संन्यासि गीतिका

संन्यासि गीतिका

गीतं गाय सुतुङ्गतानसहितं दूरात्सुदूरोत्थितं संसारोद्भवदोषलेशरहितश्श्वेताद्रिगर्भोद्भवम् । उत्पन्नं च वनस्थलेऽतिगहने,--तद्ध्येव दोध्वन्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । शान्तिर्यस्य कदापि वै धनयशःकामैर्न संभिद्यते यस्मिंश्चापि सुमुक्तिदा प्रवहति ज्ञानस्य गङ्गा सदा । सत्यानन्दविधारिणी भगवती,--तत्रोत्थितं गीयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । १ पाशांश्छिन्धि ततः स्वकांश्च सततं ये त्वां निबध्नन्ति वै सौवर्णांश्च तथा चमत्कृतिमतो लोहादियुक्तांश्च वा । रागद्वेषशुभाशुभं च , --सकला द्वन्द्वावली दूयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । संश्लिष्टोऽथ च दण्डितोऽपि कशया दासस्तु दासो हि सः सौवर्णस्य विघट्टितो यदि भवेत् पाशस्तु पाशो यतः । बन्धायैव समर्थितः,--परमतः पाशश्च विच्छिद्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । २ दूरं गच्छतु मोहजालजटिलं तामिस्रभूतन्तमः येनैतद्धि सुबुद्धिविभ्रमकरैः संवर्ध्यतेऽन्धन्तमः । एवं मोहमयी हि जीवनतृषा--सा सर्वथा शम्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । उत्पत्तेश्च मृतिं मृतेश्च जननं जीवोऽनयाकृष्यते स्वात्मा येन जितः सखे श‍ृणु जगत्तेनैव सञ्जीयते । विद्ध्येवं च सदैव मोक्षणविधौ धृत्या व्यवस्थीयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । ३ ᳚ वप्ता भुङ्क्ष्यति निश्चितं फलमतः, कार्यं च वै कारणात् भद्राद्भद्रमथाशुभादशुभमप्येतद्व्यवस्थापितम् । शक्तः कोऽपि न लङ्घितुं कथमपि ᳚ त्वेवं त्वया बुद्ध्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । ᳚यस्त्वाकारमवाप्स्यति ध्रुवमिदं बद्धो भविष्यत्यसौ᳚ एतत्सत्यमथापि भो ! श‍ृणु, सदा मुक्तः सदात्मा यतः । नामाकारविवर्जितोऽस्ति च--ततः तत् त्वं हि निश्चीयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । ४ ते जानन्ति न सत्यमेव नितरां ये स्वप्नसङ्कल्पितान् पश्यन्त्येव यथा--पिता च जननी पुत्राश्च पत्नी सखा । आत्मा लिङ्गविवर्जितः श‍ृणु सखे ! व्यर्थं न वै कल्प्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । आत्मा कस्य पिता ? तथा कथय भो !--कस्यास्ति पुत्रश्च सः ? बन्धुः कस्य ? तथा रिपुश्च वद यस्त्वेको हि निर्लिङ्गकः ? अन्यो नास्ति ततश्च सर्वमयतः,--तत् त्वं हि निश्चीयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । ५ एकस्तिष्ठति नित्यमुक्तविभवः ज्ञाता सदात्मा, मुने ! नामाकारविकारकल्पनकलालेशो न तस्मिन् मुने ! साक्षात्तत्त्वमसीति विद्धि सततं ज्ञाने च निष्ठीयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । तं चाश्रित्य तनोति मोहघटितान् स्वप्नान् हि माया बहून् साक्षी दृश्यतया विभाति च तथा जीवस्वरूपस्तदा । साक्षात्तत्त्वमसीति विद्धि सततं ज्ञाने च निष्ठीयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । ६ कुत्रान्विष्यसि मुक्तितां ? प्रियसखे ! नायं हि लोकस्तु ते लोकोऽन्योऽपि न दत्स्यते कथमपि, ग्रन्थेषु वै मन्दिरे । व्यर्थश्चास्ति परिश्रमोऽत्र भवता स्वाभ्यन्तरेऽन्विष्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । येन त्वं परिपीडितोऽसि नितरां, हस्ते त्वदीये हि तत् हस्तेनैव हि धार्यते च सकलं त्वत्पाशजालं महत् । तस्माच्छोकविलापनं त्यज सखे ! --पाशश्च भो ! मुच्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । ७ सर्वेभ्योऽस्तु शिवं तथा न च भवेन्मत्तो भयं प्राणिनां, स्वर्गे यस्तु विराजते, क्षितितले नीचैश्च सर्पन्ति ये । सर्वेषामहमस्मि जीवनधरात्मेति,--त्वया कथ्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । आमुष्मिक्यमथैहिकं च सकलं भोगं त्यजामि स्वकं स्वर्गं, भौममथो तथा च नरकं, सर्वं प्रतीक्षाभयम् । सन्यस्तं हि मयेति भो ! कथय, च त्वद्बन्धनं कर्त्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । ८ तस्मान्नैव विचिन्त्यतां निजवपुस्तिष्ठत्वथो यातु वा कार्यं तेन सुसाधितं , त्वमधुना दैवार्पणं तत् कृथाः । पुष्पैरर्चतु, पादमाक्षिपतु वा किञ्चिन्न वै कथ्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । पूजा