पतिव्रतायाः श्रीपतिमङ्गलस्तोत्रम्

पतिव्रतायाः श्रीपतिमङ्गलस्तोत्रम्

श्रीगणेशाय नमः ॥ ॐ नमः कान्ताय भर्त्रे च शिवचन्द्रस्वरूपिणे । नमः शान्ताय दान्ताय सर्वदेवाश्रयाय च ॥ १॥ नमो ब्रह्मण्यरूपाय सतीप्राणपराय च । नमस्याय च पूज्याय हृदाधाराय ते नमः ॥ २॥ पञ्चप्राणाधिदेवाय चक्षुषस्तारकाय च । ज्ञानाधाराय पत्नीनां परमानन्दरूपिणे ॥ ३॥ पतिर्ब्रह्मा पतिर्विष्णुः पतिरेव महेश्वरः । पतिश्च निर्गुणाधारी ब्रह्मरूप नमोऽस्तु ते ॥ ४॥ क्षमस्व भगवन् दोषं ज्ञानाज्ञानकृतं च यत् । पत्नीबन्धो दयासिन्धो दासीदोषं क्षमस्व मे ॥ ५॥ इदं स्तोत्रं महापुण्यं सृष्ट्यादौ यन्मया कृतम् । सरस्वत्या च धरया गङ्गया च पुरा व्रजे ॥ ६॥ सावित्र्या च कृतं पूर्वं ब्रह्मणे चापि नित्यशः । पार्वत्या च कृतं भक्त्या कैलासे शङ्कराय च ॥ ७॥ मुनीनां च सुराणां च पत्नीभिस्तु कृतं पुरा । पतिव्रतानां सर्वासां स्तोत्रमेतच्छुभावहम् ॥ ८॥ इदं स्तोत्रं महापुण्यं या श‍ृणोति पतिव्रता । नरोऽन्यो वापि नारी वा लभते सर्वाञ्छितम् ॥ ९॥ अपुत्रो लभते पुत्रं निर्धनो लभते धनम् । रोगी च मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ १०॥ पतिव्रता च स्तुत्वा च तीर्थस्नानफलं लभेत् । फलं च सर्वतपसां व्रतानां च व्रजेश्वर ॥ ११॥ इदं स्तुत्वा नमस्कृत्वा भुङ्क्ते सा तदनुज्ञया । एष पतिव्रताधर्म एष धर्मः सनातनः ॥ १२॥ इति श्रीब्रह्मवैवर्ते श्रीकृष्णनन्दसंवादे पतिव्रतामाहात्म्ये पतिमङ्गलस्तोत्रं सम्पूर्णम् । Encoded and proofread by Jonathan Wiener wiener 78 at sbcglobal.net
% Text title            : patimangalastotram
% File name             : patimangalastotram.itx
% itxtitle              : patimaNgalastotram pativratAyAH (brahmavaivartapurANAntargatam)
% engtitle              : Patimangalastotram
% Category              : misc, mangala
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jonathan Wiener wiener78 at sbcglobal.net
% Proofread by          : Jonathan Wiener, NA
% Description-comments  : Brahmavaivartapurana
% Indexextra            : (Meaning, Hindi)
% Latest update         : August 15, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org