॥ नाट्यशास्त्रम् अध्यायः २७ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ सप्तविंशोऽध्यायः सिद्धीनां तु प्रवक्ष्यामि लक्षणं नाटकाश्रयम् । यस्मात्प्रयोगः सर्वोऽयं सिद्ध्यर्थंं सम्प्रदर्शितः ॥ १॥ I will now tell the features of 'achievements' which are related to the drama since every performance is presented for the 'achievements'. 1. सिद्धिस्तु द्विविधा ज्ञेया वाङ्मनोङ्गसमुद्भवा । दैवी च मानुषी चैव नानाभावसमुत्थिता ॥ २॥ 'achievments' are known to be two fold - arising out of speech and mind and out of body. arising out of many emotions, it is also divine and human. दशाङ्गा मानुषी सिद्धीर्दैवी तु द्विविधा स्मृता । नानासत्त्वाश्रयकृता वाङ्नैपथ्यशरीरजा ॥ ३॥ The human achievements have ten types and divine is known to be two fold. It is based on various characters and born out of speech, drapery and body (of the actor). स्मितापहासिनी हासा साध्वहो कष्टमेव च । प्रबद्धनादा च तथा सिद्धिर्ज्ञेयाथ वाङ्मयी ॥ ४॥ पुलकैश्च सरोमाञ्चैरभ्युत्थानैस्तथैव च । चेलदानाङ्गुलिक्षेपैः शारीरी सिद्धिरिष्यते ॥ ५॥ किञ्चिच्छिष्टो रसो हास्यो नृत्यद्भिर्यत्र युज्यते । स्मितेन स प्रतिग्राह्यः प्रेक्षकैर्नित्यमेव च ॥ ६॥ किञ्चिदस्पष्टहास्यं यत्तथा वचनमेव च । अर्थहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव हि ॥ ७॥ विदूषकोच्छेदकृतं भवेच्छिल्पकृतं च यत् । अतिहास्येन तद्ग्राह्यं प्रेक्षकैर्नित्यमेव तु ॥ ८॥ अहोकारस्तथा कार्यो नृणां प्रकृतिसंभवः । यद्धर्मपदसंयुक्तं यथातिशयसंभवम् ॥ ९॥ तत्र साध्विति यद्वाक्यं प्रयोक्तव्यं हि साधकैः । विस्मयाविष्टभावेषु प्रहर्षार्थेषु चैव हि ॥ १०॥ करुणेऽपि प्रयोक्तव्यं कष्टं शास्त्रकृतेन तु । प्रबद्धनादा च तथा विस्मयार्थेषु नित्यशः ॥ ११॥ साधिक्षेपेषु वाक्येषु प्रस्पन्दिततनूरुहैः । कुतूहलोत्तरावेधैर्बहुमानेन साधयेत् ॥ १२॥ दीप्तप्रदेशं यत्कार्यं छेद्यभेद्याहवात्मकम् । सविद्रवमथोत्फुल्लं तथा युद्धनियुद्धजम् ॥ १३॥ प्रकम्पितांसशीर्षञ्च साश्रं सोत्थानमेव च । तत्प्रेक्षकैस्तु कुशलैस्साध्यमेवं विधानतः ॥ १४॥ एवं साधयितव्यैषा तज्ज्ञैः सिद्धिस्तु मानुषी । दैविकीञ्च पुनः सिद्धिं सम्प्रवक्ष्यामि तत्त्वतः ॥ १५॥ या भावातिशयोपेता सत्त्वयुक्ता तथैव च । सा प्रेक्षकैस्तु कर्तव्या दैवी सिद्धिः प्रयोगतः ॥ १६॥ न शब्दो न यत्र न क्षोभो न चोत्पातनिदर्शनम् । सम्पूर्णता च रंगस्य दैवी सिद्धिस्तु सा स्मृता ॥ १७॥ दैवी च मानुषी चैव सिद्धिरेषा मयोदिता । अत ऊर्ध्वं प्रवक्ष्यामि घातान्दैवसमुत्थितन् ॥ १८॥ दैवात्मपरसमुत्था त्रिविधा घाता बुधैस्तु विज्ञेया । औत्पातिकश्चतुर्थः कदाचिदथ संभवत्येषु ॥ १९॥ वाताग्निवर्षकुञ्जरभुजङ्गमण्डपनिपाताः । कीटव्यालपिपीलिकपशुप्रवेशनाश्च दैवककृता ॥ २०॥ घातनतः परमहं परयुक्तान् सम्प्रवक्ष्यामि । [वैवर्ण्यं चाचेष्टं विभ्रमितत्वं स्मृतिप्रमोहश्च ॥ २१॥ अन्यवचनं च काव्यं तथांगदोषो विहस्तत्वम् । एते त्वात्मसमुत्था घाता ज्ञेया प्रयोगज्ञैः ॥ २२॥] मात्सर्याद्द्वेषाद्वा तत्पक्षत्वात्तथार्थभेदत्वात् । एते तु परसमुत्था ज्ञेया घाता बुधैर्नित्यम् ॥ २३॥ अतिहसितरुदितविस्फोटितान्यथोत्कृष्टनालिकापाताः । गोमयलोष्टपिपीलिकाविक्षेपाश्चारिसंभूताः ॥ २४॥ औत्पतिकाश्च घाता मत्तोन्मत्तप्रवेशलिङ्गकृतः । पुनरात्मसमुत्था ये घातांस्तांस्तान् प्रवक्ष्यामि ॥ २५॥ वैलक्षण्यमचेष्टितविभूमिकत्वं स्मृतिप्रमोषश्च । अन्यवचनं च काव्यं तथार्तनादो विहस्तत्वम् ॥ २६॥ अतिहसितरुदितविस्वरपिपीलिकाकीटपशुविरावाश्च । मुकुटाभरणनिपाता पुष्करजाः काव्यदोषाश्च ॥ २७॥ अतिहसितरुदितहसितानि सिद्धैर्भावस्य दूषकाणि स्युः । कीटपिपीलिकपाता सिद्धिं सर्वात्मना घ्नान्त ॥ २८॥ विवस्वरमजाततालं वर्णस्वरसम्पदा च परिहीणम् । अज्ञातस्थानलयं स्वरगतमेवंविधं हन्यात् ॥ २९॥ मुकुटाभरणनिपातः प्रबद्धनादश्च नाशनो भवति । पशुविशसनं तथ अ स्याद्बहुवचनघ्नं प्रयोगेषु ॥ ३०॥ विषमं मानविहीनं विमार्जनं चाकुलप्रहारं च । अविभक्तग्रहमोक्षं पुष्करगतमीदृशं हन्ति ॥ ३१॥ पुनरुक्तो ह्यसमासो विभक्तिभेदो विसन्धयोऽपार्थः । त्रैलिङ्गजश्च दोषः प्रत्यक्षपरोक्षसंमोहाः ॥ ३२॥ छन्दोवृत्तत्यागो गुरुलाघवसङ्करो यतेर्भेदः । एतानि यथा स्थूलं घातस्थानानि काव्यस्य ॥ ३३॥ ज्ञेयौ तु काव्यजातौ द्वौ घातावप्रतिक्रियौ नित्यम् । प्रकृतिव्यसनसमुत्थः शेषोदकनालिकत्वम् ॥ ३४॥ अप्रतिभागं स्खलनं विस्वरमुच्चारणं च काव्यस्य । अस्थानभूषणत्वं पतनं मुकुटस्य विभ्रंशः ॥ ३५॥ वाजिस्यन्दनकुञ्जरखरोष्ट्रशिबिकाविमानयानानाम् । आरोहणावतरणेष्वनभिज्ञत्वं विहस्त्वम् ॥ ३६॥ प्रहरणकवचानामप्ययथाग्रहणं विधारणं चापि । अमुकुटभूषणयोगश्चिरप्रवेशोऽथवा रङ्गे ॥ ३७॥ एभिः स्थानविशेषैर्घाता लक्ष्यास्तु सूरिभिः कुशलैः । यूपाग्निचयनदर्भस्त्रग्भाण्डपरिग्रहान्मुक्त्वा ॥ ३८॥ सिद्ध्या मिश्रो घातस्सर्वगतश्चैकदेशजो वापि । नाट्यकुशलैः सलेख्या सिद्धिर्वा स्याद्विघातो वा ॥ ३९॥ नालेख्यो बहुदिनजः सर्वगतोऽव्यक्तलक्षणविशेषः । यस्त्वैकदिवसजातस्स प्रत्यवरोऽपि लेख्यस्स्यात् ॥ ४०॥ जर्जरमोक्ष्यस्यान्ते सिद्धेर्मोक्षस्तु नालिकायास्तु । कर्तव्यस्त्विह सततं नाट्यज्ञैः प्राश्निकैर्विधिना ॥ ४१॥ दैन्ये दीनत्वमायान्ति ते नाट्ये प्रेक्षकाः स्मृताः । ये तुष्टौ तुष्टिमायान्ति शोके शोकं व्रजन्ति च ॥ ४२॥ योऽन्यस्य महे मूर्धो नांदीश्लोकं पठेद्धि देवस्य । स्ववशेन पूर्वरङ्गे सिद्धेर्घातः प्रयोगस्य ॥४३॥ यो देशभावरहितं भाषाकाव्यं प्रयोजयेद्बुद्ध्या । तस्याप्यभिलेख्यः स्याद्घातो देशः प्रयोगज्ञैः ॥ ४४॥ कः शक्तो नाट्यविधौ यथावदुपपादनं प्रयोगस्य । कर्तुं व्यग्रमना वा यथावदुक्तं परिज्ञातम् ॥ ४५॥ तस्माद्गम्भीरार्थाः शब्दा ये लोकवेदसंसिद्धाः । सर्वजनेन ग्राह्या योज्या नाटके विधिवत् ॥ ४६॥ न च किञ्चिद्गुणहीनं दोषैः परिवर्जितं न चाकिञ्चित् । तस्मान्नाट्यप्रकृतौ दोषा नाट्यार्थतो ग्राह्या ॥ ४७॥ न च नादरस्तु कार्यो नटेन वागङ्गसत्त्वनेपथ्ये । रसभावयोश्च गीतेष्वातोद्ये लोकयुक्त्यां च ॥ ४८॥ एवमेतत्तु विज्ञेयं सिद्धीनां लक्षणं बुधैः । अत ऊर्ध्वं प्रवक्ष्यामि प्राश्निकानां तु लक्षणम् ॥ ४९॥ चारित्राभिजनोपेताः शान्तवृत्ताः कृतश्रमाः । यशोधर्मपराश्चैव मध्यस्थवयसान्विताः ॥ ५०॥ षडङ्गनाट्यकुशलाः प्रबुद्धाः शुचयः समाः । चतुरातोद्यकुशलाः वृत्तज्ञास्तत्त्वदर्शिनः ॥ ५१॥ देशभाषाविधानज्ञाः कलाशिल्पप्रयोजकाः ॥ चतुर्थाभिनयोपेता रसभावविकल्पकाः ॥ ५२॥ शब्दच्छन्दोविधानज्ञा नानाशास्त्रविचक्षणाः । एवं विधास्तु कर्तव्याः प्राश्निका दशरूपके ॥ ५३॥ अव्यग्रैरिन्द्रियैः शुद्ध ऊहापोहविशारदः । त्यक्तदोषोनुअरागी च स नाट्ये प्रेक्षकः स्मृतः ॥ ५४॥ न चैवेते गुणाः सम्यक् सर्वस्मिन् प्रेक्षके स्मृताः । विज्ञेयस्याप्रमेयत्वात्संकीर्णानां च पार्षदि ॥ ५५॥ यद्यस्य शिल्पं नेपथ्यं कर्मचेष्टितमेव वा । तत्तथा तेन कार्यं तु स्वकर्मविषयं प्रति ॥ ५६॥ नानाशीलाः प्रकृतयः शीले नाट्यं विनिर्मितम् । उत्तमाधममध्यानां वृद्धबालिशयोषिताम् ॥ ५७॥ तुष्यन्ति तरुणाः कामे विदग्धाः समयात्विते । अर्थेष्वर्थपराश्चैव मोक्षे चाथ विरागिणः ॥ ५८॥ शूरास्तु वीररौद्रेषु नियुद्धेष्वाहवेषु च । धर्माख्याने पुराणेषु वृद्धास्तुष्यन्ति नित्यशः ॥ ५९॥ न शक्यमधमैर्ज्ञातुमुत्तमानां विचेष्टितम् । तत्त्वभावेषु सर्वेषु तुष्यन्ति सततं बुधाः ॥ ६०॥ बाला मूर्खाः स्त्रियश्चैव हास्यनैपथ्ययोः सदा । यस्तुष्टो तुष्टिमायाति शोके शोकमुपैति च ॥ ६१॥ क्रुद्धः क्रोधे भये भीतः स श्रेष्ठः प्रेक्षकः स्मृतः । एवं भावानुकरणे यो यस्मिन् प्रविशेन्नरः ॥ ६२॥ स तत्र प्रेक्षको ज्ञेयो गुणैरेभिरलङ्कृतः । एवं हि प्रेक्षका ज्ञेयाः प्रयोगे दशरूपतः ॥ ६३॥ संघर्षे तु समुत्पन्ने प्राश्निकान् संनिबोधत । यज्ञविन्नर्तकश्चैव छन्दोविच्छब्दवित्तथा ॥ ६४॥ अस्त्रविच्चित्रकृद्वेश्या गन्धर्वो रजसेवकः । यज्ञविद्यज्ञयोगे तु नर्तकोऽभिनये स्मृतः ॥ ६५॥ छन्दोविद्वृत्तबन्धेषु शब्दवित्पाठ्यविस्तरे । इष्वस्त्रवित्सौष्ठवे तु नेपथ्ये चैव चित्रकृत् ॥ ६६॥ कामोपचारे वेश्या च गान्धर्वः स्वरकर्मणि । सेवकस्तूपचारे स्यादेते वै प्राश्निकाः स्मृताः ॥ ६७॥ एभिर्दृष्टान्तसंयुक्तैर्दोषा वाच्यास्तथा गुणाः । अशास्त्रज्ञा विवादेषु यथा प्रकृतिकर्मतः ॥ ६८॥ अथैते प्रश्निका ज्ञेयाः कथिता ये मयानघाः । शास्त्रज्ञानाद्यदा तु स्यात्संघर्षः शास्त्रसंश्रयः ॥ ६९॥ शास्त्रप्रामाणनिर्माणैर्व्यवहारो भवेत्तदा । भर्तृनियोगादन्योऽन्यविग्रात्स्पर्धयापि भरतानाम् ॥ ७०॥ अर्थपताका हेतोस्संघर्षो नाम संभवति । तेषां कार्यं व्यवहारदर्शनं पक्षपातविरहेण ॥ ७१॥ कृत्वा पणं पताकां व्यवहारः स भवितव्यस्तु । सर्वैरनन्यमतिभिः सुखोपविष्टैश्च शुद्धभावैश्च ॥ ७२॥ यैर्लेखकगमकसहायास्सह सिद्धिभिर्घाताः । नात्यासनैर्नदूरसंस्थितैः प्रेक्षकैस्तु भवितव्यम् ॥ ७३॥ तेषामासनयोगो द्वादशहस्तस्थितः कार्यः । यानि विहितानि पूर्वं सिद्धिस्थानानि तानि लक्ष्याणि ॥ ७४॥ घाताश्च लक्षणीयाः प्रयोगतो नाट्ययोगे तु । दैवाद्घातसमुत्थाः परोत्थिता वा बुधैर्नवैर्लेख्याः ॥ ७५॥ घाता नाट्यसमुत्था ह्यात्मसमुत्थास्तु लेख्याः स्युः । घाता यस्य त्वल्पाः संख्याताः सिद्धयश्च बहुलाः स्युः ॥ ७६॥ विदितं कृत्वा राज्ञस्तस्मै देया पताका हि । सिध्यतिशयात्पताका समसिद्धौ पार्थिवाज्ञया देया ॥ ७७॥ अथ नरपतिः समः स्यादुभयोरपि सा तदा देया । एवं विधिज्ञैर्यष्टव्यो व्यवहारः समञ्जसाम् ॥ ७८॥ स्वस्थचित्तसुखासिनैः सुविशिष्टैर्गुणार्थिभिः । विमृश्य प्रेक्षकैर्ग्राह्यं सर्वरागपराङ्गमुखैः ॥ ७९॥ साधन दूषणाभासः प्रयोगसमयाश्रितैः । समत्वमङ्गमाधुर्यं पाठ्यं प्रकृतयो रसाः ॥ ८०॥ वाद्यं गानं सनेपथ्यमेतज्ज्ञेयं प्रयत्नतः । गीतवादित्रतालेन कलान्तरकलासु च ॥ ८१॥ उअदङ्गं क्रियते नाट्यं समन्तात् सममुच्यते । अङ्गोपाङ्गसमायुक्तं गीतताललयान्वितम् ॥ ८२॥ गानवाद्यसमत्वं च तद्बुधैः सममुच्यते । सनिर्भुग्नमुरः कृत्वा चतुरश्रक्रुतौ करौ ॥ ८३॥ ग्रीवाञ्चिता तथा कर्या त्वङ्गमाधुर्यमेव च । पूर्व्रोक्तानीह शेषाणि यानि द्रव्याणि साधकै ह्॥ ८४॥ वद्यादीनां पुनर्वुप्रा लक्षणं सन्निबोधत । वाद्यप्रभृतयो गानं वाद्यमाणानि निर्दिशेत् ॥ ८५॥ यानि स्थानानि सिद्धीनां तैः सिद्धिं तु प्रकाशयेत् । हर्षादङ्गसमुद्भूतां नानारससमुत्थिताम् ॥ ८६॥ वारकालास्तु विज्ञेया नाट्यज्ञैर्विविधाश्रयाः । दिवसैश्चैव रात्रिश्च तयोर्वारान् निबोधत ॥ ८७॥ पूर्वाह्णस्त्वथ मध्याह्नस्त्वपराह्णस्तथैव च । दिवा समुत्था विज्ञेया नाट्यवाराः प्रयोगतः ॥ ८८॥ प्रादोषिकार्धरात्रिश्च तथा प्राभातिकोऽपरः । नाट्यवारा भवन्त्येते रात्रावित्यनुपूर्वशः ॥ ८९॥ एतेषां अत्र यद्योज्यं नाट्यकार्यं रसाश्रयम् । तदहं सम्प्रवक्ष्यामि वारकालसमाश्रयम् ॥ ९०॥ यच्छ्रोत्ररमणीयं स्याद्धर्मोत्थनकृतं च यत् । पूर्वाह्णे तत्प्रयोक्तव्यं शुद्धं वा विकृतं तथा ॥ ९१॥ सत्त्वोत्थानगुणैर्युक्तं वाद्यभूयिष्ठमेव च । पुष्कलं सत्त्वयुक्तं च अपराह्णे प्रयोजयेत् ॥ ९२॥ कैशिकीवृत्तिसंयुक्तं शृङ्गारससंश्रयम् । नृत्यवादित्रगीताढ्यं प्रदोषे नाट्यमिष्यते ॥ ९३॥ यन्नर्महास्यबहुलं करुणप्रायमेव च । प्रभातकाले तत्कार्यं नाट्यं निद्राविनाशनम् ॥ ९४॥ अर्धरात्रे नियुञ्जीत समध्याह्ने तथैव च । सन्ध्याभोजनकाले च नाट्यं नैव प्रयोजयेत् ॥ ९५॥ एवं कालं च देशं च समीक्ष्य च बलाबलम् । नित्यं नाट्यं प्रयुञ्जीत यथाभावं यथारसम् ॥ ९६॥ अथव देशकालौ च न परीक्ष्यौ प्रयोक्तृभिः यथैवाज्ञापयेद्भर्ता तदा योज्यमसंशयम्। । ९७॥ तथा समुदिआताश्चैव विज्ञेया नाटकाश्रिताः । पात्रं प्रयोगमृद्धिश्च विज्ञेयास्तु त्रयो गुणाः ॥ ९८॥ बुद्धिमत्वं सुरूपत्वं लयतालज्ञता तथा । रसभावज्ञता चैव वयस्स्थत्वं कुतूहलम् ॥ ९९॥ ग्रहणं धारणं चैव गात्रावैकल्यमेव च । निजसाध्वसतोत्साह इति पात्रगतो विधिः ॥ १००॥ सुवाद्यता सुगानत्वं सुपाठ्यत्वं तथैव च । शास्त्रकर्मसमायोगः प्रयोग इति संज्ञितः ॥ १०१॥ शुचिभूषणतायां तु माल्याभरणवाससाम् । विचित्ररचना चैव समृद्धिरिति संज्ञिता ॥ १०२॥ यदा समुदिताः सर्वे एकीभूता भवन्ति हि । अलङ्काराः सकुतपा मन्तव्यो नाटकाश्रयाः ॥ १०३॥ एतदुक्तं द्विजश्रेष्ठाः सिद्धीनां लक्षणं मया । अत ऊर्ध्वं प्रवक्ष्याम्यातोद्यानां विकल्पनम् ॥ १०४॥ इति भारतीये नाट्यशास्त्रे सिद्धिव्यञ्जको नाम सप्तविंशोऽध्यायः ॥ Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com
% Text title            : naaTyashaastra adhyaaya 27
% File name             : natya27.itx
% itxtitle              : nATyashAstram adhyAyaH 27
% engtitle              : Natya Shastra Chapter 27
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : dpadmakar at hotmail.com
% Proofread by          : dpadmakar at hotmail.com
% Latest update         : November 23, 2002
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP