भातु भारतम्
मुनिभिरर्चितं देवपूजितं श्रुतिभिरूर्जितं शास्त्रचर्चितम् ।
प्रकृतिभूषितं ज्ञानसुन्दरं धरणिगौरवं भातु भारतम् ॥ १॥
सुरसरित्तटं सिन्धुशोभितं रुचिरपर्वतं कान्तकाननम् ।
कृषकसङ्कुलं सस्यश्यामलं विपुलगोब्रजं भातु भारतम् ॥ २॥
विविधबोधदैः सूरिभिश्चितं विमलबुद्धिभिर्क्षानिभिर्युतम् ।
विततकीर्तिभिः कोविदैः स्तुतं करुणमानसं भातु भारतम् ॥ ३॥
हरिनिषेवितं रामपावितं मुरघरक्षितं व्यासवर्णितम् ।
त्रिदशगोगुरुर्ब्राह्मणप्रियं रचितराष्ट्रकं भातु भारतम् ॥ ४॥
विदितसंस्कृतं ख्यातकौशलं विभवमण्डितं त्यागपण्डितम् ।
प्रयतमानुषं स्वर्णभूतलं सकलसुन्दरं भातु भारतम् ॥ ५॥
निहितपाकिकं चीनजित्वरं निरतरूसकं स्वस्य रक्षकम् ।
विपुलसम्पदं धर्मतत्परं प्रथितविक्रमं भातु भारतम् ॥ ६॥
सरलसूनृतं ग्राम्यजीवनं परमभावुकं भव्यमन्दिरम् ।
अनधकेतुकं स्वीयशासनं भुवनवन्दितं भातु भारतम् ॥ ७॥
-- वैद्यः रामस्वरूप शास्त्री
Encoded and proofread by Srinivas Kommireddy
srinivas.kommireddy at googlemail.com