॥ नाट्यशास्त्रम् अध्यायः १८ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ अष्टादशोऽध्यायः वर्त्तयिष्याम्यहं विप्रा दशरूपविकल्पनम् । नामतः कर्मतश्चैव तथा चैव प्रयोगतः ॥ १॥ नाटकं सप्रकरणमङ्को व्यायोग एव च । भाणः समवकारश्च वीथी प्रहसनं डिमः ॥ २॥ ईहामृगश्च विज्ञेया दशेमे नाट्यलक्षणे । एतेषां लक्षणमहं व्याख्यास्याम्यनुपूर्वशः ॥ ३॥ सर्वेषामेव काव्यानां मातृका वृत्तयः स्मृताः । आभ्यो विनिसृतं ह्येतद्दशरूपं प्रयोगतः ॥ ४॥ जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः । यथा तथा वृत्तिभेदैः काव्यबन्धा भवन्ति हि ॥ ५॥ ग्रामौ पूर्णस्वरौ द्वौ तु यथा वै षड्जमध्यमौ । सर्ववृत्तिविनिष्पन्नौ काव्यबन्धौ तथा त्विमौ ॥ ६॥ ज्ञेयं प्रकरणं चैव तथा नाटकमेव च । सर्ववृत्तिविनिष्पन्नं नानाबन्धसमाश्रयम् ॥ ७॥ वीथी समवकारश्च तथेहामृग एव च । उत्सृष्टिकाङ्को व्यायोगो भाणः प्रहसनं डिमः ॥ ८॥ कैशिकीवृत्तिहीनानि रूपाण्येतानि कारयेत् । अत ऊर्ध्वं प्रवक्ष्यामि काव्यबन्धविकल्पनम् ॥ ९॥ प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंश्यचरितं तथैव दिव्याश्रयोपेतम् ॥ १०॥ नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव । अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ॥ ११॥ नृपतीनां यच्चरितं नानारसभावचेष्टितं बहुधा । सुखदुःखोत्पत्तिकृतं भवति हि तन्नाटकं नाम ॥ १२॥ अस्यावस्थोपेतं कार्यं प्रसमीक्ष्य बिन्दुविस्तारात् । कर्तव्योऽङ्कः सोऽपि तु गुणान्वितं नाट्यतत्त्वज्ञैः ॥ १३॥ अङ्क इति रूढिशब्दो भावैश्च रसैश्च रोहयत्यर्थान् । नानाविधानयुक्तो यस्मात्तस्माद्भवेदङ्कः ॥ १४॥ अङ्कसमाप्तिः कार्या काव्यच्छेदेन बीजसंहारः । वस्तुव्यापी बिन्दुः काव्यसमुत्थोऽत्र नित्यं स्यात् ॥ १५॥ यत्रार्थस्य समाप्तिर्यत्र च बीजस्य भवति संहारः । किञ्चिदवलग्नबिन्दुः सोऽङ्क इति सदावगन्तव्यः ॥ १६॥ ये नायका निगदितास्तेषां प्रत्यक्षचरितसंयोगः । नानावस्थोपेतः कार्यस्त्वङ्कोऽविप्रकृष्टस्तु ॥ १७॥ नायकदेवीगुरुजनपुरोहितामात्यसार्थवाहानाम् । नैकरसान्तरविहितो ह्यङ्क इति स वेदितव्यस्तु ॥ १८॥ पञ्चाक्षरा दशपरा ह्यङ्काः स्युर्नाटके प्रकरणे च । निष्क्रामः सर्वेषां यस्मिन्नङ्कः स विज्ञेयः ॥ १९॥ क्रोधप्रसादशोकाः शापोत्सर्गोऽथ विद्रवोद्वाहौ । अद्भुतसम्भवदर्शनमङ्के प्रत्यक्षजानि स्युः ॥ २०॥ एकदिवसप्रवृत्तः कार्यस्त्वङ्कोऽर्थबीजमधिकृत्य । आवश्यककार्याणामविरोधेन प्रयोगेषु ॥ २१॥ एकाङ्केन कदाचिद्बहूनि कार्याणि योजयेद्धीमान् । आवश्यकाविरोधेन तत्र काव्यानि कार्याणि ॥ २२॥ रङ्गं तु ये प्रविष्टाः सर्वेषां भवति तत्र निष्क्रामः । बीजार्थयुक्तियुक्तं कृत्वा काव्यं यथार्थरसम् ॥ २३॥ न बहूनीह कार्याणि त्वेकाङ्के विनियोजयेत् । आवश्यकानां कार्याणां विरोधो हि तथा भवेत् ॥ २४॥ ज्ञात्वा दिवसावस्थां क्षणयाममुहूर्तलक्षणोपेताम् । विभजेत्सर्वमशेषं पृथक्पृथक्काव्यमङ्केषु ॥ २५॥ दिवसावसानकार्यं यद्यङ्के नोपपद्यते सर्वम् । अङ्कच्छेदं कृत्वा प्रवेशकैस्तद्विधातव्यम् ॥ २६॥ विप्रकृष्टं तु यो देशं गच्छेत्कार्यवशानुगः । अङ्कच्छेदेऽथ संक्षेपान्निर्दिशेत्तं प्रवेशकैः ॥ २७॥ सन्निहितनायकोऽङ्कः कर्तव्यो नाटके प्रकरणे वा । परिजनकथानुबन्धः प्रवेशको नाम विज्ञेयः ॥ २८॥ प्रकरणनाटकविषये पञ्चाद्या दशपरा भवन्त्यङ्काः । अङ्कान्तरसन्धिषु च प्रवेशकास्तेषु तावन्तः ॥ २९॥ अनयोरन्तरविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य । संक्षेपार्थः सन्धिष्वर्थानां संविधातव्यः ॥ ३०॥ अङ्कच्छेदं कृत्वा मासकृतं वर्षसञ्चितं वापि । तत्सर्वं कर्तव्यं वर्षादूर्ध्वं न तु कदाचित् ॥ ३१॥ यः कश्चित्कार्यवशाद्गच्छति पुरुषः प्रकृष्टमध्वानम् । तत्राप्यङ्कच्छेदः कर्तव्यः पूर्ववत्तज्ञैः ॥ ३२॥ अङ्कान्तरानुसारी संक्षेपार्थमधिकृत्य बिन्दूनाम् । प्रकरणनाटकविषये प्रवेशकः संविधातव्यः ॥ ३३॥ नोत्तममध्यमपुरुषैराचरितो नाप्युदात्तवचनकृतः । प्राकृतभाषाचारः प्रयोगमाश्रित्य कर्तव्यः ॥ ३४॥ कालोत्थानगतिरसौ व्याख्यासंरम्भकार्यविषयाणाम् । अर्थाभिधानयुक्तः प्रवेशकः स्यादनेकार्थः ॥ ३५॥ बह्वाश्रयमपि कार्यं प्रवेशकैः संक्षिपेच्च सन्धिषु वा । बहुचूर्णपदैर्युक्तं जनयति खेदं प्रयोगस्य ॥ ३६॥ यत्रार्थस्य समाप्तिर्न भवत्यङ्के प्रयोगबाहुल्यात् । वृत्तान्तस्वल्पकथैः प्रवेशकैः सोऽभिधातव्यः ॥ ३७॥ युद्धं राज्यभ्रंशो मरणं नगरोपरोधनं चैव । प्रत्यक्षाणि तु नाङ्के प्रवेशकैः संविधेयानि ॥ ३८॥ अङ्के प्रवेशके च प्रकरणमाश्रित्य नाटके वापि । न वधः कर्तव्यः स्याद्योऽभ्युदयी नायकः ख्यातः ॥ ३९॥ अपसरणमेव कार्यं ग्रहणं वा सन्धिरेव वा योज्यः । काव्यश्लेषैर्बहुभिर्यथारसं नाट्यतत्त्वज्ञैः ॥ ४०॥ न महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा । ये तत्र कार्यपुरुषाश्चत्वारः पञ्च वा ते स्युः ॥ ४१॥ कार्यं गोपुच्छाग्रं कर्तव्यं काव्यबन्धमासाद्य । ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ॥ ४२॥ सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् । निर्वहणे कर्तव्यो नित्यं हि रसोऽद्भुतस्तज्ज्ञैः ॥ ४३॥ नाटकलक्षणमेतन्मया समासेन कीर्तितं विधिवत् । प्रकरणमतः परमहं लक्षणयुक्त्या प्रवक्ष्यामि ॥ ४४॥ यत्र कविरात्मशक्त्या वस्तु शरीरं च नायकं चैव । औत्पत्तिकं प्रकुरुते प्रकरणमिति तद्बुधैर्ज्ञेयम् ॥ ४५॥ यदनार्षमथाहार्यं काव्यं प्रकरोत्यभूतगुणयुक्तम् । उत्पन्नबीजवस्तु प्रकरणमिति तदपि विज्ञेयम् ॥ ४६॥ यन्नाटके मयोक्तं वस्तु शरीरं च वृत्तिभेदाश्च । तत्प्रकरणेऽपि योज्यं सलक्षणं सर्वसन्धिषु तु ॥ ४७॥ विप्रवणिक्सचिवानां पुरोहितामात्यसार्थवाहानाम् । चरितं यन्नैकविधं ज्ञेयं तत्प्रकरणं नाम ॥ ४८॥ नोदात्तनायककृतं न दिव्यचरितं न राजसम्भोगम् । बाह्यजनसम्प्रयुक्तं तज्ज्ञेयं प्रकरणं तज्ज्ञैः ॥ ४९॥ दासविटश्रेष्ठियुतं वेशस्त्र्युपचारकारणोपेतम् । मन्दकुलस्त्रीचरितं काव्यं कार्यं प्रकरणे तु ॥ ५०॥ सचिवश्रेष्ठिब्राह्मणपुरोहितामात्यसार्थवाहानाम् । गृहवार्ता यत्र भवेन्न तत्र वेश्याङ्गना कार्या ॥ ५१॥ यदि वेशयुवतियुक्तं न कुलस्त्री सङ्गमोऽपि स्यात् । अथ कुलजनप्रयुक्तं न वेशयुवतिर्भवेत्तत्र ॥ ५२॥ यदि वा कारणयुक्त्या वेशकुलस्त्रीकृतोपचारः स्यात् । अविकृतभाषाचारं तत्र तु पाठ्यं प्रयोक्तव्यम् ॥ ५३॥ मध्यमपुरुषैर्नित्यं योज्यो विष्कम्भकोऽत्र तत्त्वज्ज्ञैः । संस्कृतवचनानुगतः संक्षेपार्थः प्रवेशकवत् ॥ ५४॥ शुद्धः संकीर्णो वा द्विविधो विष्कम्भकोऽपि कर्तव्यः । मध्यमपात्रः शुद्धः संकीर्णो नीचमध्यकृतः ॥ ५५॥ अङ्कान्तरालविहितः प्रवेशकोऽर्थक्रियां समभिवीक्ष्य । संक्षेपात्सन्धीनामर्थानां चैव कर्तव्यः ॥ ५६॥ अनयोश्च बन्धयोगादन्यो भेदः प्रयोक्तृभिः कार्यः । प्रख्यातस्त्वितरो वा नाटकयोगे प्रकरणे वा ॥ ५७॥ प्रकरणनाटकभेदादुत्पाद्यं वस्तु नायकं नृपतिम् । अन्तःपुरसङ्गीतककन्यामधिकृत्य कर्तव्या ॥ ५८॥ स्त्रीप्राया चतुरङ्का ललिताभिनयात्मिका सुविहिताङ्गी । बहुनृत्तगीतपाठ्या रतिसम्भोगात्मिका चैव ॥ ५९॥ राजोपचारयुक्ता प्रसादनक्रोधदम्भसंयुक्ता । नायकदेवीदूती सपरिजना नाटिका ज्ञेया ॥ ६०॥ अन्तर्भावगता ह्येषा भावयोरुभयोर्यतः । अत एव दशैतानि रूपाणीत्युदितानि वै ॥ ६१॥ प्रकरणनाटकलक्षणमुक्तं विप्रा मया समासेन । वक्ष्याम्यतः परमहं लक्षणं युक्त्या समवकारम् ॥ ६२॥ देवासुरबीजकृतः प्रख्यातोदात्तनायकश्चैव । त्र्यङ्कस्तथा त्रिकपटस्त्रिविद्रवः स्यात्त्रिशृङ्गारः ॥ ६३॥ द्वादशनायकबहुलो ह्यष्टादशनाडिकाप्रमाणश्च । वक्ष्याम्यस्याङ्कविधिं यावत्यो नाडिका यत्र ॥ ६४॥ अङ्कस्तु सप्रहसनः सविद्रवः सकपटः सवीथीकः । द्वादशनाडीविहितः प्रथमः कार्यः क्रियोपेतः ॥ ६५॥ कार्यस्तथा द्वितीयः समाश्रितो नाडिकाश्चतस्रस्तु । वस्तुसमापनविहितो द्विनाडिकः स्यात्तृतीयस्तु ॥ ६६॥ नाडीसंज्ञा ज्ञेया मानं कालस्य यन्मुहूर्तार्धम् । तन्नाडिकाप्रमाणं यथोक्तमङ्केषु संयोज्यम् ॥ ६७॥ या नाडिकेति संज्ञा कालविभागे क्रियाभिसम्पन्ना । कार्या च सा प्रयत्नाद्यथा क्रमेणैव शास्त्रोक्ता ॥ ६८॥ अङ्कोऽङ्कस्त्वन्यार्थः कर्तव्यः काव्यबन्धमासाद्य । अर्थं हि समवकारे ह्यप्रतिसम्बन्धमिच्छन्ति ॥ ६९॥ युद्धजलसम्भवो वा वाय्वग्निगजेन्द्रसंभ्रमकृतो वा । नगरोपरोधजो वा विज्ञेयो विद्रवस्त्रिविधः ॥ ७०॥ वस्तुगतक्रमविहितो देववशाद्वा परप्रयुक्तो वा । सुखदुःखोत्पत्तिकृतस्त्रिविधः कपटोऽत्र विज्ञेयः ॥ ७१॥ त्रिविधश्चात्र विधिज्ञैः पृथक्पृथक्कार्यविहितार्थः । शृङ्गारः कर्तव्यो धर्मे चार्थे च कामे च ॥ ७२॥ यस्मिन् धर्मप्रापकमात्महितं भवति साधनं बहुधा । व्रतनियमतपोयुक्तो ज्ञेयोऽसौ धर्मशृङ्गारः ॥ ७३॥ अर्थस्येच्छायोगाद्बहुधा चैवार्थतोऽर्थशृङ्गारः । स्त्रीसम्प्रयोगविषयेष्वर्थार्था वा रतिर्यत्र ॥ ७४॥ कन्याविलोभनकृतं प्राप्तौ स्त्रीपुंसयोस्तु रम्यं वा । निभृतं सावेगं वा यस्य भवेत्कामशृङ्गारः ॥ ७५॥ उष्णिग्गायत्र्यादीन्यन्यानि च यानि बन्धकुटिलानि । वृत्तानि समवकारे कविभिस्तानि प्रयोज्यानि ॥ ७६॥ एवं कार्यस्तज्ज्ञैर्नानारससंश्रयः समवकारः । वक्ष्याम्यतः परमहं लक्षणमीहामृगस्यापि ॥ ७७॥ दिव्यापुरुषाश्रयकृतो दिव्यस्त्रीकारणोपगतयुद्धः । सुविहितवस्तुनिबद्धो विप्रत्ययकारकश्चैव ॥ ७८॥ उद्धतपुरुषप्रायः स्त्रीरोषग्रथितकाव्यबन्धश्च । संक्षोभविद्रवकृतः सम्फेटकृतस्तथा चैव ॥ ७९॥ स्त्रीभेदनापहरणावमर्दनप्राप्तवस्तुशृङ्गारः । ईहामृगस्तु कार्यः सुसमाहितकाव्यबन्धश्च ॥ ८०॥ यद्व्यायोगे कार्यं ये पुरुषा वृत्तयो रसाश्चैव । ईहामृगेऽपि ते स्युः केवलममरस्त्रिया योगः ॥ ८१॥ यत्र तु वधेप्सितानां वधो ह्युदग्रो भवेद्धि पुरुषाणाम् । किञ्चिद्व्याजं कृत्वा तेषां युद्धं शमयितव्यम् ॥ ८२॥ ईहामृगस्य लक्षणमुक्तं विप्राः समासयोगेन । डिमलक्षणं तु भूयो लक्षणयुक्त्या प्रवक्ष्यामि ॥ ८३॥ प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव । षड्रसलक्षणयुक्तश्चतुरङ्को वै डिमः कार्यः ॥ ८४॥ शृङ्गारहास्यवर्जं शेषैः सर्वै रसैः समायुक्तः । दीप्तरसकाव्ययोनिर्नानाभावोपसम्पन्नः ॥ ८५॥ निर्घातोल्कापातैरुपरागेणेन्दुसूर्ययोर्युक्तः । युद्धनियुद्धाधर्षणसम्फेटकृतश्च कर्तव्यः ॥ ८६॥ मायेन्द्रजालबहुलो बहुपुस्तोत्थानयोगयुक्तश्च । देवभुजगेन्द्रराक्षसयक्षपिशाचावकीर्णश्च ॥ ८७॥ षोडशनायकबहुलः सात्वत्त्यारभटीवृत्तिसम्पन्नः । कार्यो डिमः प्रयत्नान्नानाश्रयभावसम्पन्नः ॥ ८८॥ डिमलक्षणमित्युक्तं मया समासेन लक्षणानुगतम् । व्यायोगस्य तु लक्षणमतः परं सम्प्रवक्ष्यामि ॥ ८९॥ व्यायोगस्तु विधिज्ञैः कार्यः प्रख्यातनायकशरीरः । अल्पस्त्रीजनयुक्तस्त्वेकाहकृतस्तथा चैव ॥ ९०॥ बहवश्च तत्र पुरुषा व्यायच्छन्ते यथा समवकारे । न च दिव्यनायकयुक्तः कार्यस्त्वेकाङ्क एवायम् ॥ ९१॥ न च दिव्यनायककृतः कार्यो राजर्षिनायकनिबद्धः । युद्धनियुद्धाघर्षणसंघर्षकृतश्च कर्तव्यः ॥ ९२॥ एवंविधस्तु कार्यो व्यायोगो दीप्तकाव्यरसयोनिः । वक्ष्याम्यतः परमहं लक्षणमुत्सृष्टाङ्कस्य ॥ ९३॥ प्रख्यातवस्तुविषयस्त्वप्रख्यातः कदाचिदेव स्यात् । दिव्यपुरुषैर्वियुक्तः शेषैर्युक्तो भवेत्पुंभिः ॥ ९४॥ करुणरसप्रायकृतो निवृत्तयुद्धोद्यतप्रहारश्च । स्त्रीपरिदेवितबहुलो निर्वेदितभाषितश्चैव ॥ ९५॥ नानाव्याकुलचेष्टः सात्वत्त्यारभटिकैशिकीहीनः । कार्यः काव्यविधिज्ञैः सततं ह्युत्सृष्टिकाङ्कस्तु ॥ ९६॥ यद्दिव्यनायककृतं काव्यं संग्रामबन्धवधयुक्तम् । तद्भारते तु वर्षे कर्तव्यं काव्यबन्धेषु ॥ ९७॥ कस्माद्भारतमिष्टं वर्षेष्वन्येषु देवविहितेषु । हृद्या सर्वा भूमिः शुभगन्धा काञ्चनी यस्मात् ॥ ९८॥ उपवनगमनक्रीडा विहारनारीरतिप्रमोदाः स्युः । तेषु हि वर्षेषु सदा न तत्र दुःखं न वा शोकः ॥ ९९॥ ये तेषामधिवासाः पुराणवादेषु पर्वताः प्रोक्ताः । सम्भोगस्तेषु भवेत्कर्मारम्भो भवेदस्मिन् ॥ १००॥ प्रहसनमपि विज्ञेयं द्विविधं शुद्धं तथा सङ्कीर्णम् । अङ्कस्य लक्षणमिदं व्याख्यातमशेषयोगमात्रगतम् ॥ १०१॥ प्रहसनमतः परं सलक्षणं सम्प्रवक्ष्यामि । वक्ष्यामि तयोर्युक्त्या पृथग्पृथग्लक्षणविशेषम् ॥ १०२॥ भगवत्तापसविप्रैरन्यैरपि हास्यवादसम्बद्धम् । कापुरुषसम्प्रयुक्तं परिहासाभाषणप्रायम् ॥ १०३॥ अविकृतभाषाचारं विशेषभावोपपन्नचरितपदम् । नियतगतिवस्तुविषयं शुद्धं ज्ञेयं प्रहसनं तु ॥ १०४॥ वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अनिभृतवेषपरिच्छदचेष्टितकरणैस्तु संकीर्णम् ॥ १०५॥ लोकोपचारयुक्ता या वार्ता यश्च दम्भसंयोगः । स प्रहसने प्रयोज्यो धूर्तप्रविवादसम्पन्नः ॥ १०६॥ वीथ्यङ्गैः संयुक्तं कर्तव्यं प्रहसनं यथायोग्यम् । भाणस्यापि तु लक्षणमतः परं सम्प्रवक्ष्यामि ॥ १०७॥ आत्मानुभूतशंसी परसंश्रयवर्णनाविशेषस्तु । विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥ १०८॥ परवचनमात्मसंस्थं प्रतिवचनैरुत्तमोत्तमग्रथितैः । आकाशपुरुषकथितैरङ्गविकारैरभिनयैश्चैव ॥ १०९॥ धूर्तविटसम्प्रयोज्यो नानावस्थान्तरात्मकश्चैव । एकाङ्को बहुचेष्टः सततं कार्यो बुधैर्भाणः ॥ ११०॥ भाणस्यापि हि निखिलं लक्षणमुक्तं तथागमानुगतम् । वीथ्याः सम्प्रति निखिलं कथयामि यथाक्रमं विप्राः ॥ १११॥ सर्वरसलक्षणाढ्या युक्ता ह्यङ्गैस्त्रयोदशभिः । वीथी स्यादेकाङ्का तथैकहार्या द्विहार्या वा ॥ ११२॥ अधमोत्तममध्याभिर्युक्ता स्यात्प्रकृतिभिस्तिसृभिः । उद्धात्यकावलगितावस्पन्दितनाल्यसत्प्रलापाश्च ॥ ११३॥ वाक्केल्यथ प्रपञ्चो मृदवाधिबले छलं त्रिगतम् । व्याहारो गण्डश्च त्रयोदशाङ्गान्युदाहृतान्यस्याः ॥ ११४॥ अथ वीथी सम्प्रोक्ता लक्षणमेषां प्रवक्ष्यामि । पदानि त्वगतार्थानि ये नराः पुनरादरात् ॥ ११५॥ योजयन्ति पदैरन्यैस्तदुद्धात्यकमुच्यते । यत्रान्यस्मिन् समावेश्य कार्यमन्यत्प्रसाध्यते ॥ ११६॥ तच्चावलगितं नाम विज्ञेयं नाट्ययोक्तृभिः । आक्षिप्तेऽर्थे तु कस्मिँश्चिच्छुभाशुभसमुत्थिते ॥ ११७॥ कौशलादुच्यतेऽन्योऽर्थस्तदवस्पन्दितं भवेत् । हास्येनोपगतार्थप्रहेलिका नालिकेति विज्ञेया ॥ ११८॥ मूर्खजनसन्निकर्षे हितमपि यत्र प्रभाषते विद्वान् । न च गृह्यतेऽस्य वचनं विज्ञेयोऽसत्प्रलापोऽसौ ॥ ११९॥ एकद्विप्रतिवचना वाक्केली स्यात्प्रयोगेऽस्मिन् । यदसद्भूतं वचनं संस्तवयुक्तं द्वयोः परस्परं यत्तु ॥ १२०॥ एकस्य चार्थहेतोः स हास्यजननः प्रपञ्चः स्यात् । यत्कारणाद् गुणानां दोषीकरणं भवेद्विवादकृतम् ॥ १२१॥ दोषगुणीकरणं वा तन्मृदवं नाम विज्ञेयम् । परवचनमात्मनश्चोत्तरोत्तरसमुद्भवं द्वयोर्यत्र ॥ १२२॥ अन्योन्यार्थविशेषकमधिबलमिति तद् बुधैर्ज्ञेयम् । अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यरोषकरम् ॥ १२३॥ श्रुतिसारूप्याद्यस्मिन् बहवोऽर्था युक्तिभिर्नियुज्यन्ते । यद्धास्यमहास्यं वा तत्त्रिगतं नाम विज्ञेयम् ॥ १२४॥ प्रत्यक्षवृत्तिरुक्तो व्याहारो हास्यलेशार्थः । संरम्भसंभ्रमयुतं विवादयुक्तं तथापवादकृतम् ॥ १२५॥ बहुवचनाक्षेपकृतं गण्डं प्रवदन्ति तत्त्वज्ञाः । इति दशरूपविधानं सर्वं प्रोक्तं मया हि लक्षणतः । पुनरस्य शरीरगतं सन्धिविधौ लक्षणं वक्ष्ये ॥ १२६॥ इति भरतीये नाट्यशास्त्रे दशरूपनिरूपणं नामाष्टादशोऽध्यायः । Encoded by Sowmya Krishnapur krsowmya@yahoo at com

% Text title            : naaTyashaastra adhyaaya 18 dasharuupaniruupaNaM
% File name             : natya18.itx
% itxtitle              : nATyashAstram adhyAyaH 18
% engtitle              : Natya Shastra Chapter 18
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : Sowmya Krishnapur krsowmya at yahoo.com
% Proofread by          : Sowmya Krishnapur krsowmya at yahoo.com    are needed for devanaagarii output and formatting.
% Latest update         : November 22, 2006
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP