नामामृतरसायनम्
॥ श्रीः ॥
सकृत्प्रपन्नजनतासंरक्षणदीक्षिताय श्रीरामब्रह्मणे नमः ।
सदा सर्वेष्टदं जन्तोः सर्वारिष्टनिवारकम् ।
श्रीरामनाम जयतु श्रेयोहेतुशिखामणिः ॥ १॥
सदानन्दः श्रीमाननुपधिककारुण्यविवशो
जगत्क्षेमाय श्रीहरिगिरिशरूपं विधृतवान् ।
अपर्याप्तं रूपं जगदवन एतत्पुनरिति
प्रभुर्जागर्ति श्रीहरिगिरिशनामात्मकतया ॥ २॥
सकलभुवनरक्षापेक्षया यः परात्मा
निरवधिदयया श्रीशेशनामात्मकः सन् ।
प्रविलसति सदासौ सोऽनुकम्पासुधाब्धि-
र्मम भवतु तदात्मा सुस्थिरो वक्त्रपद्मे ॥ ३॥
सर्वस्य लोकस्य सदा सुगुप्त्यै
नामात्मको भाति हरीशयोर्यः ।
दयासुधाब्धिः स तदात्मको मे
रामः सदा वक्त्रसरोरुहेऽस्तु ॥ ४॥
यन्नामकीर्तनादेव दग्धदुर्जातिकिल्बिषः ।
किरातोऽभून्मुनिश्रेष्ठो वाल्मीकिरिति विश्रुतः ॥ ५॥
विद्याधराख्यविप्रोऽपि यन्नाम्नः कीर्तनादगात् ।
मुक्तिं तद्रामनाम्न्येव मम वागस्तु सर्वदा ॥ ६॥
सकलभुवनकर्ता सच्चिदानन्दरूपो
गिरिशमुखसुरेन्द्रैर्गीतकीर्तिः परात्मा ।
सकृदुपगतरक्षादीक्षितः श्रीनिवासो
मम हृदि निवसन्मां पातु सीतासमेतः ॥ ७॥
निर्माता स्थितिकारकोऽस्य जगतः सर्वेश्वरः सर्वगः
सच्चिद्रूपसुखात्मको विजयते स्वात्माखिलानां च यः ।
साक्षी वेदगिरेड्यपादकमलस्त्राता प्रपत्तुः सकृ-
द्देवोऽसौ कृपयास्तु रक्षणपरो रामो मुदा मे सदा ॥ ८॥
सकृत्प्रपन्नस्य जनस्य रक्षा
कृपाम्बुधेर्यस्य महद् व्रतं सः ।
रामः सदाव्याद्रमणीयकीर्तिः
सीतापतिर्मां शरणं प्रपन्नम् ॥ ९॥
सृष्ट्यादिहेतुरखिलस्य चराचरस्य
दृष्ट्या निरस्तमदनाखिलगर्वराशिः ।
पाताखिलस्य जगतः परमो नियन्ता
साम्बः सदा स्फुरतु मे हृदि रामरूपः ॥ १०॥
चेतनानां हि सर्वेषां यः सदा शङ्करः सदा ।
स शिवः शङ्करो भूयात्सदा मम दयाम्बुधिः ॥ ११॥
सकलनतजनानां रक्षणे बद्धदीक्षो
वरवटतरुमूले संनिविष्टोऽखिलात्मा ।
सकलमुनिजनानां ज्ञानदाता दयाब्धिः
प्रदिशतु सुमतिं मे दक्षिणामूर्तिदेवः ॥ १२॥
विज्ञानवैराग्यपरात्मभक्ति-
शमादिभिर्योऽधिकतां प्रपन्नः ।
विश्वाधिकाख्यामगमच्च तेन
गुरूत्तमं तं प्रणमामि मूर्ध्ना ॥ १३॥
नत्वा गणेशं निखिलांस्तु विघ्ना-
ञ्जित्वामरास्तोषमियुस्तमेव ।
तत्त्वावबोधाय नमामि मूर्ध्ना
नित्यं निहन्तुं निखिलांस्तु विघ्नान् ॥ १४॥
या वेदशास्त्रात्मकवन्द्यदेहा
सर्वैः सुरेन्द्रैर्मुनिभिश्च पूज्या ।
श्रीभारती सा दयया मदीये
जिह्वाङ्गणे नृत्यतु सर्वदैव ॥ १५॥
शास्त्रार्थं सुविनिर्णेतुमिष्टदं सर्वदेहिनाम् ।
यतिरूपधरं नौमि शङ्करं लोकशङ्करम् ॥ १६॥
श्रीरामस्य कृपादृष्ट्या तन्नामस्मृतिलब्धया ।
रच्यते श्रीभगवतो नामामृतरसायनम् ॥ १७॥
नामकीर्तनरूपो हि धर्मः श्रीपरमात्मनः ।
श्रुतिस्मृतिपुराणादिशास्त्रेषु विहितः क्रमात् ॥
सर्वाश्रमणामन्येषां जनानां च गरीयसाम् ।
निकृष्टानां च सर्वेषां सर्वाघौघनिवारकः ॥
सर्वेष्टफलदो ब्रह्मविज्ञानस्य समुद्भवः ।
वेदोक्तः सर्वधर्माणां सकलाश्रमवासिषु ॥
अनुत्तमः श्रुतः कञ्चिन्नियमं नैव वाञ्छति ।
अतः सकलधर्मेभ्यः सुलभः सर्वमङ्गलः ॥
इत्येतदर्थं सकलं स्पष्टीचक्रे स्ववाक्यतः ।
सहस्रनामभाष्येऽस्मिन्भाष्यकारो दयाम्बुधिः ॥
इति श्रीमद्बोधेन्द्रविरचितं नामामृतरसायनं सम्पूर्णम् ॥
Encoded and proofread by Sunder Hattangadi