॥ दृग्दृश्यविवेकः अथवा वाक्यसुधा ॥

भारती तीर्थ स्वामिना विरचितः रूपं दृश्यं लोचनं दृक् तद्दृश्यं दृक्तु मानसम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १॥ नीलपीतस्थूलसूक्ष्मह्रस्वदीर्घादि भेदतः । नानाविधानि रूपाणि पश्येल्लोचनमेकधा ॥ २॥ आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चैकधा । सङ्कल्पयेन्मनः श्रोत्रत्वगादौ योज्यतामिदम् ॥ ३॥ कामः सङ्कल्पसन्देहौ श्रद्धाऽश्रद्धे धृतीतरे । ह्रीर्धीर्भीरित्येवमादीन् भासयत्येकधा चितिः ॥ ४॥ नोदेति नास्तमेत्येषा न वृद्धिं याति न क्षयम् । स्वयं विभात्यथान्यानि भासयेत्साधनं विना ॥ ५॥ चिच्छायाऽऽवेशतो बुद्धौ भानं धीस्तु द्विधा स्थिता । एकाहङ्कृतिरन्या स्यादन्तःकरणरूपिणी ॥ ६॥ छायाऽहङ्कारयोरैक्यं तप्तायःपिण्डवन्मतम् । तदहङ्कारतादात्म्याद्देहश्चेतनतामगात् ॥ ७॥ अहङ्कारस्य तादात्म्यं चिच्छायादेहसाक्षिभिः । सहजं कर्मजं भ्रान्तिजन्यं च त्रिविधं क्रमात् ॥ ८॥ सम्बन्धिनोः सतोर्नास्ति निवृत्तिः सहजस्य तु । कर्मक्षयात् प्रबोधाच्च निवर्तेते क्रमादुभे ॥ ९॥ अहङ्कारलये सुप्तौ भवेद्देहोऽप्यचेतनः । अहङ्कारविकासार्धः स्वप्नः सर्वस्तु जागरः ॥ १०॥ अन्तःकरणवृत्तिश्च चितिच्छायैक्यमागता । वासनाः कल्पयेत् स्वप्ने बोधेऽक्षैर्विषयान् बहिः ॥ ११॥ मनोऽहङ्कृत्युपादानं लिङ्गमेकं जडात्मकम् । अवस्थात्रयमन्वेति जायते म्रियते तथा ॥ १२॥ शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम् । विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत् ॥ १३॥ सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि । अब्धौ फेनादिवत् सर्वनामरूपप्रसारणा ॥ १४॥ अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः । आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥ १५॥ साक्षिणः पुरतो भाति लिङ्गं देहेन संयुतम् । चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः ॥ १६॥ अस्य जीवत्वमारोपात् साक्षिण्यप्यवभासते । आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ॥ १७॥ तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति । या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते ॥ १८॥ अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः । भेदस्तयोर्विकारः स्यात् सर्गे न ब्रह्मणि क्वचित् ॥ १९॥ अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ २०॥ खवाय्वग्निजलोर्वीषु देवतिर्यङ्नरादिषु । अभिन्नाः सच्चिदानन्दाः भिद्येते रूपनामनी ॥ २१॥ उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः । समाधिं सर्वदा कुर्याद्धृदये वाऽथवा बहिः ॥ २२॥ सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि । दृश्यशब्दानुवेधेन सविकल्पः पुनर्द्विधा ॥ २३॥ कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् । ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः ॥ २४॥ असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः । अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः ॥ २५॥ स्वानुभूतिरसावेशाद्दृश्यशब्दावुपेक्ष्य तु । निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ॥ २६॥ हृदीव बाह्यदेशेऽपि यस्मिन् कस्मिंश्च वस्तुनि । समाधिराद्यः सन्मात्रान्नामरूपपृथक्कृतिः ॥ २७॥ अखण्डैकरसं वस्तु सच्चिदानन्दलक्षणम् । इत्यविच्छिन्नचिन्तेयं समाधिर्मध्यमो भवेत् ॥ २८॥ स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः । एतैः समाधिभिः षड्भिर्नयेत् कालं निरन्तरम् ॥ २९॥ देहाभिमाने गलिते विज्ञाते परमात्मनि । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ ३०॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ३१॥ अवच्छिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः । विज्ञेयस्त्रिविधो जीवस्तत्राद्यः पारमार्थिकः ॥ ३२॥ अवच्छेदः कल्पितः स्यादवच्छेद्यं तु वास्तवम् । तस्मिन् जीवत्वमारोपाद्ब्रह्मत्वं तु स्वभावतः ॥ ३३॥ अवच्छिन्नस्य जीवस्य पूर्णेन ब्रह्मणैकताम् । तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ ३४॥ ब्रह्मण्यवस्थिता माया विक्षेपावृतिरूपिणी । आवृत्यखण्डतां तस्मिन् जगज्जीवौ प्रकल्पयेत् ॥ ३५॥ जीवो धीस्थचिदाभासो भवेद्भोक्ता हि कर्मकृत् । भोग्यरूपमिदं सर्वं जगत् स्याद्भूतभौतिकम् ॥ ३६॥ अनादिकालमारभ्य मोक्षात् पूर्वमिदं द्वयम् । व्यवहारे स्थितं तस्मादुभयं व्यावहारिकम् ॥ ३७॥ चिदाभासस्थिता निद्रा विक्षेपावृतिरूपिणी । आवृत्य जीवजगती पूर्वे नूत्ने तु कल्पयेत् ॥ ३८॥ प्रतीतिकाल एवैते स्थितत्वात् प्रातिभासिके । न हि स्वप्नप्रबुद्धस्य पुनः स्वप्ने स्थितिस्तयोः ॥ ३९॥ प्रातिभासिकजीवो यस्तज्जगत् प्रातिभासिकम् । वास्तवं मन्यतेऽन्यस्तु मिथ्येति व्यावहारिकः ॥ ४०॥ व्यावहारिकजीवो यस्तज्जगद्व्यावहारिकम् । सत्यं प्रत्येति मिथ्येति मन्यते पारमार्थिकः ॥ ४१॥ पारमार्थिकजीवस्तु ब्रह्मैक्यं पारमार्थिकम् । प्रत्येति वीक्षते नान्यद्वीक्षते त्वनृतात्मना ॥ ४२॥ माधुर्यद्रवशैत्यानि नीरधर्मास्तरङ्गके । अनुगम्याथ तन्निष्ठे फेनेऽप्यनुगता यथा ॥ ४३॥ साक्षिस्थाः सच्चिदानन्दाः सम्बन्धाद्व्यावहारिके । तद्द्वारेणानुगच्छन्ति तथैव प्रातिभासिके ॥ ४४॥ लये फेनस्य तद्धर्मा द्रवाद्याः स्युस्तरङ्गके । तस्यापि विलये नीरे तिष्ठन्त्येते यथा पुरा ॥ ४५॥ प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके । तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणि ॥ ४६॥ इति भारती तीर्थ स्वामिना विरचितः दृग्दृश्यविवेकः समाप्तः ॥ Encoded and proofread by Sunder Hattangadi sunderh@hotmail.com

% Text title            : Drig-Drishya-Viveka
% File name             : drigdrishyaviveka.itx
% itxtitle              : dRigdRishyavivekaH athavA vAkyasudhA (bhAratI tIrtha svAminA virachitaH)
% engtitle              : Drig-Drishya-Viveka
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sw. Bharati Tirtha [Sringeri Mathadhipati 1328-1380]
% Language              : Sanskrit
% Subject               : Vedanta Philosophy
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description-comments  : A prakarana grantha on Vedanta
% Latest update         : April 17, 2003, April 22, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP