॥ कोकिलसन्देशः उद्दण्डशास्त्रिविरचितः ॥

पूर्वभागः सौधे तुङ्गे सह दयितया कोऽपि सङ्क्रीडमानः प्राप स्वापं परमपुरुषः शेषभोगे श्रियेव। चित्रा दैवी गतिरियमसौ शैलजामण्डितायां काञ्च्यां कम्पातटभुवि तयानन्वितो बुध्यते स्म ॥ १॥ त्वामानिन्युः सुभग शयितं लीलया नीलकेश्यो द्रष्टुं देवं वरुणपुरतः सम्पतन्त्यो विमानैः। अत्रामुञ्चन्नपि भगवतीकिङ्करोक्त्या सशङ्काः शुश्रावेत्थं स पुनरवपुस्सङ्ग्रहां व्योम्नि वाणीम् ॥ २॥ क्षेत्रे चास्मिन् सकलविपदां भञ्जने पञ्च मासा- नासीथाश्चेत् प्रियजनवियोगार्तिरूर्ध्वं न ते स्यात्। आकर्ण्येमां पुनरिति तथा सैष चक्रे निवासं क्लेशो भूयानपि बहुमतः श्लाघ्यते चेदुदर्कः ॥ ३॥ तत्र द्वित्रान् प्रियसहचरीविप्रयोगातिदीर्घान् कामार्तोऽयं शिवशिव समुल्लङ्घ्य मासान् कथञ्चित् । चैत्रारम्भे समुदितमधुश्रीकटाक्षाभिरामं चूताङ्कूरास्वदनरसिकं कोकिलं सन्ददर्श ॥ ४॥ तं कूजन्तं कलमधुरया पञ्चमस्वानभङ्ग्या कान्तालापस्मरणविवशः किञ्चिदारादुपेत्य । दत्वा नेत्राञ्जलिपुटभृतैरर्घ्यमश्रुप्रवाहै- र्जाताश्वासः स्फुटमिति गिरा श्राव्यया सन्दिदेश ॥ ५॥ अत्रायाहि प्रियसख ननु स्वागतं पश्य पार्श्वे प्रत्यग्रोद्यन्मधुरसकणस्वेदिनीं चूतवल्लीम् । त्वत्सम्पर्कं सुभग नियतं काङ्क्षतेऽसौ विलोला लोलम्बाक्षी चलकिसलयैराह्वयन्ती सरागा ॥ ६॥ अन्तस्तोषं मम वितनुषे हन्त जाने भवन्तं स्कन्धावारप्रथमसुभटं पञ्चबाणस्य राज्ञः । कूजाव्याजाद्धितमुपदिशन् कोकिलाव्याजबन्धो कान्तैः साकं ननु घटयसे कामिनीर्मानभाजः ॥ ७॥ वाचालं मा परभृत कृथा मां प्रियाविप्रयुक्तं प्रायः प्राप्तं प्रणयवचनं त्वादृशे मादृशानाम् । किञ्चिल्लीनां किसलयपुटे कोकिलामाकुलात्मा त्वं चापश्यन् बत विरहिणां येन जानासि तापम् ॥ ८॥ यावत्कालं महितपतगाधीश कार्ये नियोक्तुं सङ्कोचं मे व्रजति रसना सन्दिदिक्षोर्मृगाक्ष्याः । तावत्कालं तव च हृदयं तान्तिमेतीति शङ्के दीनापन्नप्रणयघटने दीर्घसूत्रेतरस्य ॥ ९॥ सन्देशं मे नय खगपते साधय भ्रातृकृत्यं सन्तापार्तां सुवचन समाश्वासय प्रेयसीं मे । कान्तोदन्तः सुहृदुपनतो विपयोगार्दितानां प्रायः स्त्रीणां भवति किमपि प्राणसन्धारणाय ॥ १०॥ गन्तव्यस्ते त्रिदिवविजयी मङ्गलाग्रेण देशः प्राप्तः ख्यातिं विहिततपसः प्राग्जयन्तस्य नाम्ना । पारे चूर्ण्याः परिसरसमासीनगोविन्दवक्षो- लक्ष्मीवीक्षाविवलनसुधाशीतलः केरलेषु ॥ ११॥ तत्र द्रक्ष्यस्यखिलमहिलामौलिमालायमानां बालामेनां नियतमधुना मद्वियोगेन दीनाम् । कल्याणी सा कनककदलीकन्दलीकोमलाङ्गी कन्दर्पाग्निं कथमिव कुकूलाग्निकल्पं सहेत ॥ १२॥ अध्वानं ते हितमुपदिशाम्यश्रमेणैव गन्तुं स्निग्धच्छायैस्तरुभिरभितः शान्तघर्मप्रचारम् । संस्कर्तासि ध्रुवमुपगतो यत्र पत्रीन्द्र तेषा- मुद्दामानामपि नवनवोद्यानलीलायितानाम् ॥ १३॥ श्रीकामाक्ष्या विनतममरैरुत्सवं फाल्गुनाख्यं दृष्ट्वा यान्त्यः स्वभवनमुपारूढनानाविमानाः । त्वत्सँल्लापश्रवणतरलाः पश्चिमाम्भोधिवेला- पर्यन्तं ते वरुणनगरीमञ्जुवाचः सहायाः ॥ १४॥ आकर्षन्तः प्रतिनवलतापुष्पगन्धोपहारा- नासिञ्चन्तः सरणिमभितः शीतलैः शीथुलेशैः । भृङ्गीनादैर्मधुरमधुरं व्याहरन्तो वलन्ते कम्पाकूलोपवनपवना बन्धवस्तेऽनुकूलाः ॥ १५॥ वन्दस्वारात् प्रियसख पुनर्दर्शनायात्र शौरेः काञ्चीभर्तुः करिगिरितटे पुण्यमेनं विमानम् । आधत्ते यत् कनकवलभीनीडलीनैः कपोतै- रद्याप्यम्भोरुहभवमखालग्नधूमाभिशङ्काम् ॥ १६॥ पीठेष्वष्टादशसु महितं कामपीठं भजेथाः पारेकम्पं स्वयमिह परा देवता सन्निधत्ते । सभ्रूचापं नयनजलदं प्राप्य यस्याः कृपापं तुण्डीरक्ष्मा सुलभकवितासस्यवृद्धिः समिन्धे ॥ १७॥ उड्डीयास्माद् बकुलसरसात् स त्वमुद्यानदेशात् प्रादक्षिण्याद् व्रज परिसरे पुण्यमेकाम्रवृक्षम् । मूले यस्य प्रकृतिसुभगे मुक्तकैलासलोभो देवः साक्षाद्वसति वलयाङ्काह्वयश्चन्द्रचूडः ॥ १८॥ दृष्ट्वा शम्भुं गगनसरणावुज्जिहाने त्वयि द्राक् पक्षद्वन्द्वव्यजनपवनोच्चालिताभ्यो लताभ्यः । उत्थास्यन्ति भ्रमरतरुणाः सिक्तदेहा मरन्दै- रुद्यानश्रीप्रहितसजलापाङ्गभङ्गानुकाराः ॥ १९॥ स्पष्टालक्ष्यस्त्वयि पिक समालम्बमानेऽम्बरान्तं काञ्चीदेशः किमपि वसुधां भूषयन् गौरवेण । तत्सौन्दर्यापहृतहृदयो मा विलम्बस्व गन्तुं बन्धुत्राणाद् बहुमतिपदं नापरं त्वद्विधानाम् ॥ २०॥ आशां पाशायुधतिलकितामाश्रयन्नात्तवेगः कूलोन्मीलत्क्रमुककुहलीचामरान्दोलितोर्मिम् । द्रक्ष्यस्यग्रे विकचकमलोद्गन्धिमाध्वीकपानात् क्षीबक्षीबभ्रमरतरुणीसेवितां क्षीरसिन्धुम् ॥ २१॥ पक्षोद्यौतैः पतग पुरजित्कन्धराकाण्डनीलै- र्व्याप्ताभोगा विसृमरतरैर्व्योम सीमन्तयन्ती । सुव्यक्तं ते गमनसरणिः सूत्रयेदूर्ध्वमस्याः सिन्धुस्नेहोपगतयमुनावेणिवीथीविलासम् ॥ २२॥ चूते चूते कुसुमकलिकां त्वां च दृष्ट्वा समेतं बालाशोकाहननमरुणैरङ्घ्रिभिस्तन्वतीनाम् । तन्वङ्गीनां श्रवणसुभगैर्नूपुराणां विरावै- र्वाचालाः स्युर्नियतमभितः कूलमारामसीमाः ॥ २३॥ स्नातोत्तीर्णाः सजलकणिकासुन्दरोरोजकुम्भाः श्यामापङ्कैः शुभपरिमलैः स्पृष्टमाङ्गल्यभूषाः । तीरे तस्या द्रमिडसुदृशो दर्शनीया विलोक्य प्रायो भावी क्षणमिव सखे गच्छतस्ते विलम्बः ॥ २४॥ धूमस्तोमैः सवनजनितैर्धूसरोपान्तवृक्षाः प्रौढश्लाघ्यैर्मुखरितमठाः पावनैर्ब्रह्मघोषैः । रुद्धाभोगा द्विजवरविधिस्नानपूतैस्तटाकै- र्द्रष्टव्यास्ते तदनु सरितं दक्षिणेनाग्रहाराः ॥ २५॥ सा वैदग्धी श्रुतिषु स पुनः सर्वशास्त्रावगाह- स्तच्चाम्लानप्रसरसरसं निष्कलङ्कं कवित्वम् । तत्रत्यानां किमिह बहुना सर्वमेतत् पठन्तः शृङ्गे शृङ्गे गृहविटपिनां स्पष्टयिष्यन्ति कीराः ॥ २६॥ तानुल्लङ्घ्य स्मितकुवलयस्निग्धमुत्कन्धराणां चोलस्त्रीणामयि सफलयन् नेत्रमुत्पक्ष्ममालम् । विल्वक्षेत्रं विश पशुपतेर्वेश्म नीवासमीरै- र्धूतालिन्दध्वजपटशिखैर्नूनमाहूयमानः ॥ २७॥ कामः स्वामी किल शलभतामाप नेत्रस्फुलिङ्गे मा मा भैषीरिति भवभिदो दर्शनाच्चन्द्रमौलेः । श्यामा वर्णे वचसि मधुरा चञ्चला दृग्विलासे वामोत्सङ्गे लसति करुणा कापि कामं दुहाना ॥ २८॥ पक्षिस्वानैः पटुमदकलैः स्वागतानि ब्रुवाणा व्याकीर्णार्घ्याः कुसुममधुभिर्वीजयन्तः प्रवालैः । तत्रारामाः सुरभिसचिवं त्वां सखे मानयेयु- स्तुल्यप्रीतिर्भवति हि जनो राजवद्राजमित्रे ॥ २९॥ काले तस्मिन् करधृतगलन्नीवयो वारकान्ताः सम्भोगान्ते निबिडलतिकामन्दिरेभ्यश्चलन्त्यः । वीतस्वेदास्तव विहरतः पक्षपालीसमीरै- राखिन्नभ्रूवलनमलसैरर्चयिष्यन्त्यपाङ्गैः ॥ ३०॥ भूयो गच्छन् जनपदमिमं स त्वमुल्लङ्घ्य चोला- नालोकेथास्तरलहरिणीनेत्रतापिञ्छितानि । कान्ताराणि प्रसवशयनैश्छिन्नगुञ्जाकलापैः कुञ्जे कुञ्जे कथितशबरद्वन्द्वलीलायितानि ॥ ३१॥ तत्रत्यास्त्वां कुसुमकलिकाशीथुधारां वमन्तो नीरन्ध्रेषु स्खलितगतयो निर्झरीशीकरेषु । वल्लीडोलाविहरदटवीदेवतालालनीयाः सेविष्यन्ते चपलचमरीबालभारास्समीराः ॥ ३२॥ चुम्बन् बिम्बाधरमिव नवं पल्लवं शीथुगर्भं प्राप्ताश्लेषः स्तन इव नवे कोरके कामचारी । भोक्तासि त्वं कमपि समयं तत्र माकन्दवल्लीः कान्तारागे सति विकसिते कः पुमांस्त्यक्तुमीष्टे ॥ ३३॥ दष्ट्वा चञ्च्वा कनककपिशा मञ्जरीश्चूतषण्डात् पक्षच्छायाशबलितनभोभागमुद्गत्वरं त्वाम् । विद्युत्वन्तं नवजलधरं मन्यमानाः सलीलं नर्तिष्यन्ति प्रियसख चलत्पिञ्छभारा मयूराः ॥ ३४॥ दृश्या दूरे तदनु लहरीसम्पतद्राजहंसा सा कावेरी मदजलझरी सह्यदन्तावलस्य । मेघश्यामो भुजगशयनो मेदिनीहारयष्टे- र्मध्ये यस्या मरतक इव प्रेक्ष्यते रङ्गनाथः ॥ ३५॥ पुण्यानस्यास्तटभुवि पुरीखर्वटग्रामरुद्धा- नुद्यानद्रुप्रसवसुरभीन् होसलान् गाहमानः । लक्ष्मीनारायणपुरमिति ख्यातमन्तर्मुरारेः प्राप्यावासं भव पिकपते पावनानां पुरोगः ॥ ३६॥ तत्रत्यानां रुचिरचिकुरन्यस्तसौगन्धिकानां तारुण्योष्माञ्चितकुचतटीवित्रुटत्कञ्चुकानाम् । नासामुक्ताभरणकिरणोन्मिश्रमन्दस्मितानां वेशस्त्रीणां भवति विवशो विभ्रमैर्दर्पकोऽपि ॥ ३७॥ ताश्चेन्मानग्रथितहृदयाः सन्नतान् नाद्रियेरन् कान्ताः कान्तान् परभृत कुहूकारमेकं विमुञ्च । सन्तु त्रस्यन्निजनिजवधूदोर्लतालिङ्गितानां यूनामार्द्रस्मितसहचरास्त्वय्यपाङ्गानुषङ्गाः ॥ ३८॥ क्रीडन्तीनां मुखरितलतामन्दिरं खेचरीणां भूषानादैर्भुवनविदितं सह्यशैलं श्रयेथाः । क्षत्रध्वंसात् स्वयमुपरतो विप्रसात्कृत्य कृत्स्नं पृथ्वीचक्रं भृगुकुलपतिर्यत्तटे सन्निधत्ते ॥ ३९॥ त्वञ्चद्धूमान् दवहुतभुजो ज्वालमालाजटालान् वल्गद्भृङ्गान् वनविटपिनो भासुरान् पल्लवौघैः । दृष्ट्वा दूरादनुमिनुतमामुष्णशीतैः समीरैः सन्दिग्धायां विपदि सहसावृत्तिरार्तिं हि सूते ॥ ४०॥ दृष्ट्वा तत्रामलकधरणीमन्दिरं शार्ङ्गपाणिं तस्माच्छैलात्तटमवतरन् किञ्चिदाकुञ्च्य पक्षौ । कूलेऽम्भोधेः क्रमुककलिलां केरलक्षोणिमग्रे पश्य स्फीतां भृगुसुतभुजाविक्रमोपक्रमं या ॥ ४१॥ प्राप्तव्यस्ते यदि कृतमहो वाङ्मयीतीरवासी देवो दक्षाध्वरविमथनोड्डामरश्चन्द्रचूडः । आस्ते शातत्रिशिखशिखया दारुकं जघ्नुषी सा यस्यादूरे मृगपतिशिरस्तस्थुषी भद्रकाली ॥ ४२॥ सिक्तः स्वच्छैर्झरजलकणैस्तं भज व्योम्नि तिष्ठन् मुक्ताच्छन्नासितनवपटीकायमानायमानः । ध्वाङ्क्षभ्रान्त्या यदि परिजनास्त्वां समुत्सारयेरन् कूजां किञ्चित् कुरु ननु गिरा व्यज्यते सन्नसंश्च ॥ ४३॥ इत्थं भक्त्या पुरमथनमाराध्य लब्धप्रसादः कृष्टः कृष्टः पथि पथि सखे केरलीनां कटाक्षैः । उच्चैः सौधैरुडुगणगतीरूर्ध्वमुत्सारयन्तीं फुल्लारामां प्रविश पुरलीक्ष्माभृतां राजधानीम् ॥ ४४॥ येषां वंशे समजनि हरिश्चन्द्रनामा नरेन्द्रः प्रत्यापत्तिः पतग यदुपज्ञं च कौमारिलानाम् । युद्धे येषामहितहतये चण्डिका सन्निधत्ते तेषामेषां स्तुतिषु न भवेत् कस्य वक्त्रं पवित्रम् ॥ ४५॥ पुत्रस्यासौ प्रियसख इति प्रीतिगर्भैः कटाक्षै- र्दृष्टस्तस्यां पुरि विहरता रुक्मिणीवल्लभेन । तस्यैवाग्रे सदयमबलालूनसूनप्रवाले बालोद्याने क्वचन विहरन् मार्गखेदं विजह्याः ॥ ४६॥ केलीयानक्वणितरशना कोमलाभ्यां पदाभ्या- मालीहस्तार्पितकरतला तत्र चेदागता स्यात् । स्वाती नाम क्षितिपतिसुता सेवितुं देवमस्याः स्वैरालापैस्तव पिक गिरां कापि शिक्षा भवित्री ॥ ४७॥ तामायान्तीं स्तनभरपरित्रस्तभुग्नावलग्नां स्वेदच्छेदच्छुरितवदनां श्रोणिभारेण खिन्नाम् । किञ्चिच्चञ्चूकलितकलिकाशीथुभारेण सिञ्चे- श्चञ्चच्चिल्लीचलनसुभगान् लप्स्यसेऽस्याः कटाक्षान् ॥ ४८॥ कञ्चित्कालं धुतकिसलयाच्छादनं सप्रकम्पं प्रत्याख्यातभ्रमरतरुणा मञ्जरी भुज्यमाना । यात्रोद्युक्ते सुभग भवति व्यञ्जयेदात्मसादं मुक्ताश्च्योतन्मधुरसमिषान्मुञ्चती बाष्पलेशम् ॥ ४९॥ दिग्यातव्या यदपि भवतो दक्षिणा रक्षणार्थं मत्प्राणानां पुनरपि सखे पश्चिमामेव यायाः । धूतारामं मुकुटतटिनीमारुतैस्तत्र शम्भोः सम्पद्ग्रामं यदि न भजसे जन्मना किं भृतेन ॥ ५०॥ सौधैस्तुङ्गैर्हसदिव सुधाक्षालितै राजताद्रिं तेजोराशेः प्रविश भवनं धूर्जटेरूर्जितं तत् । पार्श्वे पार्श्वे परिचितनमस्कारजातश्रमाणां क्ष्मादेवानां क्षणमनुभवंस्तालवृन्तस्य लीलाम् ॥ ५१॥ उत्कीर्णानां कनकवलभीषूद्गतो विष्किराणां त्यक्ताशङ्कं प्रणम गिरिशं ध्याननिष्कम्पगात्रः । कण्ठच्छाया प्रतिफलति किं भर्तुरित्यद्रिपुत्र्या निध्यातः सन् कुतुकनिभृतैर्नेत्रपातैः पवित्रैः ॥ ५२॥ श्रीनन्दिभ्रूनियमितमिथोरोधमाबद्धसेवान् ब्रह्मेन्द्राद्यान् क्वचन विबुधान् सादरं वीक्षमाणः । गायन्तीनां क्वचिदपि सखे कोमलान् किन्नरीणां वीणारावानुपशृणु भवत्कूजितेनाविशिष्टान् ॥ ५३॥ दिव्यैश्वर्यं दिशसि भजतां वर्तसे भिक्षमाणो गौरीमङ्के वहसि भसितं पञ्चबाणं चकर्थ । कृत्स्नं व्याप्य स्फुरसि भुवनं मृग्यसे चागमान्तैः कस्ते तत्त्वं प्रभवति परिच्छेत्तुमाश्चर्यसिन्धो ॥ ५४॥ इत्थं स्तुत्वा बहिरुपवनोपान्तमाकन्दशृङ्गे यावद्भानुर्व्रजति चरमं भूधरं तावदास्स्व । द्रक्ष्यस्यन्वक्सफलनयनं ताण्डवानीन्दुमौले- र्लास्यक्रीडाललितगिरिजापाङ्गसम्भावितानि ॥ ५५॥ तस्मिन् काले बलिमहजुषां वारवामालकानां स्थालीचक्रे स्तनतटधृते सानुरागे हृदीव । बिम्बव्याजाद्विशति भवति स्यादमुष्येति शङ्के स्पष्टाङ्कस्य क्षणमुदयगस्येन्दुबिम्बस्य लक्ष्मीः ॥ ५६॥ विष्वक्कीर्णैरिव पशुपतेः कन्धराकान्तिपुञ्जै- र्वीतालोके जगति तिमिरैर्व्योमनीलाब्जभृङ्गैः । विश्रान्तः सन् क्वचन विपुले वृक्षशाखाकुटुम्बे तां तत्रैव क्षपय रजनीं श्रान्तविस्रस्तपक्षः ॥ ५७॥ वेलावाताश्चरमजलधेर्वीचिमान्दोलयन्तः स्तोकोन्निद्रैः कुमुदमुकुलैः पीतमुक्ताः सरस्सु । स्वेदाङ्कूरान् सुरतजनितान् सुभ्रुवां चोरयन्तः सेविष्यन्ते निशि परभृत त्वां सुखेन प्रसुप्तम् ॥ ५८॥ प्राप्तोन्मेषे प्रथमशिखरिप्रस्थदावाग्निकल्पे बालाशोकस्तबकरुचिरे भानवीये मयूखे । प्रस्थातुं त्वं पुनरपि सखे प्रक्रमेथाः प्रभाते स्वात्मक्लेशः सुहृदुपकृतौ त्वादृशानां सुखाय ॥ ५९॥ पद्मोपान्तादुषसि रमणे प्राप्नुवत्येव पार्श्वं मध्ये मारज्वरपरवशां वीक्षमाणो रथाङ्गीम् । दूरं प्राप्ते मयि विधिवशाद्दूयमानां सखीं ते स्मारं स्मारं द्विगुणगमनोत्साह एव ध्रुवं स्याः ॥ ६०॥ दृष्ट्वा देवं परिसरजुषं शम्बरे बालकृष्णं लोपामुद्रासखतिलकितं दिङ्मुखं भूषयिष्यन् । कोलानेलावनसुरभिलान् याहि यत्र प्रथन्ते वेलातीतप्रथितवचसः शङ्कराद्याः कवीन्द्राः ॥ ६१॥ उन्मज्जद्भिः पुनरिव जवात् पक्षवद्भिर्गिरीन्द्रै- र्वृन्दैर्नावां भुजपटलिकोड्डामरैर्गाह्यमानम् । लक्ष्मीजानेः शयनसदनं पुष्पवाटं पुरारेः पाकस्थानं निखिलमरुतां पश्य वारान्निधानम् ॥ ६२॥ मुक्ताजालैर्धवलपुलिनं वीचिमालाविकीर्णैः कूलाध्वानं कुसुमिततरुस्निग्धमालम्बमानः । देशाद्देशं व्रजसि कुतुकोत्तानमुग्धाननानां वामाक्षीणां नयनचुलकैः सादरं पीयमानः ॥ ६३॥ कुर्यात् प्रीतिं तव नयनयोः कुक्कुटक्रोडनाम प्रासादाग्रोल्लिखितगगनं पत्तनं तत् प्रतीतम् । यद्दोर्वीर्यद्रढिमकरदीभूतराजन्यवीराः शूराग्रण्यः शिखरिजलधिस्वामिनः पालयन्ति ॥ ६४॥ गेहे गेहे नवनवसुधाक्षालितं यत्र सौधं सौधे सौधे सुरभिकुसुमैः कल्पितं केलितल्पम् । तल्पे तल्पे रसपरवशं कामिनीकान्तयुग्मं युग्मे युग्मे स खलु विहरन् विश्ववीरो मनोभूः ॥ ६५॥ व्यर्थं कर्णे नवकुवलयं विद्यमाने कटाक्षे भारो हारः स्तनकलशयोर्भासुरे मन्दहासे । यत्र स्निग्धेष्वपि कचभरेष्वेणशाबेक्षणानां माद्यद्भृङ्गे सति परिमले मङ्गलाय प्रसूनम् ॥ ६६॥ यत्र ज्ञात्वा कृतनिलयनामिन्दिरामात्मकन्यां मन्ये स्नेहाकुलितहृदयो वाहिनीनां विवोढा । तत्तद्द्वीपान्तरशतसमानीतरत्नौघपूर्णं नौकाजालं मुहुरुपहरन् वीचिभिः श्लिष्यतीव ॥ ६७॥ तत्सौधाग्रेष्वरुणदृषदां सान्द्रसिन्दूरकल्पं तेजःपुञ्जं किसलयधिया चर्वितुं मारभेथाः । दृष्ट्वा वातायनविनिहितैर्लोचनाब्जैस्तरुण्यो वल्गद्वक्षोरुहमुपचितैर्हस्ततालैर्हसेयुः ॥ ६८॥ कृष्ट्वा दृष्टिं कथमपि ततः कौतुकानां निदाना- दुड्डीयेथाः पथि विटपिनां पुष्पमाध्वीं लिहानः । हारं हारं मदनपृतनाकाहलैः कण्ठनादै- रुत्कण्ठानां जनपदमृगीलोचनानां मनांसि ॥ ६९॥ ब्रह्माभ्यासप्रशमितकलीन् प्राप्य दीप्रान् प्रकाशान् श्वेतारण्यं व्रज बहुमतं धाम मृत्युञ्जयस्य । दृष्ट्वा दूरे सकृदपि जना यन्न पश्यन्त्यवश्यं मृत्योर्वक्त्रं निटिलघटितभ्रूकुटीकं कदाचित् ॥ ७०॥ सेव्यं शम्भोररुणमुरसस्ताडनाद्दण्दपाणेः पादाम्भोजं शिखरितनयापाणिसंवाहयोग्यम् । येनाक्रान्ते सति गिरिपतौ लोष्टमानास्यचक्र- श्चक्रन्दाधःकृतभुजवनो रक्षसां चक्रवर्ती ॥ ७१॥ पार्श्वे यस्य प्रवहति निला नाम कल्लोलिनी सा सन्ध्यानृत्तभ्रमिषु पतिता मस्तकाज्जाह्नवीव । नावाक्षेत्रप्रणयि रमयाक्रान्तदोर्मध्यमास्ते कूले यस्याः कुवलयदलश्यामलं धाम किञ्चित् ॥ ७२॥ साकं कान्तैर्मिलति ललितं केरलीनां कदम्बे मत्प्रेयस्याः प्रियसख महामाघसेवागतायाः । पायं पायं मुखपरिमलं मोहनं यत्र मत्ताः प्रायोऽद्यापि भ्रमरकलभा नैव जिघ्रन्ति पद्मान् ॥ ७३॥ शैवालौघच्छुरितकमला सैकतस्रंसिहंसा नीता कार्श्यं तपनकिरणैर्वासरेष्वेषु सिन्धुः । आकीर्णास्यामलकनिकरैः श्रोणिविभ्रंशिकाञ्चीं मन्ये दीनां विरहदशया प्रेयसीं मेऽनुयायात् ॥ ७४॥ शास्ता तस्या यदि तटपथैः शम्बरक्रोडवासी तिष्ठन्नश्वे जविनि मृगयाकौतुकी सञ्चरेत । लुम्पेस्तस्य श्रमजलकणान् कोमलैः पक्षवातै- र्भूयात् प्रीत्यै लघु च समये सेवनं हि प्रभूणाम् ॥ ७५॥ सर्वोत्कृष्टा जगति विदिताः केरलेषु द्विजेन्द्रा वल्लीकौण्योस्तदपि महिमा कापि मध्यश्रितानाम् । तत्राप्यस्याः सलिलपवना यत्र यत्र प्रथन्ते तेषां तेषामतिशयजुषः शीलविद्यानुभावाः ॥ ७६॥ ईष्टे तेषां स्तुतिषु न गुरुः का कथाल्पीयसां नो भ्रातर्भूयः शृणु परिमितं प्रस्तुताद्यावशेषम् । तामुत्तीर्णः सरितममृतस्यन्दिमाकन्दवृन्दान् देशान् पूतान् पत गुणगणैर्नेत्रनारायणीयैः ॥ ७७॥ यः प्राक्पाणिग्रहणसमये शम्भुना सानुकम्पं हस्ते कृत्वा कथमपि शनैरश्मपृष्ठे न्यधायि । द्रष्टव्योऽसौ किसलयमृदुर्मुक्तिपुर्यालयायाः कात्यायन्या महिषमथनोड्डामरः पादपद्मः ॥ ७८॥ किञ्चित्पूर्वं रणखलभुवि श्रीमदध्यक्षयेथा- स्तन्मीमांसाद्वयकुलगुरोः सद्म पुण्यं महर्षेः । विद्वद्वृन्दे विवदितुमनस्यागते यत्र शश्व- द्व्याख्याशालावलभिनिलयस्तिष्ठते कीरसङ्घः ॥ ७९॥ शास्त्रव्याख्या हरिहरकथा सत्क्रियाभ्यागताना- मालापो वा यदि सह बुधैराक्षिपेदस्य चेतः । तद्विस्रब्धद्विजपरिवृते निष्कुटाद्रौ निषण्णः कोकूयेथाः स खलु मधुरां सूक्तिमाकर्ण्य तुष्येत् ॥ ८०॥ श्लाघ्यच्छन्दस्थितिमयि मया शोभनेऽर्थे नियुक्तं श्राव्यं शब्दैः सरससुमनोभाजमभ्रान्तवृत्तिम् । दूरप्राप्त्या प्रशिथिलमिव त्वां सखे काव्यकल्पं धीमान् पश्येत् स यदि ननु ते शुद्ध एव प्रचारः ॥ ८१॥ पार्श्वादस्य प्रचलितवतः पावनानाहरन्तः कुन्दस्वच्छान् वृषपतिमुखासक्तरोमन्थफेनान् । छिन्द्युस्तापं तव वृषपुरीसङ्गिनः शङ्कराङ्क- क्रीडद्गौरीकचतरलनोद्गन्धयो गन्धवाहाः ॥ ८२॥ पूर्वो भागः स्तनभरनतः प्रेक्ष्यते चेच्चलाक्षः पश्चाद्भागो ललितचिकुरो दृश्यते नो नितम्बी । इत्थं गौर्या युगपदुभयं द्रष्टुकामोऽष्टमूर्ति- र्मूर्तिद्वन्द्वं वहति भगवान् यः स मुक्त्यै निषेव्यः ॥ ८३॥ भूषाभोगिश्वसितपवनैः फालनेत्रे प्रदीप्ते स्विन्नस्येन्दोरमृतपृषतैरूर्जितं निर्गलद्भिः । मौलौ यस्य द्रुहिणशिरसां मण्डलं मण्डपान्तः- क्ष्मादेवानां श्रुतिपदजुषां संशयानुच्छिनत्ति ॥ ८४॥ द्वारोपान्तस्थितिकृदणिमापाङ्गदत्तेहितार्थै- राशापालैर्निबिडितबहिःप्राङ्गणं सेवमानैः । तस्यादूरे कनकभवनं पक्षपातात् प्रविष्टः सम्पन्मूर्तिं प्रणम गिरिजां सा हि विश्वस्य माता ॥ ८५॥ संसर्पद्भिस्तनुरुचिभरैः सङ्गमग्रामशौरे- स्तापिञ्छाभैः स्तबकिततलं गाहमानो विहायः । तुल्यच्छायस्मृतनवतमालावलीवाससौख्यो मन्ये लोकैः क्षणमिव पृथङ्नो विभाविष्यसे त्वम् ॥ ८६॥ कालीवासं भज पथि महत् काननं यत्र शश्वत् सेवायाते त्रिदशनिकरे श्राद्धदेवौपवाह्यम् । भूतैर्भेद्यो बलिमहिष इत्युद्भटैः कृष्टशृङ्गे रज्जुग्राहं रुदति विजया रूढहासं रुणद्धि ॥ ८७॥ रम्यां हर्म्यध्वजपटमरुद्वीजितब्रध्नयुग्या- मग्रे पश्याञ्जनखलपुरीमाश्रितां शङ्करेण । यत्राश्लिष्टो वरयुवतिभिश्चुम्बति स्विन्नगण्डं चूर्णीवातः प्रिय इव रतिश्रान्तमास्यारविन्दम् ॥ ८८॥ सा च प्रेक्ष्या सरिदनुपदं यत्र कल्माषितायां मज्जन्माहोदयपुरवधूकण्ठकस्तूरिकाभिः । रक्ताः पद्माः कुवलयवनीसाम्यमापद्यमाना विज्ञायन्ते स्फुटमहिमधामोदये जृम्भमाणे ॥ ८९॥ चारुस्वच्छा शफरनयना चक्रवाकस्तनश्रीः कल्लोलभ्रूः कमलवदना कम्रशौवालकेशा । संसेव्या स्यात् सरसमधुरा सानुकूलावतीर्णै- र्दुर्गाहान्यैरिति हि सरणिः कापि गाम्भीर्यभाजाम् ॥ ९०॥ त्वय्याकाशे सुभग तटिनीं लम्बमाने सलीलं बिम्बं दृष्ट्वा पयसि मणिभङ्गामले कम्पमानम् । वीचीवेगप्रचलदसिताम्भोजिनीगुच्छबुद्ध्या कूजं कूजं मधुरमलयः कोकिल व्यालपेरन् ॥ ९१॥ तीरं तस्याः प्रति गतवतो दक्षिणं तत्क्षणं ते देशः सर्वातिशयिविभवो दृक्पथेतः प्रथेत । तां जानीया दिशि दिशि जयन्ताख्यया ख्यायमानां प्रत्यादिष्टत्रिदिवनगरप्राभवां प्राप्यभूमिम् ॥ ९२॥ बालोद्यानैः समदमहिलाभुक्तवल्लीनिकुञ्जैः केलीहंसक्षुभितनगरभ्रान्तभृङ्गैः सरोभिः । रत्नश्रेणीघटितशिखरैगोपुरैः सा पुरी ते प्रायः प्रज्ञाभरण सुगमा स्यादनावेदितापि ॥ ९३॥
उत्तरभागः लक्ष्मीजन्मस्थितिमनुपमैः पूरितां रत्नजालै- र्भूभृद्गर्भां प्रकटितकलेशोदयश्लाघ्यवृद्धिम् । पाथोराशेस्तनुमिव परां मन्यमानो विशालां यामध्यास्ते स खलु निगमाम्भोजभृङ्गो रथाङ्गी ॥ १॥ वक्त्रौपम्यं वहति विमलं पश्य पार्श्वे सुधांशोः पश्चाद्भागं सुमुखि रमणैरित्थमावेद्यमानाः । हर्म्ये यस्यां हरिणनयनाः कुर्वतेऽस्मिन् कलङ्कं दृष्ट्वा सेर्ष्या इव कुवलयाध्येयशोभैरपाङ्गैः ॥ २॥ वीथ्यां वीथ्यां वलरिपुशिलाभङ्गबद्धस्थलायां सम्मूर्छद्भिः किरणपटलैस्त्वद्गरुज्जालनीलैः । यत्रारब्धे दिनकरकरैरप्यहार्येऽन्धकारे लोलाक्षीणां भवति दिवसे निर्विशङ्कोऽभिसारः ॥ ३॥ यस्यां रात्रौ युवतिवदनाम्भोजसौन्दर्यचौर्यात् सत्यं सौधध्वजपटशिखाघृष्टबिम्बे हिमांशौ। दृष्ट्वा कृष्णं किणमणिकणं हन्त गाढं प्ररूढं मूढो लोको वदति शशको रोहितोऽन्यत्तथेति ॥ ४॥ वीचीक्षिप्ता इव सुरधुनीबालशैवालमाला यत्रोदीर्णा मरतकरुचश्चन्द्रशालातलेभ्यः। घासभ्रान्त्या गगनपदवीदीर्घपान्थायमाना- श्चञ्चत्प्रोथं तरणितुरगाश्चर्वितुं प्रारभन्ते ॥ ५॥ यत्रोद्याने मलिनितदिशाकुञ्जपुञ्जे तरूणां शृङ्गे लग्ना भ्रमरपटलीनिर्विशेषाः पयोदाः । वापीष्वम्बून्यधिकसुरभीण्युत्सृजन्ति स्वकाले सोपानाग्रस्फटिककिरणोज्जृम्भणाम्रेडितानि ॥ ६॥ अन्यामग्रे मम मणिगृहे भुक्तवानित्यवादी- र्मुग्धे कान्तो धृतनखपदा भित्तिलीना किमेषा । इत्थं यस्यां स्मितलवजुषो ह्रेपयन्ते नवोढां सख्यस्तस्यास्तनुमनुपमां बिम्बितां दर्शयन्त्यः ॥ ७॥ चिल्लीवल्या धनुषि घटिते क्षिप्त एवेक्षुकाण्डो नेत्रोपान्ते वहति शरतां न्यस्तमेवारविन्दम् । रोमावल्यामपि गुणदशां यत्र बिम्बाधराणां बिभ्राणायां मदनविभुना भ्रंशितैवालिमाला ॥ ८॥ शृङ्गाराब्धिप्लव इव गलद्वेणि कम्प्रस्तनं तत् भ्रश्यन्नीवि स्थितमिति विटा वीक्ष्य संश्लिष्य यत्र । मुग्धाक्षीणां मुकुलितदृशां मोहनाडम्बरान्ते भूयः श्रान्तं पुनरपि रतोद्योगमुद्वेलयन्ति ॥ ९॥ यस्यां मेघा हरिमणिशिलाहर्म्यपर्यन्तभाजो न ज्ञायेरन् श्रवणसुभगं गर्जितं चेन्न दद्युः । विद्युद्वल्ली पुनरपि नवारब्धसंभोगलीला- वेल्लत्कान्ताविपुलजघनस्रस्तकाञ्चीसमैव ॥ १०॥ तस्यां लक्ष्मीरमणनिलयं दक्षिणेनेक्षणीयं मत्कान्तायाः सदनमभितो वेष्टितं रत्नसालैः । मध्ये सौधं कनकघटितं बिभ्रदूढच्छदौघे यस्मिन्नम्भोरुह इव कनत्कर्णिके खेलति श्रीः ॥ ११॥ माहाभाग्यं रतिपतिभुजाडम्बरः पौनरुक्त्यात् कल्याणौघः स्फुरति रसिकानन्तताप्यत्र हीति । एषामाद्यक्षरगणमुपादाय बद्धेन नाम्ना मान्यं मारक्करनिलयनं यत्कवीन्द्रा गृणन्ति ॥ १२॥ लीलावापी लसति ललिता तत्र सोपानमार्गे माणिक्यांशुस्फुरणसततस्मेरनालीकषण्डा । यत्रायान्त्याः पयसि विमले स्नातुमस्मत्प्रियाया मन्ये यानाभ्यसनविधये मल्लिकाक्षा वसन्ति ॥ १३॥ तस्यास्तीरे पुनरुपवनं तत्र चूतोऽस्ति पोत- स्त्वज्जतीयैः पिक परिवृतः पल्लवास्वादलुब्धैः। पार्श्वे चास्य स्तबकनमिता माधवीमुग्धवल्ली प्रेयस्या मे परिणयमहं प्रापितौ सादरं यौ ॥ १४॥ तस्यादूरे मरतकतले हेमबद्धालवालः सिक्तो मूले हिमजलभरैश्चम्पकः कश्चिदास्ते । लब्ध्वा सख्यास्तव स सुकृती स्मेरवक्त्राब्जरागं सूते तस्यास्तनुलतिकया तुल्यवर्णं प्रसूनम् ॥ १५॥ क्रीडानृत्ते भवनशिखिनां दूरमुक्ताहिसङ्गा सान्द्रच्छायाहृतरविकरा तत्र पाटीरवाटी । मध्ये तस्यां स खलु लतिकामण्डपो रत्नभूमिः शश्वद्यस्मिन् किमपि वलति स्मावयोः प्रेमवल्ली ॥ १६॥ स्निग्धस्कन्धस्रुतमधुरसः किञ्च तस्योपकण्ठे कूजद्भृङ्गः कुरवकतरुर्यः कुरङ्गेक्षणायाः । काले काले करिकरशिरोविभ्रमाभ्यां भुजाभ्या- माश्लिष्टाङ्गो वहति मुकुलच्छद्मना रोमभेदान् ॥ १७॥ स्थानेष्वेषु क्वचन कथितेषूत्सुका पुष्पशय्या- मध्यासीना परिजनकृतां सा न चेदीक्षिता स्यात् । प्रासादोऽस्याः परमभिमतः कोऽपि माहेन्द्रनील- स्तस्मिन् दृश्या तटिदिव घने चारुरूपा प्रिया मे ॥ १८॥ सा नेत्राणाममृतगुलिका सृष्टिसारो विधातुः सौन्दर्येन्दोः प्रथमकलिका दीपिका भूतधात्र्याः । कन्दर्पस्य त्रिभुवनविभोः काञ्चनी केतुयष्टिः शृङ्गाराब्धेः शशधरकला जीवितं मे द्वितीयम् ॥ १९॥ पश्यन्नेनां बहलसुषमामण्डलान्तर्निमग्नां मध्येऽन्यासामपि चलदृशां ज्ञास्यसे नो कथं त्वम् । ज्तोत्स्नाजालस्नपितभुवना तारकाणां समीपे चान्द्री मूर्तिः कथय जगतो ज्ञाप्यते केन रात्रौ ॥ २०॥ सान्द्रामोदस्तिमिरनिकरश्चन्द्रमा निष्कलङ्कः शैलौ हैमौ भ्रमरपटलीकीलितो व्योमभागः । कम्रं चक्रं मृदुकरिकरद्वन्द्वमब्जे सलीले सर्वं चैतन्मदनघटितं सौम्य सम्भूय साभूत् ॥ २१॥ नीचीकुर्वन्त्यलसवलिता नेत्रपाताः कुरङ्गान् वीचीगर्वं हरति निखिलं विभ्रमान्दोलिता भ्रूः । पाणी कल्पद्रुमकिसलयप्राभवं न क्षमेते वाणी तस्या वहति भवतां पञ्चमैर्बालमैत्रीम् ॥ २२॥ सा कान्तिश्चेद्द्रवति कनकं तन्मुखं चेत् क इन्दुः सा चेद् बिम्बाधरमधुरता तिक्ततामेति माध्वी । सा वा तस्या यदि तनुलता मालती लोहतुल्या तौ चेदूरू कनककदलीस्तम्भयोः क्वापि डम्भः ॥ २३॥ उक्तेष्वेव प्रसजति पुनर्नव्यलावण्यसारे- ष्वङ्गेष्वस्या मम कथयतो हन्त वाचां प्रवृत्तिः । तादृग्भूते मनसि विवशे किन्नु कुर्वीत सेयं यद्यच्चेतो विमृशति गिरां तत्तदेवाभिधेयम् ॥ २४॥ अद्य प्रायः प्रणयिनि मयि प्रोषिते भाग्यदोषात् कल्पप्रायैरहह दिवसैरेभिरुत्कण्ठमाना । सञ्जायेत प्रबलविरहोद्वेजिता पेशलाङ्गी मूर्छद्घर्मज्वरपरवशा नीलकण्ठीव खिन्ना ॥ २५॥ यत्रापाङ्गद्युतिकवचिते किञ्चिदुत्सार्य केशान् दत्तः प्रेम्णा दिनमनु मया दीर्घिकारक्तपद्मः । तस्मिन्नस्या भवति नियतं हन्त चिन्ताकुलाया गण्डन्यस्तः करकिसलयः कर्णजाहेऽवतंसः ॥ २६॥ पक्ष्मस्पन्दः समजनि सखे पश्यतोर्मां ययोः प्राङ्- निष्पत्राकृन्मयि तु विधिना तादृशे दूरनीते । अन्तर्बाष्पच्छुरणनिभृते साम्प्रतं ते मृगाक्ष्या नेत्रे धत्तस्तुहिनकणिकादन्तुराम्भोजदैन्यम् ॥ २७॥ सान्द्रामोदं सपटु सदयं सस्मरं सानुतर्षं सम्भोगान्ते मुहुरपि मया सादरं चुम्बितो यः । नर्मालापस्मितलवसुधासेचनैर्मुच्यमान- स्ताम्यत्युष्णश्वसितपवनैः सोऽति बिम्बाधरोऽस्याः ॥ २८॥ क्रीडाशैलौ मदननृपतेः कान्तिपूरस्य कोकौ स्यातां तस्या ध्रुवमुरसिजौ किञ्चिदापाण्डुमूलौ । मद्विश्लेषः शरदुडुनिभां त्याजयन् हारमालां मन्ये भीतो वितरति तयोरश्रुधाराभिरन्याम् ॥ २९॥ भूषास्वास्थां यदपि जहती तां वहत्येव काञ्चीं ग्राहं ग्राहं पृथु पृथु मया मौक्तिकं गुम्भिता या । श्रोणीबिम्बे सुमहति तया भूषिते कोमलाङ्ग्याः सालावीतां स किल मदनो मन्यते राजधानीम् ॥ ३०॥ मच्चिताख्यद्विपनियमनालानयोर्द्वन्द्वमूर्वोः श्रोणीभारादलसमधुना जायते खिन्नखिन्नम् । आरब्धानां हर हर मया यत्र संवाहनानां नित्यं जाता निरवधिरसाः केऽपि केऽप्यन्तरायाः ॥ ३१॥ आद्वारान्तं मदभिगमनाशङ्कया चञ्चलाक्ष्या यातायातैः किसलयनिभौ क्लिश्यतः पादपद्मौ । मिथ्यागोत्रस्खलनमसकृत् प्रस्तुतं हन्त याभ्यां लब्धुं पादप्रणतिषु मया हन्त सन्ताडनानि ॥ ३२॥ यद्यप्यस्याः क्रशयति वपुर्वल्लरीं दीप्यमानो विश्लेषाग्निर्द्विगुणयति तां किन्तु लावण्यलक्ष्मीम् । तप्तां तप्तां नयति नितरां तानवं जातवेदा हैमीं लेखामपि तु जनयत्येव वर्णप्रकर्षम् ॥ ३३॥ पृथ्वीरेणूनलकनिकरे नेत्रयोर्बाष्पपूरं हस्ते गण्डं सितबिसलताहारजालं स्तनाग्रे । श्रोण्यां क्षौमं मलिनमसृणं सा वहत्येव हन्ते- त्यास्तामेतद्बहुविलपितैर्मास्तु कालातिपातः ॥ ३४॥ स्थित्वा चूते प्रथमकथिते मुग्धकान्ताधराभं दष्ट्वा स्वैरं किसलयमथ प्रेक्षणीया त्वया सा । पृच्छन्ती वा मलयवपनं प्रश्रयान्मत्प्रवृत्तिं मद्वृत्तान्तं कथय कठिनस्येति वा प्रार्थयन्ती ॥ ३५॥ छिन्ते तापं हिमजलमयी चान्दनी किन्नु चर्चा मन्दस्पन्दाः किमु सुखकरा मारुताश्चामराणाम् । पृच्छन्तीनामिति सवयसां सातिरेकेऽपि तापे स्मित्वा रम्यं सकलमिति वा चित्तमाश्वासयन्ती ॥ ३६॥ प्रस्पन्दन्ते मलयपवना रुन्धि जालं कवाटैः शम्भोर्नाम्ना शरगणमुचं भीषयेः पञ्चबाणम् । जीवञ्जीवं विसृज चरितुं चन्द्रिके चन्द्रिकाया- मित्थं चेटीं सजलनयनामादिशन्ती मुहुर्वा ॥ ३७॥ प्राप्तालम्बा परिजनकरैः प्राप्य वा चित्रशालां मुग्धा स्वस्याश्चरणपतितं वेति तं मां निरीक्ष्य । एह्युत्तिष्ठ प्रिय न कुपितास्मीति बाष्पाकुलाक्षी गाढाश्लेषप्रचलितकरा रुध्यमाना सखीभिः ॥ ३८॥ कोपं चण्डि त्यज परिजने दैवमत्रापराद्धं येनाकाण्डे समघटि महानावयोर्विप्रयोगः । इत्थं बद्धाञ्जलि कृतरुषं भावितामग्रतस्तां साहंभूता प्रियचटुशतैरुद्यता वानुनेतुम् ॥ ३९॥ गण्डालम्बैर्लुलितमलकैर्धूसरैर्वक्त्रबिम्बं दृष्ट्वा शुद्धस्फटिकघटिते बिम्बितं भित्तिभागे । अन्तर्गेहं जलदशकलैरावृतो रोहिताङ्कः केनानीतः पुर इति भिया व्याहरन्ती सखीर्वा ॥ ४०॥ निद्रां प्राप्ता कथमपि चिरात्तत्र चालोकिनी मां शून्याश्लेषं विरचितवती हन्त घातात् कुचाद्र्योः । निर्भिन्दाना निजकरधृतं कङ्कणं स्रस्तशेषं पश्यन्तीनां नयनकमले बध्नती वा सखीनाम् ॥ ४१॥ वक्ति ध्वाङ्क्षः सुहृदुपगमं दक्षिणे क्षीरवृक्षे वामं नेत्रं स्फुरति सुचिरादुच्छ्वसित्यद्य चेतः । किञ्च स्वानः श्रवणमधुरो जायते कोकिलानां प्राणेष्वाशामिति कथमपि भ्रातराबध्नती वा ॥ ४२॥ मुक्त्वा जीवाम्यसुसममिति व्रीलिता विस्मिता वा तत्सङ्गाशा पुनरिह परं हेतुरित्यासिता वा । शोचन्ती मां दयितमथवा विप्रयोगासहिष्णुं स्त्रीणां चेष्टास्विति हि विरहोत्थासु दिङ्मात्रमेतत् ॥ ४३॥ गाढाश्लेषव्यतिकररसग्रन्थनादूयमानः सम्भोगान्ते स्वपनविधये यः पुरा धूयते स्म । कण्ठोत्सङ्गान्मम स विधिना वैरिणा दूरकृष्टो वामो बाहुस्त्वयि सविधगे यास्यति स्पन्दमस्याः ॥ ४४॥ वक्तुर्वक्त्रं तमसि भवतो नैव दृश्येत रात्रा- वामध्याह्नं भवति नियमव्याकुला वासरे सा । सह्यस्पर्शे सति रविकरे तामसह्यस्मरार्तिं मत्सन्देशं मणिवलभिकामाश्रितः श्रावयेथाः ॥ ४५॥ त्यक्त्वा चूतानपि कुसुमितानागतो मत्समीपं किन्न्वेष स्यात् कमपि कुशलोदन्तमाख्यातुकामः । इत्यालीभिर्भृतजलकणं पाणिनामृष्टनेत्रं दृष्टः स्पष्टाक्षरमिति शनैः शंसितुं प्रक्रमेथाः ॥ ४६॥ अम्लाना ते जयति कमनीयाङ्गि मङ्गल्यभूषा पत्युः पार्श्वात् सुहृदहमुपेतोऽस्मि सन्देशहारः । जातं विद्धि श्रुतिसुखगिरां कोकिलानां कुले मां ये पञ्चेषोः किमपि पथिकाकर्षणं षष्ठमस्त्रम् ॥ ४७॥ चोलेष्वास्ते सुमुखि कुशली त्वत्प्रियः पृच्छति त्वां कच्चित् क्षेमं भजति भवतीत्यात्तवाचं भवन्तम् । भूयोभूयः कथय कथयेत्यालपन्त्यश्रुमिश्रैः प्रीतिस्मेरैर्मदिरनयना मानयिष्यत्यपाङ्गैः ॥ ४८॥ एवं ब्रूयाः पुनरजनि यः प्रेमकोपे मिथो वां जाते मौने चपलचपलस्तत्क्षणं पूर्वमुक्त्याम् । तादृक्प्रेम्णश्चिरविरहिणः प्राणनाथस्य वाणी सेयं मत्तः श्रवणसरसा श्रूयतां श्राव्यबन्धा ॥ ४९॥ कल्याणाङ्गि प्रियसहचरीं त्वामनासादयद्भि- र्बाह्यैरक्षैः सह परमहं यामि कामप्यवस्थाम् । धन्यं चेतः पुनरिदमहोरात्रमन्यानपेक्षं त्वय्यामग्नं बत ननु पृथग्भाग्यमप्येकजानाम् ॥ ५०॥ माद्यद्भृङ्गैः कुमुदपवनैस्तर्ज्यमानस्य घोरै- रातङ्काख्ये सरसि लुठतो हा निशीथे निशीथे । निद्रामूके जगति रुदति श्वासचिन्ताजुषो मे सङ्क्रन्दन्तश्चटुलनयने चक्रवाकाः सहायाः ॥ ५१॥ मोहाद्वैतं विहरति धृतिर्लीयते जाड्यमीने भात्युन्मादो भ्रमति मतिरित्यादि सोऽहं न वेद्मि । बाणं मुञ्चन् परिसरचरो न स्वपन् नापि खादन् कृत्स्नं जानात्यलसगमने केवलं पञ्चबाणः ॥ ५२॥ काले चास्मिन् कनदलिभृतः कम्पिताग्रप्रवालाः कम्रा वल्ल्यः किमपि मरुता चुम्बिता दक्षिणेन । किञ्चिद्दष्टाधरकिसलयां प्राङ्मया भोगकाले सीत्कुर्वाणां धुतकरतलां त्वां प्रिये स्मारयन्ति ॥ ५३॥ अंसालम्बिश्लथकचभरं हस्तरुद्धाम्बरान्तं प्राक्क्रीडान्ते तव मणिगवाक्षोपकण्ठेषु चारम् । स्मारं स्मारं कथमपि मया मुह्यता सह्यतेऽसौ मन्दो वायुः सुतनु बकुलोद्भेदसौरभ्यबन्धुः ॥ ५४॥ तीर्त्वा रात्रिं विरहमहतीं तीव्रतापां कथञ्चि- द्दृष्ट्वा भानोः किरणमरुणं जम्भशत्रोर्दिगन्ते । प्रत्युद्यान्तीं त्वरितमबलां श्लिष्यते भाग्यसीम्ने सारङ्गाक्षि स्पृहयति मनो हन्त चक्राख्ययूने ॥ ५५॥ उत्कण्ठोऽस्मि त्वदुदितधिया मुग्धहंसीनिनादे त्वद्भूषायां हरिति सततं लोचने पातयामि । त्वत्संस्पृष्टे मम च वपुषि प्रेम बध्नामि कान्ते सत्यं प्राणानपि परमहं त्वत्प्रियान् धारयामि ॥ ५६॥ त्वं चाहं च क्षितिमुपगतावित्यविश्लेषचिन्ता निन्दावन्तौ स्मर इति मिथो वाक्यसम्भेदसौख्यम् । स्पृश्येते नौ निशि शशिकरैरङ्गके यौगपद्यात् तेनाप्यस्ति द्विरदगमने सत्यमाश्लेषबुद्धिः ॥ ५७॥ हाहन्तास्मिन्नसुलभमिथोदर्शने विप्रयोगे सैवालम्बो मम भगवती भावनाकल्पवल्ली । त्वामासीनामसकृदनया गाढमालिङ्ग्य रागा- दङ्कारूढामलघुजघने नोचितं वक्तुमन्यत् ॥ ५८॥ जातं चेतो मदनसुभटस्याद्य योग्यं शरव्यं नैकच्छिद्रं नियतममुतः सुभ्रु विभ्रंशि धैर्यम् । कालात् क्षीणे पुनरवयवे वर्धते केवलं नो तापस्तीव्रस्मरहुतभुजा तस्य वर्णोद्गमोऽपि ॥ ५९॥ एवंप्राया न हि न विरहे जीवितुं सन्त्युपायाः सत्यं तैस्तैः कृतधृतिरहं प्राणिमि प्राणनाथे । निश्चित्यैवं निरुपमगुणे साहसेभ्यो निवृत्ता त्वं च स्नानादिषु सवयसां प्रार्थनां मा निषेधीः ॥ ६०॥ तीर्णप्रायो विरहजलधिः शैलकन्याप्रसादा- च्छेषं मासद्वितयमबले सह्यतां मा विषीद । धूपोद्गारैः सुरभिषु ततो भीरु सौधान्तरेषु क्रीडिष्यावो नवजलधरध्वानमन्द्राण्यहानि ॥ ६१॥ कच्चिच्चित्ते स्फुरति चपलापाङ्गि चूर्ण्यां कदाचित् स्रस्तोत्तंसं धवलनयनं धौतबिम्बाधरोष्ठम् । स्नानान्ते ते मुखमुपसखि प्रेक्षमाणे मयि द्रा- ग्वक्षोदघ्ने पयसि पुनरप्यावयोर्मज्जनं तत् ॥ ६२॥ आश्लिष्यन्तं विटपभुजया तत्र वल्लीरनेकाः क्रीडारामे कमपि तरुणं वीक्ष्य माकन्दवृक्षम् । साचीकृत्य स्फुरदधरया चण्डि वक्त्रं भवत्या सुभ्रूभङ्गः सजलकणिकः प्रेषितो मय्यपाङ्गः ॥ ६३॥ प्रत्याख्यातः प्रणयिनि रुषा बिम्बितोऽहं स्तने ते सैरन्ध्र्यज्ञा स्थगयितुमभूच्चन्दनेन प्रवृत्ता । मा पाटीरं पुलकिनि पुनश्चात्र लिम्पेति शंस- त्यालीवृन्दे स्मितजुषि कृता दृक्त्वया व्रीलगर्भा ॥ ६४॥ उच्चिन्वत्याः किसलयरुचा पाणिनोद्यानपुष्पं साकं भृङ्गैस्तव मयि मुखाम्भोजसौरभ्यलुब्धे । रेणुत्रस्ता इव सुमनसां दक्षिणाः केलिसख्यः कञ्चित्कालं करकिसलयैरप्यधुर्लोचनानि ॥ ६५॥ इत्येतस्मान्मम कुशलितां विद्ध्यभिज्ञानदाना- द्भूयश्चैकं शृणु सहचरीं धूतनैकानुनीतिम् । केलीहंसे स्मरजुषि हठाच्चुम्बतीषत्स्तनन्तीं त्वं तु स्मृत्वा किमपि बहलव्रीलमालोकथा माम् ॥ ६६॥ रागो नाम त्रुटति विरहेणेति लोकप्रवाद- स्त्वत्सम्बद्धो मम शतगुणः सङ्गमाद्विप्रयोगे । सोऽयं भेदो विषयभिदया सङ्गमे त्वं किलैका विश्लेषे तु त्रिभुवनमिदं जायते त्वन्मयं हि ॥ ६७॥ एतत्कृत्यं प्रियसख मम भ्रातुरार्तस्य कृत्वा नासीरः स्या जगति करुणाशालिनां संविभागे । शंसन्ति त्वां ननु परभृतं शैशवे यद्भृतोऽन्यैः पत्रिव्राताभरण भरणेनाद्य स त्वं परेषाम् ॥ ६८॥ एवं तस्या विरहविधुरं जीवितं स्थापयित्वा गच्छ स्वेच्छाविहरण यथाप्रार्थितं दिग्विभागम् । मान्यश्रीः स्यान्मदननृपतेः कोकिला तेऽनुकूला भूयान्मैवं सकृदपि तया विप्रयोगप्रसङ्गः ॥ ६९॥ Contact Venetia Ansell www.rasalabooks.com venetia at rasalabooks.com

% Text title            : uddaNDashAstrivirachitaH kokilasandeshaH
% File name             : kokilasandesha.itx
% itxtitle              : kokilasandeshaH (uddaNDashAstrivirachitaH)
% engtitle              : Uddanda Shastri's Kokila Sandesha
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : UddaNDashAstri
% Language              : Sanskrit
% Subject               : philosophy/literature/poetry
% Transliterated by     : www.rasalabooks.com  Contact Venetia Ansell venetia at rasalabooks.com
% Proofread by          : www.rasalabooks.com  Contact Venetia Ansell venetia at rasalabooks.com
% Latest update         : July 31, 2012
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP