नाट्यशास्त्रम् अध्यायः ३५

नाट्यशास्त्रम् अध्यायः ३५

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ पञ्चत्रिंशोऽध्यायः । विन्यासं भूमिकानां च सम्प्रवक्ष्यामि नाटके । यादृशो यस्य कर्तव्यो विन्यासो भूमिकास्वथ ॥ १ ॥ गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः । परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद् भूमिनिवेशने ॥ २ ॥ तस्मिन्नन्विष्य हि गुणवान् कार्या पात्रसमाश्रया । न खेदजननं बुद्धेराचार्यस्य भविष्यति ॥ ३ ॥ आचार्यः पात्रजांश्चैव गुणाञ्ज्ञात्वा स्वभावजान् । ततः कुर्याद् यथायोगं नृणां भूमिनिवेशनम् ॥ ४ ॥ अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् । न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम् ॥ ५ ॥ श्लिष्टाङ्गं द्युतिमन्तं च सुस्वरं प्रियदर्शनम् । एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत् ॥ ६ ॥ स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् । रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम् ॥ ७ ॥ रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत् । पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः ॥ ८ ॥ सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः । स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः ॥ ९ ॥ स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः । न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः ॥ १० ॥ सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाः । कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः ॥ ११ ॥ अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि । न दीर्घं नैव च स्थूलमूहापोहविचक्षणम् ॥ १२ ॥ अदीनं च प्रगल्भं च प्रत्युत्पन्नविनिश्चयम् । सेनापतेरमात्यानां भूमिकासु प्रयोजयेत् ॥ १३ ॥ पिङ्गाक्षं घोणनासं च नेत्रमुच्चमथापि वा । कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् ॥ १४ ॥ एवमन्येष्वपि तथा नाट्यधर्मविभागतः । देशवेषानुरूपेण पात्रं योज्यं स्वभूमिषु ॥ १५ ॥ मन्थरं वामनं कुब्जं विकृतं विकृताननम् । विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् ॥ १६ ॥ दुर्जनं दुस्वभावं च विकृताचारमेव च । दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम् ॥ १७ ॥ प्रकृत्याऽतिकृशं क्षामं तपःश्रान्तेषु योजयेत् । तथा च पुरुषं स्थूलमुपरोधेषु योजयेत् ॥ १८ ॥ यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः । आचार्यबुद्ध्या योज्यास्तु भावचेष्टास्वभावतः ॥ १९ ॥ या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा । स तथाऽऽचार्ययोगेन नियम्या भावभाविनी ॥ २० ॥ अतः परं प्रवक्ष्यामि भरतानां विकल्पनम् । भरताश्रयाश्च भरतो विदूषकः सौरिकस्तथा नान्दी । नन्दी ससूत्रधारो नाट्यरसो नायकश्चैव ॥ २१ ॥ मुकुटाभरणविकल्पौ विज्ञेयो माल्यवस्तुविविधैश्च । कारककुशीलवाद्या विज्ञेया नामतश्चैव ॥ २२ ॥ धुर्यवदेको यस्मादुद्धारोऽनेकभूमिकायुक्तः । भाण्डग्रहोपकरणैनाट्यं भरतो भवेत् तस्मात् ॥ २३ ॥ लोकाहृदाश्रयकृता सर्वप्रकृतिप्रचारसंयुक्ता । नानाश्रयां प्रकुरुते तथा च नारी तु सर्वत्र ॥ २४ ॥ प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः । छेदविदूषितवचनो विदूषको नाम विज्ञेयः ॥ २५ ॥ तूर्यतिस्तु नरः सर्वातोद्यप्रवादने कुशलः । तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको नाम ॥ २६ ॥ नटनृति धात्वर्थोऽयं भूतं नाटयति लोकवृत्तान्तम् । रसभावसत्वयुक्तं यस्मात् तस्मान्नटो भवति ॥ २७ ॥ स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः । सर्व स्तौति हि लोकं यस्मात् तस्माद्भवेद्वादी ॥ २८ ॥ भावेभ्यो बहुधाऽस्मिन् रसा वदति नाट्ययोगेषु । प्राकृतसंस्कृतपाठ्यो नन्दी नामेति स ज्ञेयः ॥ २९ ॥ गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य । शिष्टोपदेशयोगात् सूत्रज्ञः सूत्रधारस्तु ॥ ३० ॥ यस्मात् यथोपदिष्टान् रसांश्च भावांश्च सत्वसंयुक्तान् । भूमिविकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात् ॥ ३१ ॥ चतुरातोद्यविधानं सर्वस्य तु शास्त्रखे दविहितस्य । नाट्यस्यान्तं गच्छति तस्माद्वै नायकोऽभिहितः ॥ ३२ ॥ नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे । विविधैर्वेषविशेषैः स च कुटकारस्तु विज्ञेयः ॥ ३३ ॥ भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च । सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु ॥ ३४ ॥ यस्त्वाभरणं कुर्याद् बहुविधविहितं स चाभरणः । यश्चोपकरणयोगात् स तेन नाम्नाऽभिधातव्यः ॥ ३५ ॥ यो वै माल्यं कुरुते पङ्चविधं माल्याकृत् स विज्ञेयः । यश्चापि वेषयोगं कुरुते स च वेषकारी तु ॥ ३६ ॥ चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः । जत्वश्मलोहकाष्ठैर्द्रव्यकरैः कारुकश्चैव ॥ ३७ ॥ नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः । अतोद्येऽप्यतिकुशलो यस्मात् स कुशलवो ज्ञेयः ॥ ३८ ॥ यद्यत् समाश्रयन्ते शिल्पं वा कर्म वा प्रयोगं वा । तनैवोपगतगुणा विज्ञेया नामतः पुरुषाः ॥ ३९ ॥ एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया । नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च ॥ ४० ॥ उक्तोऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः । आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम् ॥४१ ॥ इति भरतीये नाट्यशास्त्रे भूमिकाविकल्पाध्यायः पञ्चत्रिंशः ॥ ३५ ॥ Encoded by Haresh BakShi hareshbakShi@hotmail.com
% Text title            : naaTyashaastra adhyaaya 35
% File name             : natya35.itx
% itxtitle              : nATyashAstram adhyAyaH 35
% engtitle              : Natya Shastra Chapter 35
% Category              : nATyashAstra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : hareshbakshi at hotmail.com
% Proofread by          : hareshbakshi at hotmail.com
% Latest update         : March 4, 2003
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org