॥ नाट्यशास्त्रम् अध्यायः १५ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ पञ्चदशोऽध्यायः छन्दांस्येवं हि यानीह मयोक्तानि द्विजोत्तमाः । वृत्तानि तेषु नाट्येऽस्मिन् प्रयोज्यानि निबोधत ॥ १॥ आद्ये पुनरन्त्ये द्वे द्वे गुरुणी चेत् । सा स्यात्तनुमध्या गायत्रसमुत्था ॥ २॥ यथा - संत्यक्तविभूषा भ्रष्टाञ्जननेत्रा । हस्तार्पितगण्डा किं ? त्वं तनुमध्या ॥ ३॥ लघुगण आदौ भवति चतुष्कः । गुरुयुगमन्त्ये मकरकशीर्षा ॥ ४॥ यथा - स्वयमुपयान्तं भजसि न कान्तम् । भयकरि किं ? त्वं मकरकशीर्षा ॥ ५॥ एकमात्रं षट्के स्याद् द्वितीयं पादे । ख्यातरूपा वृत्ते सा मालिनी नाम्ना ॥ ६॥ षडक्षरकृते पादे लघु यत्र द्वितीयकम् । शेषाणि तु गुरूणि स्युर्मालिनी सा मता यथा ॥ ७॥ स्नानगन्धाधिक्यैर्वस्त्रभूषायोगैः । व्यक्तमेवासौ त्वं मालिनी प्रख्याता ॥ ८॥ द्वितीयं पञ्चमं चैव लघु यत्र प्रतिष्ठितम् । शेषाणि च गुरूणि स्युर्मालती नाम सा यथा ॥ ९॥ शोभते बद्धया षट्पदाविद्धया । मालतीमालया मानिनी लीलया ॥ १०॥ द्वितीयं च चतुर्थं च पञ्चमं च यदा लघु । यस्याः सप्ताक्षरे पादे ज्ञेया सा तूद्धता यथा ॥ ११॥ सौ त्रिकौ यदि पादे ह्यन्तिमश्च गकारः । उष्णिगुत्थितपादा उद्धता खलु नाम्ना ॥ १२॥ दन्तकृन्तकृतास्त्रं व्याकुलालकशोभम् । शंसतीव तवास्यं निर्दयं रतयुद्धम् ॥ १३॥ आदौ द्वे निधने चैव गुरुणी यत्र वै सदा । पादे सप्ताक्षरे ज्ञेया नाम्ना भ्रमरमालिका ॥ १४॥ पादे पादे निविष्टौ सम्यग्विरचितौ त्सौ । अन्त्ये यदि गकारः सा तु भ्रमरमाला ॥ १५॥ यथा - नानाकुसुमचित्रे प्राप्ते सुरभिमासे । एषा भ्रमति मत्ता कान्ते भ्रमरमाला ॥ १६॥ आद्यं तृतीयमन्त्यं च पञ्चमं सप्तमं तथा । गुरूण्यष्टाक्षरे पादे सिंहलेखेति सा यथा ॥ १७॥ जातु यस्य गौ न , पादे संस्थितः समस्वरूपे । तामनुष्टुबाश्रयस्थां वावदन्ति सिंहलेखाम् ॥ १८॥ यत्त्वया ह्यनेकभावैश्चेष्टितं रहः सुगात्रि । तन्मनो मम प्रविष्टं वृत्तमद्य सिंहलेखम् ॥ १९॥ चतुर्थं च द्वितीयं च षष्ठमष्टममेव च । गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् ॥ २०॥ यदा तु जात्परौ रलौ गकार एव च स्थितः । अनुष्टुबुद्भवं तदा वदन्ति मत्तचेष्टितम् ॥ २१॥ यथा - चरावघूर्णितेक्षणं विलम्बिताकुलालकम् । असंस्थितैः पदैः प्रिया करोति मत्तचेष्टितम् ॥ २२॥ अष्टाक्षरकृते पादे सर्वाण्येव भवन्ति हि । गुरूणि यस्मिन्सा नाम्ना विद्युन्मालेति कीर्तिता ॥ २३॥ मौ गौ चान्त्यौ यस्याः पादे पादस्यान्ते विच्छेदश्च । सा चानुष्टुप्छन्दस्युक्ता नित्यं सद्भिर्विद्युन्माला ॥ २४॥ साम्भोभारैरानानद्भिः श्यामाम्भोदैर्व्याप्ते व्योम्नि । आदित्यांशुस्पर्धिन्येषा दिक्षु भ्रान्ता विद्युन्माला ॥ २५॥ पञ्चमं सप्तमं चान्त्यं गुरु पादेऽष्टके तथा । छन्दोज्ञैर्ज्ञेयमेतत्तु वृत्तं चित्तविलासितम् ॥ २६॥ स्मितवशविप्रकाशैर्दशनपदैरमीभिः । वरतनु पूर्णचन्द्रं तव मुखमावृणोति ॥ २७॥ नवाक्षरकृते पादे त्रीणि स्युर्नैधनानि च । गुरूणि यस्याः सा नाम्ना ज्ञेया मधुकरी यथा ॥ २८॥ षडिह यदि लघूनि स्युर्निधनगतमकारश्चेत् । बुधजनबृहतीसंस्था भवति मधुकरी नाम्ना ॥ २९॥ कुसुमितमभिपश्यन्ती विविधतरुगणैश्छन्नम् । वनमतिशयगन्धाढ्यं भ्रमति मधुकरी हृष्टा ॥ ३०॥ दशाक्षरकृते पादे त्रीण्यादौ त्रीणि नैधने । यस्या गुरूणि सा ज्ञेया पङ्क्तिरुत्पलमालिका ॥ ३१॥ त्रीण्यादौ यदि हि गुरूणि स्युश्चत्वारो यदि लघवो मध्ये । पङ्क्तावन्तगतमकारः स्याद्विज्ञेया कुवलयमालाख्या ॥ ३२॥ यथा - अस्मिंस्ते शिरसि तदा कान्ते वैडूर्यस्फटिकसुवर्णाढ्ये । शोभां स्वां न वहति तां बद्धा सुश्लिष्टा कुवलयमालेयम् ॥ ३३॥ द्वितीयं च चतुर्थं च षष्टमष्टममेव च । ह्रस्वं दशाक्षरे पादे यत्र सा शिखिसारिणी ॥ ३४॥ जौ त्रिकौ हि पादगौ तु यस्य गौ च संश्रितौ तथा समौ स्तौ । पङ्क्तियोगसुप्रतिष्ठिताङ्गी सा मयूरसारिणीति नाम्ना ॥ ३५॥ यथा - नैव तेऽस्ति संगमो मनुष्यैर्नापि कामभोगचिह्नमन्यत् । गर्भिणीव दृश्यसे ह्यनार्ये किं मयूरसारिणी त्वमेवम् ॥ ३६॥ आद्यं चतुर्थमन्त्यं च सप्तमं दशमं तथा । गुरूणि त्रैष्टुभे पादे यत्र स्युर्दोधकं तु तत् ॥ ३७॥ भौ तु भगाविति यस्य गणाः स्युः स्याच्च यतिस्त्रिचतुर्भिरथाऽस्मिन् । त्रैष्टुभमेव हि तत्खलु नाम्ना दोधकवृत्तमिति प्रवदन्ति ॥ ३८॥ यथा - प्रस्खलिताप्रपदप्रविचायं मत्तविघूर्णितगात्रविलासम् । पश्य विलासिनि कुञ्जरमेतं दोधकवृत्तमयं प्रकरोति ॥ ३९॥ आदौ द्वौ पञ्चमं चैवाप्यष्टमं नैधनं तथा । गुरुण्येकादशे पादे यत्र तन्मोटकं यथा ॥ ४०॥ एषोऽम्बुदतुल्यनिस्वनरवः क्षीवः स्खलमानविलम्बगतिः । श्रुत्वा घनगर्जितमद्रितटे वृक्षान् प्रतिमोटयति द्विरदः ॥ ४१॥ नवमं सप्तमं षष्ठं तृतीयं च भवेल्लघु । सर्वास्ववस्थासु च कामतन्त्रे योग्यासि किं वा बहुनेन्द्रवज्रा ॥ ४३॥ एभिरेव तु संयुक्ता लघुभिस्त्रैष्टुभी यदा । उपेन्द्रवज्रा विज्ञेया लघ्वादाविह केवलम् ॥ ४४॥ प्रिये श्रिया वर्णविशेषणेन स्मितेन कान्त्या सुकुमारभावैः । अमी गुणा रूपगुणानुरूपा भवन्ति ते किं त्वमुपेन्द्रवज्रा ॥ ४५॥ आद्यं तृतीयमन्त्यं च सप्तमं नवमं तथा । गुरूण्येकादशे पादे यत्र सा तु रथोद्धता ॥ ४६॥ किं त्वया सुभट दूरवर्जितं नात्मनो न सुहृदां प्रियं कृतम् । यत्पलायनपरायणस्य ते याति धूलिरधुना रथोद्धता ॥ ४७॥ यथा - किं त्वया कुमतिसङ्गया सदा नाज्ञयेव सुहृदां प्रियं कृतम् । यद् गृहाद्वचनरोषकम्पिता याति तूर्णमबला रथोद्धता ॥ ४८॥ आद्यं तृतीयमन्त्यं च सप्तमं दशमं गुरु । यस्यास्तु त्रैष्टुभे पादे विज्ञेया स्वागता हि सा ॥ ४९॥ यथा - अद्य मे सफलमायतनेत्रे जीवितं मदनसंश्रयभावम् । आगतासि भवनं मम यस्मात्स्वागतं तव वरोरु निषीद ॥ ५०॥ षष्ठं च नवमं चैव लघुनी त्रैष्टुभे यदि । गुरूण्यन्यानि पादे तु सा ज्ञेया शालिनी यथा ॥ ५१॥ दुःशीलं वा निर्गुणं वापरं वा लोके धैर्यादप्रियं न ब्रवीषि । तस्माच्छीलं साधुहेतोः सुवृत्तं माधुर्यात्स्यात्सर्वथा शालिनी त्वम् ॥ ५२॥ तृतीयं चैव षष्ठं च नवमं द्वादशं तथा । गुरूणि जागते पादे यत्र तत्तोटकं भवेत् ॥ ५३॥ यदि सोऽत्र भवेत्तु समुद्रसमस्त्रिषु चापि तथा नियमेन यतिः । सततं जगतीविहितं हि ततं गदितं खलु तोटकवृत्तमिदम् ॥ ५४॥ यथा - किमिदं कपटाश्रयदुर्विषहं बहुशाठ्यमथोल्बणरूक्षकथम् । स्वजनप्रियसज्जनभेदकरं ननु तोटकवृत्तमिदं कुरुषे ॥ ५५॥ आद्यं तृतीयमन्त्यं च पञ्चमं षष्ठमेव च । तथोपान्त्यं जगत्यां च गुरु चेत्कुमुदप्रभा ॥ ५६॥ यौ त्रिकौ तथा न्यौ यदि खलु पादे षड्भिरेव वर्णैर्यदि च यतिः स्यात् । नित्यसंनिविष्टा जगतिविधाने नामतः प्रसिद्धा कुमुदनिभा सा ॥ ५७॥ यथा - मन्मथेन विद्धा सललितभावा नृत्तगीतयोगा प्रविकसिताक्षी । निन्द्यमद्य किं त्वं विगलितशोभा चन्द्रपादयुक्ता कुमुदवती च ॥ ५८॥ मतान्तरे - यदि खलु पादे न्यौ त्रिकौ यथा यौ यतिरपि वर्णैः षड्भिरेव चेत्स्यात् । जगतिविधाने नित्यसंनिविष्टा कुमुदनिभा सा नामतः प्रसिद्धा ॥ ५९॥ यथा - कुमुदनिभा त्वं कामबाणविद्धा किमसि नतभ्रूः शीतवातदग्धा । मृदुनलिनीवापाण्डुवक्त्रशोभा कथमपि जाता ह्यग्रतः सखीनाम् ॥ ६०॥ द्वादशाक्षरके पादे सप्तमं दशमं लघु । आदौ पञ्चाक्षरच्छेदश्चन्द्रलेखा तु सा यथा ॥ ६१॥ वक्त्रं सौम्यं ते पद्मपत्रायताक्षम् कामस्यावासं सुनासोच्चप्रहासम् । कामस्यापीदं काममाहर्तुकामं कान्ते कान्त्या त्वं चन्द्रलेखेव भासि ॥ ६२॥ तृतीयमन्त्यं नवमं पञ्चमं च यदा गुरु । द्वादशाक्षरके पादे यत्र सा प्रमिताक्षरा ॥ ६३॥ यथा - स्मितभाषिणी ह्यचपलापरुषा निभृतापवादविमुखी सततम् । अपि कस्यचिद्युवतिरस्ति सुखा प्रमिताक्षरा स हि पुमाञ्जयति ॥ ६४॥ द्वितीयमन्त्यं दशमं चतुर्थं पञ्चमाष्टमे । गुरूणि द्वादशे पादे वंशस्था जगती तु सा ॥ ६५॥ यदि त्रिकौ ज्तौ भवतस्तु पादतस्तथैव च ज्राववसानसंस्थितौ । तदा हि वृत्तं जगतीप्रतिष्ठितं वदन्ति वंशस्थमितीह नामतः ॥ ६६॥ न मे प्रिया त्वं बहुमानवर्जितां प्रियं प्रिया ते परुषाभिभाषिणी । तथा च पश्याम्यहमद्य विग्रहं ध्रुवं हि वंशस्थगतिं करिष्यति ॥ ६७॥ चतुर्थमन्त्यं दशमं सप्तमं च यदा गुरु । भवेद्धि जागते पादे तदा स्याद्धरिणप्लुता ॥ ६८॥ परुषवाक्यकशाभिहिता त्वया भयविलोकनपार्श्वनिरीक्षणा । वरतनुः प्रततप्लुतसर्पणैरनुकरोति गतैर्हरिणप्लुतम् ॥ ६९॥ सप्तमं नवमं चान्त्यमुपान्त्यं च यदा गुरु । द्वादशाक्षरके पादे कामदत्तेति सा यथा ॥ ७०॥ करजपदविभूषिता यथा त्वं सुदति दशनविक्षताधरा च । गतिरपि चरणावलग्नमन्दा त्वमसि मृगनिभाक्षि कामदत्ता ॥ ७१॥ आद्यं चतुर्थं दशमं सप्तमं च यदा लघु । पादे तु जागते यस्या अप्रमेया तु सा यथा ॥ ७२॥ न ते काचिदन्या समा दृश्यते स्त्री नृलोके विशिष्टा गुणैरद्वितीयैः । त्रिलोक्यां गुणज्ज्ञान् समाहृत्य सर्वान् जगत्यप्रमेयासि सृष्टा विधात्रा ॥ ७३॥ द्वितीयं पञ्चमं चैव ह्यष्टमेकादशे यथा । पादे यत्र लघूनि स्युः पद्मिनी नाम सा यथा ॥ ७४॥ रास्त्रिकाः सागराख्या निविष्टा यदा स्यात् त्रिके च त्रिके युक्तरूपा यतिः । सन्निविष्टा जगत्यास्ततस्सा बुधैर् नामतश्चापि संकीर्त्यते पद्मिनी ॥ ७५॥ देहतोयाशया वक्त्रपद्मोज्ज्वला नेत्रभृङ्गाकुला दन्तहंसस्मिता । केशपाशच्छदा चक्रवाकस्तनी पद्मिनीव प्रिये भासि मे सर्वदा ॥ ७६॥ फुल्लपद्मानना त्वं द्विरेफेक्षणा केशपत्रच्छदा चक्रवाकस्तनी । पीततोयावली बद्धकाञ्चीगुणा पद्मिनीव प्रिये भासि नीरे स्थिता ॥ ७७॥ आदौ षट् दशमं चैव पादे यत्र लघून्यथ । शेषाणि तु गुरूणि स्युर्जागते पुटसंज्ञिता ॥ ७८॥ यदि चरणनिविष्टौ नौ तथा म्यौ यतिविधिरपि युक्त्याष्टाभिरिष्टः । भवति च जगतीस्थः सर्वदासौ य इह हि पुटवृत्तं नामतस्तु ॥ ७९॥ उपवनसलिलानां बालपद्मैर्भ्रमरपरभृतानां कण्ठनादैः । मदनमदविलासैः कामिनीनां कथयति पुटवृत्तं पुष्पमासः ॥ ८०॥ द्वितीयान्त्ये चतुर्थं च नवमैकादशे गुरु । विच्छेदोऽतिजगत्यां तु चतुर्भिः सा प्रभावती ॥ ८१॥ कथं न्विदं कमलविशाललोचने गृहं धनैः पिहितकरे दिवाकरे । अचिन्तयन्त्यभिनववर्षविद्युतस्त्वमागता सुतनु यथा प्रभावती ॥ ८२॥ त्रीण्यादावष्टमं चैव दशमं नैधनद्वयम् । गुरूण्यतिजगत्यां तु त्रिभिश्छेदैः प्रहर्षिणी ॥ ८३॥ भावस्थैर्मधुरकथैः सुभाषितैस्त्वं साटोपस्खलितविलम्बितैर्गतैश्च । शोभाढ्यैर्हरसि मनांसि कामुकानां सुव्यक्तं ह्यतिजगती प्रहर्षिणी च ॥ ८४॥ षष्ठं च सप्तमं चैव दशमैकादशे लघु । त्रयोदशाक्षरे पादे ज्ञेयं मत्तमयूरकम् ॥ ८५॥ विद्युन्नद्धाः सेन्द्रधनुरञ्जितदेहा वातोद्धूताः श्वेतवलाकाकृतशोभाः । एते मेघा गर्जितनादोज्ज्वलचिह्नाः प्रावृट्कालं मत्तमयूराः कथयन्ति ॥ ८६॥ आदौ द्वे चतुर्थं चैव चाष्टमैकादशे गुरु । अन्त्योपान्त्ये च शक्वर्या वसन्ततिलका यथा ॥ ८७॥ चित्रैर्वसन्तकुसुमैः कृतकेशहस्ता । स्रग्दाममाल्यरचना सुविभूषिताङ्गी । नानावसन्तकविभूषितकर्णपाशा साक्षाद्वसन्ततिलकेव विभाति नारी ॥ ८८॥ पञ्चादौ शक्वरी पादे गुरूणि त्रीणि नैधने । पञ्चाक्षरादौ च यतिरसंबाधा तु सा यथा ॥ ८९॥ यथा - मानालोकज्ञः सुतबलकुलशीलाढ्यो यस्मिन्सम्मानं न सदृशमनु पश्येद्धि । गच्छेत्तं त्यक्त्वा द्रुतगतिरपरं देशम् कीर्णा नानार्थैरवनिरियमसंबाधा ॥ ९०॥ चत्वार्यादौ गुरूणि स्युर्दशमैकादशे तथा । अन्त्योपान्त्ये च शक्वर्याः पादे तु शरभा यथा ॥ ९१॥ एषा कान्ता व्रजति ललिता वेपमाना गुल्मैश्च्छन्नं वनमभिनवैः सम्प्रविद्धम् । हा हा कष्टं किमिदमिति नो वेद्मि मूढो व्यक्तं कान्ते शरभललितान्त्वं करोषि ॥ ९२॥ अदौ षट् दशमं चैव लघु चैव त्रयोदशम् । यत्रातिशक्वरे पादे ज्ञेया नान्दीमुखी तु सा ॥ ९३॥ यथा - न खलु तव कदाचित्क्रोधताम्रायताक्षं भ्रुकुटिवलितभङ्गं दृष्टपूर्वं मयास्यम् । किमिह बहुभिरुक्तैर्या ममेच्छा हृदिस्था त्वमसि मधुरवाक्या देवि नान्दीमुखीव ॥ ९४॥ आद्यं चतुर्थं षष्ठं च नैधनं च यदा गुरु । षोडशाक्षरके पादे यत्रेभललितं तु तत् ॥ ९५॥ भ्रौ यदि नाश्च नित्यमिह विरचितचरणः गश्च तथा वै भवति निधनमुपगतः । स्यादपि चाष्टिमेव यदि सततमनुगतं तत्खलु वृत्तमग्रवृषभगजविलसितम् ॥ ९६॥ कालतोयधरैः सुधीरधनपटुपटहरवैः सर्जकदम्बनीपकुटजकुसुमसुरभिः । कन्दलसेन्द्रगोपकरचितमवनितलं वीक्ष्य करोत्यसौ वृषभगजविलसितम् ॥ ९७॥ आद्यात्पराणि वै पञ्च द्वादशं सत्रयोदशः । अन्त्योपान्त्ये च दीर्घाणि ललितप्रवरं हि तत् ॥ ९८॥ यदा य्मौ पादस्थौ भवत इह चेत्स्तौ तथा गौ तथा षड्भिश्चान्यैर्यतिरपि च वर्णैर्यथा स्यात् । तदप्यष्टौ नित्यं समनुगतमेवोक्तमन्यैः प्रयोगज्ञैर्वृत्तं प्रवरललितं नामतस्तु ॥ ९९॥ यथा - नखालीढं गात्रं दशनखचितं चोष्ठगण्डं शिरः पुष्पोन्मिश्रं प्रविलुलितकेशालकान्तम् । गतिः खिन्ना चेयं वदनमपि संभ्रान्तनेत्रम् अहो श्लाघ्यं वृत्तं प्रवरललितं कामचेष्टम् ॥ १००॥ आद्यात्पराणि पञ्चाथ द्वादशं सत्रयोदशम् । अन्त्यं सप्तदशे पादे शिखरिण्यां गुरूणि च ॥ १०१॥ चतुर्भिस्तस्यैव प्रवरललितस्य त्रिकगणैः यदा लौ गश्चान्ते भवति चरणेऽत्यष्टिगदिते । यदा षड्भिश्च्छेदो भवति यदि मार्गेण विहितः तदा वृत्तेष्वेषा खलु शिखरिणी नाम गदिता ॥ १०२॥ यथा - महानद्या भोगं पुलिनमिव भाति ते जघनं तथास्यं नेत्राढ्यं भ्रमरसहितं पङ्कजमिव । गतिर्मन्दा चेयं सुतनु तव चेष्टा सुललिता स्तनाभ्यां ताभ्यां त्वं शिखरिणि सुपीनासि वनिते ॥ १०३॥ यत्र पञ्च लघून्यादौ त्रयोदशचतुर्दशे । षोडशैकादशे चैव तत्स्याद्वृषभचेष्टितम् ॥ १०४॥ यदि हि चरणे न्सौ स्लौ गः क्रमाद्विनिवेशिताः यदि खलु यतिः षड्भिर्वर्णैर्स्तथा दशभिः पुनः । यदि विहितं स्यादत्यष्टिः प्रयोगसुखाश्रयं वृषभललितं वृत्तं ज्ञेयं तथा हरिणीति वा ॥ १०५॥ यथा - जलधररवं श्रुत्वा श्रुत्वा मदोच्छ्रयदर्पितो विलिखितमहीशृङ्गाक्षेपैर्वृषैः प्रतिनर्द्य च । स्वयुवतिवृतो गोष्ठाद्गोष्ठं प्रयाति च निर्भयो वृषभललितं चित्रं वृत्तं करोति च शाद्वले ॥ १०६॥ चत्वार्यादौ च दशमं गुरु यत्र त्रयोदशं चतुर्दशं तथान्त्ये द्वे चैकादशमथापि च ॥ १०७॥ यदा सप्तदशे पादे शेषाणि च लघून्यथ। भवन्ति यस्मिन्सा ज्ञेया श्रीधरी नामतो यथा ॥ १०८॥ मो भ्नौ च स्युश्चरणरचितास्तौ गुरू च प्रविष्टा श्छेदः शिष्टो यदि च दशभिः स्यात्तथान्यैश्चतुर्भिः । अत्यष्टौ च प्रतिनियमिता वर्णतः स्पष्टरूपा सा विज्ञेया द्विजमुनिगणैः श्रीधरी नामतस्तु ॥ १०९॥ स्नानैश्चूर्णैः सुखसुरभिभिर्गन्धवासैश्च धूपैः पुष्पैश्चान्यैः शिरसि रचितैर्वस्त्रयोगैश्च तैस्तैः । नानारत्नैः कनकखचितैरङ्गसंभोगसंस्थै र्व्यक्तं कान्ते कमलनिलया श्रीधरीवातिभासि ॥ ११०॥ आद्यं चतुर्थं षष्ठं च दशमं नैधनं गुरु । तद्वंशपत्रपतितं दशभिः सप्तभिर्यतिः ॥ १११॥ यथा एष गजोऽद्रिमस्तकतटे कलभपरिवृतः क्रीडति वृक्षगुल्मगहने कुसुमभिरनते । मेघरवं निशम्य मुदितः पवनजवसमः सुन्दरि वंशपत्रपतितं पुनरपि कुरुते ॥ ११२॥ द्वितीयमन्त्यं षष्ठं चाप्यष्टमं द्वादशं तथा । चतुर्दशं पञ्चदशं पादे सप्तदशाक्षरे ॥ ११३॥ भवन्ति यत्र दीर्घाणि शेषाणि च लघून्यथ । विलम्बितगतिः सा तु विज्ञेया नामतो यथा ॥ ११४॥ यदा द्विरुदितौ हि पादमभिसंश्रितौ ज्सौ त्रिकौ तथैव च पुनस्तयोर्निधनमाश्रितौ यौ लगौ । तदष्टिरतिपूर्विका यतिरपि स्वभावाद्यथा विलम्बितगतिस्तदा निगदिता द्विजैर्नामतः ॥ ११५॥ यथा - विघूर्णितविलोचना पृथुविकीर्णहारा पुनः प्रलम्बरशना चलत्स्खलितपादमन्दक्लमा । न मे प्रियमिदं जनस्य बहुमानरागेण य न्मदेन विवशा विलम्बितगतिः कृता त्वं प्रिये ॥ ११६॥ पञ्चादौ पञ्चदशकं द्वादशैकादशे गुरु । चतुर्दशं तथान्त्ये द्वे चित्रलेखा धृतौ स्मृता ॥ ११७॥ यथा नानारत्नाढ्यैर्बहुभिरधिकं भूषणैरङ्गसंस्थै र्नाना गन्धाढ्यैर्मदनजनकैरङ्गरागैर्विचित्रैः । केशैः स्नानाढ्यैः कुसुमभरितैर्वस्त्ररागैश्च तैस्तैः कान्ते संक्षेपात् किमिह बहुना चित्रलेखेव भासि ॥ ११८॥ अन्त्यं सप्तदशं चैव षोडशं सचतुर्दशम् । त्रयोदशं द्वादशं च षष्ठमष्टममेव च ॥ ११९॥ त्रीण्यादौ च गुरूणि स्युर्यस्मिंस्त्वेकोनविंशके । पादे लघूनि शेषाणि शार्दूलक्रीडितं तु तत् ॥ १२०॥ म्सौ ज्सौ तौ गुरु च प्रयोगनियता यस्मिन्निविष्टास्त्रिका आद्या चान्त्ययतिश्चतुस्त्रिकयुता ज्ञेया परा सप्तभिः । नित्यं यत्पदमाश्रिता ह्यतिधृतिर्नित्यं कवीनां प्रियं तज्ज्ञेयं खलु वृत्तजातिनिपुणैः शार्दूलविक्रीडितम् ॥ १२१॥ यथा - नानाशस्त्रशतघ्नितोमरहताः प्रभ्रष्टसर्वायुधाः निर्भिन्नोदरपादबाहुवदना निर्णाशिताः शत्रवः । धैर्योत्साहपराक्रमप्रभृतिभिस्तैस्तैर्विचित्रैर्गुणैः वृत्तं ते रिपुघाति भाति समरे शार्दूलविक्रीडितम् ॥ १२२॥ तावत्त्वं विजितेन्द्रियः शुभमते सर्वात्मना प्रत्यहं दाने शीलविधौ च योजय मनः स्वर्गापवर्गापहम् । यावद् व्याधिजराप्रचण्डनखरो व्यायत्सटाभिर्भृशं मृत्युस्ते न करोति जीवितमृगैः शार्दूलविक्रीडितम् ॥ १२३॥ चत्वार्यादौ च षष्ठं च सप्तमं सचतुर्दशम् । तथा पञ्चदशं चैव षिडशं नैधनं तथा ॥ १२४॥ एतानि च गुरूणि स्युः शेषाणि तु लघून्यथ । पादे यत्र कृतौ ज्ञेया नाम्ना सुवदना तु सा ॥ १२५॥ म्रौ म्नौ य्भौ ल्गौ च सम्यग्यदि च विरचिताः पादे क्रमवशात् विच्छेदः सप्तभिः स्यात्पुनरपि च यतिः सप्ताक्षरकृता । यद्येषा संश्रिता स्यात्कृतिमपि च पुनः श्लिष्टाक्षरपदा विद्वद्भिर्वृत्तजातौ तत इह गदिता नाम्ना सुवदना ॥ १२६॥ यथा - नेत्रे लीलालसान्ते कमलदलनिभे भ्रूचापविनते रक्तोष्ठं पीनमध्यं समसहितघनाः स्निग्धाश्च दशनाः । कर्णावंसप्रलम्बौ चिबुकमपि नतं घोणा सुरुचिरा व्यक्तं त्वं मर्त्यलोके वरतनु विहितास्येका सुवदना ॥ १२७॥ चत्वार्यादौ तथा षष्ठं सप्तमं च चतुर्दशम् । अष्टादशं सप्तदशं तथा पञ्चदशं पुनः ॥ १२८॥ अन्त्योपान्त्ये गुरूण्यत्र लघून्यन्यानि सर्वदा । एकविंशतिके पादे स्रग्धरा नाम सा यथा ॥ १२९॥ म्रौ म्नौ यौ यश्च सम्यग्यदि हि विरचिताः स्युस्त्रिकाः पादयोगे वर्णैः पूर्वोपदिष्टैर्यतिरपि च पुनः सप्तभिः सप्तभिः स्यात् । वृत्तं सम्यग्यदि स्यात्प्रकृतिमनुगतं तत्वविद्भिः प्रदिष्टं विज्ञेयं वृत्तजातौ कविजनदयिता स्रग्धरा नामतस्तु ॥ १३०॥ यथा - चूताशोकारविन्दैः कुरवकतिलकैः कर्णिकारैः शिरीषैः पुन्नागैः पारिजातैर्वकुलकुवलयैः किंशुकैः सातिमुक्तैः । एतैर्नानाप्रकारैः बहुलसुरभिभिर्विप्रकीर्णैश्च तैस्तैः वासन्तैः पुष्पवृन्दैर्नरवर वसुधा स्रग्धरेवाद्य भाति ॥ १३१॥ चतुर्थमाद्यं षष्ठं च दशमं द्वादशं तथा । षोडशाष्टादशे चैव नैधनं च गुरूण्यथ ॥ १३२॥ द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ । भवन्ति यत्र तज्ज्ञेयं भद्रकं नामतो यथा ॥ १३३॥ भ्रौ चरणे यदा विनियतौ त्रिकौ क्रमवशादथातिकृतिविधौ न्रौ च ततः परं च रुचिरावनन्तरकृतौ नगावपि पुनः । तच्च दशाष्टवर्णरचिता चतुर्ष्वपि तथा यतिश्च सततं भद्रकवृत्तमेव खलु नाट्ययोगकुशलैर्बुधैर्निगदितम् ॥ १३४॥ उत्प्लुतमेकहस्तचरणं द्वितीयकररेचितं वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं बहुविधम् । भद्रकमेतदद्य सुभगे विदग्धगतिचेष्टितैः सुललितैः नृत्यसि विभ्रमाकुलपदं विविक्तरसभावितं शशिमुखि ॥ १३५॥ अन्त्यमेकोनविंशं च सप्तमं सत्रयोदशम् । एकादशं सप्तदशं पञ्चमं च गुरूण्यथ ॥ १३६॥ शेषाणि च लघूनि स्युर्विकृत्याश्चरणे बुधैः । वृत्तं तदश्वललितं विज्ञेयं नामतो यथा ॥ १३७॥ यदि च नकार आदिरचितः पदे विरचितोऽन्त एव लगौ यदि च नभौ त्रिधा च निहितौ क्रमेण खलु मध्यावपि तथा । यदि च समाश्रितं हि विकृतिं यतिश्च दशभिस्तथैकसहितैः तत इह कीर्तितं मुनिगणैर्विशुद्धचरितैस्तदश्वललितम् ॥ १३८॥ विविधतुरङ्गनागरथयोधसङ्कुलमलं बलं समुदितं शरशतशक्तिकुन्तपरिधासियष्टिविततं बहुप्रहरणम् । रिपुशतमुक्तशस्त्ररवभीतशङ्कितभटं भयाकुलदिशं कृतमभिवीक्ष्य संयुगमुखे समर्पितगुणं त्वयाश्वललितम् ॥ १३९॥ षडादावष्टमं चैव ह्येकादशचतुर्दशे । विंशं सप्तदशं चैव त्रयोविंशं तथैव च ॥ १४०॥ एतानि च लघूनि स्युः शेषाण्यथ गुरूणि च । चतुर्विंशतिके पादे मेघमालेति सा यथा ॥ १४१॥ यदि खलु चरणस्थितौ नौ त्रिकौ कृतिकारव्यास्तथा राः स्युः क्रमात् । भवति यदि यतिस्तथा सप्तभिः सप्तभि स्त्रिष्वतोऽन्या यतिः पञ्च विद्यात्तथा ॥ १४२॥ पवनबलसमाहृता तीव्रगम्भीरनादा बलाकावलीमेखला क्षितिधरसदृशोच्चरूपा महानीलधूमाञ्जनाभाम्बुगर्भोद्भवा । सुरपतिधनुरुज्ज्वलाबद्धकक्ष्या तडिद्द्योतसन्नाहपट्टीज्वला गगनतलविसारिणी प्रावृषण्या दृढं मेघमालाधिकं शोभते ॥ १४३॥ आद्यं चैव चतुर्थं च पञ्चमं षष्ठमेव च । नवमं दशमं चैव नैधनं च भवेद्गुरु ॥ १४४॥ लघून्यन्यानि शेषाणि पादे स्युः पञ्चविंशके । वृत्तज्ज्ञैः सा तु विज्ञेया क्रौञ्चपादीति नामतः ॥ १४५॥ भ्मौ यदि पादे स्भावपि चेष्टावभिकृतिरपि च हि यदि खलु विहिता नाश्च समुद्राः स्युर्विनिविष्टा यदि च खलु गुरु भवति निधनगतम् । पञ्चभिरादौ छेदमुपेता पुनरपि यतिरिह यदि खलु दशभिः क्रौञ्चपदेयं वृत्तविधाने सुरगणपितृगणमुनिगणविहिता ॥ १४६॥ यः किल दाक्षं विद्रुतसोमं क्रतुवरमचमसमपगतकलशं पातितयूपं क्षिप्तचषालं विचयनमसमिधमपशुकचरुकम् । कार्मुकमुक्तेनाशु चकार व्यपगतसुरगणपितृगणमिषुणा नित्यमसौ ते दैत्यगणारिः प्रदहतु मखमिव रिपुगणमखिलम् ॥ १४७॥ या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना दीर्घतराभिः स्थूलसिराभिः परिवृतवपुरतिशयकुटिलगतिः । आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिगतहृदया सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषता ॥ १४८॥ अष्टावादौ गुरूणि स्युस्तथा चैकोनविंशकम् । एकविंशं च विज्ञेयं चतुर्विंशं सनैधनम् ॥ १४९॥ एतानि गुरु संख्यानि शेषाणि च लघून्यथ । षड्विंशत्यक्षरे पादे तद्भुजङ्गविजृम्भितम् ॥ १५०॥ यस्यां मौ तो नाः स्त्रौ नित्यं प्रतिचरणमथ गदितकास्त्रिका ह्यनुपूर्वशः षड्विंशत्यामेकोनायां च यदि हि खलु यतिरभिधा चतुर्भिरथाष्टाभिः । पश्चादन्त्यौ ल्गौ संयोज्यौ यदि भवति मनुजदयितां समाश्रितमुत्कृतिं नाम्ना वृत्तं लोके ख्यातं कविवदन विकसनपरं भुजङ्गविजृम्भितम् ॥ १५१॥ यथा - रूपोपेतां देवैः सृष्टां समदगज विलसितगतिं निरीक्ष्य तिलोत्तमां प्रादक्षिण्यात्प्राप्तां द्रष्टुं बहुवदन मचलनयनं शिरः कृतवान् हरिः । दीर्घं निश्वस्यान्तर्गूढं स्तनवदन जघनरुचिरां निरीक्ष्य तथा पुनः पृष्ठे न्यस्तं देवेन्द्रेण प्रवरमणि कनकवलयं भुजङ्गविजृम्भितम् ॥ १५२॥ दण्डकं नाम विज्ञेयमुत्कृतेरधिकतरम् । मेघमालादिकं तत्स्यान्नौ चादौ कागुहा त्रिकाः ॥ १५३॥ यथा - मुदितजनपदाकुला स्फीतसस्याकरा भूतधात्री भवन्तं समभ्यर्चति द्विरदकरविलुप्तहिन्तालतालीवनास्त्वां नमस्यन्ति विन्ध्यादयः पर्वताः । स्फुटितकलशाशुक्तिनिगीर्णमुक्ता फलैरूर्मिहस्तैर्नमस्यन्ति वः सागराः मुदितजलचराकुलाः सम्प्रकीर्णमलाः कीर्तयन्तीव कीर्तिं महानिम्नगाः ॥ १५४॥ एतानि समवृत्तानि मयोक्तानि द्विजोत्तमाः । विषमार्धसमानां तु पुनर्वक्ष्यामि लक्षणम् ॥ १५५॥ यत्र पादास्तु विषमा नानावृत्तसमुद्भवाः । ग्रथिताः पादयोगेन तद् वृत्तं विषमं स्मृतम् ॥ १५६॥ द्वौ समं द्वौ च विषमौ वृत्तेऽर्धविषमे तथा । सर्वपादैश्च विषमैर्वृत्तं विषममुच्यते ॥ १५७॥ ह्रस्वाद्यमथ दीर्घाद्यं दीर्घं ह्रस्वमथापि वा । युग्मोजविषमैः पादैः वृत्तमर्धसमं भवेत् ॥ १५८॥ पादे सिद्धे समं सिद्धं विषमं सार्वपादिकम् । द्वयोरर्धसमं विद्यादेष छेदस्तु पादतः ॥ १५९॥ छेदास्तु ये मया प्रोक्ता समवृत्तविकल्पितः । त्रिकैर्विषमवृत्तानां सम्प्रवक्ष्यामि लक्षणम् ॥ १६०॥ नैधनेऽन्यतरस्यां वै प्रथमे पाद इष्यते । द्वितीये चरणे च स्यादित्यनुष्टुप् समासतः ॥ १६१॥ सौ गौ तु प्रथमे पादे स्रौ ल्गौ चापि द्वितीयके । युग्मेऽर्धविषमे पादे ज्ञेया पथ्या तु सा त्रिकैः ॥ १६२॥ प्रियदैवतमित्रासि प्रियसंबन्धिबान्धवा । प्रियदानरता पथ्या दयिते त्वं प्रियासि मे ॥ १६३॥ म्रौ गौ तु प्रथमे पादे य्सौ ल्गौ च द्वितीयके । पादे भौ ल्गौ तृतीये च चतुर्थे तु तसौ लगौ ॥ १६४॥ नैवाचारो न ते मित्रं न संबन्धिगुणप्रिया । सर्वथा सर्वविषमा पथ्या न भवसि प्रिये ॥ १६५॥ अयुजोर्लक्षणं ह्येतद्विपरीतं तु यत्र च । पथ्या हि विपरीता सा विज्ञेया नामतो यथा ॥ १६६॥ कृतेन रमणस्य किं सखि रोषेण तेऽप्यर्थम् । विपरीता न पथ्यासि त्वं जडे केन मोहिता ॥ १६७॥ चतुर्थादक्षराद्यत्र त्रिलघु स्यादयुक्ततः । अनुष्टुप्चपला सा तु विज्ञेया नामतो यथा ॥ १६८॥ न खल्वस्याः प्रियतमः श्रोतव्यं व्याहृतं सख्या । नारदस्य प्रतिकृतिः कथ्यते चपला हीयम् ॥ १६९॥ विपुला तु युजि ज्ञेया लघुत्वात्सप्तमस्य तु । सर्वत्र सप्तमस्यैव केषांचिद्विपुला यथा ॥ १७०॥ संक्षिप्ता वज्रमध्ये हि हेमकुम्भनिभस्तनी । विपुलासि प्रिये श्रोण्यां पूर्णचन्द्रनिभानने ॥ १७१॥ गङ्गेव मेघोपगमे आप्लावितवसुन्धरा । कूलवृक्षानारुजन्ती स्रवन्ती विपुला बलात् ॥ १७२॥ आगता मेघसमये भीरु भीरुकुलोद्गते । एकरात्रौ परगृहं चोरी बन्धनमर्हसि ॥ १७३॥ एवं विविधयोगास्तु पथ्यापादा भवन्ति हि । युग्मोजविषमैः पादैः शेषैरन्यैस्त्रिकैर्यथा ॥ १७४॥ गुर्वन्तकः सर्वलघुस्त्रिको नित्यं हि नेष्यते । प्रथमादक्षराद्यत्र चतुर्थात्प्राग्लघुः स्मृतः ॥ १७५॥ पथ्यापादं समास्थाप्य त्रीण्यन्ते तु गुरूण्यथ । भवन्ति पादे सततं बुधैस्तद्वक्रमिष्यते ॥ १७६॥ दन्तक्षताधरं सुभ्रु जागरग्लाननेत्रं च । रतिसंभोगखिन्नं ते दर्शनीयतरं वक्त्रम् ॥ १७७॥ इत्येषा सर्वविषमा नामतोऽनुष्टुबुच्यते । तद्विदां मतवैषम्यं त्रिकादक्षरतस्तथा ॥ १७८॥ पादे षोडशमात्रास्तु गाथांशकविकल्पिताः । चतुर्भिरंशकैर्ज्ञेया वृत्तज्ञैर्वानवासिका ॥ १७९॥ असंस्थितपदा सुविह्वलाङ्गी मदस्खलितचेष्टितैर्मनोज्ञा । क्व यास्यसि वरोरु सुरतकाले विषमा किं वानवासिका त्वम् ॥ १८०॥ स्जौ स्गौ च प्रथमे पादे तथा चैव तृतीयके । केतुमत्यां गणाः प्रोक्ताः भ्रौ न्गौ गश्च सदा बुधैः ॥ १८१॥ स्फुरिताधरं चकितनेत्रं रक्तकपोलमम्बुजदलाक्षम् । किमिदं रुषापहृतशोभं केतुमतीसमं वद मुखं ते ॥ १८२॥ वक्त्रस्यापरपूर्वस्य चादौ नौ रो लगौ त्रिकाः । नजौ रजौ द्वितीये च शेषाग्रं पुनरेव तु ॥ १८३॥ प्रथमे च तृतीये नौ रलौ गश्च प्रकीर्तितः । गणाश्चापरवक्त्रे तु नजौ ज्रौ द्विचतुर्थयोः ॥ १८४॥ सुतनु जलपरीतलोचनं जलदनिरुद्धमिवेन्दुमण्डलम् । किमिदमपरवक्त्रमेव ते शशिवदनेऽद्य मुखं पराङ्मुखम् ॥ १८५॥ नौ यौ तु प्रथमे पादे न्जौ ज्रौ गश्च तथापरे । यत्र तत्पुष्पिताग्रा स्याद्यदि शेषं तु पूर्ववत् ॥ १८६॥ पवनबलविधूतचारुशाखं प्रमुदितकोकिलकण्ठनादरम्यम् । मधुकरपरिगीयमानशब्दं वरतनु पश्य वनं सुपुष्पिताग्रम् ॥ १८७॥ स्जौ स्लौ चादौ यथा न्सौ ज्गौ भ्नौ ज्लौ गश्च तथा पुनः । स्जौ स्जौ गश्च त्रिका ह्येते उद्गतायाः प्रकीर्तिताः ॥ १८८॥ तव रोमराजिरतिभाति सुतनु मदनस्य मञ्जरी । नाभिकमलविवरोत्पतिता भ्रमरावलीव कुसुमात्समुद्गता ॥ १८९॥ स्जौ स्लौ च ततो न्सौ ज्गौ नौ सौ चेति तृतीयके । स्जौ स्जौ गश्च चतुर्थे तु ललिताया गणाः स्मृताः ॥ १९०॥ ललिताकुलभ्रमितचारु वसनकरचारुपल्लवा । प्रविकसितकमलकान्तिमुखी प्रविभासि देवी सुरतश्रमातुरा ॥ १९१॥ एवमेतानि वृत्तानि समानि विषमाणि च । नाटकाद्येषु काव्येषु प्रयोक्तव्यानि सूरिभिः ॥ १९२॥ सन्त्यन्यान्यपि वृत्तानि यान्युक्तानीह पिण्डशः । न च तानि प्रयोज्यानि न शोभां जनयन्ति हि ॥ १९३॥ यान्यतः प्रतिषिद्धानि गीतके तानि योजयेत् । ध्रुवायोगे तु वक्ष्यामि तेषां चैव विकल्पनम् ॥ १९४॥ वृत्तलक्षणमेवं तु समासेन मयोदितम् । अत ऊर्ध्वं प्रवक्ष्यामि ह्यार्याणामपि लक्षणम् ॥ १९५॥ पथ्या च विपुला चैव चषला मुखतोऽपरा । जघने चपला चैव आर्याः पञ्च प्रकीर्तिताः ॥ १९६॥ आसां तु सम्प्रवक्ष्यामि यतिमात्राविकल्पनम् । लक्षणं नियमं चैव विकल्पगुणसंश्रयम् ॥ १९७॥ यतिश्छेदस्तु विज्ञेयश्चतुर्मात्रो गणः स्मृतः । द्वितीयान्त्यौ युजौ पादावयुजौ त्वपरौ स्मृतौ ॥ १९८॥ गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यो युग्गणस्तु यथेप्सितः ॥ १९९॥ षष्ठो वै द्विविकल्पस्तु नैधनो ह्येकसंस्थितः । पश्चादर्धे तु षष्ठः स्यादेकमात्रस्तु केवलः ॥ २००॥ द्विविकल्पस्तु षष्ठो यो गुरुमध्यो भवेत्तु सः । तथा सर्वलघुश्चैव यतिसंज्ञासमाश्रिता ॥ २०१॥ द्वितीयादिलघुर्ज्ञेयः सप्तमे पञ्चमे यतिः । प्रथमादिरथान्त्ये च पञ्चमे वा विधीयते ॥ २०२॥ गणेषु त्रिषु पादस्य यस्याः पथ्या तु सा भवेत् । अतश्च विपुलान्या तु विज्ञेया यतिलक्षणा ॥ २०३॥ अयुजः सर्वगुरवो गुरुमध्या गणा युजः । यस्याः स्युः पादयोगे तु विज्ञेया चपला हि सा ॥ २०४॥ त्रिंशदाद्ये तु विज्ञेयाः सप्तविंशतिश्चापरे । उभयोरर्धयोर्ज्ञेयो मात्रापिण्डो विभागशः ॥ २०५॥ त्रिंशत्तस्याश्च यदि स्युरेतानि द्विगुणानि तु । त्रीण्यक्षराणि चान्यानि न्यस्य संख्याविभागशः ॥ २०६॥ एतानि लघुसंज्ञानि निर्दिष्टानि समासतः । सर्वेषां चैवमार्याणामक्षराणां यथाक्रमम् ॥ २०७॥ अर्धाष्टमगणार्धा च सववार्या प्रकीर्तिता । षष्ठश्च द्विविकल्पस्तु नैधने ह्येकसंस्थितः ॥ २०८॥ पश्चाद्वा यो गणः षष्ठ एकमात्रः स उच्यते । द्विविकल्पस्तु यः षष्ठो गुरुमध्यो भवेत्तु सः ॥ २०९॥ यथा सर्वलघुश्चैव यतिः संख्यासमाश्रिता । सा द्वितीया द्विलघुका सप्तमे प्रथमे यतिः ॥ २१०॥ गुरुमध्यविहीनस्तु चतुर्गणसमन्वितः । अयुग्गणो विधातव्यः युग्गणस्तु स एव च ॥ २११॥ प्रथमतृतीयौ पादौ द्वादशमात्रौ भवेत्तु सा पथ्या । विपुलान्या खलु गदिता पूर्वोदितलक्षणोपेता ॥ २१२॥ पथ्या यथा - रक्तमृदुपद्मनेत्रा सितदीर्घबहुलमृदुकेशी । कस्य तु पृथुमृदुजघना तनुबाह्वं सोदरी पथ्या ॥ २१३॥ विपुला यथा - विपुलजघनवदनस्तननयनैस्ताम्राधरोष्ठकरचरणैः । आयतनासागण्डैर्ललाटकर्णैः शुभा कन्या ॥ २१४॥ द्वितीयश्च चतुर्थश्च गुरुमध्यगतो भवेत् । उभयोरर्धयोर्यत्र विज्ञेया चपला यथा ॥ २१५॥ उद्भटगामिनी परुषभाषिणी कामचिह्नकृतवेषा । जानाति मांसयुक्ता सुराप्रिया सर्वतश्चपला ॥ २१६॥ पूर्वार्धे लक्षणं ह्येतदस्याः स च मुखेन तु । पश्चिमार्धे तु चपला यस्याः सा जघनेन तु ॥ २१७॥ मुखचपला यथा - आर्यामुखे तु चपला तथापि चार्या न मे यतः सा किम् । दक्षा गृहकृत्येषु तथा दुःखे भवति दुःखार्ता ॥ २१८॥ जघनचपला यथा - वरमृगनयने चपलासि वरोरु शशाङ्कदर्पणनिभास्ये । कामस्य सारभूते न पूर्वमदचारुजघनेन ॥ २१९॥ उभयोरर्धयोरेतल्लक्षणं दृश्यते यदि । वृत्तज्ञैः सा तु विज्ञेया सर्वतश्चपला सखि ॥ २२०॥ कार्यौ द्वादशमात्रौ च पादावाद्यौ तृतीयकौ । अष्टादश द्वितीयं च तथा पञ्चदशोत्तमा ॥ २२१॥ चतुःपञ्चप्रकाराणां चतुष्काणां विशेषतः । प्रस्तारयोगमासाद्य बाहुल्यं सम्प्रदर्शयेत् ॥ २२२॥ पञ्चपञ्चाशदाद्या तु त्रिंशदाद्या तथैव च । आर्या त्वक्षरपिण्डेन विज्ञेयात्र प्रयोक्तृभिः ॥ २२३॥ त्रिंशतस्त्वथ वर्णेभ्यो लघुवर्णत्रयं भवेत् । शेषाणि गुरुसंख्यानि ह्येवं सर्वत्र निर्दिशेत् ॥ २२४॥ सर्वेषामेव चार्याणामक्षराणां यथाक्रमम् । सर्वेषां जातिवृत्तानां पूर्वमुत्तरसंख्यया ॥ २२५॥ विकल्पगणनां कृत्वा संख्यापिण्डेन निर्दिशेत् । आर्यागीतिरथार्यैव केवलं त्वष्टभिर्गणैः ॥ २२६॥ इतरार्थे जः षष्ठस्तु नलघुगण इष्यते । वृत्तैरेवं तु विविधैर्नानाछन्दस्समुद्भवैः । काव्यबन्धास्तु कर्तव्याः षट्त्रिंशल्लक्षणान्विताः ॥ २२७॥ इति भरतीये नाट्यशास्त्रे छन्दोविचितिर्नाम पञ्चदशोऽध्यायः । Encoded by Sowmya Krishnapur krsowmya@yahoo at com
% Text title            : naaTyashaastra adhyaaya 15 Chandovichitirnaama
% File name             : natya15.itx
% itxtitle              : nATyashAstram adhyAyaH 15
% engtitle              : Natya Shastra Chapter 15
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : Sowmya Krishnapur krsowmya at yahoo.com
% Proofread by          : Sowmya Krishnapur krsowmya at yahoo.com
% Latest update         : April 20, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP