ब्रह्मविदाशीर्वादः
॥श्रीः॥
श्रीमत्परमहंसपरिव्राजकाचार्य
श्रीविद्यारण्यस्वामीविरचितः
श्रीब्रह्मविदाशीर्वादः ।
हिरण्यगर्भादिस्थावरान्तेषु शरीरेषु यदेकं चैतन्यमस्ति,
तदेवाहमस्मीति दृढज्ञानं निरन्तरं भूयात् ॥१ ॥
निर्विकल्पसमाधिप्रतिबन्धकलयविक्षेपकषायरसास्वादेभ्यो
रक्षितं मे चित्तमविघ्नेन ब्रह्मणि अवस्थितं भूयात् ॥ २ ॥
नित्यनिर्विकारासङ्गाद्वितीयपरिपूर्णसच्चिदानन्दस्वप्रकाश-
चिदेकरसब्रह्मानुभवसिद्धिर्भूयात् ॥ ३ ॥
अहमादिदृश्यविलक्षणास्मत्प्रत्ययालम्बनभृतप्रत्यक्-
चिन्मात्रस्वरूपानुभवसिद्धिर्भूयात् ॥ ४ ॥
सजातीयविजातीयस्वगतभेदरहिताखण्डसच्चिदानन्दाद्वितीय-
ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ५ ॥
नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीय-
ब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ६ ॥
स्वगतादिभेदरहिताखण्डसच्चिदानन्दलक्षणब्रह्माभिन्न-
कूटस्थप्रत्यक्स्वरूपः सर्वसाक्षीति चिद्रूपानुभवसिद्धिर्भूयात् ॥७ ॥
स्वात्मनोऽन्यत्वेन प्रतिभातं सकलं साक्ष्यं जगत् स्वाविद्याविलसितत्वेन
स्वानन्यत्वात् स्वात्ममात्रमिति, अद्वितीयब्रह्मात्मानुभवसिद्धिर्भूयात् ॥ ८ ॥
असंभावनाविपरीतभावनारहितत्वेन करतलामलकवत् अहं ब्रह्मास्मीति
अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात् ॥ ९ ॥
यो ब्रह्मादिस्तम्बपर्यन्तानां सर्वेषां प्राणिनां देहमध्ये,
तत्तद्देहसाक्षित्वेन भासमानः, परिपूर्णात्माऽस्ति, सोऽयं परमात्मा,
केवलं मुमुक्षोः पुरुषस्य मे स्वरूपमित्येवंरूपात्मसाक्षात्कारो
दृढीभूयात् ॥ १० ॥
वासनाक्षय - मनोनाश - तत्त्वज्ञानाभ्यासवशात्, ज्ञानरक्षा,
तपःसिद्धिः, सर्वसमत्वं, दुःखनिवृत्तिः, सुखाविर्भावः
इत्येतत्पञ्चप्रयोजनसिद्धिर्भूयात् ॥ ११ ॥
मैत्री - करुणा - मुदितोपेक्षारूपसद्वासनापाटवेन रागादि-
दुर्वासनाक्षयः सम्यग्भूयात् ॥ १२ ॥
निरन्तरस्वात्मानुसन्धानवशात् मनसो वृत्तिरूपपरिणामत्यागेन,
निरुद्धताकारेण आत्मपरिणामो दृढीभूयात् ॥ १३ ॥
शमादिपूर्वकश्रवणमनननिदिध्यासनाभ्यासबलात्,
विषयासक्तिः, प्रज्ञामान्द्यं, विपर्ययः, दुराग्रहश्चेति
वर्तमानप्रतिबन्धचतुष्टयनिवृत्तिद्वारा,
अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात् ॥ १४ ॥
उपक्रमादिषड्विधलिङ्गैः, अशेषवेदान्तानाम्
अद्वैते ब्रह्मणि तात्पर्यावधारणं दृढीभूयात् ॥ १५ ॥
श्रीगुरुमुखात् श्रुताद्वितीयवस्तुनः, वेदान्तानुगुणयुक्तिभिः
अनवरतमनुचिन्तनं भूयात् ॥ १६ ॥
विजातीयदेहादिप्रत्ययानन्तरित - सजातीयसच्चिदानन्दात्म-
प्रत्ययप्रवाहो निरन्तरं भूयात् ॥ १७ ॥
असङ्गोऽहं, चिदात्माहमिति प्रत्यगात्मनि निवेशिते, वृत्तिरहिते,
संस्कारशेषमात्रतया सूक्ष्मरूपेणावस्थिते चित्ते, आत्मनः
स्वरूपभूतपरमानन्दो निरन्तरं सम्यगाविर्भूयात् ॥ १८ ॥
अहमात्मा साक्षी, केवलः, चिन्मात्रस्वरूपः; नाज्ञानं; नापि
तत्कार्यं ; किंतु, नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं
ब्रह्मैवाहमस्मीति अभेदेनावस्थानं समाधिः ; तत्र च अन्तस्समाधिना
दृग्दृश्यविवेके, बहिस्समाधिना ब्रह्मसर्गविवेके च दृढे जाते,
तेन विवेकद्वयेनायं गलितदेहाभिमानः,
विज्ञातपरमात्मतत्त्वश्च भूयात् ॥ १९ ॥
देहाद्बहिः सकलनामरूपात्मकेषु वस्तुष्वपि, सर्पधारादिषु
रज्जुरिव व्याप्तः, सच्चिदानन्दलक्षणो यः परमात्मा, स एव
परशब्देनोच्यते । अन्तः अहमादिदृश्यविलक्षणः,
अस्मत्प्रत्ययालम्बनभूतः, प्रत्यक्चिन्मात्रस्वरूपः, यः
साक्ष्याख्यो जीवात्मा, स एव अवरशब्देनोच्यते । परश्चासौ
अवरश्चेति परावरः, प्रत्यगभिन्नः परमात्मा । तस्मिन् एवम्
अन्तर्बहिश्च पररूपेण अवररूपेण च अवस्थिते, परमार्थतः
परावरविभागरहिते प्रत्यगभिन्ने परावरे ब्रह्मणि ' त्वं वा
अहमस्मि भगवो देवते ; अहं वै त्वमसि ' इति श्रुत्यनुसारेण
' अहं ब्रह्मास्मि, ब्रह्मैवाहमस्मि ' इति व्यतिहारेण,
अखण्डैकरसत्वेन साक्षात्कृते सति, तेन परावरब्रह्मसाक्षात्कारेण,
अस्य परावरब्रह्म साक्षात्कृतवतो मम हृदयग्रन्थिभेद - सर्व -
संशयनिवृत्ति - सर्वकर्मक्षयरूपपरमपुरुषार्थः
सम्यगाविर्भूयात् ॥ २० ॥
अहङ्कारात्मनोः एकत्वभ्रमनिवृत्तिरूपोऽयं
ग्रन्थिभेदः दृढीभूयात् ॥ २१ ॥
आत्मा देहादिव्यतिरिक्तो वा न वा, व्यतिरिक्तत्वेऽपि, कर्तृत्वादिधर्मयोगी
वा न वा, अकर्तृत्वेऽपि, तस्य ब्रह्मणा भेदोऽस्ति वा न वा, अभेदेपि,
तज्ज्ञानं कर्मादिसहितं व मुक्तिसाधनं केवलं वा, तथापि, आत्मा
साक्षी वा कर्ता वा, साक्षित्वेपि अस्य ब्रह्मस्त्वमस्ति वा न वा, ब्रह्मत्वे
सत्यपि, तद्बुध्या वेदितुं शक्यते वा न वा, शक्यत्वेऽपि,
तद्वेदनमात्रेण मुक्तिरस्ति वा न वा, साक्षात्कृतेऽपि, इतः परं
कर्तव्यमस्ति वा न वा, कर्तव्याभावेऽपि, इदानीं मम जीवन्मुक्तिरस्ति वा
न वा, जीवन्मुक्त्वेऽपि, वर्तमानदेहपातान्तरं विदेहमुक्तिः
भविष्यति वा न Vवा, तत्प्राप्तावापि, कालान्तरे पुनर्जन्म भविष्यति
वा न वा, इत्यादि सर्वसंशयनिर्वृत्तिर्भूयात् ॥ २२ ॥
अनारब्धानां आगामिजन्महेतूनां अनेककोटिजन्मार्जितानां
प्रारब्धव्यतिरिक्तानां सञ्चितकर्मणां निवृत्तिरूपः
परमपुरुषार्थः सम्यगाविर्भूयात् ॥ २३ ॥
यः पूर्णानन्दैकबोधः तद्ब्रह्माहमस्मीति ब्रह्मात्मानुभव-
मात्रपर्यवसाने बुद्धिर्निरन्तरं भूयात् ॥ २४ ॥
यस्मिन् काले द्वैतभानं नास्ति, निद्राऽपि नागच्छति, तस्मिन्
काले उपलभ्यमानं यत्सुखमस्ति स ब्रह्मानन्द इति
ब्रह्मात्मानुभवसिद्धिः निरन्तरं भूयात् ॥ २५ ॥
मनोव्यापाराभावसमये यत्सुखं भासते, तत्
सुखमात्मस्वरूपमिति आत्मनिश्चयः सम्यग्भूयात् ॥ २६ ॥
स्वप्नः स्वातिरेकेण यथा नास्ति, तथैव स्वजाग्रदपि स्वातिरेकेण
नास्ति ; तेन अद्वितीयात्मानुभवसिद्धिः सम्यग्भूयात् ॥ २७ ॥
वासनाक्षयमनोनाशाभ्यां निर्वासने वृत्तिशून्ये चित्ते,
संशयविपर्ययदोषद्वयाभावेन उत्पन्नं ब्रह्मज्ञानं
अबाधितत्वेन सुरक्षितं भूयात् ॥ २८ ॥
पञ्चम्यादिभूमित्रयरूपायां जीवन्मुक्तौ सम्पाद्यमानायां
द्वैतभानाभावेन संशयविपर्ययप्रसङ्गाभावात्
उत्पन्नं तत्त्वज्ञानं अबाधितत्वेन सुरक्षितं भूयात् ॥ २९ ॥
स्वप्ने स्थूलशरीराभावेऽपि, सुषुप्तौ सूक्ष्मशरीराभावेऽपि,
समाधौ कारणशरीराभावेऽपि, जाग्रदाद्यवस्थाचतुष्टयेऽपि
यः चिद्रूपात्मा मणिषु सूत्रमिव अनुस्यूततया निरन्तरं भासते,
स चिद्रूपात्मैव अहमस्मीति अन्वयव्यतिरेकाभ्यां
शरीरत्रयव्यावृत्तिं तत्साक्षिचैतन्यस्यानुवृत्तिं च पश्यतो
मम शरीरत्रयव्यतिरिक्तात्मानुभवः सम्यग्भूयात् ॥ ३० ॥
भगवन्तं परमेश्वरं प्रीतिपूर्वकं भजतो ममोपरि
अनुग्रहार्थं भगवान् वासुदेवः आत्मभावस्थः सन् ,
विवेकप्रत्ययरूपेण, भक्तिप्रसादस्नेहयुक्तेन,
तद्भावनाभिनिवेशवातेरितेन, ब्रह्मचर्यादिसाधन-
संस्कारवत्प्रज्ञावर्तिना, विरक्तान्तःकरणाधारेण,
विषयव्यावृत्तरागद्वेषकलुषितचित्तनिवातापवरकस्थेन,
नित्यप्रवृत्तैकाग्रयध्यानजनितसम्यग्दर्शनभास्वता
ज्ञानदीपेन अज्ञानजं अविवेकतो जातं मिथ्याप्रत्ययरूपं
मोहान्धकारं तमो नाशयत्वित्याशीः निरन्तरं भूयात् ॥ ३१ ॥
परमेश्वरं प्रीतिपूर्वकं भजन्तो भक्ता येनानन्यबुद्धियोगेन
सम्यग्दर्शनलक्षणेन भगवन्तं परमेश्वरं आत्मत्वेन
उपयान्ति प्रतिपद्यन्ते, तं बुद्धियोगं भगवान् वासुदेवः मे
ददातु इति आशीर्निरन्तरं भूयात् ॥ ३२ ॥
विकारमन्तरेण स्वाध्यस्तं सर्वं साक्षादव्यवधानेन
स्वरूपबोधेन ईक्षते पश्यतीति साक्ष्यनुभवसिद्धिः
सम्यग्भूयात् ॥ ३३ ॥
देहेन्द्रियादिसकलजडावभासकत्वेन आत्मा चिद्रूप इति
चिदात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ३४ ॥
आत्मनि कदाचिदपि अप्रियाभावेन,परमप्रेमास्पदत्वेन च,
आत्मा परमानन्दरूप इति, आनन्दानुभवसिद्धिः सम्यग्भूयात् ॥ ३५ ॥
अभारूपस्य विश्वस्य भानं, भासकसन्निधिं विना कदाचिदपि
न संभवतीति, भारूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः
सम्यग्भूयात् ॥ ३६ ॥
असज्जडदुःखात्मकाहङ्कारादिभ्यो विलक्षणतया, प्रातिकूल्येन
सत्यज्ञानानन्दरूपेण अञ्चति, प्रकाशत इति, प्रत्यगात्मानुभव-
सिद्धिः सम्यग्भूयात् ॥ ३७ ॥
पश्चाद्भासमानस्य जडस्य, प्रथमतो भासमानं
चैतन्यमेव वास्तवं स्वरूपमिति निश्चित्य, जडमुपेक्ष्य,
चिन्मात्रमेव चित्तं निरन्तरं सम्यग्भूयात् ॥ ३८ ॥
' सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ' इति वाक्येन
देहेन्द्रियादिसाक्षिरूपं यत् प्रज्ञानं त्वंपदार्थरूपं
निर्णीतं, तदेव ' एष ब्रह्म ' इत्यादिवाक्येन जगत्कारणतया
निर्णीतं परं ब्रह्म, न चानयोरीषदपि भेदोऽस्ति इति,
ऐतरेयमहावाक्यज्ञानसिद्धिः निरन्तरं भूयात् ॥ ३९ ॥
यतः, सर्वत्रावस्थितं प्रज्ञानं ब्रह्म, अतो मयि
अवस्थितं प्रज्ञानं ब्रह्म, प्रज्ञानत्वाविशेषात् इति
ऐतरेयमहावाक्योत्थितजीवब्रह्मैक्यज्ञानसिद्धिः
निरन्तरं भूयात् ॥ ४० ॥
आत्मसन्निधौ विद्यमानत्वेन, जडरूपस्यापि देहेन्द्रियादेः
चेतनत्वेन भासमानत्वात्, आत्मा चिद्रूप इति चिदात्मानुभवसिद्धिः
सम्यग्भूयात् ॥४१॥
आत्मसहितत्वेन, दुःखात्मकस्य देहादेरपि प्रियतमत्वात्,
आत्मा परमानन्दरूप इति, आनन्दात्मनुभवसिद्धिः
सम्यग्भूयात् ॥ ४२ ॥
देशतः, कालतः, वस्तुतः, परिच्छेदरहिताद्वितीयात्मानुभवसिद्धिः
सम्यग्भूयात् ॥ ४३ ॥
पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्ति-
विशेषस्य हेतोः चित्तसंस्कारस्य, विवेकजन्यायां क्षान्त्यादिवासनायां
दृढायां सत्यां विनाशात्, बाह्यनिमित्ताभावेन क्रोधाद्यनुत्पत्तिः
सम्यग्भूयात् ॥ ४४ ॥
᳚ यस्य प्रसादादहमेव विष्णुः, मय्येव सकलं परिकल्पितं
च ᳚ इति, आत्मस्वरूपं विजानामि, तस्य पादारविन्दयोः
अचञ्चला भक्तिः निरन्तरं सम्यग्भूयात् ॥ ४५ ॥
अचिद्रूपस्य जगतः चित्सन्निधेर्विद्यमानत्वात्, चिद्रूपात्मा सर्वगत
इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात् ॥ ४६ ॥
सर्वार्थसाधकत्वहेतुना, सर्वसंबन्धेन च आत्मा परिपूर्ण
इति परिपूर्णात्मानुभवः सम्यग्भूयात् ॥ ४७ ॥
देशकालाव्यवहितत्वेन परोक्षहेतोरभावात्, साधनान्तरनिरपेक्षतया
स्वयंप्रकाशमानः चिदात्मा सर्वदा स्वतस्सिद्धापरोक्ष इति
अपरोक्षानुभवसिद्धिः सम्यग्भूयात् ॥ ४८ ॥
यत्र यद्वस्तु अस्तीति ईक्षते, तेन वस्तुना अन्यत्र अनन्वागतत्वेन
आत्मा असङ्ग इति, असङ्गात्मानुभवः सम्यग्भूयात् ॥ ४९ ॥
निरवयत्वेन असङ्गत्वेन च, आत्मनः केनापि
संबन्धाभावात्, आत्मा नित्यमुक्त इति, नित्यमुक्तस्वरूपानुभवः
सम्यग्भूयात् ॥ ५० ॥
अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वात्, आत्मा स्वयंप्रकाश
इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ ५१ ॥
साधनान्तरनिरपेक्षतया स्वयमेव भासमानत्वात्, आत्मा
स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात् ॥ ५२ ॥
इदं सर्वं आत्मनि प्रतीयमानं यत् रूपरसादिकं जगत् मायामयं,
न त्वेतत् वस्तुतोऽस्तीति तत्त्वनिश्चयो दृढीभूयात् ॥ ५३ ॥
इति श्रीमत्परमहंसपरिव्राजक श्रीविद्यारण्यस्वामिरचितः
ब्रह्मविदाशीर्वादः सम्पूर्णः ॥
Encoded by LakShmi Muthuswamy and
proofread by Sunder Hattangadi