प्रयागाष्टकम्

प्रयागाष्टकम्

श्रीगणेशाय नमः । मुनय ऊचुः सुरमुनिदितिजेन्द्रैः सेव्यते योऽस्ततन्द्रैर्गुरुतरदुरितानां का कथा मानवानाम् । स भुवि सुकृतकर्तुर्वाञ्छितावाप्तिहेतुर्जयति विजितयागस्तीर्थराजः प्रयागः ॥ १॥ श्रुतिः प्रमाणं स्मृतयः प्रमाणं पुराणमप्यत्र परं प्रमा णम् । यत्रास्ति गङ्गा यमुना प्रमाणं स तीर्थराजो जयति प्रयागः ॥ २॥ न यत्र योगाचरणप्रतीक्षा न यत्र यज्ञेष्टिविशिष्टदीक्षा । न तारकज्ञानगुरोरपेक्षा स तीर्थराजो जयति प्रयागः ॥ ३॥ चिरं निवासं न समीक्षते यो ह्युदारचित्तः प्रददाति च क्रमात् । यः कल्पिताथांर्श्च ददाति पुंसः स तीर्थराजो जयति प्रयागः ॥ ४॥ यत्राप्लुतानां न यमो नियन्ता यत्रास्थितानां सुगतिप्रदाता । यत्राश्रितानाममृतप्रदाता स तीर्थराजो जयति प्रयागः ॥ ५॥ पुर्यः सप्त प्रसिद्धाःप्रतिवचनकरीस्तीर्थराजस्य नार्यो नैकटयान्मुक्तिदाने प्रभवति सुगुणा काश्यते ब्रह्म यस्याम् । सेयं राज्ञी प्रधाना प्रियवचनकरी मुक्तिदानेन युक्ता येन ब्रह्माण्डमध्ये स जयति सुतरां तीर्थराजः प्रयागः ॥ ६॥ तीर्थावली यस्य तु कण्ठभागे दानावली वल्गति पादमूले । व्रतावली दक्षिणपादमूले स तीर्थराजो जयति प्रयागः ॥ ७॥ आज्ञापि यज्ञाः प्रभवोऽपि यज्ञाः सप्तर्षिसिद्धाः सुकृतानभिज्ञाः । विज्ञापयन्तः सततं हि काले स तीर्थराजो जयति प्रयागः ॥ ८॥ सितासिते यत्र तरङ्गचामरे नद्यौ विभाते मुनिभानुकन्यके । लीलातपत्रं वट एक साक्षात्स तीर्थराजो जयति प्रयागः ॥ ९॥ तीर्थराजप्रयागस्य माहात्म्यं कथयिष्यति । श‍ृण्वतः सततं भक्त्या वाञ्छितं फलमाप्नुयात् ॥ १०॥ इति श्रीमत्स्यपुराणे प्रयागराजमाहात्म्याष्टकं समाप्तम् ॥ Encoded and proofread by Dinesh Agarwal dinesh.garghouse at gmail.com
% Text title            : prayAgAShTakam
% File name             : prayAgAShTakam.itx
% itxtitle              : prayAgAShTakam
% engtitle              : prayAgAShTakam
% Category              : aShTaka, misc, stotra
% Location              : doc_z_misc_general
% Sublocation           : misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dinesh Agarwal  dinesh.garghouse at gmail.com
% Proofread by          : Dinesh Agarwal, PSA Easwaran
% Indexextra            : (Scan)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org