श्रीरामकृष्ण विलोम काव्यं (कवि सूर्य)
तं भूसुतामुक्तिमुदारहासं
वन्दे यतो भव्यभवं दयाश्रीः ।
श्रीयादवं भव्यभतोयदेवं
संहारदामुक्तिमुतासुभूतम् ॥ १॥
चिरं विरंचिर्न चिरं विरंचिः
साकारता सत्यसतारका सा ।
साकारता सत्यसतारका सा
चिरं विरंचिर्न चिरं विरंचिः ॥ २॥
तामसीत्यसति सत्यसीमता
माययाक्षमसमक्षयायमा ।
माययाक्षसमक्षयायमा
तामसीत्यसति सत्यसीमता ॥ ३॥
का तापघ्नी तारकाद्या विपापा
त्रेधा विद्या नोष्णकृत्यं निवासे ।
सेवा नित्यं कृष्णनोद्या विधात्रे
पापाविद्याकारताघ्नी पताका ॥ ४॥
श्रीरामतो मध्यमतोदि येन
धीरोऽनिशं वश्यवतीवराद्वा
द्वारावतीवश्यवशं निरोधी
नयेदितो मध्यमतोऽमरा श्रीः ॥ ५॥
कौशिके त्रितपसि क्षरव्रती
योऽददाद्ऽद्वितनयस्वमातुरम् ।
रन्तुमास्वयन तद्विदादयोऽ
तीव्ररक्षसि पतत्रिकेशिकौ ॥ ६॥
लम्बाधरोरु त्रयलम्बनासे
त्वं याहि याहि क्षरमागताज्ञा ।
ज्ञातागमा रक्ष हि याहि या त्वं
सेना बलं यत्र रुरोध बालम् ॥ ७॥
लङ्कायना नित्यगमा धवाशा
साकं तयानुन्नयमानुकारा ।
राकानुमा यन्ननु यातकंसा
शावाधमागत्य निनाय कालम् ॥ ८॥
गाधिजाध्वरवैरा ये
तेऽतीता रक्षसा मताः ।
तामसाक्षरतातीते
ये रावैरध्वजाधिगाः ॥ ९॥
तावदेव दया देवे
यागे यावदवासना ।
नासवादवया गेया
वेदे यादवदेवता ॥ १०॥
सभास्वये भग्नमनेन चापं
कीनाशतानद्धरुषा शिलाशैः ।
शैलाशिषारुद्धनताशनाकी
पञ्चानने मग्नभये स्वभासः ॥ ११॥
न वेद यामक्षरभामसीतां
का तारका विष्णुजितेऽविवादे ।
देवाविते जिष्णुविकारता का
तां सीमभारक्षमयादवेन ॥ १२॥
तीव्रगोरन्वयत्रार्यो
वैदेहीमनसो मतः ।
तमसो न महीदेवै-
र्यात्रायन्वरगोव्रती ॥ १३॥
वेद या पद्मसदनं
साधारावततार मा ।
मारता तव राधा सा
नन्द सद्मप यादवे ॥ १४॥
शैवतो हननेऽरोधी
यो देवेषु नृपोत्सवः ।
वत्सपो नृषु वेदे यो
धीरोऽनेन हतोऽवशैः ॥ १५॥
नागोपगोऽसि क्षर मे पिनाकेऽ
नायोऽजने धर्मधनेन दानम् ।
नन्दानने धर्मधने जयो ना
केनापि मे रक्षसि गोपगो नः ॥ १६॥
ततान दाम प्रमदा पदाय
नेमे रुचामस्वनसुन्दराक्षी ।
क्षीरादसुं न स्वमचारु मेने
यदाप दाम प्रमदा नतातः ॥ १७॥
तामितो मत्तसूत्रामा
शापादेष विगानताम् ।
तां नगाविषदेऽपाशा
मात्रासूत्तमतो मिता ॥ १८॥
नासावद्यापत्रपाज्ञाविनोदी
धीरोऽनुत्या सस्मितोऽद्याविगीत्या ।
त्यागी विद्यातोऽस्मि सत्त्यानुरोधी
दीनोऽविज्ञा पात्रपद्यावसाना ॥ १९॥
संभावितं भिक्षुरगादगारं
याताधिराप स्वनघाजवंशः ।
शवं जघान स्वपराधिताया
रङ्गादगारक्षुभितं विभासम् ॥ २०॥
तयातितारस्वनयागतं मा
लोकापवादद्वितयं पिनाके ।
केनापि यं तद्विदवाप कालो
मातंगयानस्वरतातियातः ॥ २१॥
शवेऽविदा चित्रकुरङ्गमाला
पञ्चावटीनर्म न रोचते वा ।
वातेऽचरो नर्मनटीव चापं
लामागरं कुत्रचिदाविवेश ॥ २२॥
नेह वा क्षिपसि पक्षिकंधरा
मालिनी स्वमतमत्त दूयते ।
ते यदूत्तमतम स्वनीलमा-
राधकं क्षिपसि पक्षिवाहने ॥ २३॥
वनान्तयानस्वणुवेदनासु
योषामृतेऽरण्यगताविरोधी ।
धीरोऽवितागण्यरते मृषा यो
सुनादवेणुस्वनयातनां वः ॥ २४॥
किं नु तोयरसा पम्पा
न सेवा नियतेन वै ।
वैनतेयनिवासेन
पापं सारयतो नु किम् ॥ २५॥
स नतातपहा तेन
स्वं शेनाविहितागसम् ।
संगताहिविनाशे स्वं
नेतेहाप ततान सः ॥ २६॥
कपितालविभागेन
योषादोऽनुनयेन सः ।
स नये ननु दोषायो
नगे भाविलतापिकः ॥ २७॥
ते सभा प्रकपिवर्णमालिका
नाल्पकप्रसरमभ्रकल्पिता ।
ताल्पिकभ्रमरसप्रकल्पना
कालिमर्णव पिक प्रभासते ॥ २८॥
रावणेऽक्षिपतनत्रपानते
नाल्पकभ्रमणमक्रमातुरम् ।
रन्तुमाक्रमणमभ्रकल्पना
तेन पात्रनतपक्षिणे वरा ॥ २९॥
दैवे योगे सेवादानं
शङ्का नाये लङ्कायाने ।
नेयाकालं येनाकाशं
नन्दावासे गेयो वेदैः ॥ ३०॥
शङ्कावज्ञानुत्वनुज्ञावकाशं
याने नद्यामुग्रमुद्याननेया ।
याने नद्यामुग्रमुद्याननेया
शंकावज्ञानुत्वनुज्ञावकाशम् ॥ ३१॥
वा दिदेश द्विसीतायां
यं पाथोयनसेतवे ।
वैतसेन यथोपायं
यन्तासीद्ऽविशदे दिवा ॥ ३२॥
वायुजोऽनुमतो नेमे
संग्रामेऽरवितोऽह्नि वः ।
वह्नितो विरमे ग्रासं
मेनेऽतोऽमनुजो युवा ॥ ३३॥
क्षताय मा यत्र रघोरितायु-
रङ्कानुगानन्यवयोऽयनानि ।
निनाय यो वन्यनगानुकारं
युतारिघोरत्रयमायताक्षः ॥ ३४॥
तारके रिपुराप श्री-
रुचा दाससुतान्वितः ।
तन्वितासु सदाचारु
श्रीपुरा पुरि के रता ॥ ३५॥
लङ्का रङ्कांगराध्यासं
याने मेया काराव्यासे ।
सेव्या राका यामे नेया
संध्यारागाकारं कालम् ॥ ३६॥
॥ इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं
विलोमाक्षररामकृष्णकाव्यं समाप्तम् ॥
Encoded and proofread by P. P. Narayanaswami at swami at math.mun.ca