॥ श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे मित्रभेदो नाम प्रथमं तन्त्रम् ॥

कथामुखम् । ॐ नमः श्रीशारदागणपतिगुरुभ्यः । महाकविभ्यो नमः । ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिन्द्रः कुबेर- श्चन्द्रादित्यौ सरस्वत्युदधियुगनगा वायुरुर्वी भुजङ्गाः । सिद्धा नद्योऽश्विनौ श्रीर्दितिरदितिसुता मातरश्चण्डिकाद्याः । वेदास्तीर्थानि यक्षा गणवसुमुनयः पान्तु नित्यं ग्रहाश्च ॥ मनवे वाचस्पतये शुक्राय पराशराय स सुताय । चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥ १॥ सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम् । तन्त्रैः पञ्चभिरेतैश्चकार सुमनोहरं शास्त्रम् ॥ २॥ तद्यथानुश्रूयते । अस्ति दाक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थिसार्थकल्पद्रुमः प्रवरनृपमुकुटमणि- मरीचिचयचर्चितचरणयुगलः सकलकलापारंगतोऽमरशक्ति- र्नाम राजा बभूव । तस्य त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो बभूवुः । अथ राजा तान् शास्त्रविमुखानालोक्य सचिवानाहूय प्रोवाच - भोः ज्ञातमेतद्भवद्भिर्यन्ममैते त्रयोऽपि पुत्राः शास्त्रविमुखा विवेकहीनाश्च । तदेतान्पश्यतो मे महदपि राज्यं न सौख्यमावहति । अथवा साध्विदमुच्यते - अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥ ३॥ वरं गर्भस्रावो वरमृतुषु नैवाभिगमनम् । वरं जातः प्रेतो वरमपि च कन्यैव जनिता । वरं वन्ध्या भार्या वरमपि च गर्भेषु वसति- र्न चाविदग्धान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥ ४॥ किं तया क्रियते धेन्वा या न सूते न दुग्धदा । कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥ ५॥ तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपा- योऽनुष्ठीयताम् । अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति । तत्रैकः प्रोवाच - देव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्मशास्त्राणि मन्वादीन्यर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि । एवं च ततो धर्मार्थकामशास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति । अथ तन्मध्यतः सुमतिर्नाम सचिवः प्राह - अशाश्वतोऽयं जीवविषयः । प्रभूतकालज्ञेयानि शब्दशास्त्राणि । तत्सङ्क्षेपमात्रं शास्त्रं किञ्चिदेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तञ्च यतः - अनन्तपारं किल शब्द शास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः । सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुमध्यात् ॥ ६॥ तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारं- गमश्चात्र संसदि लब्धकीर्तिः । तस्मै समर्पयत्वेतान् । स नूनं द्राक् प्रबुद्धान् करिष्यतीति ।स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच- भो भगवन् मदनुग्र- हार्थमेतानर्थशास्त्रं प्रति द्राग्यथानन्यसदृशान् विदधासि तथा कुरु । तदहं त्वां शासनशतेन योजयिष्यामि । अथ विष्णुशर्मा तं राजानमाह - देव श्रूयतां मे तथ्यवचनम् । नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेताꣳस्तव पुत्रान्मासषट्केन यदि नीतिशास्त्रज्ञान्न करोमि ततः स्वनामत्यागं करोमि ऽथासौ राजा तां ब्राह्मण- स्यासंभाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेदमित्रप्राप्तिकाकोलूकीयलब्धप्रणाशापरीक्षितकारकाणि चेति पञ्च तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तान्यधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्येतत् पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना - अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च । न पराभवमाप्नोति शक्रादपि कदाचन ॥ ७॥ इति कथामुखम् ।
