श्रीभगवद्भक्तिरसायनम्

श्रीभगवद्भक्तिरसायनम्

परमहंसपरिव्राजकाचार्य-विश्वविख्यातवैदुषीक श्रीमधुसूदनसरस्वतीयतिवर विरचितम् भक्तिसामान्यनिरूपणनामकः प्रथमोल्लासः ॥ नवरसमिलितं वा केवलं वा पुमर्थं परममिह मुकुन्दे भक्तियोगं वदन्ति । निरुपमसुखसंविद्रूपमस्पृष्टदुःखं तमहमखिलतुष्ट्यै शास्त्रदृष्ट्या व्यनज्मि ॥ १॥ संसाररोगेण बलीयसा चिरं निपीडितैस्तत्प्रशमेऽतिशिक्षितम् । इदं भवद्भिर्बहुधा व्ययातिगं निपीयतां भक्तिरसायनं बुधाः ॥ २॥ द्रुतस्य भगवद्धर्माद्धारावाहिकतां गता । सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते ॥ ३॥ चित्तद्रव्यं हि जतुवत्स्वभावात्कठिनात्मकम् । तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते ॥ ४॥ कामक्रोधभयस्नेहहर्षशोकदयाऽऽदयः । तापकाश्चित्तजतुनस्तच्छान्तौ कठिनं तु तत् ॥ ५॥ द्रुतचित्ते विनिक्षिप्तः स्वाकारो यस्तु वस्तुना । शब्दसंस्कारवासनाभावभावनाभागसौ ॥ ६॥ शिथिलीभावमात्रं तु मनो गच्छत्यतापकैः । न तत्र वस्तु विशति वासनात्वेन किञ्चन ॥ ७॥ द्रवतायां प्रविष्टं सद्यत्काठिन्यदशां गतम् । चेतः पुनर्द्रुतौ सत्यामपि तन्नैव मुञ्चति ॥ ८॥ स्थायीभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते । व्यक्तश्च रसतामेति परानन्दतया पुनः ॥ ९॥ भगवान्परमानन्दस्वरूपः स्वयमेव हि । मनोगतस्तदाकारो रसतामेति पुष्कलम् ॥ १०॥ कान्ताऽऽदि विषयेऽप्यस्ति कारणं सुखचिद्घनम् । कार्याकारतयाऽभानेऽप्यावृतं मायया स्वतः ॥ ११॥ सदज्ञातञ्च तद्ब्रह्म मेयं कान्ताऽऽदि मानतः । मायाऽऽवृतितिरोधाने वृत्त्या सत्त्वस्थया क्षणम् ॥ १२॥ अतस्तदेव भावत्वं मनसि प्रतिपद्यते । किञ्च न्यूनाञ्च रसतां याति जाड्यविमिश्रणात् ॥ १३॥ इति वेदान्तसिद्धान्ते स्थायिनो रसतोदिता । साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रतिपद्यते ॥ १४॥ तमोरजःसत्त्वगुणा मोहदुःखसुखात्मकाः । तन्मयी प्रकृतिर्हेतुः, सर्वं कार्यञ्च तन्मयम् ॥ १५॥ त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते । निजमानससङ्कल्पभेदेन पुरुषैस्त्रिभिः ॥ १६॥ कामिन्याः सुखता भर्त्रा सपत्न्या दुःखरूपता । तदलाभात्तथाऽन्येन मोहत्वमनुभूयते ॥ १७॥ एवं सति सुखाकारः प्रविष्टो मानसे यदा । तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत् ॥ १८॥ परमाण्वेकरूपं तु चित्तं न विषयाकृति । इत्यादि मतमन्येषामप्रमाण्यादुपेक्षितम् ॥ १९॥ गृह्णाति विषयाकारं मनो विषययोगतः । इति वेदान्तिभिस्साङ्ख्यैरपि सम्यङ्निरूपितम् ॥ २०॥ मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा । घटादि व्याप्नुवच्चित्तं तन्निभं जायते ध्रुवम् ॥ २१॥ व्यञ्जको वा यथाऽऽलोको व्यङ्ग्यस्याकारतामियात् । सर्वार्थ व्यञ्जकत्त्वाद्धीरर्थाकारा प्रदृश्यते ॥ २२॥ भगवत्पूज्यपादानामियमुक्तिः सयुक्तिका । तथा वार्तिककारैरप्ययमर्थो निरूपितः ॥ २३॥ मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत् । मेयाभिसङ्गतं तच्च मेयाभत्वं प्रपद्यते ॥ २४॥ var. addition एवं एतादृशं वाक्यमुदाहार्यमनेकशः । चित्तस्य विषयाकारग्राहकत्वोपपादने ॥ २५॥ var. addition अतो मांसमयी योषित्काचिदन्या मनोमयी । मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥ २६॥ भार्या, स्नुषा, ननान्दा च, याता, मातेत्यनेकधा । जामाता, श्वशुरः, पुत्रः, पितेत्यादि पुमानपि ॥ २७॥ बाह्य पिण्डस्य नाशेऽपि तिष्ठत्येव मनोमयः । अतः स्थायीति विद्वद्भिरयमेव निरूपितः ॥ २८॥ एवं सामान्यतो भावस्वरूपमभिवर्णितम् । विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक् ॥ २९॥ भगवन्तं विभुं नित्यं पूर्णं बोधसुखात्मकम् । यद्गृह्णाति द्रुतं चित्तं किमन्यदवशिष्यते ॥ ३०॥ कठिना शिथिला वा धीर्न गृह्णाति न वास्यते । उपेक्षाज्ञानमित्याहुस्तद्बुधाः प्रस्तरादिषु ॥ ३१॥ काठिन्यं विषये कुर्याद्द्रवत्वं भगवत्पदे । उपायैश्शास्त्रनिर्दिष्टैरनुक्षणमतो बुधः ॥ ३२॥ उपायाः प्रथमस्कन्धे नारदेनोपवर्णिताः । सङ्क्षेपात्तानहं वक्ष्ये भूमिभेदविभागतः ॥ ३३॥ प्रथमं महतां सेवा तद्दयापात्रता ततः । श्रद्धाऽथ तेषां धर्मेषु ततो हरिगुणश्रुतिः ॥ ३४॥ ततो रत्यङ्कुरोत्पत्तिस्स्वरूपाधिगतिस्ततः । प्रेमवृद्धिः परानन्दे तस्याथ स्फुरणं ततः ॥ ३५॥ भगवद्धर्मनिष्ठाऽतस्स्वस्मिन् तद्गुणशालिता । प्रेम्णोऽथ परमाकाष्ठेत्युदिता भक्ति भूमिका ॥ ३६॥ लक्षणं भगवद्भक्तेः साधनं सोपपत्तिकम् । सभूमिकं स्वरूपञ्च यथाबुद्धीह वर्णितम् ॥ ३७॥ इति श्री परमहंसपरिव्राजकाचार्य श्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने स्वरूपभूमिकासाधनसहितभक्तिसामान्यनिरूपणं नाम प्रथमोल्लासस्समाप्तः ॥
अथ द्वितीयोल्लासः ॥ द्रुते चित्ते प्रविष्टा या गोविन्दाकारता स्थिरा । सा भक्तिरित्यभिहिता विशेषस्त्वधुनोच्यते ॥ १॥ चित्तद्रुतेः कारणानां भेदाद्भक्तिस्तु भिद्यते । तान्युक्तानि तु सङ्क्षेपाद्व्याख्यायन्तेऽधुना स्फुटम् ॥ २॥ कामश्शरीरसम्बन्धविशेषस्स्पृहयालुता । सन्निधानासन्निधानभेदेन स भवेद्द्विधा ॥ ३॥ तज्जन्यायां द्रुतौ चित्ते या स्याच्छ्रीकृष्णनिष्ठता । सम्भोगविप्रयोगाख्या रतिस्सा सा क्रमाद्भवेत् ॥ ४॥ क्रोध ईर्ष्यानिमित्तं तु चित्ताभिज्वलनं भवेत् । तज्जन्यायां द्रुतौ सा तु द्वेष शब्देन गृह्यते ॥ ५॥ अत्र चेतो व्याकुलत्वं सोपद्रावकदर्शनात् । उपद्रावकनाशार्थं तत्प्रीत्यर्थं च तद्द्विधा ॥ ६॥ तत्राद्यं द्वेष एव स्याद्द्वितीयं रतिशब्दभाक् । उपरिष्टात्तदुभयं मया स्पष्टीकरिष्यते ॥ ७॥ द्वेषा हेतुस्स्वमन्तूत्थं वैक्लव्यं चित्तगं तु यत् । तज्जन्यायां द्रुतौ याऽऽस्ते रतिस्सा भयमुच्यते ॥ ८॥ स्नेहः पुत्रादिविषयः पाल्यपालकलक्षणः । सेव्यसेवकभावोऽन्यः सोऽप्युक्तस्त्रिविधो बुधैः ॥ ९॥ भगवद्दास्यसख्याभ्यां मिश्रितं चापरं जगुः । या कृष्णाकारता चित्ते तज्जन्यद्रुतिशालिनि ॥ १०॥ पाल्यपालकभावेन सा वत्सलरतिर्भवेत् । सेव्यसेवकभावेन प्रेयोरतिरितीर्यते ॥ ११॥ हर्षश्चित्तसमुल्लासः कथ्यते स चतुर्विधः । एकः परानन्दमयः श्रीशमाहात्म्यकारणात् ॥ १२॥ तज्जन्यायां द्रुतौ शुद्धा रतिर्गोविन्दगोचरा । एतदन्तं हि शास्त्रेषु साधनाम्नानमिष्यते ॥ १३॥ व्रीडाविकृतवाग्वेषचेष्टाऽऽदि जनितोऽपरः । तज्जन्यायां द्रुतौ चेतोविकासो हास उच्यते ॥ १४॥ लोकोत्तरचमत्कारिवस्तुदर्शनजः परः । तज्जन्यायां द्रुतौ चेतोविकासो विस्मयो मतः ॥ १५॥ युद्धादितापजनितो वीराणां जायते परः । ततश्चित्तस्य विस्तारो द्रुतस्योत्साह उच्यते ॥ १६॥ इष्टविच्छेदजनितो यश्चित्ते क्लिष्टतोदयः । तज्जन्यायां द्रुतौ विष्टा रतता शोक उच्यते ॥ १७॥ दया घृणा स्याद्विषयतुच्छत्वज्ञानपूर्विका । तया द्रुते तु मनसि जुगुप्सा जायते त्रिधा ॥ १८॥ पूतिव्रणादिविषये कथितोद्वेगिनी बुधैः । श्मशानोत्थपिशाचादिविषया क्षोभिणी भवेत् ॥ १९॥ देहेन्द्रियादिदुःखत्वविचारणपुरस्सरा । घृणा शुद्धेति कविभिस्सा जुगुप्सा प्रकीर्तिता ॥ २०॥ या तु शोच्यस्य रक्षार्थं प्रवृत्तिरनुकम्पया । तया द्रुते तु मनसि दयोत्साहस्स्मृतो बुधैः ॥ २१॥ सर्वस्वमपि दास्यामि प्रार्थयेति च यो महान् । उद्यमो द्रुतचित्तस्य दानोत्साहस्स उच्यते ॥ २२॥ तथा स्वधर्मरक्षार्थं या प्रवृत्तिः प्रयत्नतः । तया चित्तस्य विस्तारो धर्मोत्साहो द्रुतौ भवेत् ॥ २३॥ वशीकाराख्यवैराग्यं यत्कामास्पृहतात्मकम् । तेन द्रुतस्य चित्तस्य प्रकाशः शम उच्यते ॥ २४॥ इतोऽन्यथा तु चित्तस्य न द्रुतिर्विद्यते क्वचित् । तदभावात्तु भावो न निरुक्तान्योऽस्ति कश्चन ॥ २५॥ यावत्यो द्रुतयश्चित्ते भावास्तावन्त एव हि । स्थायिनो रसतां यान्ति विभावादि समाश्रयात् ॥ २६॥ धर्मोत्साहो दयोत्साहो जुगुप्सा त्रिविधा शमः । षडप्येते न विषया भगवद्विषया न हि ॥ २७॥ धर्मवीरो दयावीरो बीभत्सः शान्त इत्यमी । अतो न भक्ति रसतां यान्ति भिन्नास्पदत्वतः ॥ २८॥ ईर्ष्याजभयजद्वेषौ भगवद्विषयावपि । न भक्तिरसतां यातः साक्षाद्द्रुतिविरोधतः ॥ २९॥ शुद्धो रौद्ररसस्तत्र तथा रौद्रभयानकः । नास्वाद्यः सुधिया प्रीतिविरोधेन मनागपि ॥ ३०॥ कामजे द्वे रती शोकः प्रीतिभीविस्मयस्तथा । उत्साहो युधि दाने च भगवद्विषया अमी ॥ ३१॥ व्यामिश्रभावरूपत्वं यान्त्येते क्षीरनीरवत् । विभावादि समायोगे तथा भक्तिरसा अपि ॥ ३२॥ श‍ृङ्गारः करुणो हास्यस्तथा प्रीतिर्भयानकः । अद्भुतो युद्धवीरश्च दानवीरश्च मिश्रिताः ॥ ३३॥ शुद्धा च वत्सलरतिः प्रेयोरतिरिति त्रयी । भावान्तरामिश्रितत्वादमिश्रा रतिरुच्यते ॥ ३४॥ विशुद्धो वत्सलः प्रेयानिति भक्तिरसास्त्रयः । रसान्तरामिश्रितास्ते भवन्ति परिपुष्कलाः ॥ ३५॥ श‍ृङ्गारो मिश्रितत्वेऽपि सर्वेभ्यो बलवत्तरः । तीव्र तीव्रतरत्वं तु रतेस्तत्रैव वीक्ष्यते ॥ ३६॥ केचित्केवलसङ्कीर्णाः केचित्सङ्कीर्णमिश्रिताः । केचित्केवलमिश्राश्च शुद्धाश्च स्युश्चतुर्विधाः ॥ ३७॥ तत्र केवलसङ्कीर्णा रौद्रो रौद्रभयानकः । धर्मवीरो दानवीरो बीभत्सश्शान्त इत्यपि ॥ ३८॥ मिश्रा एवान्यविषयाः प्रोक्तास्सङ्कीर्णमिश्रिताः । भगवद्विषयास्ते तु ख्याताः केवल मिश्रिताः ॥ ३९॥ शुद्धास्त्रयः पुरैवोक्ताः सङ्कीर्यन्ते न केनचित् । एवं निरूपिता भक्तिः सङ्क्षेपादुच्यते पुनः ॥ ४०॥ राजसी तामसी शुद्धसात्त्विकी मिश्रता च सा । ईर्ष्याजद्वेषजाऽऽद्या स्याद्भयजद्वेषजापरा ॥ ४१॥ हर्षजा शुद्धसत्त्वोत्था कामाशोकादिजेतरा । सत्त्वजत्वे तु सर्वासां गुणान्तरकृताभिदा ॥ ४२॥ तत्र ते रतितां नैव यातः सुखविरोधतः । रतिशब्दं तु भजतः सुखमय्यौ परे द्रुती ॥ ४३॥ भक्तिश्चतुर्विधाप्येषा भगवद्विषया स्थिरा । दृष्टादृष्टोभयैकैकफला भक्तिस्त्रिधा भवेत् ॥ ४४॥ राजसी तामसी भक्तिरदृष्टफलमात्रभाक् । दृष्टादृष्टोभयफला मिश्रिता भक्तिरिष्यते ॥ ४५॥ शुद्धसत्त्वोद्भवाऽप्येवं साधकेष्वस्मदादिषु । दृष्टमात्रफला सा तु सिद्धेषु सनकादिषु ॥ ४६॥ दृष्टादृष्टफला भक्तिः सुखव्यक्तेर्विधेरपि । निदाघदूनदेहस्य गङ्गास्नानक्रिया यथा ॥ ४७॥ रजस्तमाऽभिभूतस्य दृष्टांशः प्रतिबध्यते । शीतवातातुरस्येव नादृष्टांशस्तु हीयते ॥ ४८॥ तथैव जीवन्मुक्तानामदृष्टांशो न विद्यते । स्नात्वा भुक्तवतां भूयो गङ्गायां क्रीडतां यथा ॥ ४९॥ वर्तमानतनुप्राप्यं फलं दृष्टमुदाहृतम् । भाविदेहोपभोग्यं यत्तददृष्टमुदीरितम् ॥ ५०॥ रजस्तमःप्रचण्डत्वे सुखव्यक्तिरसत्समा । तीव्रवायुविनिक्षिप्तदीपज्वालेव भासते ॥ ५१॥ तस्मात्स्वयम्प्रभाऽऽनन्दाकाराऽपि मतिसन्ततिः । प्रतिबन्धवशान्न स्यात्सुखव्यक्तिपदास्पदम् ॥ ५२॥ रजः प्रबलसत्त्वांशादीर्ष्याजद्वेषमिश्रिता । मनोवृत्तिः परानन्दे चैद्यस्य न सुखायते ॥ ५३॥ तमःप्रबलसत्त्वांशाद्भीतिजद्वेषमिश्रिता । मनोवृत्तिः परानन्दे कंसस्य न सुखायते ॥ ५४॥ तयोर्भाविशरीरे तु प्रतिबन्धक्षये सति । सैव चित्तद्रुतिर्भक्तिरसतां प्रतिपद्यते ॥ ५५॥ अधुनाऽपि भजन्तो ये द्वेषात्पाशुपतादयः । तेषामप्येवमेव स्यादथ वाऽनेन तुल्यता ॥ ५६॥ द्रुतौ सत्यां भवेद्भक्तिरद्रुतौ तु न किञ्चन । चित्तद्रुतेरभावेन वेनस्तु कतमोऽपि न ॥ ५७॥ रजस्तमोविहीना तु भगवद्विषया मतिः । सुखाभिव्यञ्जकत्वेन रतिरित्यभिदीयते ॥ ५८॥ स्नेहस्यैव विकारः प्रिययोरत्यन्तभावनादनिशम् । विरहासहिष्णुताऽऽत्मा प्रीतिविशेषो रतिर्नाम ॥ ५९॥ var. addition रजस्तमस्समुच्छेदतारतम्येन गम्यते । तुल्येऽपि साधनाभ्यासे तारतम्यं रतेरपि ॥ ५९॥ विरहे यादृशं दुःखं तादृशी दृश्यते रतिः । मृदुमध्याधिमात्रत्वाद्विशेषोऽत्रापि वीक्ष्यते ॥ ६०॥ वैकुण्ठे द्वारकायां च श्रीमद्वृन्दावने तथा । मृदुतीव्रा मध्यतीव्रा तीव्रतीव्रा च सा क्रमात् ॥ ६१॥ इयं निसर्गसंसर्गौपम्याध्यात्माभियोगजा । सम्प्रयोगाभिमानाभ्यां समारोपे स्थिता तथा ॥ ६२॥ स्पर्शे शब्दे तथा रूपे रसे गन्धे च केवले । समुच्चिते च सा तत्रेत्येका षड्विधा भवेत् ॥ ६३॥ शुद्धा व्यामिश्रिता चेति पुनरेषा द्विधा भवेत् । तत्रानुपाधिश्शुद्धा स्यात्सोपाधिर्मिश्रितोदिता ॥ ६४॥ अनुपाधिः परानन्द महिमैक निबन्धना । भजनीयगुणानन्त्यादेकरूपैव सोच्यते ॥ ६५॥ कामसम्बन्धभयतः सोपाधिस्त्रिविधा भवेत् । विभावादिसमायोगे शुद्धभक्तिरसो भवेत् ॥ ६६॥ श‍ृङ्गारमिश्रिता भक्तिः कामजा भक्तिरिष्यते । सम्बन्धजा रतिर्याति पूर्वोक्तां रसतां द्वयोः ॥ ६७॥ एको वत्सलभक्त्याख्यः प्रेयोभक्तिस्तथाऽपरा । भयजा रतिरध्यास्ते रसं प्रीतिभयानकम् ॥ ६८॥ एकदैव यदि व्यक्तमिदं रति चतुष्टयम् । तदा तु पानकरसन्यायेन परमो रसः ॥ ६९॥ एकद्व्यादिरसव्यक्तिभेदाद्रसभिदा भवेत् । तस्मात्क्वचित्तदभ्यासं कुर्याद्रतिचतुष्टये ॥ ७०॥ व्रजदेवीषु च स्पष्टं दृष्टं रतिचतुष्टयम् । तच्चित्तालम्बनत्वेन स्वचित्तं तादृशं भवेत् ॥ ७१॥ रसान्तरविभावादि सङ्कीर्णा भगवद्रतिः । चित्ररूपवदन्यादृग्रसतां प्रतिपद्यते ॥ ७२॥ रसान्तरविभावादि राहित्ये तु स्वरूपभाक् । दशमीमेति रसतां सनकादेरिवाधिकाम् ॥ ७३॥ रतिर्देवादिविषया व्यभिचारी तथोर्जितः । भावः प्रोक्तो रसो नेति यदुक्तं रसकोविदैः ॥ ७४॥ देवान्तरेषु जीवत्वात्परानन्दाप्रकाशनात् । तद्योज्यं, परमानन्दरूपे न परमात्मनि ॥ ७५॥ कान्तादिविषया वा ये रसाद्यास्तत्र नेदृशम् । रसत्वं पुष्यते पूर्णसुखास्पर्शित्वकारणात् ॥ ७६॥ परिपूर्णरसा क्षुद्ररसेभ्यो भगवद्रतिः । खद्योतेभ्य इवादित्यप्रभेव बलवत्तरा ॥ ७७॥ क्रोधशोकभयादीनां साक्षात्सुखविरोधिनाम् । रसत्वमभ्युपगतं तथाऽनुभवमात्रतः ॥ ७८॥ इहानुभवसिद्धेऽपि सहस्रगुणितो रसः । जडेनेव त्वया कस्मादकस्मादपलप्यते ॥ ७९॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमधुसूदनसरस्वतीविरचिते भगवद्भक्तिरसायने भक्तिविशेषप्रतिपादको नाम द्वितीयोल्लासस्समाप्तः ॥
अथ तृतीयोल्लासः ॥ ननु केयं रसो नाम, किन्निष्ठो वा भवेदसौ । अस्य प्रत्यायकः को वा, प्रतीतिरपि कीदृशी ॥ १॥ विभावैरनुभावैश्च व्यभिचारिभिरप्युत । स्थायीभावः सुखत्वेन व्यज्यमानो रसः स्मृतः ॥ २॥ सुखस्यात्मस्वरूपत्वात्तदाधारो न विद्यते । तद्व्यञ्जिकाया वृत्तेस्तु सामाजिकमनः प्रति ॥ ३॥ काव्यार्थनिष्ठा रत्याद्याः स्थायिनः सन्ति लौकिकाः । तद्बोद्धृनिष्ठास्त्वपरे तत्समा अप्यलौकिकाः ॥ ४॥ बोध्यनिष्ठा यथास्वं ते सुखदुःखादि हेतवः । बोद्धृनिष्ठास्तु सर्वेऽपि सुखमात्रैकहेतवः ॥ ५॥ अतो न करुणादीनां रसत्वं प्रतिहन्यते । भावानां बोद्धृनिष्ठानां दुःखाहेतुत्वनिश्चयात् ॥ ६॥ तत्र लौकिकरत्यादेः कारणं लौकिकं तु यत् । काव्योपदर्शितं तत्तु विभाव इति कथ्यते ॥ ७॥ लौकिकस्यैव रत्यादेर्लोके यत्कार्यमीक्षितम् । काव्योपदर्शितं तत्स्यादनुभावपदास्पदम् ॥ ८॥ लौकिकस्यैव रत्यादेर्येभावाः सहकारिणः । काव्योपदर्शितास्ते तु कथ्यन्ते व्यभिचारिणः ॥ ९॥ अलौकिकस्य रत्यादेः सामाजिकनिवासिनः । उद्बोधे कारणं ज्ञेयं त्रयमेतत्समुच्चितम् ॥ १०॥ ज्ञातस्वपरसम्बन्धादन्ये साधारणात्मना । अलौकिकं बोधयन्ति भावं भावास्त्रयोऽप्यमी ॥ ११॥ भावत्रितयसंसृष्टस्थायिभावावगाहिनी । समूहालम्बनात्मैका जायते सात्त्विकी मतिः ॥ १२॥ साऽनन्तरक्षणेऽवश्यं व्यनक्ति सुखमुत्तमम् । तद्रसः, केचिदाचार्या स्तामेव तु रसं विदुः ॥ १३॥ तेषां प्रत्येकविज्ञानं कारणत्वेन तैर्मतम् । स्थायीभावो रस इति प्रयोगस्तूपचारतः ॥ १४॥ एवमव्यवधानेन क्रमो यस्मान्न लक्ष्यते । असंलक्ष्यक्रमव्यङ्ग्यं ध्वनिं तस्मादिमं विदुः ॥ १५॥ व्यवधानात्क्रमो लक्ष्यो वस्त्वलङ्कारयोर्ध्वनौ । लक्ष्यव्यङ्ग्यक्रमं तस्माद्ध्वनिमेतं प्रचक्षते ॥ १६॥ रसभावतदाभासभावशान्त्यादिरक्रमः । अनन्तरक्षणे यस्माद्व्यज्यतेऽवश्यमेव सः ॥ १७॥ श्रुतिदुष्टादयो दोषा ये रसप्रतिबन्धकाः । तदभावोऽपि सामग्र्यां निविष्टोऽनिष्टहानिकृत् ॥ १८॥ या रीतयो ये च गुणास्तज्ज्ञानमपि कारणम् । अलङ्काराश्च विज्ञाता भवन्ति परिपोषकाः ॥ १९॥ गुणालङ्काररीतीनां भावानां च निवेदकः । तस्य प्रत्यायकः शब्दो वृत्त्या व्यञ्जनरूपया ॥ २०॥ वृत्तिः कार्याऽपरोक्षाऽस्य शब्दस्य सुखगर्भिणी । दशमस्त्वमसीत्यादि वाक्योत्थमतिवृत्तिवत् ॥ २१॥ नित्यं सुखमभिव्यक्तं ``रसो वै स'' इति श्रुतेः । प्रतीतिः स्वप्रकाशस्य निर्विकल्पसुखात्मिका ॥ २२॥ कार्यज्ञाप्यादि वैधर्म्यं यत्तु कैश्चिन्निरूपितम् । तदप्येतेन मार्गेण योज्यं शास्त्राविरोधतः ॥ २३॥ परमानन्द आत्मैव रस इत्याहुरागमाः । शब्दतस्तदभिव्यक्तिप्रकारोऽयं प्रदर्शितः ॥ २४॥ अर्थवादाधिकरणे वनशैलादिवर्णनम् । श्रोतृणाम् सुखमात्रार्थमिति भट्टैरुदाहृतम् ॥ २५॥ कार्यान्वितत्ववादेऽपि न विरोधोऽस्ति कश्चन । यस्मात्कृतीप्सितत्वेन कार्यं सुखमपीष्यते ॥ २६॥ अलौकिक नियोगे तु न किञ्चिन्मानमीक्ष्यते । लोके वाचां च सर्वेषां तत्परत्वं न युज्यते ॥ २७॥ प्रयोजनवदज्ञातज्ञापकत्वं च मानता । शब्दस्य कार्यपरता त्वाचार्यैरेव खण्डिता ॥ २८॥ देवताधिकृतिन्यायात्पदैरन्यपरैरपि । प्रयोजनवदज्ञाताबाधितार्थमतिर्भवेत् ॥ २९॥ तस्मादन्यपरत्वे वा स्वातन्त्र्ये वा पदानि नः । व्यञ्जयन्ति परानन्दं सहकार्यानुरूपतः ॥ ३०॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्तिरसायने भक्तिरसप्रतिपादको नाम तृतीयोल्लासस्समाप्तः ॥ सर्वं सम्पूर्णम् ॥ Encoded and proofread by D.V.N.Sarma dvnsarma at gmail.com Sunder Hattangadi
% Text title            : Shri Bhagavad-Bhakti Rasayanam
% File name             : bhaktirasaayana.itx
% itxtitle              : bhaktirasAyanam (madhusUdana sarasvatI virachitam)
% engtitle              : Shri Bhagavad-Bhakti Rasayanam by madhusUdana sarasvatI
% Category              : major_works, madhusUdanasarasvatI
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : matparamahaMsa parivrAjakAcArya shrI madhusUdanasarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : D.V.N.Sarma dvnsarma at gmail.com Sunder Hattangadi
% Proofread by          : D.V.N.Sarma, Sunder Hattangadi
% Description/comments  : Perspective of Devotion by an advaitin philosopher
% Source                : ShriBhagavadbhaktirasayanam - Achyutagranthamala Dvitiya Pushpam - 1st ed, Vikramabde 1984
% Latest update         : June 16, 2007, April 6, 2012, April 25, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org