तत्र विगर्हणं कथमपि स्थातुं न वै शक्नुतः स्तुत्यस्तावकनिन्द्यनिद्यकगणाः यत्रैक्यभावं गताः । इत्थं शान्तमना भवान् भवतु च द्वैतं न वै दृश्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । ९ सत्यं तत्र न भासते, यदि भवेत् कामो, यशो, लालसा यां काञ्चित्परिपश्यति स्त्रियमथो पत्नीत्वभावेन यः । मोक्षस्तस्य न शक्यते कथमपि,--स्वान्तस्ततः शुध्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । स्वल्पं चापि परिग्रहन्तु कुरुते, क्रोधेन यो बध्यते । मायाद्वारविपाटनं नहि सखे ! दुष्टैर्हि सम्भाव्यते । तस्मान्मोक्षविभावनाय सततं कामादिकं त्यज्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । १० मित्र ! त्वं ह्यनिकेतनो भव सदा--किं तद्गृहं यच्च भो ! त्वामाच्छदायितुं प्रभुर्भवति ? तु स्वाच्छादनं ते नभः । शय्या ते भुवि सुन्दरी तृणमयी--तत्र त्वया श्राम्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । दैवाल्लब्धमवाप्य भोजनमथापक्वं सुसिद्धं तथा किञ्चिन्नैव विचिन्त्यतां, प्रियसखे ! ह्यन्नाच्च पान्नाच्च वा । आत्मज्ञो न हि लिप्यतेऽत्र भवता गङ्गावदाचर्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । ११ सत्यं वेत्ति हि कश्चिदेव विबुधः, शेषस्तु विद्विक्ष्यते ! त्वां चैवोपहसिष्यति ह्यथ खलस्त्वं चोत्तमो वर्तसे । हास्यद्वेषमतस्त्वया हि सुमहन् !--किञ्चिन्न वै वीक्ष्यतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । स्वातन्त्र्येण च गम्यतां प्रियसखे ! देशाच्च देशं तथा, मायामोहसमावृतांश्च कुरु भो ! मोहान्धकाराद्बहिः । त्यक्त्वा कष्टभयं तथा सुखचयं-द्वन्द्वात्परं स्थीयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । १२ इत्थं चैव दिनाद्दिनं भवति चेत् यावद्धि कर्मक्षयः आत्मा मोक्षमवाप्स्यति, ह्यथ पुनर्भावो न वर्तिष्यते । तस्मान्मृत्युमुखात् प्रमुच्य, भवता--स्वात्मन्यवस्थीयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । तत्रास्मन्न च युष्मदस्ति च कुतो जीवेशभावभ्रमः सर्वं मय्यहमेव विश्वमखिलं, चानन्दरूपोऽस्म्यहम् । नित्यानन्दमयश्च, भो ! त्वमसि तत् ब्रह्मेति निश्चीयतां सन्यासिन् ! भव वीरभावभरितः सूद्गीथ उद्घोष्यताम् ॥ --ॐ तत् सत् ॐ । १३
Encoded by Sunder Hattangadi, Proofread by Sunder Hattangadi, Swami Mahayogananda, Shankara Song of the Sannyasin by Swami Vivekananda Sanskrit translation by shrImat svAmI nityAnanda bhAratI shAstrI vedAchArya uttarakAshI meter - Shardulavikridita The English meaning is available at http://www.ramakrishnavivekananda.info/vivekananda/volume\_4/writings\_poems/the\_song\_of\_the\_sannyasintm Also see Marathi, Hindi, Bangla translation links at https://maasarada.blogspot.com/2015/06/uthaao-sanyaasi-uthao-se-taan-himaadritml There is one another sanyAsagItI in Marathi available in audio on this site.
% Text title            : sanyAsigItikA
% File name             : sanyAsigItikA.itx
% itxtitle              : sa.nnyAsi gItikA
% engtitle              : Song of the Sannyasin
% Category              : vedanta, misc, sahitya, advice, vivekAnanda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Texttype              : advice
% Author                : Engilsh poem Song of the Sannyasin by Swami Vivekananda, Sanskrit translation by svAmI nityAnanda bhAratI shAstrI vedAchArya uttarakAshI
% Language              : Sanskrit
% Subject               : hinduism/Vedanta
% Proofread by          : Swami Mahayogananda, Shankara
% Translated by         : http://www.ramakrishnavivekananda.info/vivekananda/volume_4/writings_poems/the_song_of_the_sannyasin.htm
% Description-comments  : meter - Shardulavikridita
% Indexextra            : (English Original)
% Latest update         : November 28, 2011
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org