॥ संस्कृताष्टकम् ॥

अग्रतः संस्कृतं मेऽस्तु पृष्ठतो मेऽस्तु संस्कृतम् । संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥ १॥ संस्कृतं देवभाषाऽस्ति वेदभाषाऽस्ति संस्कृतम् । प्राचीन-ज्ञान-भाषा च संस्कृतं भद्रमण्डनम् ॥ २॥ वेदान्तानां पुराणानां शास्त्राणां च तथैव च । मंत्राणां तंत्रसूत्राणाम् आद्यभाषाऽस्ति संस्कृतम् ॥ ३॥ रामायणं महाकाव्यं महाभारतमेव च । उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥ ४॥ भासस्य कालिदासस्य भवभूतेश्च विश्रुता । बाण-शूद्रक-हर्षाणाम् काव्यभाषाऽस्ति संस्कृतम् ॥ ५॥ प्राणभूतं च यत्तत्त्वं सारभूतं तथैव च । संस्कृतौ भारतस्याऽस्य तन्मे यच्छतु संस्कृतम् ॥ ६॥ यत्र रामकथागानम् तत्राऽस्ते हनुमान् यथा । संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥ ७॥ शृणुमः संस्कृतं नित्यं वदामः संस्कृतं तथा । स्मरामः संस्कृतं नित्यं पठामः संस्कृतं तथा ॥ ८॥
रचनाकारः वसन्तः शंकरसुतः नानिवडेकरः । Composed by Mr. Vasant Shankar Nanivadekar Mr. V. S. Nanivadekar 1/18 Goregaonkar Chawl, Near Central Cinema, Girgaon, Mumbai 400004 India
% Text title            : amarasa.nvaada Sanskrit Arati translated from Marathi
% File name             : sanskrit8.itx
% itxtitle              : sa.nskRitAShTakam
% engtitle              : Praise of Sanskrit Language
% Category              : arati, misc, sahitya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Author                : Vasant Shankar Nanivadekar
% Language              : Sanskrit
% Subject               : kaavya/religion
% Transliterated by     : N
% Proofread by          : N
% Latest update         : October 8, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP