भगवच्छरणस्तोत्रम्

भगवच्छरणस्तोत्रम्

श्रीगणेशाय नमः॥ (अनुष्तुप् वृत्तम् -) सच्चिदानन्दरूपाय भक्तानुग्रहकारिणे । मायानिर्मितविश्वाय महेशाय नमो नमः ॥ १॥ (वसन्ततिलका वृत्तम् -) रोगा हरन्ति सततं प्रबलाः शरीरं कामादयोऽप्यनुदिनं प्रदहन्ति चित्तम् । मृत्युश्च नृत्यति सदा कलयन् दिनानि तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ २॥ देहो विनश्यति सदा परिणामशीलश्चित्तं च खिद्यति सदा विषयानुरागि । बुद्धिः सदा हि रमते विषयेषु नान्तस्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ३॥ आयुर्विनश्यति यथामघटस्थतोयं विद्युत्प्रभेव चपला बत यौवनश्रीः । वृद्धा प्रधावति यथा मृगराजपत्नी तस्मात्त्वमद्य शरणं मम दीनबन्धो ॥ ४॥ आयाव्द्ययो मम भवत्यधिको विनीते कामादयो हि बलिनो निबलाः शमाद्याः । मृत्युर्यदा तुदति मां बत किं वदेयं तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ५॥ तप्तं तपो न हि कदापि मयेह तन्वा वाण्या तथा न हि कदापि तपश्च तप्तम् । मिथ्याभिभाषणपरेण न मानसं हि तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ६॥ स्तब्धं मनो मम सदा न हि याति सौम्यं चक्षुश्च मे न तव पश्यति विश्वरूपम् । वाचा तथैव न वदेन्मम सौम्यवाणीं तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ७॥ सत्त्वं न मे मनसि याति रजस्तमोभ्यां विद्धे तदा कथमहो शुभकर्मवार्ता । साक्षात्परंपरतया सुखसाधनं तत्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ८॥ पूजा कृता न हि कदाऽपि मया त्वदीया मन्त्रं त्वदीयमपि मे न जपेद्रसज्ञा । चित्तं न मे स्मरति ते चरणौ ह्यवाप्य तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ९॥ यज्ञो न मेऽस्ति हुतिदानदयादि युक्तो ज्ञानस्य साधनगणो न विवेकमुख्यः । ज्ञानं क्व साधनगणेन विना क्व मोक्षस्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ १०॥ सत्संगतिर्हि विदिता तव भक्तिहेतुः साऽप्यद्य नास्ति बत पंडितमानिनो मे । तामन्तरेण न हि सा क्व च बोधवार्ता तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ ११॥ दृष्टिर्न भूतविषया समताभिधाना वैषम्यमेव तदियं विषयीकरोति । शान्तिः कुतो मम भवेत्समता न चेत्स्यात्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ १२॥ मैत्री समेषु न च मेऽस्ति कदापि नाथ दीने तथा न करुणा मुदिता च पुण्ये । पापेऽनुपेक्षणवतो मम मुत्कथं स्यात्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ १३॥ नेत्रादिकं मम बहिर्विषयेषु सक्तं नान्तर्मुखं भवति तामविहाय तस्य । क्वान्तर्मुखत्वमपहाय सुखस्य वार्ता तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ १४॥ त्यक्तं गृहाद्यपि मया भवतापशान्त्यै नासीदसौ हृतहृदो मम मायया ते । सा चाधुना किमु विधास्यति नेति जाने तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ १५॥ प्राप्ता धनं गृहकुटुम्बगजाश्वदारा राज्यं यदैहिकमथेन्द्रपुरश्च नाथ । सर्वं विनश्वरमिदं न फलाय कस्मै तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ १६॥ प्राणान्निरुध्य विधिना न कृतो हि योगो योगं विनाऽस्ति मनसः स्थिरता कुतो मे । तां वै विना मम न चेतसि शान्तिवार्ता तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ १७॥ ज्ञानं यथा मम भवेत्कृपया गुरूणां सेवां तथा न विधिनाऽकरवं हि तेषाम् । सेवाऽपि साधनतया विदितास्ति चित्ते तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ १८॥ तीर्थादिसेवनमहाविधिना हि नाथ नाकारि येन मनसो मम शोधनं स्यात् । शुद्धिं विना न मनसोऽवगमापवर्गौ तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ १९॥ वेदान्तशीलनमपि प्रमितिं करोति ब्रह्मात्मनः प्रमितिसाधनसंयुतस्य । नैवाऽस्ति साधनलवो मयि नाथ तस्यास्तस्मात्त्वमद्यशरणं मम दीनबन्धो ॥ २०॥ गोविन्द शंकर हरे गिरिजेश मेश शम्भो जनार्दन गिरीश मुकुन्द साम्ब । नान्या गतिर्मम कथंचन वां विहाय तस्मात्प्रभो मम गतिः कृपया विधेया ॥ २१॥ एतत्स्तवं भगवदाश्रयणाभिधानं ये मानवाः प्रतिदिनं प्रणताः पठन्ति । ते मानवा भवरतिं परिभूय शान्तिं गच्छन्ति किं च परमात्मनि भक्तिमद्धा ॥ २२॥ इति श्रीमन्मौक्तिकरामोदासीनशिष्यब्रह्मानन्दविरचितं भगवच्छरणस्तोत्रं सम्पूर्णम्॥
% Text title            : bhagavachCharaNastotram
% File name             : bhagavachCharaNastotram.itx
% itxtitle              : bhagavachCharaNastotram
% engtitle              : Bhagavat Sharanastotram
% Category              : misc, stotra, vedanta, brahmAnanda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Texttype              : stotra
% Author                : mauktikarAmodAsInashiShyabrahmAnanda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Indexextra            : (Hindi)
% Latest update         : June 13, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org