मोहनाष्टकम्
रोगैः समाकुले देशे पापे वृद्धिङ्गते तथा
परैर्गृहीत सर्वस्वे जने निर्धनतां गते ॥ १॥
ममायं देश इत्येवं भावेऽप्याङ्ग्लैर्विनाशिते
गान्धी महाशयो लोकं रक्षितुं जनिमग्रहीत् ॥ २॥
कृष्णेन यत्कृतं कर्म यत्कृतं गौतमेन च
तदेव मोहनः कर्तुमुधुक्तो वर्ततेऽधुना ॥ ३॥
अर्थान्धैः परिपीडितान्गतबलान्दीनाञ्जनानुद्धरन्
तप्त्वा तीव्रतमं तपः परहितं कर्तुं सदा सोद्यमः ।
अल्पाकल्पवृतो विकल्परहितः सङ्कल्पशक्त्यायुतः
जीयाद्भारतवर्षभक्तप्रवरो गान्धीः सदा शुद्धधीः ॥ ४॥
भारतोद्धरणार्थं यो जातो जगति धर्मवित् ।
विना शस्त्रैर्जयो यस्य मोहनं तं नमाम्यहम् ॥ ५॥
मोहनं शत्रुसङ्घानां मोहनं सुहृदां तथा ।
निस्त्रैगुण्यं जितात्मानं मोहनं प्रणमाम्यहम् ॥ ६॥
धर्मयुद्धे जना येन वयं सर्वे निमन्त्रिताः ।
सोऽयमद्य पुरोऽस्माकं वर्तते पुरुषर्षभः ॥ ७॥
कुत्वा शिरसि तस्याज्ञां तद्वर्त्मपरिगृह्य च ।
ईप्सितं प्राप्नुयामेति दिशतु कमलापतिः ॥ ८॥
इति मोहनाष्टकम् ।
Mahatma Gandhi's name was Mahandas Karamchand Gandhi
Proofread by Jonathan Wiener wiener78 at sbcglobal.net