॥ परिणामैकत्वाद्वस्तुतत्त्वम् ॥ कैवल्य १४॥ वस्तुसाम्ये चित्तभेदात्तयोर्विविक्तः पन्थाः ॥ कैवल्य १५॥ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ कैवल्य १६॥ सदा ज्ञाताश्चित्तवृत्तयः तत्प्रभोः पुरुषस्यापरिणामित्वात् ॥ कैवल्य १७॥ न तत्स्वाभासं दृश्यत्वात् ॥ कैवल्य १८॥ एकसमये चोभयानवधारणम् ॥ कैवल्य १९॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च ॥ कैवल्य २०॥ चित्तेरप्रतिसङ्क्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ कैवल्य २१॥ द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ॥ कैवल्य २२॥ तदसङ्ख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ कैवल्य २३॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ कैवल्य २४॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ कैवल्य २५॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ कैवल्य २६॥ हानमेषां क्लेशवदुक्तम् ॥ कैवल्य २७॥ प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिः ॥ कैवल्य २८॥ ततः क्लेशकर्मनिवृत्तिः ॥ कैवल्य २९॥ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम् ॥ कैवल्य ३०॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥ कैवल्य ३१॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ कैवल्य ३२॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तेरिति ॥ कैवल्य ३३॥ चितिशक्तिः इति बहुसम्मतः सूत्रपाठः । इति कैवल्य पादः ॥ ४॥ इति पातञ्जलयोगसूत्राणि ।
प्रमादाः सूर्यांशु रायाय प्रेषितव्याः । Encoded and proofread by Suryansu Ray suryansuray at yahoo.com

% Text title            : Bhoja-Vritti
% File name             : bhojavritti.itx
% itxtitle              : bhojavRitti
% engtitle              : BhojaVritti
% Category              : yoga
% Location              : doc_yoga
% Sublocation           : yoga
% Author                : Dhareshvara Bhojadeva
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Proofread by          : Dr. Suryanshu Ray suryansuray at yahoo.com
% Description-comments  : Commentary on Patanjali Yoga Sutras
% Latest update         : Dec. 21, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP