॥ धर्मपदम् ॥

१. यमकवर्गः प्रथमः मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः । मनसा चेत्प्रदुष्टेन भाषते वा करोति वा । ततो एनं दुःखमन्वेति चक्रमिव वहतः पदम् ॥ १॥ मनःपूर्वङ्गमा धर्मा मनःश्रेष्ठा मनोमयाः । मनसा चेत्प्रसन्नेन भाषते वा करोति वा । तत एनं सुखमन्वेति छायेवानपायिनी ॥ २॥ अक्रोशित् मां अवधी मां अजैषीत् मां अहार्षीत् मे । ये च तदुपनह्यन्ति वैरं तेषां न शाम्यति ॥ ३॥ अक्रोशित् मां अवधीत् मां अजैषीत् मां अहार्षीत् मे । ये तन्नोपनह्यन्ति वैरं तेषूपशाम्यति ॥ ४॥ नहि वैरेण वैराणी शाम्यन्तीह कदाचन । अवैरेण च शाम्यन्ति एष धर्मः सनातनः ॥ ५॥ परे च न विजानन्ति वयमत्र यंस्यामः । ये च तत्र विजानन्ति ततः शाम्यन्ति मेधगाः ॥ ६॥ शुभमनुपश्यन्तं विहरन्तमिन्द्रियेषु असंवृतम् । भोजनेऽमात्राज्ञं कुसीदं हीनवीर्यम् । तं वै प्रसहति मारो वातो वृक्षमिव दुर्बलम् ॥ ७॥ अशुभमनुपश्यन्तं विहरन्तं इन्द्रियेषु सुसंवृतम् । भोजने च मात्राज्ञं श्रद्धमाराब्धवीर्यम् । तं वै न प्रसहते मारो वातः शैलमिव पर्वतम् ॥ ८॥ अनिष्कषायः काषायं यो वस्त्रं परिधास्यति । अपेतो दमसत्याभ्यां न स काषायमर्हति ॥ ९॥ यश्च वान्तकषायः स्यात् शीलेषु सुसमाहितः । उपेतो दम-सत्याभ्यां स वै काषायमर्हति ॥ १०॥ असारे सारमतयः सारे चासारदर्शिनः । ते सारं नाधिगच्छन्ति मिथ्यासङ्कल्पगोचराः ॥ ११॥ सारं च सारतो ज्ञात्वा असारं च असारतः । ते सारं अधिगच्छन्ति सम्यक्-सङ्कल्प-गोचराः ॥ १२॥ यथागारं दुश्छन्नं वृष्टिः समतिविध्यति । एवं अभावितं चित्तं रागः समतिविध्यति ॥ १३॥ यथागारं सुच्छन्नं वृष्टिर्न समति विध्यति । एवं सुभावितं चित्तं रागो न समति विध्यति ॥ १४॥ इह शोचति प्रेत्त्य शोचति पापकारी उभयत्र शोचति । स शोचति स विहन्यते दृष्ट्वा कर्म क्लिष्टमात्मनः ॥ १५॥ इह मोदते प्रेत्त्य मोदते कृतपुण्य उभयत्र मोदते । स मोदते स प्रमोदते दृष्ट्वा कर्मविशुद्धिमात्मनः ॥ १६॥ इह तप्यति प्रेत्त्य तप्यति पापकारी उभयत्र तप्यति । पापं मे कृतमिति तप्यति भूयस्तप्यति दुर्गतिंगतः ॥ १७॥ इह नन्दति प्रेत्य नन्दति कृतपुण्य उभयत्र नन्दति । पुण्यं मे कृतमिति नन्दति भूयो नन्दति सुगतिंगतः ॥ १८॥ बह्यीमपि संहितां भाषमाणः न तत्करो भवति नरः प्रमत्तः । गोप इव गा गणयन् परेषां न भागवान् श्रामण्यस्य भवति ॥ १९॥ अल्पमपि संहितां भाषमाणो धर्मस्य भवत्यनुधर्मचारी । रागं च द्वेषं च प्रहाय मोहं सम्यक् प्रजानन् सुविमुक्तचित्तः । अनुपाददानः इह वाऽमुत्र वा स भागवान् श्रामण्यस्य भवति ॥ २०॥ ॥ इति यमकवर्गः समाप्तः ॥
२. अप्रमादवर्गः द्वितीयः अप्रमादोऽमृतपदं प्रमादो मृत्योः पदम् । अप्रमत्ता न म्रियन्ते ये प्रमत्ता यथा मृताः॥ १॥ एतं विशेषतो ज्ञात्वाऽप्रमादे पण्डिता । अप्रमादे प्रमोदन्त आर्याणां गोचरे रताः ॥ २॥ ते ध्यायिनः साततिका नित्त्यं दृढपराक्रमाः । स्पृशन्ति धीरा निर्वाणं योगक्षेमं अनुत्तरम् ॥ ३॥ उत्थानवतः स्मृतिमतः शुचिकर्मणो निशम्यकारिणः । संयतस्य च धर्मजीवनोऽप्रमत्तस्य यशोभिवर्द्धते ॥ ४॥ उत्थानेनाऽप्रमादेन संयमेन दमेन च । द्वीपं कुर्वन्ति मेधावी यं ओघो नाभिकिरति ॥ ५॥ प्रमादमनुयुञ्जन्ति बाला दुर्मेधसो जना । अपमादं च मेधावी धनं श्रेष्ठमिव रक्षति ॥ ६॥ मा प्रमादमनुयुञ्जीत मा कामरतिसंस्तवम् । अप्रमत्तो हि ध्यायन् प्राप्नोति विपुलं सुखम् ॥ ७॥ प्रमादमप्रमादेन यदा नुदति पण्डितः । प्रज्ञाप्रासादमारुह्य अशोकः शोकिनीं प्रजाग् । पर्वतस्थ इव भूमिस्थान् धीरो बलान् अवेक्षते ॥ ८॥ अप्रमत्तः प्रमत्तेषु सुप्तेषु बहुजागरः । अबलाश्वमिव शीघ्राश्वो हित्त्वा याति सुमेधाः ॥ ९॥ अप्रमादेन मघवा देवानां श्रेष्ठतां गतः । अप्रमादं प्रशंसन्ति प्रमादो गर्हितः सदा ॥ १०॥ अप्रमादरतो भिक्षुः प्रमादे भयदर्शी वा । सायोजनं अणुं स्थूलं दहन्नग्निरिव गच्छति ॥ ११॥ अप्रमादरतो भिक्षुः प्रमादे भयदर्शी वा । अभव्यः परिहाणाय निर्वाणस्यैव अन्तिके ॥ १२॥ ॥ इति अप्रमादवर्गः समाप्तः ॥
३. चित्तवर्गस्तृतीयः स्पन्दनं चपलं चित्तं दुरक्ष्यं दुर्निवार्यम् । ऋजुं करोति मेधावी इषुकार इव तेजनम् ॥ १॥ वारिजं इव स्थले क्षिप्तं उदकस्यौकत उद्भूतः । परिस्पन्दत इदं चित्तं मारधेयं प्रहातुम् ॥ २॥ दुर्निग्रहस्य लघुनो यत्र-काम-निपातिनः । चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम् ॥ ३॥ सुदुर्दृशं सुनिपुणं यत्र-कामनिपाति । चित्तं रक्षेन्मेधावी चित्तं गुप्तं सुखावहम् ॥ ४ दूरङ्गमं एकचरं अशरीरं गुहाशयम् । ये चित्तं संयंस्यन्ति मोक्ष्यन्ते मारबन्धनात् ॥ ५॥ अनवस्थितचित्तस्य सद्धर्मं अविजानतः । परिप्लवप्रसादस्य प्रज्ञा न परिपूर्यते ॥ ६॥ अनवस्रुत चित्तस्य अनन्वाहतचेतसः । पुण्यपापप्रहीणस्य नाऽस्ति जाग्रतो भयम् ॥ ७॥ कुंभोपमं कायमिमं विदित्वा नगरोपमं चित्तमिदं स्थापयित्त्वा । युध्येत मारं प्रज्ञायुधेन जितं च रक्षेदनिवेशनः स्यात् ॥ ८॥ अचिरं वतायं कायः पृथिवीं अधिशेष्यते । क्षुद्रोऽपेतविज्ञानो निरर्थं इव कलिङ्गरम् ॥ ९॥ द्विट् द्विषं यत् कुर्यात् वैरी वा पुनर्वैरिणम् । मिथ्याप्रणिहितं चित्तं पापीयांसं एनं ततः कुर्यात् ॥ १०॥ न तत् मातापितरौ कुर्यातां अन्ये चापि च ज्ञातिकाः । सम्यक्प्रणिहितं चित्तं श्रेयांसं एनं ततः कुर्यात् ॥ ११॥ ॥ इति चित्तवर्गः समाप्तः ॥
४. पुष्पवर्गश्चतुर्त्थः क इमां पृथिवीं विजेष्यते यमलोकं चेमं सदेवकम् । को धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥ १॥ शैक्षः पृथवीं विजेष्यते यमलोकं च इमं सदेवकम् । शैक्षो धर्मपदं सुदेशितं कुशलः पुष्पमिव प्रचेष्यति ॥ २॥ फेनोपमं कायमिमं विदित्वा मरीचिधर्मं अभिसंबुधानः । छित्वा मारस्य प्रपुष्पकाणि अदर्शनं मृत्युराजस्य गच्छेत् ॥ ३॥ पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महोघ इव मृत्युरादाय गच्छति ॥ ४॥ पुष्पाणि ह्येव प्रचिन्वन्तं व्यासक्तमनसं नरम् । अतृप्तमेव कामेषु अन्तकः कुरुते वशम् ॥ ५॥ यथापि भ्रमरः पुष्पं वर्णगन्धं अघ्नन् । पलायते रसमादाय एवं ग्रामे मुनिश्चरेत् ॥ ६॥ न परेषां विलोमानि न परेषां कृताकृतम् । आत्मनं एव अवेक्षेत कृतान्यकृतानि च ॥ ७॥ यथापि रुचिरं पुष्पं वर्णवदगन्धकम् । एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥ ८॥ यथापि रुचिरं पुष्पं वर्णवत् सगन्धकम् । एवं सुभाषिता वाक् सफला भवति कुर्वतः ॥ ९॥ यथापि पुष्पराशेः कुर्यात् मालागुणान् बहून् । एवं जातेन मर्त्त्येन कर्त्तव्यं कुशलं बहु ॥ १०॥ न पुष्पगन्धः प्रतिवातमेति न चन्दनं तगरमल्लिके वा । सताञ्च गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाति ॥ ११॥ चन्दनं तगरं वापि उत्पलं अथ वार्षिकी । एतेषां गन्धजातानां शीलगन्धोऽनुत्तरः ॥ १२॥ अल्पमात्रोऽयं गन्धो योऽयं तगरचन्दनी । यश्च शीलवतां गन्धो वाति देवेषु उत्तमः ॥ १३॥ तेषां सम्पन्नशीलानां अप्रमाद-विहारिणाम् । सम्यग्ज्ञानविमुक्त्तानां मारो मार्गं न विन्दति ॥ १४॥ यता सङ्कारधाने उज्झिते महापथे । पद्म तत्र जायेत शुचिगन्धं मनोरमम् ॥ १५॥ एवं सङ्कारभूते अन्धभूते पृथग्जने । अतिरोचते प्रज्ञया सम्यक्-संबुद्ध-श्रावकः ॥ १६॥ ॥ इति पुष्पवर्गः समाप्तः ॥
५. बालवर्गः पञ्चमः दीर्घा जाग्रतो रात्रिः दीर्घं श्रान्तस्य योजनम् । दीर्घो बालानां संसारः सद्धर्मं अविजानताम् ॥ १॥ चरन् चेत् नाधिगच्छेत् श्रेयांसं सदृशं आत्मनः । एकचर्यां दृढं कुर्यात् नाऽस्ति बाले सहायता ॥ २॥ पुत्रा मे सन्ति धनं मेऽस्ति इति बालो विहन्यते । आत्मा ह्यात्मनो नाऽस्ति कुतः पुत्राः कुतो धनम् ॥ ३॥ यो बालो मन्यते बाल्यं पण्डितश्चापि तेन स । बालश्च पण्डितमानी स वै बाल इत्युच्यते ॥ ४॥ यावज्जीवमपि चेद् बालः पण्डितं पर्युपासते । न स धर्मं विजानाति दर्वी सूपरसं यथा ॥ ५॥ मुहूर्त्तमपि चेद् विज्ञाः पण्डितं पर्युपासते । क्षिप्रं धर्मं विजानाति जिह्वा सूपरसं यथा ॥ ६॥ चरन्ति बाला दुर्मेधसोऽमित्रेणैवात्मना । कुर्वन्तः पापकं कर्मं यद्भवति कटुकफलम् ॥ ७॥ न तत् कर्म कृतं साधु यत् कृत्त्वाऽनुतप्यते । यस्याश्रुमुखो रुदन् विपाकं प्रतिसेवते ॥ ८॥ तच्च कर्मं कृतं साधु यत् कृत्वा नानुतप्यते । यस्य प्रतीतः सुमन विपाकं प्रतिसेवते ॥ ९॥ मध्विव मन्यते बालो यावत् पापं न पच्यते । यदा च पच्यते पापं अथ बालो दुःखं निगच्छति ॥ १०॥ मासे मासे कुशाग्रेण बालो भुञ्जीत भोजनम् । न स संख्यातधर्माणां कलामर्हति षोडशीम् ॥ ११॥ नहि पापं कृतं कर्म सद्यः क्षीरमिव मुञ्चति । दहन् बालमन्वेति भस्मच्छन्न इव पावकः ॥ १२॥ यावदेव अनर्थाय ज्ञप्तं बालस्य जायते । हन्ति बालस्य शुक्लांशं मूर्द्धानमस्य विपातयन् ॥ १३॥ असद् भवनमिच्छेत् पुरस्कारं च भिक्षुषु । आवासेषु चैश्वर्यं पूजां परकुलेषु च ॥ १४॥ ममैव कृतं मन्येतां गृहि-प्रव्रजितावुभौ । ममैवातिवशाः स्यातां कृत्याकृत्येषु कषु चित् । इति बालस्य सङ्कल्प इच्छा मानश्च वर्द्धते ॥ १५॥ अन्या हि लाभोपनिषद् अन्या निर्वाणगामिनि । एवमेतद् अभिज्ञाय भिक्षुर्बुद्धस्य श्रावकः । सत्कारं नाभिनन्देत् विवेकमनुबृंहयेत् ॥ १६॥ ॥ इति बालवर्गः समाप्तः ॥
६. पण्डितवर्गः षष्ठः निधीनामिव प्रवक्तारं यं पश्येत् वर्ज्यदर्शिनाम् । निगृह्यवादिनं मेधाविनं तादृशं पण्डितं भजेत् । तादृशं भजमानस्य श्रेयो भवति न पापीयः ॥ १॥ अववदेदनुशिष्यात् असभ्याच्च निवारयेत् । सतां हि स प्रियो भवति असतां भवत्यप्रियः ॥ २॥ न भजेत् पापकानि मित्राणि न भजेत् पुरुषाधमान् । भजेत् मित्राणि कल्याणानि भजेत पुरुषनुत्तमान् ॥ ३॥ धर्मपीतीः सुखं शेते विप्रसन्नेन चेतसा । आर्यप्रवेदिते धर्मे सदा रमते पण्डितः ॥ ४॥ उदकं हि नयन्ति नेतृका इषुकारा नमयन्ति तेजनम् । दारुं नमयन्ति तक्षका आत्मानं दमयन्ति पण्डिताः ॥ ५॥ शैलो यथैकघनो वातेन न समीर्यते । एवं निन्दाप्रशंसासु न समीर्यन्ते पण्डिताः ॥ ६॥ यथापि हृदो गंभीरो विप्रसन्नोऽनाविलः । एवं धर्मान् श्रुत्वा विप्रसीदन्ति पण्डिताः ॥ ७॥ सर्वत्र वै सत्पुरुषा व्रजन्ति न कामकामा लपन्ति सन्तः । सुखेन स्पृष्टा अथवा दुःखेन नोच्चावचं पण्डिता दर्शयन्ति ॥ ८॥ नात्महेतोः न परस्य हेतोः न पुत्रमिच्छेन्न धनं न राष्ट्रम् । नेच्छेद् अधर्मेण समृद्धिमात्मनः स शीलवान् प्रज्ञावान् धार्मिकः स्यात् ॥ ९॥ अल्पकास्ते मनुष्येषु ये जनाः पारगामिनः । अथेमा इतराः प्रजाः तीरमेवानुधावति ॥ १०॥ ये च खलु सम्यगाख्याते धर्मे धर्मानुवर्त्तिनः । ते जना पारमेष्यन्ति मृत्युधेयं सुदुस्तरम् ॥ ११॥ कृष्णं धर्मं विप्रहाय शुक्लं भावयेत् पण्डितः । ओकात् अनोकं आगम्य विवेके यत्र दुरमम् ॥ १२॥ तत्राभिरतिमिच्छेत् हित्त्वा कामान् अकिञ्चनः । पर्यवदापयेत् आत्मानं चित्तक्लेशैः पण्डितः ॥ १३॥ येषां संबोध्यंगेषु सम्यग्चित्तं सुभावितम् । आदानप्रतिनिःसर्गे अनुपादाय ये रताः । क्षीणास्रवा ज्योतिष्मन्तस्ते लोके परिनिर्वृताः ॥ १४॥ ॥ इति पण्डितवर्ग समाप्तः ॥
७. अर्हद्वर्गः सप्तमः गताध्वनो विशोकस्य विप्रमुक्तस्य सर्वथा । सर्वग्रन्थप्रहीणस्य परिदाहो न विद्यते ॥ १॥ उद्युञ्जते स्मृतिमन्तो न निकेते रमन्ते ते । हंसा इव पल्वलं हित्त्वा ओकमोकं जहति ते ॥ २॥ येषां सन्निचयो नाऽस्ति ये परिज्ञातभोजनाः । शून्यतोऽनिमित्तश्च विमोक्षो येषां गोचरः । आकाश इव शकुन्तानां गतिस्तेषां दुरन्वया ॥ ३॥ यस्यास्रवाः परिक्षीणा आहारे च अनिःसृतः । शून्यतोऽनिमित्तश्च विमोक्षो यस्य गोचरः । आकाश इव शकुन्तानां पदं तस्य दुरन्वयम् ॥ ४॥ यस्येन्द्रियाणि शमथं गतानि अश्वा यथा सारथिना सुदान्ताः । प्रहीणमानस्य अनास्रवस्य देवा अपि तस्य स्पृहयन्ति तादृशः ॥ ५॥ पृथिवीसमो न विरुध्यते इन्द्रकीलोपमः तादृक् सुव्रतः । हृद इवापेतकर्दमः संसारा न भवन्ति तादृशः ॥ ६॥ शान्तं तस्य मनो भवति वाक् च कर्म च । सम्यगाज्ञाविमुक्तस्य उपशान्तस्य तादृशः ॥ ७॥ अश्रद्धोऽकृतज्ञश्च सन्धिछेदश्च यो नरः । हतावकाशो वान्ताशः स वै उत्तम पुरुषः ॥ ८॥ ग्रामे वा यदि वाऽऽरण्ये निम्ने वा यदि वा स्थले । यत्रार्हन्तो विहरन्ति सा भूमी रामणीयका ॥ ९॥ रमणीयान्यरण्यानि यत्र न रमते जनः । वीतरागा रंस्यन्ते न ते कामगवेषिणः ॥ १०॥ ॥ इति अर्हद्वर्गः समाप्तः ॥
८. सहस्रवर्गो अष्टमः सहस्रमपि चेद् वाचोऽनर्थपदसंहिता । एकमर्थपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥ १॥ सहस्रमपि चेद्गाथा अनर्त्थपदसंहिता । एकं गाथापदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥ २॥ यश्च गाथाशतं भाषेतानर्थपदसंहिताः । एकं धर्मपदं श्रेयो यत् श्रुत्त्वोपशाम्यति ॥ ३॥ यः सहस्रं सहस्रेण संग्रामे मानुषान् जयेत् । एकं च जयेद् आत्मानं स वै संग्रामजिदुत्तमः ४ आत्मा ह वै जितः श्रेयान् या चेयमितरा प्रजा । दान्तात्मनः पुरुषस्य नित्यं संयतचारिणः ॥ ५॥ नैव देवो न गन्धर्वो न मारः सह ब्रह्मणा । जितं अपजितं कुर्यात् तथारूपस्य जन्तोः ॥ ६॥ मासे मासे सहस्रेण यो यजेत शतं समान् । एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् । सैव पुजना श्रेयसी यच्चेद् वर्षशतं हुतम् ॥ ७॥ यश्च वर्षशतं जन्तुरग्निं परिचरेत् वने । एकं च भावितात्मानं मुहुर्त्तमपि पूजयेत् । सैव पूजना श्रेयसी यच्चेत् वर्षशतं हुतम् ॥ ८॥ यत् किञ्चिद् इष्टं च हुतं च लोके संवत्सरं यजेत पुण्यापेक्षः । सर्वमपि तन्न चतुर्भागमेति अभिवादना ऋजुगतेषु श्रेयसी ॥ ९॥ अभिवादनशीलस्य नित्त्यं वृद्धापचायिनः । चत्वारो धर्मा वर्धन्ते आयुर्वर्णः सुखं बलम् ॥ १०॥ यश्च वर्षशतं जीवेत् दुःशीलोऽसमाहितः । एकाहं जीवितं श्रेयः शीलवतो ध्यायिनः ॥ ११॥ यश्च वर्षशतं जीवेत् दुष्प्रज्ञोऽसमाहितः । एकाहं जीवितं श्रेयः प्रज्ञावतो ध्यायिनः ॥ १२॥ यञ्च वर्षशतं जीवेत् कुसीदो हीनवीर्यः । एकाहं जीवितं श्रेयः वीर्यमारभतो दृढम् ॥ १३॥ यश्च वर्षशतं जीवेत् अपश्यन् उदयव्ययं एकाहं जीवितं श्रेयः पश्यतः उदयव्ययम् ॥ १४॥ यश्च वर्षशतं जीवेत् अपश्यन्नमृतं पदम् । एकाहं जीवितं श्रेयः पश्यतोऽमृतं पदम् ॥ १५॥ यञ्च वर्षशतं जीवेदपश्यन् धर्ममुत्तमम् । एकाहं जीवितं श्रेयः पश्यतो धर्ममुत्तमम् ॥ १६॥ ॥ इति सहस्रवर्गः समाप्तः ॥
९. पापवर्गः नवमः अभित्वरेत कल्याणे पापात् चित्तं निवारयेत् । तन्द्रितं हि कुर्वतः पुण्यं पापे रमते मनः ॥ १॥ पापं चेत् पुरुषः कुर्यात् न तत् कुर्यात् पुनः पुनः । न तस्मिन् छन्दं कुर्यात् दुःखः पापस्य उच्चयः ॥ २॥ पुण्यं चेत् पुरुषः कुर्यात् कुर्यादेतत् पुनः पुनः । तस्मिन् छन्दं कुर्यात् सुखः पुण्यस्य उच्चयः ॥ ३॥ पापोऽपि पश्यति भद्रं यावत् पापं न पच्यते । यदा च पच्यते पापं अथ पापो पापानि पश्यति ॥ ४॥ भद्रोऽपि पश्यति पापं यावत् भद्रं न पच्यते । यदा च पच्यते भद्रं अथ भद्राणि पश्यति ॥ ५॥ माऽवमन्येत पापस्य न मां तद् आगमिष्यति । उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते । बालः पूरयति पापं स्तोकं स्तोकमप्याचिन्वन् ॥ ६॥ माऽवमन्येत पुण्यस्य न मां तद् आगमिष्यति । उदबिन्दुनिपातेन उदकुंभोऽपि पूर्यते । धीरः पूरयति पुण्यस्य स्तोकं स्तोकमप्याचिन्वन् ॥ ७॥ वाणिगिव भयं मार्गं अल्पसार्थो महाधनः । विषं जीवितुकाम इव पापानि परिवर्जयेत् ॥ ८॥ पाणौ चेद् व्रणो न स्याद् हरेत् पाणिना विषम् । नाऽव्रणं विषमन्वेति नाऽस्ति पापं अकुर्वतः ॥ ९॥ योऽल्पदुष्टाय नराय दुष्यति शुद्धाय पुरुषायाऽनङ्गनाय । तमेव बालं प्रत्येति पापं सूक्ष्मो रजः प्रतिवातमिव क्षिप्तम् ॥ १०॥ गर्भमेक उत्पद्यन्ते निरयं पापकर्मिणः । स्वर्गं सुगतयो यान्ति परिनिर्वान्त्यनास्रवाः ॥ ११॥ नान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते स जगति प्रदेशो यत्रस्थितो मुच्येत पापकर्मणः ॥ १२॥ नान्तरिक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते स जगति प्रदेशो यत्रस्थितं न प्रसहेत मृत्युः ॥ १३॥ ॥ इति पापवर्गः समाप्तः ॥
१०. दण्डवर्गः दशमः सर्वे त्रस्यन्ति दण्डात् सर्वे बिभ्यति मृत्योः । आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥ १॥ सर्वे त्रसयन्ति दण्डात् सर्वेषां जिवितं प्रियम् । आत्मानं उपमां कृत्वा न हन्यात् न घातयेत् ॥ २॥ सुखकामानि भूतानि यो दण्डेन विहिनस्ति । आत्मनः सुखमन्विष्य प्रेत्त्य स न लभते सुखम् ॥ ३॥ सुखकामानि भूतानि यो दण्डेन न हिनसति । आत्मनः सुखमन्विष्य प्रेत्त्य स लभते सुखम् ॥ ४॥ मा वोचः परुषं किञ्चिद् उक्ताः प्रतिवदेयुस्त्वाम् । दुःखा हि संरंभकथा प्रतिदण्डाः स्पृशेयुस्त्वाम् ॥ ५॥ स चेत् नेरयसि आत्मानं कांस्यमुपहतं यथा । एष प्राप्तोऽसि निर्वाणं संरंभस्ते न विद्यते ॥ ६॥ यथा दण्डेन गोपालो गाः प्राजयति गोचरम् । एवं जरा च मृत्युश्चायुः प्राजयतः प्राणिनाम् ॥ ७॥ अथ पापानि कर्माणि कुर्वन् बालो न बुध्यते । स्वैः कर्मभिः दुर्मेधा अग्निदग्ध इव तप्यते ॥ ८॥ यो दण्डेनाऽदण्डेषु अप्रदुष्टेषु दुष्यति । दशानामन्यतमं स्थानं क्षिप्रमेव निगच्छति ॥ ९॥ वेदनां परुषां ज्यानिं शरीरस्य च भेदनम् । गुरुकं वाऽप्याबाधं चित्तक्षेपं वा प्राप्नुयात् ॥ १०॥ राजतो वोपसर्गं अभ्याख्यानं वा दारुणम् । परिक्षयं वा ज्ञातीनां भोगानां वा प्रभञ्जनम् ॥ ११॥ अथवाऽस्यागाराणि अग्निर्दहति पावकः । कायस्य भेदात् दुष्प्रज्ञो निरयं स उपपद्यते ॥ १२॥ न नग्नचर्या न जटा न पङ्कां नाऽनशनं स्थण्डिलशायिका वा । रजोजलीयं उत्कुटिकाप्रधानं शोधयन्ति मर्त्त्यं अवितीर्णकांक्षम् ॥ १३॥ अलङ्कृतश्चेदपि शमं चरेत् शान्तो दान्तो नियतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः ॥ १४॥ ह्रीनिषेधः पुरुषः कश्चित् लोके विद्यते । यो निन्दां न प्रबुध्यति अश्वो भद्रः कशामिव ॥ १५॥ अश्वो यथा भद्रः कशानिविष्ट आतापिनः संवेगिनो भवत । श्रद्धया शीलेन च वीर्येण च समाधिना धर्मविनिश्चयेन च । सम्पन्नविद्याचरणाः प्रतिस्मृताः प्रहास्यथ दुःखमिदं अनल्पकम् ॥ १६॥ उदकं हि नयन्ति नेतृकाः इषुकारा नमयन्ति तेजनम् । दारुं नमयन्ति तक्षका आत्मानं दमयन्ति सुव्रताः ॥ १७॥ ॥ इति दण्डवर्गः समाप्तः ॥
११. जरावर्ग एकादशः को नु हासः क आनन्दो नित्यं प्रज्वलिते सति । अन्धकारेणाऽवनद्धाः प्रदीपं न गवेषयथ ॥ १॥ पश्य चित्रीकृतं बिम्बं अरुष्कायं समुच्छ्रितम् । आतुरं बहुसङ्कल्पं यस्य नाऽस्ति ध्रुवं स्थितिः ॥ २॥ परिजीर्णमिदं रूपं रोगनीडं प्रभंगुरम् । भिद्यते पूतिसन्देहो मरणान्तं हि जिवितम् ॥ ३॥ यानिमान्यपथ्यान्यलाबूनीव शरदि । कापोतकान्यस्थीनी तानि दृष्ट्वा का रतिः ॥ ४ अस्थ्नां नगरं कृतं मांसलोहितलेपनम् । यत्र जरा च मृत्युश्च मानो म्रक्षश्चावहितः ॥ ५॥ जीर्यन्ति वै राजरथा सुचित्रा अथ शरीरमपि जरामुपेति । सतां च धर्मो न जरामुपेति सन्तो ह वै सद्भयः प्रवेदयन्ति ॥ ६॥ अल्पश्रुतोऽयं पुरुषो बलीवर्द इव जीर्यति । मांसानि तस्य वर्द्धन्ते प्रज्ञा तस्य न वर्द्धते ॥ ७॥ अनेकजातिसंसारं समधाविषं अनिविशमानः । गृहकारकं गवेषयन् दुःखा जातिः पुनः पुनः ॥ ८॥ गृहकारक दृष्टोसि पुनर्गेहं न करिष्यसि । सर्वास्ते पार्श्विका भग्ना गृहकूटं विसंस्कृतम् । विसंस्कारगतं चित्तं तृष्णानां क्षयमध्यगात् ॥ ९॥ अचरित्त्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् । जीर्णक्रौञ्च इव क्षीयन्ते क्षीणमत्स्य इव पल्वले ॥ १०॥ अचरित्वा ब्रह्मचर्यं अलब्ध्वा यौवने धनम् । शेरते चापोऽतिक्षीणा इव पुराणान्यनुतन्वन्त्ः ॥ ११॥ ॥ इति जरावर्गः समाप्तः ॥
१२. आत्मवर्गः द्वादशः आत्मान चेत् प्रियं जानीयाद् रक्षेत्तं सुरक्षितम् । त्रयाणामन्यतमं यामं प्रतिजागृयात् पण्डितः ॥ १॥ आत्मानमेव प्रथमं प्रतिरूपे निवेशयेत् । अथान्यमनुशिष्यात् न क्लिश्येत् पण्डितः ॥ २॥ आत्मानं चेत् तथा कुर्यात् यथाऽन्यमनुशासति । सुदान्तो वत दमयेद् आत्मा हि किल दुर्दमः ॥ ३॥ आत्मा हि आत्मनो नाथः कोहि नाथः परः स्यात् । आत्मना हि सुदान्तेन नाथं लभते दुर्लभम् ॥ ४॥ आत्मनैव कृतं पापं आत्मजं आत्मसंभवम् । अभिमथ्नाति दुर्मेधसं वज्रमिवाश्ममयं मणिम् ॥ ५॥ यस्याऽत्यन्तदौःशील्यं मालुवा शालमिवाततम् । करोति स तथात्मानं यथैनमिच्छन्ति द्विषः ॥ ६॥ सुकराण्यसाधून्यात्मनोऽहितानि च । यद्वै हितं च साधु च तद्वै परमदुष्करम् ॥ ७॥ यः शासनमर्हतां आर्याणां धर्मजीविनाम् । प्रतिक्रुश्यति दुर्मेधा दृष्टिं निःश्रित्य पापिकाम् । फलानि काष्ठकस्येव आत्महत्त्यायै फुल्लति ॥ ८॥ आत्मनैव कृतं पापं आत्मना संक्लिश्यति । आत्मनाऽकृतं पापं आत्मनैव विशुध्यति । शुद्धयशुद्धी प्रत्त्यात्मं नाऽन्योऽन्यं विशोधयेत् ॥ ९॥ आत्मनोऽर्थं परार्थेन बहुनाऽपि न हापयेत् । आत्मनोऽर्थमभिज्ञाय सदर्थप्रसितः स्यात् ॥ १०॥ ॥ इति आत्मवर्गः समाप्तः ॥
१३. लोकवर्गः त्रयोदशः हीनं धर्मं न सेवेत प्रमादेन न संवसेत् । मिथ्यादृष्टिं न सेवेत न स्यात् लोकवर्द्धनः ॥ १॥ उत्तिष्ठेन्न प्रमाद्येद् धर्मं सुचरितं चरेत् । धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥ २॥ धर्मं चरेत् सुचरितं न तं दुश्चरितं चरेत् । धर्मचारी सुखं शेतेऽस्मिं लोके परत्र च ॥ ३॥ यथा बुद्बुदकं पश्येत् यथा पश्येत् मरीचिकाम् । एवं लोकमवेक्षमाणं मृत्युराजो न पश्यति ॥ ४॥ एन पश्यतेमं लोकं चित्रं राजरथोपमम् । यत्र बाला विषीदन्ति नाऽस्ति सङ्गो विजानताम् ॥ ५॥ यश्च पूर्वं प्रमाद्य पश्चात् स न प्रमाद्यति । स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥ ६॥ यस्य पापं कृतं कर्म कुशलेन पिधीयते । स इमं लोकं प्रभासयति अभ्रान्मुक्त इव चन्द्रमा ॥ ७॥ अन्धभूतोऽयं लोकः तनुकोऽत्र विपश्यति । शकुनो जालमुक्त इवाल्पः स्वर्गाय गच्छति ॥ ८॥ हंसा आदित्यपथे यान्ति आकाशे यान्ति ऋद्धिया । नीयन्ते धीरा लोकात् जित्वा मारं सवाहिनीकम् ॥ ९॥ एकं धर्ममतीतस्य मृषावादिनो जन्तोः । वितीर्णपरलोकस्य नाऽस्ति पापमकार्यम् ॥ १०॥ न वै कदर्या देवलोकं व्रजन्ति बाला ह वै न प्रशंसन्ति दानम् । धीरश्च दानं अनुमोदमानस्तेनैव स भवति सुखी परत्र ॥ ११॥ पृथिव्या एकराज्यात् स्वर्गस्य गमनाद् वा । सर्वलोकाऽऽधिपत्त्याद् स्रोत आपत्तिफलं वरम् ॥ १२॥ ॥ इति लोकवर्गः समाप्तः ॥
१४. बुद्धवर्गः चतुर्दशः यस्य जितं नावजीयते जितमस्य न याति कश्चिल्लोके । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ? ॥ १॥ यस्य जालिनी विषात्मिका तृष्णा नाऽस्ति कुत्रचिन्नेतुम् । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेप्यथ ? ॥ २॥ ये ध्यानप्रसृता धीराः नैष्काम्योपशमे रताः । देवा अपि तेषां स्पृहयन्ति संबुद्धानां स्मृतिमताम् ॥ ३॥ कृच्छ्रो मनुष्यप्रतिलाभः कृच्छ्रं मर्त्त्यानां जीवितम् । कृच्छ्रं सद्धर्मश्रवणं कृच्छ्रो बुद्धानाम् उत्पादः ॥ ४॥ सर्वपापस्याकरणं कुशलस्योपसम्पदा । स्वचित्तपर्यवदापनं एतद् बुद्धानां शासनम् ॥ ५॥ क्षान्तिः परमं तपः तितिक्षा निर्वाणं परमं वदन्ति बुद्धाः । नहि प्रव्रजितः परोपघाती श्रमणो भवति परं विहेठयन् ॥ ६॥ अनुपवादोऽनुपघातः प्रातिमोक्षे च संवरः । मात्राज्ञता च भक्ते प्रान्तं च शयनासनम् । अधिचित्ते चायोगः एतद् बुद्धानां शासनम् ॥ ७॥ न कार्षापणवर्षेण तृप्तिः कामेषु विद्यते । अल्पास्वादा दुःखाः कामा इति विज्ञाय पण्डितः ॥ ८॥ अपि दिव्येषु कामेषु रतिं स नाऽधिगच्छति । तृष्णाक्षयरतो भवति सम्यक्संबुद्धश्रावकः ॥ ९॥ बहु वै शरणं यन्ति पर्वातांश्च वनानि च । आरामवृक्षचैत्यानि मनुष्या भयतर्जिताः ॥ १०॥ नैतत् खलु शरणं क्षेमं नैतत् शरणमुत्तमम् । नैतत् शरणमागम्य सर्वदुःखात्प्रमुच्यते ॥ ११॥ यश्च बुद्धं च धर्मं च संघं न्च शरणं गतः । चत्वारि आर्यसत्यानि सम्यक् प्रज्ञया पश्यति ॥ १२॥ दुःखं दुःखसमुत्पादं दुःखस्य चातिक्रमम् । आर्याष्टाङ्गिकं मार्गं दुःखोपशमगामिनम् ॥ १३॥ एतत् खलु शरणं क्षेमं एतत् शरणमुत्तमम् । एतत् शरणमागम्य सर्वदुःखात् प्रमुच्यते ॥ १४॥ दुर्लभः पुरुषाजानेयो न स सर्वत्र जायते । यत्र स जायते धीरस्तत्कुलं सुखमेधते ॥ १५॥ सुखो बुद्धानां उत्पादः सुखा सद्धर्म-देशना । सुखा संघस्य सामग्री समग्राणां तपः सुखम् ॥ १६॥ पूजार्हान् पूजयतो बुद्धान् यदि वा श्रावकान् । प्रपञ्चसमितिक्रान्तान् तीर्णशोकपरिद्रवान् ॥ १७॥ तान् तादृशान् पूजयतो निर्वृतान् अकुतोभयान् । न शक्यं पुण्यं संख्यातुं एवम्मात्रमपि केनचित् ॥ १८॥ इति बुद्धवर्गः समाप्तः
१५. सुखवर्गः पञ्चदशः सुसुखं वत जीवामो वैरिष्ववैरिणः । वैरिषु मनुष्येषु विहरामोऽवैरिणः ॥ १॥ सुसुखं वत जीवाम आतुरेषु अनातुराः । आतुरेषु मनुष्येषु विहरामोऽनातुराः ॥ २॥ सुसुखं वत जीवाम उत्सुकेषु अनुत्सुकाः । उत्सुकेषु मनुष्येषु विहराम अनुत्सुकाः ॥ ३॥ सुसुखं वत जीवामो येषां नो नाऽस्ति किञ्चन । प्रीतिभक्ष्या भविष्यामः देवा आभास्वरा यथा ॥ ४॥ जयो वैरं प्रसूते दुःखं शेते पराजितः । उपशान्तः सुखं शेने हित्त्वा जयपराजयौ ॥ ५॥ नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमः कलिः । नासति स्कन्धसदृशानि दुःखाः नाऽस्ति शान्तिपरं सुखम् ॥ ६॥ जिघत्सा परमो रोगः संस्कारः परमं दुःखम् । एतद् ज्ञात्वा यथाभूतं निर्वाणं परमं सुखम् ॥ ७॥ आरोग्यं परमो लाभः सन्तुष्टिः परमं धनम् । विश्वासः परमा ज्ञातिः निर्वाणं परमं सुखम् । ८॥ प्रविवेकरसं पीत्वा रसं उपशमस्य च । निर्दरो भवति निष्पापो धर्म प्रीतिरसं पिबन् ॥ ९॥ साधु दर्शनमार्याणां सन्निवासः सदा सुखः । अदर्शनेन बालानां नित्यमेव सुखी स्यात् ॥ १०॥ बालसंगतचारी हि दीर्घमधानं शोचति । दुःखो बालैः संवासोऽमित्रेणैव सर्वदा । धीरश्च सुखसंवासो ज्ञातीनामिव समागमः ॥ ११॥ तस्माद्धि धीरं च प्राज्ञं च बहुश्रुतं च धुर्यशीलं व्रतवन्तमार्यम् । तं तादृशं सत्पुरुषं सुमेधसं भजेत नक्षत्रपथमिव चन्दमाः ॥ १२॥ ॥ इति सुखवर्गः समाप्तः ॥
१६. प्रियवर्गः षोडशः अयोगे युञ्जन्नात्मानं योगे चायोजयन् । अर्थं हित्त्वा प्रियग्राही स्पृहयेदात्मानुयोगिनम् ॥ १॥ मा प्रियैः समागच्छ अप्रियैः कदाचन प्रियाणाम् अदर्शनं दुःखं अप्रियाणां च दर्शनम् ॥ २॥ तस्मात् प्रियं न कुर्यात् प्रियापायो हि पापकः । ग्रन्थाः तेषां न विद्यन्ते येषां नाऽस्ति प्रियाप्रियम् ॥ ३॥ प्रियतो जायते शोकः प्रियतो जायते भयम् । प्रियतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ४॥ प्रेमतो जायते शोकः प्रेमतो जायते भयम् । प्रेमतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ५॥ रत्या जायते शोको रत्या जायते भयम् । रत्या विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ६॥ कामतो जायते शोकः कामतो जायते भयम् । कामतो विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ७॥ तृष्णाया जायते शोकः तृष्णाया जायते भयम् । तृष्णाया विप्रमुक्तस्य नाऽस्ति शोकः कुतो भयम् ॥ ८॥ शीलदर्शनसम्पन्नं धर्मिष्ठं सत्यवादिनम् । आत्मनः कर्म कुर्वाणं तं जनः कुरुते प्रियम् ॥ ९॥ छन्दजातोऽनाख्याते मनसा च स्फुरितः स्यात् । कामेषु चाऽप्रतिबद्धचित्त ऊर्ध्वस्रोता इत्युच्यते ॥ १०॥ चिरप्रवासिनं पुरुषं दूरतः स्वस्त्यागतम् । ज्ञातिमित्राणि सुहृदश्चाऽभिनन्दन्त्यागतम् ॥ ११॥ तथैव कृतपुण्यमपि अस्माल्लोकात्परं गतम् । पुण्यानि प्रतिगृह्यन्ति प्रियं ज्ञातिभिवागतम् ॥ १२॥ ॥ इति प्रियवर्गः समाप्तः ॥
१७. क्रोधवर्गः सप्तदशः क्रोधं जह्याद् विप्रजह्यात् मानं संयोजनं सर्वमतिक्रमेत । तं नाम-रूपयोरसज्यमानं अकिञ्चनं नाऽनुपतन्ति दुःखानि ॥ १॥ यो वै उत्पतितं क्रोधं रथं भ्रान्तमिव धारयेत् । तमहं सारथिं ब्रवीमि रश्मिग्राह इतरो जनः ॥ २॥ अक्रोधेन जयेत् क्रोधं असाधुं साधुना जयेत्। जयेत् कदर्थं दानेन जयेत् सत्येनाऽलीकवादिनम् ॥ ३॥ सत्यं भणेन्न क्रुध्येत् दद्यादल्पेऽपि याचितः । एतैस्त्रिभिः स्थानैः गच्छेद् देवानामन्तिके ॥ ४॥ अहिंसका ये मुनयो नित्यं कायेन संवृताः । ते यन्ति अच्युतं स्थानं यत्र गत्वा न शोचन्ति ॥ ५॥ सदा जाग्रतां अहोरात्रं अनुशिक्षमाणानाम् । निर्वाणं अधिमुक्तानां अस्तं गच्छन्ति आस्रवाः ॥ ६॥ पुरणमेतद् अतुल ! नैतद् अद्यतनमेव । निन्दन्ति तुष्णीमासीनं निन्दन्ति बहुभाणिनम् । मितभाणिनमपि निन्दन्ति नाऽस्ति लोकेऽनिन्दितः ॥७॥ न चाऽभूत् न भविष्यति न चैतहिं विद्यते । एकान्तं निन्दितः पुरुषः एकान्तं वा प्रशंसितः ॥ ८॥ यश्चेद् विज्ञाः प्रशंसन्ति अनुविच्य श्वः श्वः । अच्छिद्रवृत्तिं मेधाविनं प्रज्ञाशीलसमाहितम् ॥ ९॥ निष्कं जंबूनदस्येव कस्तं निन्दितुमर्हति । देवा अपि तं प्रशंसन्ति ब्रह्मणाऽपि प्रशंसितः ॥ १०॥ कायप्रकोपं रक्षेत् कायेन संवृतः स्यात् । कायदुश्चरितं हित्त्वा कायेन सुचरितं चरेत् ॥ ११॥ वचः प्रकोपं रक्षेद् वाचा संवृतः स्यात् । वचो दुश्चरितं हित्त्वा वाचा सुचरितं चरेत् ॥ १२॥ मनः प्रकोपं रक्षेद् मनसा संवृतः स्यात् । मनोदुश्चरितं हित्त्वा मनसा सुचरितं चरेत् ॥ १३॥ कायेन संवृता धीरा अथ वाचा संवृताः । मनसा संवृता धीरा ते वै सुपरिसंवृताः ॥ १४॥ ॥ इति क्रोधवर्गः समाप्तः ॥
१८. मलवर्गोष्टादशः पाण्डुपलासमिवेदानीमसि यमपुरुषोऽपि चत्वां उपस्थिताः । उद्योगमुखे च तिष्ठसि पाथेयमपि च ते न विद्यते ॥ १॥ स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो दिव्यां आर्यभूमिं एष्यसि॥ २॥ उपनीतवया इदनीमसि सम्प्रयातोऽसि यमस्यान्तिके । वासोऽपि च ते नाऽस्ति अन्तरा पाथेयमपि च ते न विद्यते ॥ ३॥ स कुरु द्वीपमात्मनः क्षिप्रं व्यायच्छस्व पण्डितो भव । निर्धूतमलोऽनङ्गणो न पुनर्जातिजरे उपेष्यसि ॥ ४॥ अनुपूर्वेण मेधावी स्तोकं स्तोकं क्षणे क्षणे । कर्मारो रजतस्येव निर्धमेत् मलमात्मनः ॥ ५॥ अयस इव मलं समुत्थितं तस्माद् उत्थाय तदेव खादति । एवं अतिधावनचारिणं स्वानि कर्माणि नयन्ति दुर्गतिम् ॥ ६॥ अस्वाध्यायमला मन्त्रा अनुत्थानमला गृहा । मलं वर्णस्य कौसीद्यं प्रमादो रक्षतो मलम् ॥ ७॥ मलं स्त्रिया दुश्चरितं मात्सर्यं ददतो मलम् । मलं वै पापका धर्मा अस्मिन् लोके परत्र च ॥ ८॥ ततो मलं मलतरं अविद्या परमं मलम् । एतत् मलं प्रहाय निर्मला भवत भिक्षवः ॥ ९॥ सुजीवितं अह्रीकेण काकशूरेण ध्वंसिना । प्रस्कन्दिना प्रगल्भेन संक्लिष्टेन जीवितम् ॥ १०॥ ह्रीमता च दुर्जीवितं नित्यं शूचिगवेषिणा । अलीनेनाऽप्रगल्भेन शुद्धाजीवेन पश्यता ॥ ११॥ यः प्राणमतिपातयति मृषावादं च भाषते । लोकेऽदत्तमादत्ते परदारांश्च गच्छति ॥ १२॥ सुरामैरेयपानं च यो नरोऽनुयुनक्ति । इहैवमेष लोके मूलं खनत्यात्मनः ॥१३॥ एवं भो पुरुष ! जानीहि पापधर्माणोऽसंयतान् । मा त्वां लोभोऽधर्मश्च चिरं दुःखाय रन्धेरन् ॥ १४॥ ददाति वै यथाश्रद्धं यथा प्रसादनं जनः । तत्र यो मूको भवति परेषां पानभोजने । न स दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥ १५॥ यस्य च तत् समुच्छिन्नं मूलघातं समुद्धतम् । स वै दिवा वा रात्रौ वा समाधिं अधिगच्छति ॥ १६॥ नाऽस्ति रागसमोऽग्निः नाऽस्ति द्वेषसमो ग्राहः । नाऽस्ति मोहसमं जालं नाऽस्ति तृष्णा समा नदी ॥ १७॥ सुदर्शं वद्यमन्येषां आत्मनः पुनर्दुर्दशम् । परेषां हि स वद्यानि अवपुणाति यथातुषम् । आत्मनः पुनः छादयति कलिमिव कितवात् शठः ॥ १८॥ परवद्याऽनुदर्शिनो नित्यं उद्ध्यानसंज्ञिनः । आस्रवास्तस्य वर्द्धन्ते आराद् स आस्रवक्षयात् ॥ १९॥ आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । प्रपञ्चाऽभिरताः प्रजा निष्प्रपञ्चास्तथागताः ॥ २०॥ आकाशे च पदं नाऽस्ति श्रमणो नाऽस्ति बहिः । संस्काराः शाश्वता न सन्ति नाऽस्ति बुद्धानामिङ्गितम् ॥ २१॥ ॥ इति मलवर्गः समाप्तः ॥
१९. धर्मष्ठवर्गः एकोनविंशः न तेन भवति धर्मस्थो येनार्थं सहसा नयेत् । यश्चाऽर्थं अनर्थं च उभौ निश्चिनुयात् पण्डितः ॥ १॥ असाहसेन धर्मेण समेन नयते परान् । धर्मेण गुप्तो मेधावी धर्मस्थ इत्युच्यते ॥ २॥ न तावता पण्डितो भवति यावता बहु भाषते । क्षेमी अवैरी अभयः पण्डित इत्युच्यते ॥ ३॥ न तावता धर्मधरो यावता बहु भाषते । यश्चाल्पमऽपि श्रुत्वा धर्मं कायेन पश्यति । स वै धर्मधरो भवति यो धर्मं न प्रमाद्यति ॥ ४॥ न तेन स्थविरो भवति येनाऽस्य पलितं शिरः । परिपक्वं वयस्तस्य मोघजीर्ण इत्युच्यते ॥ ५॥ यस्मिन् सत्यं च धर्मश्चाहिंसा संयमो दमः । स वै वान्तमलो धीरः स्थविर इतुच्यते ॥ ६॥ न वाक् करणमात्रेण वर्णपुष्कलतया वा । साधुरूपो नरो भवति ईर्षुको मत्सरी शठः ॥ ७॥ यस्य चैतत् समुच्छिन्नं मूलघातं समुद्धतम् । स वान्तदोषो मेधावी साधुरूप इत्युच्यते ॥ ८॥ न मुण्डकेन श्रमणोऽव्रतोऽलीकं भणन् । इच्छालाभसमापन्नः श्रमणः किं भविष्यति ॥ ९॥ यश्च शमयति पापानि अणूनि स्थूलानि सर्वशः । शमितत्वाद्धि पापानां श्रमण इतुच्यते ॥ १०॥ न तावता भिक्षुर्भवति यावता भिक्षते परान् । विश्वं धर्मं समादाय भिक्षुर्भवति न तावता ॥ ११॥ य इह पुण्यं च पापं च वाहयित्वा ब्रह्मचर्यवान् । संख्याय लोके चरति स वै भिक्षुरित्युच्यते ॥ १२॥ न मौनेन मुनिर्भवति मूढरूपोऽविद्वान् । यश्च तुलामिव प्रगृह्य वरमादाय पण्डितः ॥ १३॥ पापानि परिवर्जयति स मुनिस्तेन स मुनिः । यो मनुत उभौ लोकौ मुनिस्तेन प्रोच्यते ॥ १४॥ न तेनाऽऽर्यो भवति येन प्राणान् हिनस्ति । अहिंसया सर्वप्राणानां आर्य इति प्रोच्यते ॥ १५॥ न शीलव्रतमात्रेण बाहुश्रुत्त्येन वा पुनः । अथवा समाधिलाभेन विविच्य शयनेन वा ॥ १६॥ स्पृशामि नैष्कर्म्यसुखं अपृथग्जनसेवितम् । भिक्षो विश्वासं मा पादीः अप्राप्त आस्रवक्षयम् ॥ २१॥ ॥ इति धर्मस्थवर्गः समाप्तः ॥
२०. मार्गवर्गः विंशः मार्गाणामष्टाङ्गिकः श्रेष्ठः सत्यानां चत्वारि पदानि । विरागः श्रेष्ठो धर्माणां द्विपदानां च चक्षुष्मान् ॥ १॥ एष वो मार्गो नाऽस्त्यन्यो दर्शनस्य विशुद्धये । एतं हि यूयं प्रतिपद्यध्वं मारस्यैष प्रमोहनः ॥ २॥ एतं हि यूयं प्रतिपन्ना दुःखस्यान्तं करिष्यथ । आख्यातो वै मया मार्गः आज्ञाय शल्य-संस्थानम् ॥ ३॥ युष्माभिः कार्यं आतप्यं आख्यातारस्तथागताः । प्रतिपन्नाः प्रमोक्ष्यन्ते ध्यायिनो मारबन्धनात् ॥ ४॥ सर्वे संस्कारा अनित्या इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥ ५॥ सर्वे संस्कारा दुःखा इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥ ६॥ सर्वे धर्मा अनात्मान इति यदा प्रज्ञया पश्यति । अथ निर्विन्दति दुःखानि एष मार्गो विशुद्धये ॥ ७॥ उत्थानकालेऽनुत्तिष्ठन् युवा बलि आलस्यमुपेतः । संसन्न-सङ्कल्प-मनाः कुसीदः प्रज्ञया मार्गं अलसो न विन्दति ॥ ८॥ वाचाऽनुरक्षी मनसा सुसंकृतः कायेन चाऽकुशलं न कुर्यात् । एतान् त्रीन् कर्मपथान् विशोधयेत् आराधयेत् मार्गं ऋषिप्रवेदितम् ॥ ९॥ योगाद् वै जायते भूरि अयोगाद् भूरिसंक्षयः । एतं द्वेधापथं ज्ञात्त्वा भवाय विभवाय च । तथाऽऽत्मानं निवेशयेद् यथाभूरि प्रवर्धते ॥ १०॥ वनं छिन्धि मा वृक्षं वनतो जायते भयम् । छित्त्वा वनं च वनथं च निर्वना भवथ भिक्षवः ॥ ११॥ यावद्धि वनथो न छिद्यतेऽणुमात्रोऽपि नरस्य नारीषु । प्रतिबद्धमनाः नु तावत् स वत्सः क्षीरप इव मातरि ॥ १२॥ उच्छिन्धि स्नेहमात्मनः कुमुदं शारदीकमिव पाणिना । शान्तिमार्गमेव बृंहय निर्वाणं सुगतेन देशितम् ॥ १३॥ इह वर्षासु वसिष्यामि इह हेमन्तग्रीष्मयोः । इति बालो विचिन्तयति अन्तरायं न बुध्यते ॥ १४॥ तं पुत्र-पशु-सम्मतं व्यासक्तमनसं नरम् । सुप्तं ग्रामं महौघ इव मृत्युरादाय गच्छति ॥ १५॥ न सन्ति पुत्रास्त्राणाय न पिता नाऽपि बान्धवाः । अन्तकेनाधिपन्नस्य नाऽस्ति ज्ञातिषु त्राणता ॥ १६॥ एतमर्त्थवशं ज्ञात्वा पण्डितो शीलसंवृतः । निर्वाणगमनं मार्गं क्षिप्रमेव विशोधयेत् ॥ १७॥ ॥ इति मार्गवर्गः समाप्तः ॥
२१. प्रकीर्णकवर्गः एकविंशः मात्रासुखपरित्यागात् पश्येच्चेत् विपुलं सुखम् । त्यजेन्मात्रासुखं धीरः सम्पश्यन् विपुलं सुखम् ॥ १॥ परदुःखोपादानेन य आत्मनः सुखमिच्छति । वैरसंसर्गसंसृष्टो वैरात् स न प्रमुच्यते ॥ २॥ यद्धि कृत्यं अपविद्धं अकृत्यं पुनः कुर्युः। उन्मलानां प्रमत्तानां तेषां वर्द्धन्त आस्रवाः ॥ ३॥ येषांञ्च सुसमारब्धा नित्यं कायगता स्मृतिः । अकृत्यं ते न सेवन्ते कृत्ये सातत्यकारिणः । सतां सम्प्रजानानां अस्तं गच्छन्त्यास्रवाः ॥ ४॥ मातरं पितरं हत्त्वा राजानौ द्वौ च क्षत्रियौ । राष्ट्रं साऽनुचरं हत्त्वाऽनघो याति ब्राह्मणः ॥ ५॥ मातरं पितरं हत्वा राजानौ द्वौ च श्रोत्रियौ । व्याघ्रपंचमं हत्त्वाऽनघो याति ब्राह्मणः ॥ ६॥ सुप्रबुद्धं प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं बुद्धगता स्मृतिः ॥ ७॥ सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं धर्मगता स्मृतिः ॥ ८॥ सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं संघगता स्मृतिः ॥ ९॥ सुप्रबुद्धा प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च नित्यं कायगता स्मृतिः ॥१०॥ सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च अहिंसायां रतं मनः ॥ ११॥ सुप्रबुद्धाः प्रबुध्यन्ते सदा गौतमश्रावकाः । येषां दिवा च रात्रौ च भावनायां रतं मनः ॥ १२॥ दुष्प्रव्रज्यां दुरभिरामं दुरावासं गृहं दुःखम् । दुखोऽसमानसंवासो दुःखाऽनुपतितोऽध्वगः । तस्मान्न चाऽध्वगः स्यान्न च दुःखानुपतितः स्यात् ॥ १३॥ श्रद्धः शीलेन सम्पन्नो यशोभोगसमर्पितः । यं यं प्रदेशं भजते तत्र तत्रैव पूजितः ॥ १४॥ दूरे सन्तः प्रकाशन्ते हिमवन्त इव पर्वताः । असन्तोऽत्र न दृश्यन्ते रात्रिक्षिप्ता यथा शराः ॥ १५॥ एकासन एकशय्य एकश्चरन्नतन्द्रितः । एको दमयन्नात्मानं वनान्ते रतः स्यात् ॥ १६॥ ॥ इति प्रकीर्णकवर्गः समाप्तः ॥
२२. निरयवर्गो द्वाविंशः अभूतवादी निरयमुपेति यो वाऽपि कृत्वा न करोमि ति चाह । उभावपि तौ प्रेत्त्य समा भवतो निहीनकर्माणौः मनुजौः परत्र ॥ १॥ काषायकण्ठा बहवः पापधर्मा असंयताः । पापाः पापैः कर्मभिर्निरयं ते उत्पद्यन्ते ॥ २॥ श्रेयान् अयोगोलो भुक्तस्तप्तोऽग्निशिखोपम । यच्चेद् भुञ्जीत दुःशीलो राष्ट्रपिंडं असंयतः ॥ ३॥ चत्वारि स्थानानि नरः प्रमत्तः आपद्यते परदारोपसेवी । अपुण्यलाभं न निकामशय्यां निन्दां तृतीयां निरयं चतुर्थम् ॥ ४॥ अपुण्यलाभश्च गतिश्च पापिका भीतस्य भीतया रतिश्च स्तोकिका । राजा च दण्डं गुरुकं प्रणयति तस्मात् नरो परदारान् न सेवेत् ॥ ५॥ कुशो यथा दुर्गृहीतो हस्तमेवाऽनुकृन्तति । श्रामण्यं दुष्परामृष्टं निरयायोपकर्षति ॥ ६॥ यत् किञ्चित् शिथिलं कर्म संक्लिष्टं च यद् व्रतम् । संकृच्छ्रं ब्रह्मचर्यं न तद् भवति महत्फलम् ॥ ७॥ कुर्याच्चेत् कुर्वीतैतद् दृढमेतत् पराक्रमेत । शिथिलो हि परिव्राजको भूय आकिरते रजः ॥ ८॥ अकृतं दुष्कृतं श्रेयः पश्चात् तपति दुष्कृतम् । कृतं च सुकृतं श्रेयो यत् कृत्वा नाऽनुतप्यते ॥ ९॥ नगरं यथा प्रत्यन्तं गुप्तं सान्तर्बाह्यं एवं गोपयेदात्मानं क्षणं वै मा उपातिगाः । क्षणाऽतीता हि शोचन्ति निरये समर्पिताः ॥ १०॥ अलज्जिता ये लज्जन्ते लज्जित ये न लज्जन्ते । मिथ्यादृष्टि समादाना सत्त्वा गच्छन्ति दुर्गतिम् ॥ ११॥ अभये च भयदर्शिनो भये चाऽभयदर्शिनः । मिथ्यादृष्टिसमादानाः सत्त्वा गच्छन्ति दुर्गतिम् ॥ १२॥ अवद्ये वद्यमतयो वद्ये चाऽवद्यदर्शिनः । मिथ्यादृष्टिसमादानाः सत्त्वा गच्छन्ति दुर्गतिम् ॥ १३॥ वद्यं च वद्यतो ज्ञात्वाऽवद्यं चावद्यतः । सम्यग्दृष्टिसमादानाः सत्त्वा गच्छन्ति सुगतिम् ॥ १४॥ ॥ इत् निरयवर्गः समाप्तः ॥
२३. नागवर्गः त्रयोविंशः अहं नाग इव संग्रामे चापतः पतितं शरम् । अतिवाक्यं तितिक्षिष्ये दुःह्शीला हि बहुजनाः ॥ १॥ दान्तं नयन्ति समितिं दान्तं राजाऽभिरोहति । दान्तः श्रेष्ठा मनुष्येषु योतिवाक्यं तितिक्षसे ॥ २॥ वरमश्वतरा दान्ता आजानीयाश्च सिन्धवः । कुञ्जराश्च महानागा आत्मदान्तस्ततो वरम् ॥ ३॥ न हि एतैर्यानैः गच्छेदगतां दिशम् । यथाऽऽत्मना सुदान्तेन दान्तो दान्तेन गच्छति ॥ ४॥ धनपालको नाम कुञ्जरः कटकप्रभेदनो दुर्निवार्यः । बद्धः कवलं न भुंक्ते स्मरति नागवनस्य कुञ्जरः ॥ ५॥ मृद्धो यदा भवति महाघसश्च निद्रायितः सपरिवर्त्तशायी । महावराह इव निवापपुष्टः पुनः पुनः गर्भमुपैति मन्दः ॥ ६॥ इदं पुरा चित्तमचरत् चारिकां यथेच्छं यथाकामं यथासुखम् । तदद्याऽहं निग्रहिष्यामि योनिशो हस्तिनं प्रभिन्नमिवाङ्कुशग्राहः ॥ ७॥ अप्रमादरता भवत स्वचित्तमनुरक्षत । दुर्गादुद्धरताऽऽत्मानं पङ्के सक्त इव कुञ्जरः ॥ ८॥ स चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् । अभिभूय सर्वान् परिश्रयान् चरेत् तेनाऽऽत्तमनाः स्मृतिमान् ॥ ९॥ न चेत् लभेत निपक्वं सहायं सार्द्धं चरन्तं साधुविहारिणं धीरम् । राजेव राष्ट्रं विजितं प्रहाय एकश्चरेत् मातङ्गोऽरण्य इव नागः ॥ १०॥ एकस्य चरितं श्रेयो नाऽस्ति बाले सहायता । एकश्चरेन्न च पापानि कुर्याद् अल्पोत्सुको मातंगोऽरण्य इव नागः ॥ ११॥ अर्थे जाते सुखाः सहायाः तुष्टिः सुखा या येतरेतरेण । पुण्यं सुखं जीवितसंक्षये सर्वस्य दुःखस्य सुखं प्रहाणम् ॥ १२॥ सुखा मात्रीयता लोकेऽथ पित्रीयता सुखा सुखा श्रमणता लोकेऽथ ब्राह्मणता सुखा ॥ १३॥ सुखं यावद् जरां शीलं सुखा श्रद्धा प्रतिष्ठिता । सुखः प्रज्ञायाः प्रतिलाभः पापानां अकरणं सुखम् ॥ १४॥ ॥ इति नागवर्गः समाप्तः ॥
२४. तृष्णावर्गः चतुर्विंशः मनुजस्य प्रमत्तचारिणः तृष्णा वर्द्धते मालुवेव । स प्लवतेऽहरहः फलमिच्छन् इव वने वानरः ॥ १॥ यं एषा साहयति जन्मिनी तृष्णा लोके विषात्मिका । शोकास्तस्य प्रवर्द्धन्तेऽभिवर्द्धमानं वीरणम् ॥ २॥ यश्चैतां साहयति जन्मिनीं तृष्णां लोके दुरत्ययाम् । शोकाः तस्मात् प्रपतन्त्युदबिन्दुरिव पुष्करात् ॥ ३॥ तद् वो वदामि भद्रं वो यावन्त इह समागताः । तृष्णाया मूलं खनतोशीरार्थीव वीरणम् ॥ ४॥ यथाऽपि मूलेऽनुपद्रवे दृढे छिन्नोऽपि वृक्षः पुनरेव रोहति । एवमपि तृष्णाऽनुशयेऽनिहते निर्वर्त्तते दुःखमिदं पुनः पुनः ॥ ५॥ यस्य षट्त्रिंशत् स्रोतांसि मनापश्रवणानि भूयासुः । वाहा वहन्ति दुर्दृष्टि सङ्कल्पा रागनिःसृताः ॥ ६॥ स्रवन्ति सर्वतः स्रोतांसि लतोद्भिद्य तिष्ठति । तां च दृष्ट्वा लतां जातां मूलं प्रज्ञया छिन्दत ॥ ७॥ सरितः स्निग्द्धाश्च सौमनस्या भवन्ति जन्तोः ते स्रोतःसृताः सुखैषिणस्ते वै जातिजरोपगा नराः ॥ ८॥ तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः । संयोजनसंगसक्तका दुःखमुपयन्ति पुनः पुनः चिराय ॥ ९॥ तृष्णया पुरस्कृताः प्रजाः परिसर्पन्ति शश इव बद्धः । तस्मात् तृष्णां विनोदयेद् भिक्षुराकाङ्क्षी विरागमात्मानः ॥ १०॥ यो निर्वणार्थी वनाऽधिमुक्तो वनमुक्तो वनमेव धावति । तुं पुद्गलमेव पश्यत मुक्तो बन्धनमेव धावति ॥ ११॥ न तद् दृढं बन्धनमाहुर्धीरा यद् आयसं दारुजं पर्वजं च । सारवद्-रक्ता मणिकुण्डलेषु पुत्रेषु दारेषु च याऽपेक्षा ॥ १२॥ एतद् दृढं बन्धनमाहुर्धीरा अपहारि शिथिलं दुष्प्रमोचम् । एतदपि छित्त्वा परिव्रजन्ति अनपेक्षिणः कामसुखं प्रहाय ॥ १३॥ ये रागरक्ता अनुपतन्ति स्रोतः स्वयंकृतं मर्कटक इव जालम् । एतदपि छित्त्वा व्रजन्ति धीरा अनपेक्षिणः सर्वदुःखं प्रहाय ॥ १४॥ मुञ्च पुरो मुञ्च पश्चात् मध्ये मुञ्च भवस्य पारगः । सर्वत्र विमुक्तमानसो न पुनः जातिजरे उपैपि ॥ १५॥ वितर्कप्रमथितस्य जन्तोः तीव्ररागस्य शुभाऽनुदर्शिनः । भूयः तृष्णा प्रवर्द्धते एष खलु दृढं करोति बन्धनम् ॥ १६॥ वितर्कोपशमे च यो रतोऽशुभं भावयते सदा स्मॄतः । एष खलु व्यन्तीकरिष्यति एष छेत्स्यति मारबन्धनम् ॥ १७॥ निष्ठांगतोऽसंत्रासी वीततृष्णोऽनंगणः । उत्सृज्य भवशल्यानि अन्तिमोऽयं समुछ्रयः ॥ १८॥ वीततृष्णोऽनादानो निरुक्तिपदकोविदो । अक्षराणां सन्निपातं जानाति पूर्वापराणि च । स वै अन्तिमशारीरो महाप्राज्ञ इत्युच्यते॥ १९॥ सर्वाभिभूः सर्वविदहमस्मि सर्वेषु धर्मेषु अनुपलिप्तः । सर्वंजहः तृष्णाक्षये विमुक्तः स्वयमभिप्राय कमुद्दिशेयम् ॥ २०॥ सर्वदानं धर्मदानं जयति सर्वरसं धर्मरसो जयति । सर्वां रतिं धर्मरतिर्जयति तृष्णाक्षयः सर्वदुःखं जयति ॥ २१॥ घ्नन्ति भोग दुर्मेधसं न चेत् पारगवेषिणः । भोगतृष्णया दुर्मेधा हन्त्यन्य इवात्मानः ॥ २२॥ तृणदोषाणि क्षेत्राणि रागदोषेयं प्रजा । तस्माद्धि वीतरागेषु दत्तं भवति महाफलम् ॥ २३॥ तृणदोषाणि क्षेत्राणि द्वेषदोषेयं प्रजा । तस्माद्धि वीतदोषेषु दत्तं भवति महाफलम् ॥ २४॥ तृणदोषाणि क्षेत्राणि मोहदोषेयं प्रजा । तस्माद्धि वीतमोहेषु दत्तं भवति महाफलम् ॥ २५॥ तृणदोषाणि क्षेत्राणि इच्छादोषेयं प्रजा । तस्माद्धि विगतेच्छेषु दत्तं भवति महाफलम् ॥ २६॥ ॥ इति तृष्णावर्गः समाप्तः ॥
२५. भिक्षुवर्गः पञ्चविंशः चक्षुषा संवरः साधुः साधुः श्रेत्रेण संवरः । घ्राणेन संवरः साधुः साधुः जिह्वया संवरः ॥ १॥ कायेन संवरः साधुः साधुः वाचा संवरः । मनसा संवरः साधुः साधुः सर्वत्र संवरः । सर्वत्र संवृतो भिक्षुः सर्वदुःखात् प्रमुच्यते ॥ २॥ हस्तसंयतः पादसंयतो वाचा संयतः संयतोत्तमः । अध्यात्मरतः समाहित एकः सन्तुष्टस्तमाहुर्भिक्षुम् ॥ ३॥ यो मुखसंयतो भिक्षुः मन्त्रभाणी अनुद्धतः । अर्थं धर्मं च दीपयति मधुरं तस्य भाषितम् ॥ ४॥ धर्मारामो धर्मरतो धर्मं अनुविचिन्तयन् । धर्ममनुस्मरन् भिक्षुः सद्धर्मान्न परिहीयते ॥ ५॥ स्वलाभं नाऽतिमन्येत नाऽन्येष्यः स्पृहयन् चरेत् । अन्येषां स्पृहयन् भिक्षुः समाधिं नाऽधिगच्छति ॥ ६॥ अल्पलाभोऽपि चेद् भिक्षुः स्वलाभं नाऽतिमन्यते । तं वै देवाः प्रशंसन्ति शुद्धाऽऽजीवं अतन्द्रितम् ॥ ७॥ सर्वशो नामरूपे यस्य नाऽस्ति ममायितम् । असति च न शोचति स वै भिक्षुरित्युच्यते ॥८ ॥ मैत्रीविहारी यो भिक्षूः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ ९॥ सिञ्च भिक्षो ! इमां नावं सिक्ता ते लघुत्वं एष्यति । छित्त्वा रागं च द्वेषं च ततो निर्वाणमेष्यसि ॥ १०॥ पञ्च छिन्धि पञ्च जह्ये पञ्चोतरं भावय । पञ्चसंगाऽतिगो भिक्षुः ओघतीर्ण इत्युच्यते ॥ ११॥ ध्याय भिक्षो मा च प्रमादः मा ते कामगुणे भ्रमतु चित्तम् । मा लोहगोलं गिल प्रमत्तः मा क्रन्दीः दुःखमिदमिति दह्यमानः ॥ १२॥ नाऽस्ति ध्यानमप्रज्ञस्य प्रज्ञा नाऽस्त्यध्यायतः । यस्मिन् ध्यानं च प्रज्ञा च स वै निर्वाणाऽन्तिके ॥ १३॥ शून्यागारं प्रविष्टस्य शान्तचित्तस्य भिक्षोः । अमानुषी रतिर्भवति सम्यग् धर्मं विपश्यतः ॥ १४॥ यतो यतः संमृशति स्कन्धानां उदयव्ययम् । लभते प्रीतिप्रामोद्यं अमृतं तद्विजानताम् ॥ १५॥ तत्राऽयमादिर्भवतीह प्राज्ञस्य भिक्षोः । इन्द्रियगुप्तिः सन्तुष्टिः प्रातिमोक्षे च संवरः । मित्राणि भजस्व कल्याणानि शुद्धाजीवान्यतन्द्रितानि ॥ १६॥ प्रतिसंस्तारवृत्तस्याऽऽचारकुशलः स्यात् । ततः प्रामोद्यबहुलो दुःखस्याऽन्तं करिष्यति ॥ १७॥ वर्षिका इव पुष्पाणि मर्दितानि प्रमुञ्चति । एवं रागं च द्वेषं च विप्रमुञ्चत भिक्षवः ॥ १८॥ शान्तकायो शान्तवाक् शान्तिमान् सुसमाहितः । वान्तलोकाऽऽमिषो भिक्षुः उपशान्त इत्युच्यते ॥ १९॥ आत्मना चोदयेदात्मानं प्रतिवसेदात्मनां आत्मना । स आत्मगुप्तः स्मृतिमान् सुखं भिक्षो विहरिष्यसि ॥ २०॥ आत्मा ह्यात्मनो नाथः आत्मा ह्यात्मनो गतिः । तस्मात् संयमयात्मानं अश्वं भद्रमिव वाणिक् ॥ २१॥ प्रामोद्यबहुलो भिक्षुः प्रसन्नो बुद्धशासने । अधिगच्छेत् पदं शान्तं संस्कारोपशमं सुखम् ॥ २२॥ यो ह वै दहरो भिक्षुर्युक्त्ते बुद्धशासने । स इमं लोकं प्रभासयत्यभ्रान् मुक्त इव चन्द्रमा ॥ २३॥ ॥ इति भिक्षुवर्गः समाप्तः ॥
२६. ब्राह्मणवर्गः षड्विंशः छिन्धि स्रोतः पराक्रम्य कामान् प्रणुद ब्राह्मण । संस्कारणां क्षयं ज्ञात्वाऽकृतज्ञोऽसि ब्राह्मण ॥ १॥ यदा द्वयोर्धर्मयोः पारगो भवति ब्राह्मणः । अथाऽस्य सर्वे संयोगा अस्तं गच्छन्ति जानतः ॥ २॥ यस्य पारं अपारं वा पारापारं न विद्यते । वीतदरं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ३॥ ध्यायिनं विरजमासीनं कृतकृत्यं अनास्रवम् । उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ४॥ दिवा तपत्यादित्यो रात्रावाभाति चन्द्रमाः । सन्नद्धः क्षत्रियस्तपति ध्यायी तपति ब्राह्मणः । अथ सर्वमहोरात्रं बुद्धस्तपति तेजसा ॥ ५॥ वाहितपाप इति ब्राह्मणः समचर्यः श्रमण इत्युच्यते । प्रव्राजयन्नाऽऽत्मनो मलं तस्मात् प्रव्रजित इत्युच्यते ॥ ६॥ न ब्राह्मणं प्रहरेत् नाऽस्मै मुञ्चेद् ब्राह्मणः । धिग् ब्राह्मणस्य हन्तारं ततो धिग् यस्मै मुञ्चति ॥ ७॥ न ब्राह्मणस्यैतद् अकिञ्चित् श्रेयो यदा निषेधो मनसा प्रियेभ्यः । यतो यतो हिंस्रमनो निवर्तते ततस्ततः शाम्यत्येव दुःखम् ॥ ८॥ यस्य कायेन वाचा मनसा नाऽस्ति दुष्कृतम् । संवृतं त्रिभिः स्थानैः तमहं ब्रवीमि ब्राह्मणम् ॥ ९॥ यस्माद् धर्मं विजानीयात् सम्यक्-संबुद्ध-देशितम् । सत्कृत्य तं नमस्येद् अग्निहोत्रमिव ब्राह्मणः ॥ १०॥ न जटाभिर्न गोत्रेण न जात्या भवति ब्राह्मणः । यस्मिन् सत्यं च धर्मस्च स शुचिः स च ब्राह्मणः ॥ ११॥ किं ते जटाभिः दुर्मेधः ! किं तेऽजिनशाट्या । आभ्यन्तरं ते गहनं बाह्यं परिमार्जयसि ? ॥ १२॥ पांशुकूलधरं जन्तुं कृशं धमनिसन्ततम् । एकं वने ध्यायन्तं तमहं ब्रवीमि ब्राह्मणम् ॥ १३॥ न चाहं ब्राह्मणं ब्रवीमि योनिजं मातृसंभवम् । भो वादी नाम स भवति स वै भवति सकिञ्चनः । अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥ १४॥ सर्वसंयोजनं छित्त्वा यो वै न परित्रस्यति । संगातिगं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ १५॥ छित्वा नन्दिं वरत्रां च सन्दानं सहनुक्रमम् । उत्क्षिप्तपरिघं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ १६॥ आक्रोशन् वधबन्धं चादुष्टो यस्तितिक्षति । क्षान्तिबलं बलानीकं तमहं ब्रवीमि ब्राह्मणम् ॥ १७॥ अक्रोधनं व्रतवन्तं शीलवन्तं अनुश्रुतम् । दान्तमन्तिमशारीरं तमहं ब्रवीमि ब्राह्मणम् ॥ १८॥ वारि पुष्करपत्र इवाराग्रे इव सर्षपः । यो न लिप्यते कामेषु तमहं ब्रवीमि ब्राह्मणम् ॥ १९॥ यो दुःखस्य प्रजानातीहैव क्षयमात्मनः । पन्नभारं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २०॥ गंभीरप्रज्ञं मेधाविनं मार्गामार्गस्य कोविदम् । उत्तमार्थमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २१॥ असंसृष्टं गृहस्थैः अनागारैश्चोभाभ्याम् । अनोकःसारिणं अल्पेच्छं तमहं ब्रवीमि ब्राह्मणम् ॥ २२॥ निधाय दण्डं भूतेषु त्रसेषु स्थावरेषु च । यो न हन्ति न घातयति तमहं ब्रवीमि ब्राह्मणम् ॥ २३॥ अविरुद्धं विरुद्धेषु आत्तदण्डेषु निर्वृतम् । सादानेष्वनादानं तमहं ब्रवीमि ब्राह्मणम् ॥ २४॥ यस्य रागश्च द्वेषश्च मानो म्रक्षश्च पातितः । सर्षप इवाऽऽराग्रात् तमहं ब्रवीमि ब्राह्मणम् ॥ २५॥ अकर्कशां विज्ञापनीं गिरं सत्त्यामुदीरायेत् । यथा नाऽभिषजेत् किञ्चित् तमहं ब्रवीमि ब्राह्मणम् ॥ २६॥ य इह दीर्घं वा हृस्वं वाऽणुं स्थूलं शुभाऽशुभम् । लोकेऽदत्तं नादत्ते तमहं ब्रवीमि ब्राह्मणम् ॥ २७॥ आशा यस्य न विद्यन्तेऽस्मिन् लोके परस्मिन् च । निराशयं विसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २८॥ यस्याऽऽलया न विद्यन्त आज्ञायाऽकथंकथी । अमृतावगाधमनुप्राप्तं तमहं ब्रवीमि ब्राह्मणम् ॥ २९॥ य इह पुण्यं च पापं चोभयोः संगं उपात्यगात् । अशोकं विरजं शुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ ३०॥ चन्द्रमिव विमलं शुद्धं विप्रसन्नमनाविलम् । नन्दीभवपरीक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥ ३१॥ य इमं प्रतिपथं दुर्गं संसारं मोहमत्यगात् । तीर्णः पारगतो ध्याय्यनेजोऽकथंकथी । अनुपादाय निर्वृतः तमहं ब्रवीमि ब्राह्मणम् ॥ ३२॥ य इह कामान् प्रहायाऽनागारः परिव्रजेत् । कामभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥ ३३॥ य इह तृष्णां प्रहायाऽनागारे परिव्रजेत् । तृष्णाभवपरिक्षीणं तमहं ब्रवीमि ब्राह्मणम् ॥ ३४॥ हित्त्वा मानुषकं योगं दिव्यं योगमुपात्यगात् । सर्वयोगविसंयुक्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ३५॥ हित्त्वा रतिञ्चारतिञ्च शीतीभूतं निरूपधिम् । सर्वलोकाऽभिभुवं वीरं तमहं ब्रवीमि ब्राह्मणम् ॥ ३६॥ च्युतिं यो वेद सत्त्वानां उपत्तिं च सर्वशः । असक्तं सुगतं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ ३७॥ यस्य गतिं न जानन्ति देव-गन्धर्व-मानुषाः । क्षीणास्रवं अर्हन्तं तमहं ब्रवीमि ब्राह्मणम् ॥ ३८॥ यस्य पुरश्च पश्चाच्च मध्ये च नाऽस्ति किञ्चन । अकिञ्चनमनादानं तमहं ब्रवीमि ब्राह्मणम् ॥ ३९॥ ऋषभं प्रवरं वीरं महर्षिं विजितवन्तम् । अनेजं स्नातकं बुद्धं तमहं ब्रवीमि ब्राह्मणम् ॥ ४०॥ पूर्वनिवासं यो वेद स्वर्गापाऽयं च पश्यति । अथ जातिक्षयं प्राप्तोऽभिज्ञाव्यवसितो मुनिः । सर्वव्यवसितव्यवसानं तमहं ब्रवीमि ब्राह्मणम् ॥ ४१॥ ॥ इति ब्राह्मणवर्गः समाप्तः ॥ ॥ इति धर्मपदं सम्पूर्णम् ॥ Digitized by a team of volunteers working for http://malayalamebooks.org The book is available at http://www.archive.org/details/Dhammapada_Pali_Sanskrit_Hindi_by_Rahul_Sankrityayan 1. Link for Dharmapada stories for each verse http://www.thisismyanmar.com/nibbana/dhammapada/dmpadatm 2. Link for English Translation from Myanmar http://www.thisismyanmar.com/nibbana/dhammapada/versestm 3. OR below is a consolidated link for both verse and story adopted from the above links. . http://www.tipitaka.net/tipitaka/dhp/index.php

% Text title            : dharmapada
% File name             : dharmapada.itx
% itxtitle              : dharmapadam
% engtitle              : Dharmapadam Sanskrit
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Digitized by a team of volunteers working for http://malayalamebooks.org/
% Proofread by          : Daksha
% Indexextra            : dharmapada, Sanskrit translation of Dhammapada original in Pali (scanned, Hindi)scanned, Hindi Sanskrit translation of Dhammapada original in Pali
% Latest update         : June 4, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP