॥ नाट्यशास्त्रम् अध्यायः ८ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अष्टमोऽध्यायः ऋषयः ऊचुः । भावानां च रसां च समुत्थानं यथाक्रमम् । त्वत्प्रसादाच्छ्रुतं सर्वमिच्छामो वेदितुं पुनः ॥१॥ नाट्ये कतिविधः कार्यः तज्ज्ञैरभिनयक्रमः । कतं वाभिनयो ह्येष कतिभेदस्तु कीर्तितः ॥ २॥ सर्वमेतद्यथातत्त्वं कथयस्व महामुने । यो यथाभिनयो यस्मिन् योक्तव्यः सिद्धिमिच्छता ॥ ३॥ तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच पुनर्वाक्यं चतुरोऽभिनयान् प्रति ॥ ४॥ अहं वः कथयिष्यामि निखिलेन तपोधनाः । यस्मादभिनयो ह्येष विधिवत् समुदाहृतम् ॥ ५॥ यदुक्तं चत्वारोऽभिनय इति तान् वर्णयिष्यामः । अत्राह -- अभिनय इति कस्मात् । अत्रोच्यते -- अभीत्युपसर्गः णीञ् इति प्रापणार्थको धातुः । अस्याभिनीत्येवं व्यवस्थितस्य एरजित्यच्प्रत्यत्ययान्तस्याभिनय इत्येवं रूपं सिद्धम् । एतच्च धात्वर्थानुवचनेनावधार्यं भवति । अत्र श्लोकौ -- अभिपूर्वस्तु णीञ् धातुराभिमुख्यार्थनिर्णये । यस्मात्पदार्थान्नयति तस्मादभिनयः स्मृतः ॥ ६॥ विभावयति यस्माच्च नानार्थान् हि प्रयोगतः । शाखाङ्गोपाङ्गसंयुक्तस्तस्मादभिनयः स्मृतः ॥ ७॥ चतुर्विधश्चैव भवेन्नाट्यस्याभिनयो द्विजाः । अनेकभेदवाहूयं नाट्यं ह्यस्मिन् प्रतिष्ठितम् ॥ ८॥ आङ्गिको वाचिकश्चैव ह्याहार्यः सात्त्विकस्तथा । ज्ञेयस्त्वभिनयो विप्राः चतुर्धा परिकल्पितः ॥ ९॥ सात्त्विकः पूर्वमुक्तस्तु भावैश्च सहितो मया । अङ्गाभिनयमेवादौ गदतो मे निबोधत ॥ १०॥ त्रिविधस्त्वाङ्गिको द्य्नेयः शारीरो मुखजस्तथा । तथा चेष्टाकृतश्चैव शाखाङ्गोपाङ्गसंयुतः ॥ ११॥ शिरोहस्तकटीदक्षः पार्श्वपादसमन्वितः । अङ्गप्रत्यङ्गसंयुक्तः षडङ्गो नाट्यसंग्रहः ॥ १२॥ तस्य शिरोहस्तोरःपार्श्वकटीपादतः षडङ्गानि । नेत्रभ्रूनासाधरकपोलचिबुकान्युपाङ्गानि ॥ १३॥ अस्य शाखा च नृत्तं च तथैवाङ्कुर एव च । वस्तून्यभिनयस्येह विज्ञेयानि प्रयोक्तृभिः ॥ १४॥ आङ्गिकस्तु भवेच्छाखा ह्यङ्कुरः सूचना भवेत् । अङ्गहारविनिष्पन्नं नृत्तं तु करणाश्रयम् ॥ १५॥ मुखजेऽभिनये विप्रा! नानाभावरसाश्रये । शिरसः प्रथमं कर्म गदतो मे निबोधत ॥ १६॥ आकम्पितं कम्पितं च धूतं विधुतमेव च । परिवाहितमाधूतमवधूतं तथाञ्चितम् ॥ १७॥ निहञ्चितं परावृत्तमुत्क्षिप्तं चाप्यधोगतम् । लोलितं चैव विज्ञेयं त्रयोदशविधं शिरः ॥ १८॥ शनैराकम्पनादूर्ध्वमधश्चाकम्पितं भवेत् । द्रुतं तदेव बहुशः कम्पितं कम्पितं शिरः ॥ १९॥ ऋजुस्थितस्य चोर्ध्वाधः क्षेपादाकम्पितं भवेत् । बहुशश्चलितं यच्च तत्कम्पितमिहोच्यते ॥ २०॥ संज्ञोपदेशपृच्छासु स्वभावाभाषणे तथा । निर्देशावाहने चैव भवेदाकम्पितं शिरः ॥ २१॥ रोषे वितर्के विज्ञाने प्रतिज्ञानेऽथ तर्जने । प्रश्नातिशयवाक्येषु शिरः कम्पितमिष्यते ॥ २२॥ शिरसो रेचनं यत्तु शनैस्तद् धुतमिष्यते । द्रुतमारेचनादेतद्विधुतं तु भवेच्छिरः॥२३॥ अनीप्सिते विषादे च विस्मये प्रत्ययं तथा । पार्श्वावलोकने शून्ये प्रतिषेधे धुतं शिरः ॥ २४॥ शीतग्रस्ते भयार्ते च त्रासिते ज्वरिते तथा । पीतमात्रे तथा मद्ये विधुतं तु भवेच्छिरः ॥ २५॥ पर्यायशः पार्श्वगतं शिरः स्यात् परिवाहितम् । आधूतमुच्यते तिर्यक् सकृदुद्वाहितं तु यत् ॥ २६॥ साधने विस्मये हर्षे स्मिते चामर्षिते तथा । विचारे विहृते चैव लीलायां परिवाहितम् ॥ २७॥ गर्वेच्छादर्शने चैव पार्श्वस्थोर्ध्वनिरीक्षणे आधुतं तु शिरो ज्ञेयमात्मसम्भावनादिषु ॥ २८॥ यदधः सकृदाक्षिप्तमवधूतं तु तच्छिरः । सन्देशावाहनालापसंज्ञादिषु नदिष्यते ॥ २९॥ किञ्चित् पार्श्वनतग्रीवं शिरो विज्ञेयमञ्चितम् । व्याधिते मूर्छिते मत्ते चिन्तायां हनुधारणम् ॥ ३०॥ उत्क्षिपांसावसक्तं यत्कुञ्चितभ्रूलतं शिरः । निहञ्चितं तु विज्ञेयं स्त्रीणामेतत् प्रयोजयेत् ॥ ३१॥ गर्वे माने विलासे च बिव्वोके किलकिञ्चिते । मोट्टायिते कुट्टमिते स्तम्भमाने निहञ्चितम् ॥ ३२॥ परावृत्तानुकरणात् परावृत्तमिहोच्यते । तत् स्यान्मुखापहरणे पृष्ठतः प्रेक्षणादिषु ॥ ३३॥ उत्क्षिप्तं चापि विज्ञेयमुन्मुखावस्थितं शिरः । प्रांशुदिव्यास्त्रयोगेषु स्यादुत्क्षिप्तं प्रयोगतः ॥ ३४॥ अधोमुखं स्थितं चापि बुधाः प्राहुरधोगतम् । लज्जायां च प्रणामे च दुःखे चाधोगतं शिरः ॥ ३५॥ सर्वतो भ्रमणाच्चैव शिरः स्यात् परिलोलितम् । मूर्च्छाव्याधिमदावेशग्रहनिद्रादिषु स्मृतम् ॥३६॥ ऋजुस्वभावसंस्थानं प्राकृतं तु स्वभावजम् । मंगल्याध्ययनध्यानस्वभावजयकर्मसु ॥ ३७॥ एभ्योऽन्ये बहवो भेदा लोकाभिनयसंश्रिताः । ते च लोकस्वभावेन प्रयोक्तव्या प्रयोक्तृभिः ॥ ३८॥ त्रयोदशविधं ह्येतच्छिरःकर्म मयोदितम् । अतः परं प्रवक्ष्यामि दृष्टीनामिह लक्षणम् ॥ ३९॥ कान्ता भयानका हास्या करुणा चाद्भुता तथा । रौद्रो वीरा च बीभत्सा विज्ञेया रसदृष्टयः ॥ ४०॥ स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥ ४१॥ शून्या च मलिना चैव श्रान्ता लज्जान्विता तथा । ग्लाना च शङ्किता चैव विषण्णा मुकुला तथा ॥ ४२॥ कुञ्चिता चाभितप्ता च जिह्मा सललिता तथा । वितर्कितार्धमुकुला विभ्रान्ता विलुप्ता तथा ॥ ४३॥ आकेकरा विकोशा च त्रस्ता च मदिरा तथा । षट्त्रिंशद् दृष्टयो ह्येता तासु नाट्यं प्रतिष्ठितम् ॥ ४४॥ अस्य दृष्टिविधानस्य नानाभावरसाश्रयम् । लक्षणं सम्प्रवक्ष्यमि यथाकर्म प्रयोगतः ॥ ४५॥ हर्षप्रसादजनिता कान्तात्यर्थं समन्यथा । सभ्रूक्षेपकटाक्षा च शृङ्गारे दृष्टिरिक्ष्यते ॥ ४६॥ प्रोद्वृत्तनिष्टब्धपुटा स्फुरदुद्वृत्ततारका । दृष्टिर्भयानाकात्यर्थं भीता ज्ञेया भयानके ॥ ४७॥ क्रमादाकुञ्चितपुटा विभ्रान्ताकुलतारका । हास्या दृष्टिस्तु कर्तव्या कुहकाभिनयं प्रति ॥ ४८॥ पतितोर्ध्वपुटा सास्रा मन्युमन्थरतारका । नासाग्रानुगता दृष्टिः करुणा करुणे रसे ॥ ४९॥ या त्वाकुञ्चितपक्ष्माग्रा साश्चर्योद्धत्ततारका । सौम्या विकसितान्ता च साद्भुता दृष्टिरद्भुते॥ ५० क्रूरा रूक्षारुणोद्वृतनिष्टब्धपुटतारका । भ्रुकुटीकुटिला दृष्टिः रौद्रे रौद्री रसा स्मृता ॥ ५१॥ दीप्ता विकसिता क्षुब्धा गम्भीरा समतारका । उत्फुल्लमध्या दृष्टिस्तु वीरा वीररसाश्रया ॥ ५२॥ निकुञ्चितपुटापाङ्गा घूर्णोपप्लुततारका । संश्लिष्टस्थिरपक्ष्मा च बीभत्सा दृष्टिरिष्यते ॥ ५३॥ नासाग्रसक्ता निमिषा तथाधोभागचारिणी । आकेकरपुटा शान्ते शान्ता दृष्टिर्भवेदसौ ॥ ५४॥ रसजा दृष्टयो ह्येता विज्ञेया लक्षणान्विता । अतः परं प्रवक्ष्यामि स्थायिभावसमाश्रयाः ॥ ५५॥ व्याकोशमध्या मधुरा स्थितताराभिलाषिणी । सानन्दाश्रुप्लुता दृष्टिः स्निग्धेयं रतिभावजा ॥ ५६॥ चला हसितगर्भा च विशत्तारानिमेषिणी । किञ्चिदाकुञ्चिता दृष्टिः हृष्टा हासे प्रकीर्तिता ॥ ५७॥ अवस्रस्तोत्तरपुटा किञ्चित्सरंब्धतारका । मन्दसञ्चारिणी दीना सा शोके दृष्टिरिष्यते ॥ ५८॥ रूक्षा स्थिरोद्धतपुटा निष्टब्धोद्धृत्ततारका । कुटिला भ्रुकुटिर्दृष्टिः क्रुद्धा क्रोधे विधीयते ॥ ५९॥ संस्थिते तार्के यस्याः स्थिता विकसिता तथा । सत्त्वमुद्गिरती दृप्ता दृष्टिरुत्साहसंभवा ॥ ६०॥ विस्फारितोभयपुटा भयकम्पिततारका । निष्क्रान्तमध्या दृष्टिस्तु भयभावे भयान्विता ॥ ६१॥ संकोचितपुटाध्यामा दृष्टिर्मीलिततारका । पक्ष्मोद्देशात् समुद्विग्ना जुगुप्सायां जुगुप्सिता ॥ ६२॥ भृशमुद्वृत्ततारा च नष्टोभयपुटान्विता । समा विकसिता दृष्टिर्विस्मिता विस्मये स्मृता ॥ ६३॥ स्थायिभावाश्रया ह्येता विज्ञेयाः दृष्टयो बुधैः । संचारिणीनां दृष्टीनां सम्प्रवक्ष्यामि लक्षणम् ॥ ६४॥ समतारा समपुटा निष्कम्पा शून्यदर्शना । बाह्यार्थाग्राहिणी ध्यामा शून्या दृष्टिः प्रकीर्तिता ॥ ६५॥ प्रस्पन्दमानपक्ष्माग्रा नात्यर्थमुकुलैः पुटैः । मलिनान्ता च मलिना दृष्टिर्विस्मिततारका ॥ ६६॥ श्रमप्रम्लापितपुटा क्षामा कुञ्चितलोचना । सन्ना पतिततारा च श्रान्ता दृष्टिः प्रकीर्तिता ॥ ६७॥ किञ्चिदञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा ह्रिया । त्रपाधोगततारा च दृष्टिर्लज्जान्विता तु सा ॥ ६८॥ म्लानभ्रुपुटपक्ष्मा या शिथिला मन्दचारिणी । क्रमप्रवृष्टतारा च ग्लाना दृष्टिस्तु सा स्मृता॥६९॥ किञ्चिच्चला स्थिरा किञ्चिदुद्गता तिर्यगायता । गूढा चकिततारा च शङ्किता दृष्टिरिष्यते॥७०॥ विषादविस्तीर्णपुटा पर्यस्तान्ता निमेषिणी । किञ्चिन्निष्टब्धतारा च कार्या दृष्टीर्विषादिनी ॥ ७१॥ स्फुरदाश्लिष्टपक्ष्माग्रा मुकुलोर्ध्वपुटाञ्चिता । सुखोन्मीलिततारा च मुकुला दृष्टिरिष्यते॥७२॥ आनिकुञ्चितपक्ष्माग्रा पुटैराकुञ्चितैस्तथा । संनिकुञ्चिततारा च कुञ्चिता दृष्टिरिष्यते ॥ ७३॥ मन्दायमानतारा या पुटैः प्रचलितैस्तथा । सन्तापोपप्लुता दृष्टिरभितप्ता तु सव्यथा ॥ ७४॥ लम्बिताकुञ्चितपुटा शनैस्तिर्यङ्‍ निरीक्षिणी । निगूढा गूढतारा च जिह्मा दृष्टिरुदाहृता ॥ ७५॥ मधुराकुञ्चितान्ता च सभ्रूक्षेपा च सस्मिता । सममन्यविकारा च दृष्टिः सा ललिता स्मृता ॥ ७६॥ वितर्कोद्वर्तितपुटा तथैवोत्फुल्लतारका । अधोगतविचारा च दृष्टिरेषा वितर्किता॥७७॥ अर्धव्याकोशपक्ष्मा च ह्लादार्धमुकुलैः पुटैः । स्मितार्शमुकुला दृष्टिः किञ्चिल्लुलिततारका ॥ ७८॥ अनवस्थिततारा च विभ्रान्ताकुलदर्शना । विस्तीर्णोत्फुल्लमध्या च विभ्रान्ता दृष्टिरुच्यते ॥ ७९॥ पुटौ प्रस्फुरितौ यस्य निष्टब्धौ पतितौ पुनः । विलुप्तोद्वृत्ततारा च दृष्टिरेषा तु विप्लुता ॥ ८०॥ आकुञ्चितपुटापाङ्गा सङ्गतार्धनिमेषिणी । मुहुर्व्यावृत्ततारा च दृष्टिराकेकरा स्मृता ॥ ८१॥ विकोशितोभयपुटा प्रोत्फुल्ला चानिमेषिणी । अनवस्थितसञ्चारा विकोशा दृष्टिरुच्यते ॥ ८२॥ त्रासोद्वृत्तपुटा या तु तथोत्कम्पिततारका । सन्त्रासोत्फुल्लमध्या च त्रस्ता दृष्टिरुदाहृता ॥ ८३॥ आघुर्णमानमध्या या क्षामान्ताञ्चितलोचना । दृष्टिर्विकसितापाङ्गा मदिरा तरुणे मदे ॥ ८४॥ किञ्चिदाकुऽचितपुटा ह्यनवस्थिततारका । तथा चलितपक्ष्मा च दृष्टिर्मध्यमदे भवेत् ॥ ८५॥ सनिमेषानिमेषा च किञ्चिद् दर्शिततारका । अधोभागचरी दृष्टिरधमे तु मदे स्मृता ॥ ८६॥ इत्येवं लक्षिता ह्येता षटत्रिंशद् दृष्टयो मया । रसजा सहजाश्चासां विनियोगं निबोधत ॥ ८७॥ रसजास्स्तु रसेष्वेव स्थायिषु स्थायिदृष्टयः । शृणुत व्यभिचारिण्यः सञ्चारिषु यथास्थिताः ॥ ८८॥ शून्या दृष्टिस्तु चिन्तायां स्तम्भे चापि प्रकीर्तिता । निर्वेदे चापि मलिना वैवर्ण्ये च विधीयते ॥ ८९॥ श्रान्ता श्रमार्ते स्वेदे च लजायां ललिता तथा । अपस्मारे तथा व्याधौ ग्लान्यां ग्लाना विधीयते ॥ ९०॥ शङ्कायां शङ्किता ज्ञेया विषादार्थे विषादिनी । निद्रास्वप्नसुखार्थेषु मुकुला दृष्टिरिष्यते ॥ ९१॥ कुञ्चितासूयितानिष्टदुष्प्रेक्षाक्षिव्यथाषु च । अभितप्ता च निर्वेदे ह्यभिघाताभितापयोः ॥ ९२॥ जिह्मा दृष्टिरसूयायां जडतालस्ययोस्तथा । धृतौ हर्षे सललिता स्मृतौ तर्के च तर्किता ॥ ९३॥ आल्हादिष्वर्धमुकुला गन्धस्पर्शसुखादिषु । विभ्रान्ता दृष्टिरावेगे सम्भ्रमे विभ्रमे तथा ॥ ९४॥ विलुप्ता चपलोन्माददुःखार्तिमरणादिषु । आकेकरा दुरालोके विच्छेदप्रेअक्षितेषु च ॥ ९५॥ विबोधगर्वामर्शौग्र्यमतिषु स्याद्विकोशिता । त्रस्ता त्रासे भवेद् दृष्टिर्मदिरा च मदेष्विति ॥ ९६॥ षटत्रिंशद् दृष्टयो ह्येता यथावत् समुदाहृताः । रसजानां तु दृष्टीनां भावजानां तथैअव च ॥ ९७॥ तारापुटभ्रुवां कर्म गदतो मे निबोधत । भ्रमणं वलनं पातश्चलनं सम्प्रवेशनम् ॥ ९८॥ विवर्तनं समुद्वृत्तं निष्क्रामः प्राकृतं तथा । पुटान्तर्मण्डलावृत्तिस्तारयोर्भ्रमणं स्मृतम् ॥ ९९॥ वलनं गमनं त्र्यस्रं पातनं स्रस्तता तथा । चलनं कम्पनं ज्ञेयं प्रवेशोऽन्तःप्रवेशनम् ॥ १००॥ विवर्तनं कटाक्षस्तु समुद्वृत्तं समुन्नतिः । निष्क्रामो निर्गमः प्रोक्तः प्राकृतं तु स्वभावजम् ॥ १०१॥ अथैषां रसभावेषु विनियोगं निबोधत । भ्रमणं चलनोद्वृत्ते निष्क्रामो वीररौद्रयोः ॥ १०२॥ निष्क्रामणं संवलनं कर्तव्यं तु भयानके । हास्यबीभत्सयोश्चापि प्रवेशनमिहेष्यते ॥ १०३॥ पातनं करुणे कार्यं निष्क्रामणमथाद्भुते । प्राकृतं शेषभावेषु शृङ्गारे च विवर्तितम् ॥ १०४॥ स्वभावसिद्धमेवैतत् कर्मं लोकक्रियाश्रयम् । एवं रसेषु भावेषु ताराकर्माणि योजयेत् ॥ १०५॥ अथाऽत्रैव प्रवक्ष्यामि प्रकारन् दर्शनस्य तु । समं साचय्नुवृत्ते च ह्यालोकितविलोकिते ॥ १०६॥ प्रलोकितोल्लोकिते चाप्यवलोकितमेव च । समतारं च सौम्यं च यद्दृष्टं तत् समं स्मृतम् ॥ १०७॥ पक्ष्मान्तरगततारं च त्र्यस्रं साचीकृतं तु तत् । रूपनिर्वर्णना युक्तमनुवृत्तमिति स्मृतम् ॥ १०८॥ सहसा दर्शनं यत् स्यात्तदालोकितमुच्यते । विलोकितं पृष्टतस्तु पार्श्वाभ्यां तु प्रलोकितम् ॥ १०९॥ ऊर्ध्वमुल्लोकितं ज्ञेयमवलोकितमप्यधः । इत्येषु दर्शनविधिः सर्वभावरसाश्रयः ॥ ११०॥ ताराकृतोऽस्यानुगतं पुटकर्म निबोधत । उन्मेषश्च निमेषश्च प्रसृतं कुञ्चितं समम् ॥ १११॥ विवर्तितं स स्फुरितं पिहितं सविताडितम् । विश्लेषः पुटयोर्यस्तु स तून्मेषः प्रकीर्तितः ॥ ११२॥ समागमो निमेषः स्यादायामः प्रसृतं भवेत् । आकुऽचितं कुञ्चितं स्यात् समं स्वाभाविकं स्मृतम् ॥ ११३॥ विवर्तितं समुद्वृत्तं स्फुरितं स्पन्दितं तथा । स्थगितं पिहितं प्रोक्तमाहतं तु विताडितम् ॥ ११४॥ अथैषं रसभावेषु विनियोगं निबोधत । क्रोधे विवर्तितं कार्यो निमेषोन्मेषणैः सह ॥ ११५॥ विस्मयार्थेषु हर्षे च वीरे च प्रसृतं स्मृतम् । अनिष्टदर्शने गन्धे रसे स्पर्शे च कुञ्चितम् ॥ ११६॥ शृङ्गारे च समं कार्यमीर्ष्यासु स्फुरितं तथा । सुप्तमूर्च्छितवातोष्णधूमवर्षाञ्जनार्तिषु ॥ ११७॥ नेत्ररोगे च पिहितमभिघाते विताडितम् । इत्येवं रसभावेषु तारकापुटयोर्विधिः ॥ ११८॥ कार्यानुगतमस्यैव भ्रुवोः कर्म निबोधत । उत्क्षेपः पातनश्चैव भ्रुकुटी चतुरं भ्रुवोः ॥११९॥ कुञ्चितं रेचितं चैव सहजं चेति सप्तधा । भ्रुवोरुन्नतिरुत्क्षेपः सममेकैकशोऽपि वा॥१२०॥ अनेनैव क्रमेणैव पातनं स्यादधोमुखम् । भ्रुवोर्मूलसमुत्क्षेपात् भ्रुकुटी परिकीर्तिता ॥ १२१॥ चतुरं किऽचिदुच्छ्वासान्मधुरायतया भ्रुवोः । एकस्या उभयोर्वापि मृदुभङ्गस्तु कुञ्चितम् ॥ १२२॥ एकस्या एव ललितादुत्क्षेपाद्रेचितं भ्रुवः । सहजातं तु सहजं कर्म स्वाभाविकं स्मृतम् ॥ १२३॥ अथैषां सम्प्रवक्ष्यामि रसभावप्रयोजनम् । कोपे वितर्के हेलायां लीलादौ सहजे तथा ॥ १२४॥ श्रवणे दर्शने चैव भ्रुवमेकां समुत्क्षिपेत् । उत्क्षेपो विस्मये हर्षे रोषे चैअव द्वयोरपि ॥ १२५॥ आसूयितजुगुप्सायां हास्ये घ्राणे च पातनम् । क्रोधस्थानेषु दीप्तेषु योजयेत् भ्रुकुटिं बुधः ॥ १२६॥ शृङ्गारे ललिते सौम्ये सुखे स्पर्शे प्रबोधने । एवं विधेषु भावेषु चतुरं तु प्रयोजयेत् ॥ १२७॥ स्त्रीपुरुषयोश्च संलापे नानावस्थान्तरात्मके । मोट्टायिते कुट्टमिते विलासे किलकिञ्चिते ॥ १२८॥ निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् । अनाविद्धेषु भावेषु विद्यात् स्वाभाविकं बुधः॥१२९॥ इत्येवं तु भ्रुवः प्रोक्तं नासाकर्म निबोधत । नता मन्दा विकृष्टा च सोच्छ्वासा च विकूणिता ॥ १३०॥ स्वाभाविका चेति बुधैः षड्विधा नासिका स्मृता । नता मुहुःश्लिष्टपुटा मन्दा तु निभृता स्मृता ॥ १३१॥ विकृष्टोत्फुल्लितपुटा सोच्छ्वासा कृष्टमारुता । विकूणिता संकुचिता समा स्वाभाविका स्मृता ॥ १३२॥ नासिकालक्षणं ह्येतत् विनियोगं निबोधत । मदोत्कम्पसमायुक्ते नारीणामनुरोधने ॥ १३३॥ निःश्वासे च नता कार्या नासिका नाट्ययोक्तृभिः । विच्छिन्नमन्दरुदिते सोच्छ्वासे च नता स्मृता ॥ १३४॥ निर्वेगौत्सुक्यचिन्तासु मन्दा शोके च योजयेत् । तीव्रगन्धे विकृष्टां तौ रौद्रे वीरे तथैव च ॥ १३५॥ इष्टघ्राणे तथोच्छ्वासे दीर्घोच्छ्वासां प्रयोजयेत् । विकूणिता च कर्तव्या जुगुप्सायामसूयादिषु ॥ १३६॥ कार्या शेषु भावेषु तज्ञैः स्वाभाविका तथा । क्षामं फुल्लं च घूर्णं च कम्पितं कुञ्चितं समम् ॥ १३७॥ षड्विधं गण्डमुद्दिष्टं तस्य लक्षणमुच्यते । क्षामं चावनतं ज्ञेयं फुल्लं विकसितं भवेत् ॥ १३८॥ विततं घूर्णमत्रोक्तं कम्पितं स्फुरितं भवेत् । स्यात् कुञ्चितं संकुञ्चितं समं प्राकृतमुच्यते ॥ १३९॥ गण्डयोर्लक्षणं प्रोक्तं विनियोगं निबोधत । क्षामं दुःखेषु कर्तव्यं प्रहर्षे फुल्लमेव च ॥ १४०॥ पूर्णमुत्साहगर्वेषु रोमहर्षेषु कम्पितम् । कुञ्चितं च सरोमाञ्चं स्पर्शे शीते भये ज्वरे॥ १४१॥ प्राकृतं शेषभावेषु गण्डकर्म भवेदिति । विवर्तनं कम्पनं च विसर्गो विनिगूहनम्॥१४२॥ सन्दष्टकं समुद्गं च षट् कर्माण्यधरस्य तु । विकूणितं विवर्तस्तु वेपनं कम्पनं स्मृतम् ॥ १४३॥ विनिष्क्रामो विसर्गस्तु प्रवेशो विनिगूहनम् । सन्दष्टकं द्विजैअर्दष्टं समुद्गः सहजोन्नति ॥ १४४॥ इत्योष्ठलक्षणं प्रोक्तं विनियोगं निबोधत । असूयावेदनावज्ञाभयादिषु विवर्तनम् ॥ १४५॥ कम्पनं वेपनं शीतभयरोषजवादिषु । स्त्रीअणां विलासे विव्वोके विसर्गो रञ्जने तथा ॥ १४६॥ विनिगूहनमायासे सन्दष्टं क्रोधकर्मसु । समुद्गस्त्वनुकम्पायां चुम्बने चाभिनन्दने ॥१४७॥ इत्योष्ठकर्माण्युक्तानि चिबुकस्य निबोधत । कुट्टनं खण्डनं छिन्नं चुक्कितं लेहनं समम् ॥ १४८॥ दष्टं च दन्तक्रियया चिबुकं त्विह लक्ष्यते । कुट्टनं दन्तसंघर्षः संस्फोटः खण्डनं मुहुः ॥ १४९॥ छिन्नं तु गाढसंश्लेषश्चुक्कितं दूरविच्युतिः । लेहनं जिह्वया लेहः किञ्चित् श्लेषः समं भवेत् ॥१५०॥ दन्तैर्दष्टेऽधरे दष्टमित्येषां विनियोजनम् । भयशीतज्वरक्रोधग्रस्तानां कुट्टनं भवेत् ॥ १५१॥ जपाध्ययनसंलापभक्ष्ययोगे च खण्डनम् । छिन्नं व्याधौ भये शीते व्यायामे रुदिते मृते ॥ १५२॥ जृम्भणे चुक्कितं कार्यं तथा लेह्ये च लेहनम् । समं स्वभावभावेषु सन्दष्टं क्रोधकर्मसु ॥ १५३॥ इति दन्तोष्ठजिह्वानां करणाच्चिबुकक्रिया । विधुतं विनिवृत्तं च निर्भुग्नं भुग्नमेव च ॥ १५४॥ विवृतं च तथोद्वाहि कर्माण्यत्रास्यजानि तु । व्यावृत्तं विनिवृत्तं स्याद्विधुतं तिर्यगायतम्॥ १५५॥ अवाङ्मुखत्वं निर्भुग्नं व्याभुग्नं किञ्चिदायतम् । विश्लिष्टोष्ठं च विवृतमुद्वाह्युत्क्षिप्तमेव च ॥ १५६॥ विनिवृत्तमसूयायामीर्ष्याक्रोधकृतेन च । अवज्ञाविवृतादौ च स्त्रीणा कार्या प्रयोक्तृभिः ॥ १५७॥ विधुतं वारणे चैव नैवमित्येवमादिषु । निर्भुग्नं चापि विज्ञेयं गम्भीरालोकनादिषु ॥ १५८॥ भुग्नं लजान्विते योज्यं यतीनां तु स्वभावजम् । निर्वेदौत्सुक्यचिन्तासु नये च विनिमन्त्रणे ॥ १५९॥ विवृत्तं चापि विज्ञेयं हास्यशोकभयादिषु । स्त्रीणामुद्वाहि लीलायां गर्वे गच्छत्यनादरे ॥१६०॥ एव नामेति कार्यं च कोपवाक्ये विचक्षणैः । समं साच्यनुवृत्तादि यच्च दृष्टिविकल्पितम् ॥ १६१॥ तज्ज्ञैस्तेनानुसारेण कार्यं तदनुगं मुखम् । अथातो मुखरागस्तु चतुर्धा परिकीर्तितः ॥ १६२॥ स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः । स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥ १६३॥ मध्यस्थादिषु भावेषु मुखरागः प्रयोक्तृभिः । प्रसन्नस्त्वद्भुते कार्यो हास्यशृङ्गारयोस्तथा ॥ १६४॥ वीररौद्रमदाद्येषु रक्तः स्यात् करुणे तथा । भयानके सबीभत्से श्यामं सञ्जायते मुखम् ॥ १६५५॥ एवं भावरसार्थेषु मुखरागं प्रयोजयेत् । शाखाङ्गोपाङ्गसंयुक्तः कृतोऽप्यभिनयः शुभः ॥ १६६॥ मुखरागविहीनस्तु नैव शोभान्वितो भवेत् । शरीराभिनयोऽल्पोऽपि मुखरागसम्न्वितः ॥ १६७॥ द्विगुणां लभते शोभां रात्राविव निशाकरः । नयनाभिनयोऽपि स्यान्नानाभावरसास्फुटः ॥ १६८॥ मुखरागान्वितो यस्मान्नाट्यमत्र प्रतिष्ठितम् । यथा नेत्रं प्रसर्पेत मुखभूदृष्टिसंयुतम् ॥ १६९॥ तथा भावरसोपेतं मुखरागं प्रयोजयेत् । इत्येवं मुखरागस्तु प्रोक्तो भावरसाश्रयः ॥ १७०॥ अतः परं प्रवक्ष्यामि ग्रीवाकर्माणि वै द्विजाः ! । समा नतोन्नता त्र्यस्रा रेचिता कुञ्चिताञ्चिता ॥ १७१॥ वलिता च निवृत्ता च ग्रीवा नवविधार्थतः । समा स्वाभाविकी ध्यानस्वभाजपकर्मसु ॥ १७२॥ नता नतास्यालङ्कारबन्धे कण्ठावलम्बने , उन्नताभ्युन्नतमुखी ग्रीवा चोर्ध्वनिवेशने ॥ १७३॥ त्र्यस्रा पार्श्वगता ज्ञेया स्कन्धभारेऽति दुःखिते । रेचिता विधुतभ्रान्ता हावे मथनृत्तयोः ॥ १७४॥ कुञ्चिताकुञ्चिते मूर्ध्नि धारिते गलरक्षणे । अञ्चितापसृतोद्बन्धकेशकर्षोर्ध्वदर्शने ॥ १७५॥ पार्श्वोन्मुखी स्याद्वलिता ग्रीवाभेदैश्च वीक्षणे । निवृताभिमुखीभूता स्वस्थानाभिमुखादिषु ॥ १७६॥ इत्यादि लोकभावार्था ग्रीवाभङ्गैरनेकधा । ग्रीवाकर्माणि सर्वाणि शिरः कर्मानुगानि हि ॥१७७॥ शिरसः कर्मणः कर्म ग्रीवायाः सम्प्रवर्तते । इत्येतल्लक्षणं प्रोक्तं शीर्षोपाङ्गसमाश्रयम् । अङ्गकर्माणि शेषाणि गदतो मे निबोधत ॥ १७९॥ इति भारतीये नाट्यशाश्त्रे उपाङ्गविधानं नाम अष्टमोऽध्यायः । Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com

% Text title            : naaTyashaastra adhyaaya 8
% File name             : natya08.itx
% itxtitle              : nATyashAstram adhyAyaH 08
% engtitle              : Natya Shastra Chapter 8
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : May 24, 2001
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP