॥ ब्रह्मविदाशीर्वादः ॥

॥श्रीः॥ श्रीमत्परमहंसपरिव्राजकाचार्य श्रीविद्यारण्यस्वामीविरचितः श्रीब्रह्मविदाशीर्वादः । हिरण्यगर्भादिस्थावरान्तेषु शरीरेषु यदेकं चैतन्यमस्ति, तदेवाहमस्मीति दृढज्ञानं निरन्तरं भूयात् ॥१ ॥ निर्विकल्पसमाधिप्रतिबन्धकलयविक्षेपकषायरसास्वादेभ्यो रक्षितं मे चित्तमविघ्नेन ब्रह्मणि अवस्थितं भूयात् ॥ २ ॥ नित्यनिर्विकारासङ्गाद्वितीयपरिपूर्णसच्चिदानन्दस्वप्रकाश- चिदेकरसब्रह्मानुभवसिद्धिर्भूयात् ॥ ३ ॥ अहमादिदृश्यविलक्षणास्मत्प्रत्ययालम्बनभृतप्रत्यक्- चिन्मात्रस्वरूपानुभवसिद्धिर्भूयात् ॥ ४ ॥ सजातीयविजातीयस्वगतभेदरहिताखण्डसच्चिदानन्दाद्वितीय- ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ५ ॥ नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीय- ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ६ ॥ स्वगतादिभेदरहिताखण्डसच्चिदानन्दलक्षणब्रह्माभिन्न- कूटस्थप्रत्यक्स्वरूपः सर्वसाक्षीति चिद्रूपानुभवसिद्धिर्भूयात् ॥७ ॥ स्वात्मनोऽन्यत्वेन प्रतिभातं सकलं साक्ष्यं जगत् स्वाविद्याविलसितत्वेन स्वानन्यत्वात् स्वात्ममात्रमिति, अद्वितीयब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ८ ॥ असंभावनाविपरीतभावनारहितत्वेन करतलामलकवत् अहं ब्रह्मास्मीति अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात् ॥ ९ ॥ यो ब्रह्मादिस्तम्बपर्यन्तानां सर्वेषां प्राणिनां देहमध्ये, तत्तद्देहसाक्षित्वेन भासमानः, परिपूर्णात्माऽस्ति, सोऽयं परमात्मा, केवलं मुमुक्षोः पुरुषस्य मे स्वरूपमित्येवंरूपात्मसाक्षात्कारो दृढीभूयात् ॥ १० ॥ वासनाक्षय - मनोनाश - तत्त्वज्ञानाभ्यासवशात्, ज्ञानरक्षा, तपःसिद्धिः, सर्वसमत्वं, दुःखनिवृत्तिः, सुखाविर्भावः इत्येतत्पञ्चप्रयोजनसिद्धिर्भूयात् ॥ ११ ॥ मैत्री - करुणा - मुदितोपेक्षारूपसद्वासनापाटवेन रागादि- दुर्वासनाक्षयः सम्यग्भूयात् ॥ १२ ॥ निरन्तरस्वात्मानुसन्धानवशात् मनसो वृत्तिरूपपरिणामत्यागेन, निरुद्धताकारेण आत्मपरिणामो दृढीभूयात् ॥ १३ ॥ शमादिपूर्वकश्रवणमनननिदिध्यासनाभ्यासबलात्, विषयासक्तिः, प्रज्ञामान्द्यं, विपर्ययः, दुराग्रहश्चेति वर्तमानप्रतिबन्धचतुष्टयनिवृत्तिद्वारा, अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात् ॥ १४ ॥ उपक्रमादिषड्विधलिङ्गैः, अशेषवेदान्तानाम् अद्वैते ब्रह्मणि तात्पर्यावधारणं दृढीभूयात् ॥ १५ ॥ श्रीगुरुमुखात् श्रुताद्वितीयवस्तुनः, वेदान्तानुगुणयुक्तिभिः अनवरतमनुचिन्तनं भूयात् ॥ १६ ॥ विजातीयदेहादिप्रत्ययानन्तरित - सजातीयसच्चिदानन्दात्म- प्रत्ययप्रवाहो निरन्तरं भूयात् ॥ १७ ॥ असङ्गोऽहं, चिदात्माहमिति प्रत्यगात्मनि निवेशिते, वृत्तिरहिते, संस्कारशेषमात्रतया सूक्ष्मरूपेणावस्थिते चित्ते, आत्मनः स्वरूपभूतपरमानन्दो निरन्तरं सम्यगाविर्भूयात् ॥ १८ ॥ अहमात्मा साक्षी, केवलः, चिन्मात्रस्वरूपः; नाज्ञानं; नापि तत्कार्यं ; किंतु, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभेदेनावस्थानं समाधिः ; तत्र च अन्तस्समाधिना दृग्दृश्यविवेके, बहिस्समाधिना ब्रह्मसर्गविवेके च दृढे जाते, तेन विवेकद्वयेनायं गलितदेहाभिमानः, विज्ञातपरमात्मतत्त्वश्च भूयात् ॥ १९ ॥ देहाद्बहिः सकलनामरूपात्मकेषु वस्तुष्वपि, सर्पधारादिषु रज्जुरिव व्याप्तः, सच्चिदानन्दलक्षणो यः परमात्मा, स एव परशब्देनोच्यते । अन्तः अहमादिदृश्यविलक्षणः, अस्मत्प्रत्ययालम्बनभूतः, प्रत्यक्चिन्मात्रस्वरूपः, यः साक्ष्याख्यो जीवात्मा, स एव अवरशब्देनोच्यते । परश्चासौ अवरश्चेति परावरः, प्रत्यगभिन्नः परमात्मा । तस्मिन् एवम् अन्तर्बहिश्च पररूपेण अवररूपेण च अवस्थिते, परमार्थतः परावरविभागरहिते प्रत्यगभिन्ने परावरे ब्रह्मणि ' त्वं वा अहमस्मि भगवो देवते ; अहं वै त्वमसि ' इति श्रुत्यनुसारेण ' अहं ब्रह्मास्मि, ब्रह्मैवाहमस्मि ' इति व्यतिहारेण, अखण्डैकरसत्वेन साक्षात्कृते सति, तेन परावरब्रह्मसाक्षात्कारेण, अस्य परावरब्रह्म साक्षात्कृतवतो मम हृदयग्रन्थिभेद - सर्व - संशयनिवृत्ति - सर्वकर्मक्षयरूपपरमपुरुषार्थः सम्यगाविर्भूयात् ॥ २० ॥ अहङ्कारात्मनोः एकत्वभ्रमनिवृत्तिरूपोऽयं ग्रन्थिभेदः दृढीभूयात् ॥ २१ ॥ आत्मा देहादिव्यतिरिक्तो वा न वा, व्यतिरिक्तत्वेऽपि, कर्तृत्वादिधर्मयोगी वा न वा, अकर्तृत्वेऽपि, तस्य ब्रह्मणा भेदोऽस्ति वा न वा, अभेदेपि, तज्ज्ञानं कर्मादिसहितं व मुक्तिसाधनं केवलं वा, तथापि, आत्मा साक्षी वा कर्ता वा, साक्षित्वेपि अस्य ब्रह्मस्त्वमस्ति वा न वा, ब्रह्मत्वे सत्यपि, तद्बुध्या वेदितुं शक्यते वा न वा, शक्यत्वेऽपि, तद्वेदनमात्रेण मुक्तिरस्ति वा न वा, साक्षात्कृतेऽपि, इतः परं कर्तव्यमस्ति वा न वा, कर्तव्याभावेऽपि, इदानीं मम जीवन्मुक्तिरस्ति वा न वा, जीवन्मुक्त्वेऽपि, वर्तमानदेहपातान्तरं विदेहमुक्तिः भविष्यति वा न Vवा, तत्प्राप्तावापि, कालान्तरे पुनर्जन्म भविष्यति वा न वा, इत्यादि सर्वसंशयनिर्वृत्तिर्भूयात् ॥ २२ ॥ अनारब्धानां आगामिजन्महेतूनां अनेककोटिजन्मार्जितानां प्रारब्धव्यतिरिक्तानां सञ्चितकर्मणां निवृत्तिरूपः परमपुरुषार्थः सम्यगाविर्भूयात् ॥ २३ ॥ यः पूर्णानन्दैकबोधः तद्ब्रह्माहमस्मीति ब्रह्मात्मानुभव- मात्रपर्यवसाने बुद्धिर्निरन्तरं भूयात् ॥ २४ ॥ यस्मिन् काले द्वैतभानं नास्ति, निद्राऽपि नागच्छति, तस्मिन् काले उपलभ्यमानं यत्सुखमस्ति स ब्रह्मानन्द इति ब्रह्मात्मानुभवसिद्धिः निरन्तरं भूयात् ॥ २५ ॥ मनोव्यापाराभावसमये यत्सुखं भासते, तत् सुखमात्मस्वरूपमिति आत्मनिश्चयः सम्यग्भूयात् ॥ २६ ॥ स्वप्नः स्वातिरेकेण यथा नास्ति, तथैव स्वजाग्रदपि स्वातिरेकेण नास्ति ; तेन अद्वितीयात्मानुभवसिद्धिः सम्यग्भूयात् ॥ २७ ॥ वासनाक्षयमनोनाशाभ्यां निर्वासने वृत्तिशून्ये चित्ते, संशयविपर्ययदोषद्वयाभावेन उत्पन्नं ब्रह्मज्ञानं अबाधितत्वेन सुरक्षितं भूयात् ॥ २८ ॥ पञ्चम्यादिभूमित्रयरूपायां जीवन्मुक्तौ सम्पाद्यमानायां द्वैतभानाभावेन संशयविपर्ययप्रसङ्गाभावात् उत्पन्नं तत्त्वज्ञानं अबाधितत्वेन सुरक्षितं भूयात् ॥ २९ ॥ स्वप्ने स्थूलशरीराभावेऽपि, सुषुप्तौ सूक्ष्मशरीराभावेऽपि, समाधौ कारणशरीराभावेऽपि, जाग्रदाद्यवस्थाचतुष्टयेऽपि यः चिद्रूपात्मा मणिषु सूत्रमिव अनुस्यूततया निरन्तरं भासते, स चिद्रूपात्मैव अहमस्मीति अन्वयव्यतिरेकाभ्यां शरीरत्रयव्यावृत्तिं तत्साक्षिचैतन्यस्यानुवृत्तिं च पश्यतो मम शरीरत्रयव्यतिरिक्तात्मानुभवः सम्यग्भूयात् ॥ ३० ॥ भगवन्तं परमेश्वरं प्रीतिपूर्वकं भजतो ममोपरि अनुग्रहार्थं भगवान् वासुदेवः आत्मभावस्थः सन् , विवेकप्रत्ययरूपेण, भक्तिप्रसादस्नेहयुक्तेन, तद्भावनाभिनिवेशवातेरितेन, ब्रह्मचर्यादिसाधन- संस्कारवत्प्रज्ञावर्तिना, विरक्तान्तःकरणाधारेण, विषयव्यावृत्तरागद्वेषकलुषितचित्तनिवातापवरकस्थेन, नित्यप्रवृत्तैकाग्रयध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेन अज्ञानजं अविवेकतो जातं मिथ्याप्रत्ययरूपं मोहान्धकारं तमो नाशयत्वित्याशीः निरन्तरं भूयात् ॥ ३१ ॥ परमेश्वरं प्रीतिपूर्वकं भजन्तो भक्ता येनानन्यबुद्धियोगेन सम्यग्दर्शनलक्षणेन भगवन्तं परमेश्वरं आत्मत्वेन उपयान्ति प्रतिपद्यन्ते, तं बुद्धियोगं भगवान् वासुदेवः मे ददातु इति आशीर्निरन्तरं भूयात् ॥ ३२ ॥ विकारमन्तरेण स्वाध्यस्तं सर्वं साक्षादव्यवधानेन स्वरूपबोधेन ईक्षते पश्यतीति साक्ष्यनुभवसिद्धिः सम्यग्भूयात् ॥ ३३ ॥ देहेन्द्रियादिसकलजडावभासकत्वेन आत्मा चिद्रूप इति चिदात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ३४ ॥ आत्मनि कदाचिदपि अप्रियाभावेन,परमप्रेमास्पदत्वेन च, आत्मा परमानन्दरूप इति, आनन्दानुभवसिद्धिः सम्यग्भूयात् ॥ ३५ ॥ अभारूपस्य विश्वस्य भानं, भासकसन्निधिं विना कदाचिदपि न संभवतीति, भारूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ३६ ॥ असज्जडदुःखात्मकाहङ्कारादिभ्यो विलक्षणतया, प्रातिकूल्येन सत्यज्ञानानन्दरूपेण अञ्चति, प्रकाशत इति, प्रत्यगात्मानुभव- सिद्धिः सम्यग्भूयात् ॥ ३७ ॥ पश्चाद्भासमानस्य जडस्य, प्रथमतो भासमानं चैतन्यमेव वास्तवं स्वरूपमिति निश्चित्य, जडमुपेक्ष्य, चिन्मात्रमेव चित्तं निरन्तरं सम्यग्भूयात् ॥ ३८ ॥ ' सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ' इति वाक्येन देहेन्द्रियादिसाक्षिरूपं यत् प्रज्ञानं त्वंपदार्थरूपं निर्णीतं, तदेव ' एष ब्रह्म ' इत्यादिवाक्येन जगत्कारणतया निर्णीतं परं ब्रह्म, न चानयोरीषदपि भेदोऽस्ति इति, ऐतरेयमहावाक्यज्ञानसिद्धिः निरन्तरं भूयात् ॥ ३९ ॥ यतः, सर्वत्रावस्थितं प्रज्ञानं ब्रह्म, अतो मयि अवस्थितं प्रज्ञानं ब्रह्म, प्रज्ञानत्वाविशेषात् इति ऐतरेयमहावाक्योत्थितजीवब्रह्मैक्यज्ञानसिद्धिः निरन्तरं भूयात् ॥ ४० ॥ आत्मसन्निधौ विद्यमानत्वेन, जडरूपस्यापि देहेन्द्रियादेः चेतनत्वेन भासमानत्वात्, आत्मा चिद्रूप इति चिदात्मानुभवसिद्धिः सम्यग्भूयात् ॥४१॥ आत्मसहितत्वेन, दुःखात्मकस्य देहादेरपि प्रियतमत्वात्, आत्मा परमानन्दरूप इति, आनन्दात्मनुभवसिद्धिः सम्यग्भूयात् ॥ ४२ ॥ देशतः, कालतः, वस्तुतः, परिच्छेदरहिताद्वितीयात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ४३ ॥ पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्ति- विशेषस्य हेतोः चित्तसंस्कारस्य, विवेकजन्यायां क्षान्त्यादिवासनायां दृढायां सत्यां विनाशात्, बाह्यनिमित्ताभावेन क्रोधाद्यनुत्पत्तिः सम्यग्भूयात् ॥ ४४ ॥ ᳚ यस्य प्रसादादहमेव विष्णुः, मय्येव सकलं परिकल्पितं च ᳚ इति, आत्मस्वरूपं विजानामि, तस्य पादारविन्दयोः अचञ्चला भक्तिः निरन्तरं सम्यग्भूयात् ॥ ४५ ॥ अचिद्रूपस्य जगतः चित्सन्निधेर्विद्यमानत्वात्, चिद्रूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ४६ ॥ सर्वार्थसाधकत्वहेतुना, सर्वसंबन्धेन च आत्मा परिपूर्ण इति परिपूर्णात्मानुभवः सम्यग्भूयात् ॥ ४७ ॥ देशकालाव्यवहितत्वेन परोक्षहेतोरभावात्, साधनान्तरनिरपेक्षतया स्वयंप्रकाशमानः चिदात्मा सर्वदा स्वतस्सिद्धापरोक्ष इति अपरोक्षानुभवसिद्धिः सम्यग्भूयात् ॥ ४८ ॥ यत्र यद्वस्तु अस्तीति ईक्षते, तेन वस्तुना अन्यत्र अनन्वागतत्वेन आत्मा असङ्ग इति, असङ्गात्मानुभवः सम्यग्भूयात् ॥ ४९ ॥ निरवयत्वेन असङ्गत्वेन च, आत्मनः केनापि संबन्धाभावात्, आत्मा नित्यमुक्त इति, नित्यमुक्तस्वरूपानुभवः सम्यग्भूयात् ॥ ५० ॥ अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वात्, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ ५१ ॥ साधनान्तरनिरपेक्षतया स्वयमेव भासमानत्वात्, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ ५२ ॥ इदं सर्वं आत्मनि प्रतीयमानं यत् रूपरसादिकं जगत् मायामयं, न त्वेतत् वस्तुतोऽस्तीति तत्त्वनिश्चयो दृढीभूयात् ॥ ५३ ॥ इति श्रीमत्परमहंसपरिव्राजक श्रीविद्यारण्यस्वामिरचितः ब्रह्मविदाशीर्वादः सम्पूर्णः ॥ Encoded by LakShmi Muthuswamy and proofread by Sunder Hattangadi sunderh@hotmail.com

% Text title            : brahmavidAshIrvAdaH
% File name             : brahmavidashirvada.itx
% itxtitle              : brahmavidAshIrvAdaH
% engtitle              : Brahmavid-Ashirvada
% Category              : major_works, vidyAraNya
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sw. Vidyaranya
% Language              : Sanskrit
% Subject               : philosophy, vedanta
% Transliterated by     : Lakshmi Muthuswamy
% Proofread by          : Lakshmi Muthuswamy, Sunder Hattangadi
% Latest update         : Feb 4, 2009
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP