॥ पाणिनीय शिक्षा ॥

अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा । शास्त्रानुपूर्वं तद्विदाद्यथोक्तं लोकवेदयोः ॥ १॥ प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः । पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ २॥ त्रिषष्टिश्चतुःषटिर्वा वर्णा शम्भुमतेमताः । प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥ ३॥ स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ ४॥ अनुस्वारो विसर्गश्च ꣳक-पौ चापि पराश्रितौ । दुःस्पृष्टो चापि विज्ञेयो ॡकारो प्लुत एव सः ॥ ५॥ ॥१॥ आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति सः प्रेरयति मारुतम् ॥ ६॥ मारुस्तूरसिचरन्मन्द्रं जनयति स्वरम् । प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ॥ ७॥ कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् । तारं तार्तीयसवनं शीर्षण्यं जागतानुगतम् ॥ ८॥ सोदीर्णो मूर्ध्न्यभिहतो वक्रमापद्य मारुतः । वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥ ९॥ स्वरतः कालतः स्थानात्प्रयत्नादनुप्रदानतः । इति वर्णविदः प्राहुर्निपुणं तन्निबोधत ॥ १०॥ ॥२॥ उदातानुदात्तश्च स्वरितश्च स्वरास्त्रयः । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥ ११॥ उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ । स्वरित्प्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥ १२॥ अष्टौ स्थानानि वर्णानामुर: कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १३॥ ओभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ १४॥ ययोभावप्रसमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्यादन्यद्व्यक्तमूष्मणः ॥ १५॥ ॥३॥ हकारं पञ्चमैर्युक्तमन्स्थाभिश्च संयुतम् । औरस्यं तं विजानीयात्कठ्यमाहुरसंयुतम् ॥ १६॥ कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू । स्युर्मूर्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥ १७॥ जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः । एऐ तु कण्ठतालव्या ओऔ तु कण्ठोष्ठजौ स्मृतौ ॥ १८॥ अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ १९॥ संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् । घोषा वा संऋताः सर्वे अघोषा विवृतः स्मृताः ॥ २०॥ ॥४॥ स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् । तेभ्योऽपि विवृतावेङौ ताभ्यामैचो तथैव च ॥ २१॥ अनुस्वार यमानां च नासिका स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ २२॥ अलाबुवीणानिर्घोषो दन्तमूल्यस्वराननु । अनुस्वारस्तु कर्तव्यो नित्यम् होः शषसेषु च ॥ २३॥ अनुस्वारे विवृत्यां तु विरामे चाक्षरद्वये । द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रोकारवकारयोः ॥ २४॥ व्याघ्री यथा हरेत्पुत्रान्दन्ताभ्यां न तु पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ २५॥ ॥५॥ यथा सौराष्ट्रिका नारी तक्रꣳ इत्यभिभाषते । एवम् रङ्गाः प्रयोक्तव्याः खे अराꣳ इव खेदया ॥ २६॥ रङ्गवर्णं प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् । दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥ २७॥ हृदये चैकमात्रस्त्वर्धमात्रस्तु मूर्धनि । नासिकायां तथार्धं च रङ्गस्यैवं द्विमात्रता ॥ २८॥ हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरम् । मार्दवं च द्विमात्रं च जघन्वाꣳ इति निदर्शनम् ॥ २९॥ मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत् । सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥ ३०॥ एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः । सम्यग्वर्णप्रयोगेन ब्रह्मलोके महीयते ॥ ३१॥ ॥६॥ गीती शीघ्री शिरःकम्पी तथा लिखितपाथकः । अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२॥ माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्यं लयसमर्थं च षडेते पाठका गुणाः ॥ ३३॥ शङ्कितं भीतमुत्कृष्टमव्यक्तमनुनासिकम् । काकस्वरं शिरसि गतं तथ स्थानविवर्जितम् ॥ ३४॥ उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् । निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न न दीनं न तु सानुनास्यम् ॥ ३५॥ प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन । मध्यंदिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्निभेन ॥ ३६॥ तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् । मयूरहंसान्यमृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥ ३७॥ ॥७॥ अचोऽस्पृष्टा गणस्त्वीषन्नमस्पृष्टा शलः स्मृताः । शेषाः स्पृष्टा हलः प्रोक्तानिबोचानुप्रदानतः ॥ ३८॥ ञमोनुनासिका नह्रो नादिनो हझषः स्मृताः । ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः ॥ ३९॥ ईषत्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते । दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवः ॥ ४०॥ छन्दः पादौ तु वेदस्य हस्तः कल्पोऽथ पठ्यते । ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ ४१॥ शिक्षा प्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते ॥ ४२॥ ॥८॥ उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा । उपान्तमध्ये स्वरितं धृतं च कनिष्ठिकायामनुदात्तमेव ।४३॥ उदात्तं प्रदेशिनीं विद्यात्प्रचयो मध्यतोङ्गुलीम् । निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥ ४४॥ अन्तोदात्तमाद्युदत्तमुदात्तमनुदातं नीचस्वरितम् । मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥ ४५॥ अग्निः बोमः प्रवो वीर्यं हविषं स्वर्बृहस्पतिरिन्द्राबृहस्पती । अग्निरित्यन्तोदात्तं सोम इत्याद्युदत्तं प्रेत्युदात्तं दीर्घं नीचस्वरितम् ॥ ४६॥ हविषां मध्योदात्तंस्वरिति स्वरितं बृहस्पतिरिति । द्व्युदात्तमिन्द्राबृहस्पती इति त्रुदात्तम् ॥ ४७॥ अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः । स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ॥ ४८॥ ॥९॥ चाषस्तु वदते मारां द्विमात्रो चैव वायसः । शिखी रौति त्रिमात्रस्तु नकुलस्त्वर्धमात्रकः ॥ ४९॥ कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् । न तस्य पठे मोक्षोऽस्ति पापार्हरिव किल्बिषात् ॥ ५०॥ सुतिर्थदागतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम् । सुस्वरेण सुवक्रेण प्रयुक्तं ब्रह्म राजते ॥ ५१॥ मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तदर्थमाह । स वग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ ५३॥ अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम् । अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥ ५४॥ हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥ ५५॥ हस्तेन वेदं योऽधीते स्वरवर्णाथसंयुतम् । ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥ ५५॥ ॥१०॥ शङ्करः शङ्करीं प्रादाद्दाक्षीपुत्रायधीमते । वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥ ५६॥ येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ ५७॥ येन धौता गिरः पुंसां विमलैः शब्दवारिभिः । तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ ५८॥ अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ ५९॥ त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः । स भवति धनधान्यपशुपुत्रकीर्तिमानमतुलं च सुखं समश्नुते दिवीति दिवीति ॥ ६०॥ Encoded and proofread by Pramod Kulkarni auddhav at gmail.com
% Text title            : pAninIya shikShA
% File name             : pANinIyashikShA.itx
% itxtitle              : pANinIya shikShA
% engtitle              : pANinIya shikShA
% Category              : major_works, svara
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : svara
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Pramod Kulkarni auddhav at gmail.com
% Proofread by          : Pramod Kulkarni auddhav at gmail.com
% Indexextra            : (Meaning 1, 2)
% Latest update         : July 2, 2011, June 10, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP