भगवत्स्तुती ब्रह्मवैवर्तपुराणे

भगवत्स्तुती ब्रह्मवैवर्तपुराणे

अथ त्रिंशोऽध्ययः । श्रीनारायण उवाच । लम्बोदरो हरिरूमापतिरादिशेषब्रह्मादयः सुरगणा मनवो मुनीन्द्राः । वाणीशिवात्रिपथगाकमलादिकाश्च संचिन्तयेभ्दगवतश्चरणारविन्दम् ॥ १॥ सन्सारसागरमतीव गभीरघोरं दावाग्निसर्पपरिवेष्टितेचेष्टिताङ्गम् । संलङ्घ्य गन्तुमभिवाञ्छति यो हि दास्यं संचिन्तयेद्भगवतश्चरणारविन्दम् ॥ २॥ गोवर्धनोद्धरणकीर्तिरतीवखिन्ना भूर्धारिता च दशनाग्रत एव चाऽऽद्रा । विश्वानि लोमविवरेषु बिभर्तुरादेः संचिन्त्येद्भगवतश्चरणारविन्दम् ॥ ३॥ वेदाङ्गवेदमुखनिःसृत्कीर्तिरंशैर्वेदाङ्ग्वेदजनकस्य हरेर्विधातुः । जन्मान्तकादिभयशोकविदीर्णदेह्ः संचिन्त्येद्भगवतश्चरणारविन्दम् ॥ ४॥ गोपाङ्गनावदनपङ्जषट्पदस्य रासेश्वरस्य रसिकारमणस्य पुंस्ः । वृन्दावने विहरतो व्रज्वेषविष्णोः संचिन्त्येद्भगवतश्चरणारविन्दम् ॥ ५॥ चक्षुर्निमेषपतितो जगतां विधाता तत्कर्म वत्स कथितुं भुवि कः समर्थः । त्वं चापि नारदमुने परमादरेण सञ्चिन्तनं कुरु हरेश्चरणारविन्दम् ॥ ६॥ यूयं वयं तस्य कलाकलांशाः कलाकलांशाः मनवो मुनीन्द्राः । कलाविशेषा भवपाद्ममुख्या महान्विराङ् यस्य कलाविशेषः ॥ ७॥ सहश्रशीर्षा शिरसः प्रदेशे बिभर्ति सिधार्थसमं च विश्वम् । कूर्मे च शेषो मश्को गजे यथा कूर्मश्च कृष्णस्य कलाकलांशः ॥ ८॥ गोलोकनाथस्य विभोर्यशोऽमलं श्रुतौ पुराणे नहि किंचन स्फुटम् । न पाद्ममुख्याः कथितुं समर्थाः सर्वेश्वरं तं भज पाद्मपुत्र ॥ ९॥ विश्वेषु सर्वेषु च विश्वधाम्नः सन्त्येव शश्वद्विधिविष्णुरुद्राः । तेषां च संख्याः श्रुतयश्च देवाः परं न जानन्ति तमीश्वरं भज ॥ १०॥ करोति सृष्टिं स विधेर्विधाता विधाय नित्यां प्रकृतिं जगत्प्रसूम् । ब्रह्मादयः प्राकृतिकाश्च सर्वे भक्तिप्रदां श्रीं प्रकृतिं भजन्ति ॥ ११॥ ब्रह्मस्वरुपा प्रक्रृतिर्न भिन्ना यया च सृष्टिं कुरुते सनातनः । स्त्रियश्च सर्वाः कलया जगत्सु माया च सर्वे च तया विमोहिताः ॥ १२॥ नारायणी सा परमा सनातनी शक्तिश्च पुंसः परमात्मनश्च । आत्मेश्वरश्चापि यया च शक्तिमांस्तया विना स्रष्टुमशक्त एव ॥ १३॥ गत्वा विवाहं कुरु वत्स सांप्रतं कर्तु प्रयुक्तश्च पितुनिर्देशः । गुरोर्निदेशप्रतिपालको भवेः सर्वत्र पूज्यो विजयी च संततम् ॥ १४॥ स्वपत्नीं पूज्येधो हि वस्त्रालंकारचन्दनैः । प्रकृतिसतस्य संतुष्टा यथा कृष्णो द्विजार्चने ॥ १५॥ सा च योषित्स्वरुपा च प्रतिविश्वेषु मायया । योषितामपमानेन पराभूता च सा भवेत् ॥ १६॥ दिव्या स्त्री पूजिता येन पतिपुत्रवती सती । प्रकृतिः पूजिता तेन सर्वमङ्गलदायिनी ॥ १७॥ मूलप्रकृतिरेका सा पूर्णब्रह्मास्वरुपिणी । सृष्टौ पञ्चविधा सा च विष्णुमाया सनातनी ॥ १८॥ प्राणाधिष्ठातॄदेवी या कृष्णस्य परमात्मनः । सर्वासां प्रेयसी कान्ता सा राधा परिकीरिता ॥ १९॥ नारायणप्रिया लक्ष्मीः सर्वसम्पत्स्वरुपिणी । वागधिष्ठातृदेवी या सा च पूज्या सरस्वती ॥ २०॥ सावित्री वेदमाता च पूज्यरूपा विधेः प्रिया । शंकरस्य प्रिया दुर्गा यस्याः पुत्रो गणेश्वरः ॥ २१॥ इति श्रीब्रह्म्वैवर्ते महापुराणे ब्रह्म्खण्डे सौतिशौनकसंवादे भगवत्स्तुतितत्स्वरुपमाय़ास्वरूपवर्णनं नाम त्रिंशोऽध्यायः ॥ ३०॥
brahmavaivartapurANa brahmakhaNDam adhyAya 30 Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com
% Text title            : bhagavatstuti brahmavaivartapurANe
% File name             : bhagavatstutiBVP.itx
% itxtitle              : bhagavatstutiH  (brahmavaivartapurANAntargatA)
% engtitle              : Bhagavatstuti from brahmavaivartapurANa
% Category              : purana, stotra
% Location              : doc_z_misc_general
% Sublocation           : purana
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Proofread by          : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Description-comments  : brahmavaivartapurANa brahmakhaNDam adhyAya 30
% Indexextra            : (brahmavaivartapurANa)
% Latest update         : January 27, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org