मित्रभेदः । वर्धमानवृत्तान्तः । अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम् । यस्यायमादिमः श्लोकः - वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने । पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥ १॥ तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव । तस्य कदाचिद्रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । यत्प्रभूतेऽपि वित्तेऽर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति । यत उक्तञ्च - न हि तद्विद्यते किंचिद्यदर्थेन न सिध्यति । यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ २॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाꣳल्लोके यस्यार्थाः स च पण्डितः ॥ ३॥ न सा विद्या न तद्दानं न तच्छिल्पं न सा कला । न तत्स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥ ४॥ इह लोके हि धनिनां परोऽपि स्वजनायते । स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ ५॥ अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्यस्तस्ततः । प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥ ६॥ पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते । वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥ ७॥ अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि । एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥ ८॥ अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते । त्यक्त्वा जनयितारं स्वं निःस्वं गच्छति दूरतः ॥ ९॥ गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः । अर्थेन तु ये विहीना वृद्धास्ते यौवनेऽपि स्युः ॥ १०॥ स चार्थः पुरुषाणां षड्भिरुपायैर्भवति भिक्षया नृपसेवया कृषिकर्मणा विद्योपार्जनेन व्यवहारेण वणिक्कर्मणा वा । सर्वेषामपि तेषां वाणिज्येनातिरस्कृतो- ऽर्थलाभः स्यात् । उक्तञ्च यतः - कृता भिक्षानेकैर्वितरति नृपो नोचितमहो कृषिः क्लिष्टा विद्या गुरुविनयवृत्त्यातिविषमा । कुसीदाद्दारिद्र्यं परकरगतग्रन्थिशमना- न्न मन्ये वाणिज्यात्किमपि परमं वर्तनमिह ॥ ११॥ उपायानां च सर्वेषामुपायः पण्यसंग्रहः । धनार्थं शस्यते ह्येकस्तदन्याः संशयात्मकाः ॥ १२॥ तच्च वाणिज्यं सप्तविधमर्थागमाय स्यात् । तद्यथा गान्धिक- व्यवहारो निक्षेपप्रवेशो गोष्ठिककर्म परिचितग्राहकागमो मिथ्याक्रयकथनं, कूटतुलामानं देशान्तराद्भाण्डा- नयनं चेति । उक्तञ्च - पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिभिः । यत्रैकेन च यत्क्रीतं तच्छतेन प्रदीयते ॥ १३॥ निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम् । निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम् ॥ १४॥ गोष्ठिककर्मनियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः । वसुधा वसुसंपूर्णा मयाद्य लब्धा किमन्येन ॥ १५॥ परिचितमागच्छन्तं ग्राहकमुत्कण्ठया विलोक्यासौ । हृष्यति तद्धनलब्धो यद्वत्पुत्रेण जातेन ॥ १६॥ अन्यच्च - पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम् । मिथ्याक्रयस्य कथनं प्रकृतिरियं स्यात्किरातानाम् ॥ १७॥ द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः । प्राप्नुवन्त्युद्यमाल्लोका दूरदेशान्तरं गताः ॥ १८॥ इत्येवं संप्रधार्य मथुरागामीनि भाण्डान्यादाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गलवृषभौ संजीवकनन्दकनामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोरेकः संजीवकाभिधानो यमुनाकच्छ- मवतीर्णः सन् पङ्कपूरमासाद्य कलितचरणो युगभङ्गं विधाय निषसाद । अथ तं तदवस्थमालोक्य वर्धमानः परं विषादमगमत् । तदर्थं च स्नेहार्द्रहृदयस्त्रिरात्रं प्रयाणभङ्गमकरोत् । अथ तं विषण्णमालोक्य सार्थिकैरभिहितम् - भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्रसमाकुले बह्वपायेऽस्मिन् वने समस्तसार्थस्त्वया सन्देहे नियोजितः । उक्तञ्च - न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः । एतदेवात्र पाण्डित्यं यत्स्वल्पाद्भूरि रक्षणम् ॥ १९॥ अथासौ तदवधार्य संजीवकस्य रक्षापुरुषान्निरूप्या- शेषसार्थं नीत्वा प्रस्थितः । अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस्तं सार्थवाहं मिथ्याऽहुः - स्वामिन् मृतोऽसौ संजीवकः । अस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृत इति । तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्रहृदयस्तस्यौर्ध्व- देहिकक्रिया वृषोत्सर्गादिकाः सर्वाश्चकार । संजीवकोऽप्यायुः- शेषतया यमुनासलिलमिश्रैः शिशिरतरवातैराप्यायितशरीरः कथंचिदप्युत्थाय यमुनातटमुपपेदे । तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन्कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्मान्बलवांश्च संवृत्तः । प्रत्यहं वल्मीकशिखराग्राणि शृङ्गाभ्यां विदारयन्गर्जमान आस्ते । साधु चेदमुच्यते - अरक्षितं तिष्ठति देवरक्षितं सुरक्षितं देवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे विनश्यति ॥ २०॥ अथ कदाचित्पिङ्गलको नाम सिंहः सर्वमृगपरिवृतः पिपासाकुल उदकपानार्थं यमुनातटमवतीर्णः संजीवकस्य गम्भीरतररावं दूरादेवाशृणोत् । तच्छ्रुत्वाऽतीव व्याकुल- हृदयः ससाध्वसमाकारं प्रच्छाद्य वटतले चतुर्मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्विदं सिंहः सिंहानुयायिनः काककरवाः किंवृत्ता इति । अथ तस्य करटकदमनकनामानौ द्वौ शृगालौ मन्त्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत् - भद्र करटक अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यमुनाकच्छ- मवतीर्य स्थितः । स किंनिमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनां विधाय दौर्मनस्येनाभिभूतोऽत्र वटतले स्थितः । करटक आह - भद्र किमावयोरनेन व्यापारेण । उक्तञ्च यतः - अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति । स एव निधनं याति कीलोत्पाटीव वानरः ॥ २१॥
कथा १ कीलोत्पाटिवानरकथा । कस्मिंश्चिन्नगराभ्यासे केनापि वणिक्पुत्रेण तरुखण्डमध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थापनादयस्ते मध्याह्नवेलायामाहारार्थं नगरमध्ये गच्छन्ति । अथ कदाचित् तत्रानुषङ्गिकं वानरयूथमितश्चे- तश्च परिभ्रमदागतम् । तत्रैकस्य कस्यचिच्छिल्पिनोऽर्धस्फाटितो- ऽञ्जनवृक्षदारुमयः स्तम्भः खदिरकीलकेन मध्यनिहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरास्तरुशिखरप्रासादशृङ्ग- दारुपर्यन्तेषु यथेच्छया क्रीडितुमारब्धाः । एकश्च तेषां प्रत्यासन्नमृत्युश्चापल्यात्तस्मिन्नर्धस्फोटितस्तम्भ उपविश्य पाणिभ्यां कीलकं संगृह्य यावदुत्पादयितुमारेभे तावत्तस्य स्तम्भमध्यगतवृषणस्य स्वस्थानाच्चलितकीलकेन यद्वृत्तं तत्प्रागेव निवेदितम् । अतोऽहं ब्रवीमि - अव्यापारेषु इति । आवयोर्भक्षितशेष आहारोऽस्त्येव । तत् किमनेन व्यापारेण । दमनक आह तत् किं भवानाहारार्थी केवलमेव । तन्न युक्तम् । उक्तञ्च - सुहृदामुपकारकारणाद्द्विषतामप्यपकारकारणात् । नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥ २२॥ किञ्च - यस्मिन् जीवन्ति जीवन्ति बहवः सोऽत्र जीवति । वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदरपूरणम् ॥ २३॥ तथा च - यज्जीव्यते क्षणमपि प्रथितं मनुष्यै- र्विज्ञानशौर्यविभवार्यगुणैः समेतम् । तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २४॥ यो नात्मना न च परेण च बन्धुवर्गे दीने दयां न कुरुते न च मर्त्यवर्गे । किं तस्य जीवितफलं हि मनुष्यलोके काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥ २५॥ सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः । सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ २६॥ किञ्च - किं तेन जातु जातेन मातुर्यौवनहारिणा । आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥ २७॥ परिवर्तिनि संसारे मृतः को वा न जायते । जातस्तु गण्यते सोऽत्र यः स्फुरेच्च श्रियाधिकः ॥ २८॥ किञ्च - जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम् । यत्सलिलमज्जनाकुलजनहस्तालम्बनं भवति ॥ २९॥ तथा च - स्तिमितोन्नतसञ्चारा जनसन्तापहारिणः । जायन्ते विरला लोके जलदा इव सज्जनाः ॥ ३०॥ निरतिशयं गरिमाणं तेन जनन्याः स्मरन्ति विद्वांसः । यत्कमपि वहति गर्भं महतामपि यो गुरुर्भवति ॥ ३१॥ अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते । निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥ ३२॥ करटक आह - आवां तावदप्रधानौ तत्किमावयोरनेन व्यापरेण । उक्तञ्च - अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः । न केवलमसंमानं लभते च विडम्बनम् ॥ ३३॥ तथा च - वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् । स्थायी भवति चात्यन्तं रागः शुक्लपटे यथा ॥ ३४॥ दमनक आह - मा मैवं वद । अप्रधानः प्रधानः स्यात्सेवते यदि पार्थिवम् । प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः ॥ ३५॥ यत उक्तञ्च - आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्कृतं वा । प्रायेण भूमिपतयः प्रमदा लताश्च यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ॥ ३६॥ तथा च - कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवकाः । आरोहन्ति शनैः पश्चाद्धुन्वन्तमपि पार्थिवम् ॥ ३७॥ विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् । सेवावृत्तिविदां चैव नाश्रयः पार्थिवं विना ॥ ३८॥ ये जात्यादिमहोत्साहान्नरेन्द्रान्नोपयान्ति च । तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥ ३९॥ ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः । प्रमादालस्यजाड्यानि ख्यापितानि निजानि तैः ॥ ४०॥ सर्पान्व्याघ्रान्गजान्सिंहान् दृष्टोपायैर्वशीकृतान् । राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ ४१॥ राजानमेव संश्रित्य विद्वान्याति परां गतिम् । विना मलयमन्यत्र चन्दनं न प्ररोहति ॥ ४२॥ धवलान्यातपत्राणि वाजिनश्च मनोरमाः । सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥ ४३॥ करटक आह - अथ भवान्किं कर्तुमनाः । सोऽब्रवीत् - अद्यास्मत्स्वामी पिङ्गलको भीतो भीतपरिवारश्च वर्तते । तदेनं गत्वा भयकारणं विज्ञाय सन्धिविग्रहयानासनसंश्रयद्वैधीभावा- नामेकतमेन संविधास्ये । करटक आह - कथं वेत्ति भवान्यद्भयाविष्टोऽयं स्वामी । सोऽब्रवीत् - ज्ञेयं किमत्र । यत उक्तञ्च - उदीरितोऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ॥ ४४॥ तथा च मनुः (८।२६) - आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥ ४५॥ तदद्यैनं भयाकुलं प्राप्य स्वबुद्धिप्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्यपदवीं समासादयिष्यामि । करटक आह - अनभिज्ञो भवान् सेवाधर्मस्य । तत्कथमेनं वशीकरिष्यसि । सोऽब्रवीत् - कथमहं सेवानभिज्ञः । मया हि तातोत्सङ्गे क्रीडता- ऽभ्यागतसाधूनां नीतिशास्त्रं पठतां यच्छ्रुतं सेवाधर्मस्य सारं तद् हृदि स्थापितम् । श्रूयतां तच्चेदम् - सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ ४६॥ सा सेवा या प्रभुहिता ग्राह्या वाक्यविशेषतः । आश्रयेत्पार्थिवं विद्वांस्तद्द्वारेणैव नान्यथा ॥ ४७॥ यो न वेत्ति गुणान्यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥ ४८॥ द्रव्यप्रकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः । भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥ ४९॥ अपि स्थाणुवदासीनः शुष्यन्परिगतः क्षुधा । न त्वेवानात्मसम्पन्नाद्वृत्तिमीहेत पण्डितः ॥ ५०॥ सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् । आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥ ५१॥ यमाश्रित्य न विश्रामं क्षुधार्ता यान्ति सेवकाः । सोऽर्कवन्नृपतिस्त्याज्यः सदा पुष्पफलोऽपि सन् ॥ ५२॥ राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि । पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ॥ ५३॥ जीवेति प्रब्रुवन्प्रोक्तः कृत्याकृत्यविचक्षणः । करोति निर्विकल्पं यः स भवेद्राजवल्लभः ॥ ५४॥ प्रभुप्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् । वस्त्राद्यं च दधत्यङ्गे स भवेद्राजवल्लभः ॥ ५५॥ अन्तःपुरचरैः सार्धं यो न मन्त्रं समाचरेत् । न कलत्रैर्नरेन्द्रस्य स भवेद्राजवल्लभः ॥ ५६॥ द्यूतं यो यमदूताभं हालां हालाहलोपमाम् । पश्येद्दारान्वृथाकारान्स भवेद्राजवल्लभः ॥ ५७॥ युद्धकालेऽग्रणीर्यः स्यात्सदा पृष्ठानुगः पुरे । प्रभोर्द्वाराश्रितो हर्म्ये स भवेद्राजवल्लभः ॥ ५८॥ सम्मतोऽहं विभोर्नित्यमिति मत्वा व्यतिक्रमेत् । कृच्छ्रेष्वपि न मर्यादां स भवेद्राजवल्लभः ॥ ५९॥ द्वेषिद्वेषपरो नित्यमिष्टानामिष्टकर्मकृत् । यो नरो नरनाथस्य स भवेद्राजवल्लभः ॥ ६०॥ प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुणा च यः । न समीपे हसत्युच्चैः स भवेद्राजवल्लभः ॥ ६१॥ यो रणं शरणं तद्वन्मन्यते भयवर्जितः । प्रवासं स्वपुरावासं स भवेद्राजवल्लभः ॥ ६२॥ न कुर्यान्नरनाथस्य योषिद्भिः सह संगतिम् । न निन्दां न विवादं च स भवेद्राजवल्लभः ॥ ६३॥ करटक आह - अथ भवांस्तत्र गत्वा किं तावत्प्रथमं वक्ष्यति तत्तावदुच्यताम् । दमनक आह - उत्तरादुत्तरं वाक्यं वदतां संप्रजायते । सुवृष्टिगुणसम्पन्नाद्बीजाद्बीजमिवापरम् ॥ ६४॥ अपायसंदर्शनजां विपत्तिमुपायसंदर्शनजां च सिद्धिम् । मेधाविनो नीतिगुणप्रयुक्तां पुरः स्फुरन्तीमिव वर्णयन्ति ॥ ६५॥ एकेषां वाचि शुकवदन्येषां हृदि मूकवत् । हृदि वाचि तथान्येषां वल्गु वल्गन्ति सूक्तयः ॥ ६६॥ न चाहमप्राप्तकालं वक्ष्ये । आकर्णितं मया नीतिसारं पितुः पूर्वमुत्सङ्गं हि निषेवता । अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बह्ववज्ञानमपमानं च पुष्कलम् ॥ ६७॥ करटक आह - दुराराध्या हि राजानः पर्वता इव सर्वदा । व्यालाकीर्णाः सुविषमाः कठिना दुष्टसेविताः ॥ ६८॥ तथा च - भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूरचेष्टिताः । सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव ॥ ६९॥ द्विजिह्वाः क्रूरकर्माणोऽनिष्टाश्छिद्रानुसारिणः । दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ॥ ७०॥ स्वल्पमप्यपकुर्वन्ति येऽभीष्टा हि महीपतेः । ते वह्नाविव दह्यन्ते पतङ्गाः पापचेतसः ॥ ७१॥ दुरारोहं पदं राज्ञां सर्वलोकनमस्कृतम् । स्वल्पेनाप्यपकारेण ब्राह्मण्यमिव दुष्यति ॥ ७२॥ दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः । तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्थिताः ॥ ७३॥ दमनक आह - सत्यमेतत्परम् । किं तु - यस्य यस्य हि यो भावस्तेन तेन समाचरेत् । अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥ ७४॥ भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् । राक्षसाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥ ७५॥ सरुषि नृपे स्तुतिवचनं तदभिमते प्रेम तद्द्विषि द्वेषः । तद्दानस्य च शंसा अमन्त्रतन्त्रं वशीकरणम् ॥ ७६॥ करटक आह - यद्येवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु । यथाभिलषितमनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे । अथागच्छन्तं दमनक- मालोक्य पिङ्गलको द्वाःस्थमब्रवीत् - अपसार्यतां वेत्रलता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्या- हतप्रवेशः । तत्प्रवेश्यतां द्वितीयमण्डलभागी । इति । स आह - यथावादीद्भगवानिति । अथोपसृत्य दमनको निर्दिष्टासने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नखकुलिशालङ्कृतं दक्षिणपाणिमुपरि दत्त्वा मानपुरःसरमुवाच - अपि शिवं भवतः । कस्माच्चिराद् दृष्टोऽसि ।दमनक आह- न किंचिद् देवपादानामस्माभिः प्रयोजनम् । परं भवतां प्राप्तकालं वक्तव्यं यत उत्तममध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तञ्च - दन्तस्य निष्कोषणकेन नित्यं कर्णस्य कण्डूयनकेन वापि । तृणेन कार्यं भवतीश्वराणां किमङ्गवाग्घस्तवता नरेण ॥ ७७॥ तथा वयं देवपादानामन्वयागता भृत्या आपत्स्वपि पृष्ठगामिनो यद्यपि स्वमधिकारं न लभामहे तथापि देवपादानामेतद्युक्तं न भवति । उक्तञ्च - स्थानेष्वेव नियोक्तव्या भृत्या आभरणानि च । न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ ७८॥ यतः - अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते । धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥ ७९॥ उक्तञ्च - असमैः समीयमानः समैश्च परिहीयमाणसत्कारः । धुरि यो न युज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ८०॥ यच्चाविवेकितया राजा भृत्यानुत्तमपदयोग्यान्हीनाधमस्थाने नियोजयति न ते तत्रैव तिष्ठन्ति स भूपतेर्दोषो न तेषाम् । उक्तञ्च - कनकभूषणसङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । न स विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥ ८१॥ यच्च स्वाम्येवं वदति चिराद्दृश्यते । तदपि श्रूयताम् - सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः । कस्तत्र क्षणमप्यार्यो विद्यमानगतिर्भवेत् ॥ ८२॥ काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते । न तेषां सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥ ८३॥ परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि । आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः ॥ ८४॥ लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् । यत्र नास्ति कथं तत्र क्रियते रत्नविक्रयः ॥ ८५॥ निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते । तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥ ८६॥ न विना पार्थिवो भृत्यैर्न भृत्याः पार्थिवं विना । तेषां च व्यवहारोऽयं परस्परनिबन्धनः ॥ ८७॥ भृत्यैर्विना स्वयं राजा लोकानुग्रहकारिभिः । मयूखैरिव दीप्तांशुस्तेजस्व्यपि न शोभते ॥ ८८॥ अरैः सन्धार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥ ८९॥ शिरसा विधृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥ ९०॥ राजा तुष्टो हि भृत्यानामर्थमात्रं प्रयच्छति । ते तु संमानमात्रेण प्राणैरप्युपकुर्वते ॥ ९१॥ एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः । कुलीनाः शौर्यसंयुक्ताः शक्ता भक्ताः क्रमागताः ॥ ९२॥ यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम् । लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥ ९३॥ यस्मिन्कृत्यं समावेश्य निर्विशङ्केन चेतसा । आस्यते सेवकः स स्यात्कलत्रमिव चापरम् ॥ ९४॥ योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा । पृष्टः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम् ॥ ९५॥ अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः । यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥ ९६॥ ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा । यो न चिन्तयते पापं स भृत्योऽर्हो महीभुजाम् ॥ ९७॥ न गर्वं कुरुते माने नापमाने च तप्यते । स्वाकारं रक्षयेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥ ९८॥ न क्षुधा पीड्यते यस्तु निद्रया न कदाचन । न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥ ९९॥ श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति । प्रसन्नास्यो भवेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥ १००॥ सीमा वृद्धिं समायाति शुक्लपक्ष इवोडुराट् । नियोगसंस्थिते यस्मिन्स भृत्योऽर्हो महीभुजाम् ॥ १०१॥ सीमा संकोचमायाति वह्नौ चर्म इवाहितम् । स्थिते यस्मिन्स तु त्याज्यो भृत्यो राज्यं समीहता ॥ १०२॥ तथा शृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यद्यवज्ञा क्रियते तदप्ययुक्तम् । उक्तञ्च यतः - कौशेयं कृमिजं सुवर्णमुपलाद्दूर्वापि गोरोमतः पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥ १०३॥ मूषिका गृहजातापि हन्तव्या स्वापकारिणी । भक्ष्यप्रदानैर्मार्जारो हितकृत्प्राप्यते जनैः ॥ १०४॥ एरण्डभिण्डार्कनलैः प्रभूतैरपि सञ्चितैः । दारुकृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥ १०५॥ किं भक्तेनासमर्थेन किं शक्तेनापकारिणा । भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥ १०६॥ पिङ्गलक आह - भवत्वेवं तावत् । असमर्थः समर्थो वा चिरन्तनस्त्वमस्माकं मन्त्रिपुत्रः । तद्विश्रब्धं ब्रूहि यत्किञ्चिद्वक्तुकामः । दमनक आह - देव विज्ञाप्यं किञ्चिदस्ति । पिङ्गलक आह - तन्निवेदयाभिप्रेतम् । सोऽब्रवीत् - अपि स्वल्पतरं कार्यं यद्भवेत्पृथिवीपतेः । तन्न वाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ॥ १०७॥ तदैकान्तिके मद्विज्ञाप्यमाकर्णयन्तु देवपादाः । यतः - षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् । तस्मात् सर्वप्रयत्नेन षट्कर्णं वर्जयेत्सुधीः ॥ १०८॥ अथ पिङ्गलकाभिप्रायज्ञा व्याघ्रद्वीपिवृकपुरःसरा सर्वेऽपि तद्वचः समाकर्ण्य संसदि तत्क्षणादेव दूरीभूताः । ततश्च दमनक आह - उदकग्रहणार्थं प्रवृत्तस्य स्वामिनः किमिह निवृत्त्यावस्थानम् । पिङ्गलक आह सविलक्षस्मितम्- न किञ्चिदपि । सोऽब्रवीत् - देव यद्यनाख्येयं तत्तिष्ठतु । उक्तञ्च - दारेषु किञ्चित्स्वजनेषु किञ्चिद्गोप्यं वयस्येषु सुतेषु किञ्चित् । युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ॥ १०९ ॥ तच्छ्रुत्वा पिङ्गलकश्चिन्तयामास- योग्योऽयं दृश्यते । तत्कथयाम्येतस्याग्र आत्मनोऽभिप्रायम् । उक्तञ्च - स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलत्रे । सुहृदि निरन्तरचित्ते निवेद्य दुःखं सुखी भवति ॥ ११० ॥ भो दमनक शृणोषि शब्दं दूरान्महान्तम् । सोऽब्रवीत्- स्वामिन् शृणोमि । तत्किम् । पिङ्गलक आह - भद्र अहमस्माद्वनाद्गन्तुमिच्छामि । दमनक आह - कस्मात् ।पिङ्गलक आह - यतोऽद्यास्मद्वने किमप्यपूर्वं सत्त्वं प्रविष्टं यस्यायं महाशब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यमिति । दमनक आह - यच्छब्दमात्रादपि भयमुपगतः स्वामी तदप्ययुक्तम् । उक्तञ्च - अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः । पैशुन्याद्भिद्यते स्नेहो भिद्यते वाग्भिरातुरः ॥ १११॥ तन्न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुं यतो भेरीवेणु- वीनामृदङ्गतालपटहशङ्खकाहलादिभेदेन शब्दा अनेकविधा भवन्ति । तन्न केवलाच्छब्दमात्रादपि भेतव्यम् । उक्तञ्च - अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते । धैर्यं यस्य महीनाथो न स याति पराभवम् ॥ ११२॥ दर्शितभयेऽपि धातरि धैर्यध्वंसो भवेन्न धीराणाम् । शोषितसरसि निदाघे नितरामेवोद्धतः सिन्धुः ॥ ११३॥ तथा च - यस्य न विपदि विषादः संपदि हर्षो रणे न भीरुत्वम् । तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ ११४॥ तथा च - शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः । जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ११५॥ अपि च - अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति । जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥ ११६॥ तदेवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द- मात्राद्भेतव्यम् । अपि च - पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा । अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥ ११७॥ पिङ्गलक आह - कथमेतत् । सोऽब्रवीत् -
कथा २ शृगालदुन्दुभिकथा । कश्चिद्गोमायुर्नाम शृगालः क्षुत्क्षामकण्ठ इतस्ततः परिभ्रमन्वने सैन्यद्वयसंग्रामभूमिमपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायुवशाद्वल्लीशाखाग्रैर्हन्यमानस्य शब्दमशृणोत् । अथ क्षुभितहृदयश्चिन्तयामास अहो विनष्टोऽस्मि । तद्यावन्नास्य प्रोच्चारितशब्दस्य दृष्टिगोचरे गच्छामि तावदन्यतो व्रजामि । अथवा नैतद्युज्यते सहसैव । भये वा यदि वा हर्षे संप्राप्ते यो विमर्शयेत् । कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् ॥ ११८॥ तत्तावज्जानामि कस्यायं शब्दः । धैर्यमालम्ब्य विमर्शयन्- यावन्मन्दं मन्दं गच्छति तावद्दुन्दुभिमपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयमेव कौतुकादताडयत् । भूयश्च हर्षादचिन्तयत् - अहो चिरादेतदस्माकं महद्भोजनमापतितम् । तन्नूनं मांसमेदोऽसृग्भिः परिपूरितं भविष्यति । ततः परुषचर्मावगुण्ठितं तत्कथमपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्टमना मध्ये प्रविष्टः । परं चर्मविदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस्तद्दारुशेष- मवलोक्य श्लोकमेनमपठत् पूर्वमेव मया ज्ञातम् इति । अतो न शब्दमात्राद्भेतव्यम् । पिङ्गलक आह- भोः पश्यायं मम सर्वोऽपि परिग्रहो भयव्याकुलितमनाः पलायितुमिच्छति । तत्कथमहं धैर्यादवष्टम्भं करोमि । सोऽब्रवीत्- स्वामिन्नैषामेष दोषः । यतः स्वामिसदृशा एव भवन्ति भृत्याः । उक्तञ्च - अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च । पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥ ११९ ॥ तत्पौरुषावष्टम्भं कृत्वा त्वं तावदत्रैव प्रतिपालय यावदहमेतच्छब्दस्वरूपं ज्ञात्वा आगच्छामि । ततःपश्चाद् यथोचितं कार्यमिति । पिङ्गलक आह - किं तत्र भवान् गन्तुमुत्सहते । स आह- किं स्वाम्यादेशात्सद्भृत्यस्य कृत्याकृत्यमस्ति । उक्तञ्च - स्वाम्यादेशात्सुभृत्यस्य न भीः सञ्जायते क्वचित् । प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम् ॥ १२०॥ तथा च - स्वाम्यादिष्टस्तु यो भृत्यः समं विषममेव च । मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता ॥ १२१॥ पिङ्गलक आह - भद्रं यद्येवं तद्गच्छ । शिवास्ते पन्थानः सन्त्विति । दमनकोऽपि तं प्रणम्य संजीवकशब्दानुसारी प्रतस्थे । अथ दमनके गते भयव्याकुलमनाः पिङ्गलकश्चिन्तयामास - अहो न शोभनं कृतं मया । यत्तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद् दमनकोऽयमुभयवेतनो भूत्वा ममोपरि दुष्टबुद्धिः स्याद्भ्रष्टाधिकारत्वात् । उक्तञ्च - ये भवन्ति महीपस्य सम्मानितविमानिताः । यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥ १२२॥ तत्तावदस्य चिकीर्षितं वेत्तुमन्यत्स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिच्छति । उक्तञ्च - न बध्यन्ते ह्यविश्वस्ता बलिभिर्दुर्बला अपि । विश्वस्तास्त्वेव बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥ १२३॥ बृहस्पतेरपि प्राज्ञो न विश्वासं व्रजेन्नरः । य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥ १२४॥ शपथैः सन्धितस्यापि न विश्वासे व्रजेद्रिपोः । राज्यलोभाद्यतो वृत्रः शक्रेण शपथैर्हतः ॥ १२५॥ न विश्वासं विना शत्रुर्देवानामपि सिध्यति । विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥ १२६॥ एवं संप्रधार्य स्थानान्तरं गत्वा दमनकमार्गमवलोक- यन्नेकाकी तस्थौ । दमनकोऽपि संजीवकसकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्टमना व्यचिन्तयत् - अहो शोभनमापतितम् । अनेनैतस्य सन्धिविग्रहद्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तञ्च - न कौलीनान्न सौहार्दान्नृपो वाक्ये प्रवर्तते । मन्त्रिणां यावदभ्येति व्यसनं शोकमेव च ॥ १२७॥ सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् । अत एव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम् ॥ १२८॥ यथा नेच्छति नीरोगः कदाचित्सुचिकित्सकम् । तथापद्रहितो राजा सचिवं नाभिवाञ्छति ॥ १२९॥ एवं विचिन्तयन्पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलकोऽपि तमायान्तं प्रेक्ष्य स्वाकारं रक्षन्यथापूर्वस्थितः । दमनकोऽपि पिङ्गलकसकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह- किं दृष्टं भवता तत्सत्त्वम् ।दमनक आह- दृष्टं स्वामिप्रसादात् । पिङ्गलक आह- अपि सत्यम् । दमनक आह- किं स्वामिपादानामग्रेऽसत्यं विज्ञाप्यते । उक्तञ्च - अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् । देवानां च विनश्येत स द्रुतं सुमहानपि ॥ १३०॥ तथा च - सर्वदेवमयो राजा मनुना संप्रकीर्तितः । तस्मात्तं देववत्पश्येन्न व्यलीकेन कर्हिचित् ॥ १३१॥ सर्वदेवमयस्यापि विशेषो नृपतेरयम् । शुभाशुभफलं सद्यो नृपाद्देवाद्भवान्तरे ॥ १३२॥ पिङ्गलक आह - सत्यं दृष्टं भविष्यति भवता । न दीनोपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः - तृणानि नोन्मूलयति प्रभञ्जनो मृदूनि नीचैः प्रणतानि सर्वतः । स्वभाव एवोन्नतचेतसामयं महान्महत्स्वेव करोति विक्रमम् ॥ १३३॥ अपि च - गण्डस्थलेषु मदवारिषु बद्धराग- मत्तभ्रमद्भ्रमरपादतलाहतोऽपि । कोपं न गच्छति नितान्तबलोऽपि नाग- स्तुल्ये बले तु बलवान्परिकोपमेति ॥ १३४॥ दमनक आह - अस्त्वेवं स महात्मा वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि । पिङ्गलक आह सोच्छ्वासम् - किं भवाञ्छक्नोत्येवं कर्तुम् । दमनक आह - किमसाध्यं बुद्धेरस्ति । उक्तञ्च - न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न पदातिभिः । कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥ १३५॥ पिङ्गलक आह - यद्येवं तर्ह्यमात्यपदेऽध्यारोपितस्त्वम् । अद्यप्रभृति प्रसादनिग्रहादिकं त्वयैव कार्यमिति निश्चयः ऽथ दमनकः सत्वरं गत्वा साक्षेपं तमिदमाह - एह्येहीतो दुष्टवृषभ । स्वामी पिङ्गलकस्त्वामाकारयति । किं निःशङ्को भूत्वा मुहुर्मुहुर्नदसि वृथा इति। तच्छ्रुत्वा संजीवकोऽब्रवीत् - भद्र कोऽयं पिङ्गलकः । दमनक आह - किं स्वामिनं पिङ्गलकमपि न जानासि । तत्क्षणं प्रतिपालय । फलेनैव ज्ञास्यसि । नन्वयं सर्वमृगपरिवृतो वटतले स्वामी पिङ्गलकनामा सिंहस्तिष्ठति । तच्छ्रुत्वा गतायुषमिवात्मानं मन्यमानः संजीवकः परं विषादमगमत् । आह च - भद्र भवान्साधुसमाचारो वचनपटुश्च दृश्यते । तद्यदि मामवश्यं तत्र नयसि तदभयप्रदानेन स्वामिनः सकाशात् प्रसादः कारयितव्यः । दमनक आह - भोः सत्यमभिहितं भवता । नीतिरेषा यतः - पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि । न कथञ्चिन्महीपस्य चित्तान्तः केनचित्क्वचित् ॥ १३६॥ तत्त्वमत्रैव तिष्ठ यावदहं तं समये दृष्ट्वा ततः पश्चात्त्वामनयामि इति । तथानुष्ठिते दमनकः पिङ्गलक- सकाशं गत्वेदमाह - स्वामिन् न तत्प्राकृतं सत्त्वम्। स हि भगवतो महेश्वरस्य वाहनभूतो वृषभ इति । मया पृष्ट इदमूचे । महेश्वरेण परितुष्टेन कालिन्दीपरिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनमिदम् । पिङ्गलक आह सभयम् - सत्यं ज्ञातं मयाधुना । न देवताप्रसादं विना शष्पभोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्कं नन्दन्तो भ्रमन्ति । ततस्त्वया किमभिहितम् । दमनक आह-स्वामिन् एतदभिहितं मया यदेतद्वनं चण्डिकावाहनभूतस्य पिङ्गलकस्य विषयीभूतम् । तद्भवान् अभ्यागतः प्रियोऽतिथिः । तत्तस्य सकाशं गत्वा भ्रातृस्नेहेनैकत्र भक्षणपानविहरणक्रियाभिरेकस्थानाश्रयेण कालो नेयः इति । ततस्तेनापि सर्वमेतत्प्रतिपन्नम् । उक्तञ्च सहर्षं स्वामिनः सकाशादभयदक्षिणा दापयितव्या इति । तदत्र स्वामी प्रमाणम्। तच्छ्रुत्वा पिङ्गलक आह - साधु सुमते साधु । मन्त्रिश्रोत्रिय साधु । मम हृदयेन सह संमन्त्र्य भवतेदमभिहितम् । तद्दत्ता मया तस्याभयदक्षिणा । परं सोऽपि मदर्थे- ऽभयदक्षिणां याचयित्वा द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते - अन्तःसारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः । मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥ १३७॥ तथा च - मन्त्रिणां भिन्नसन्धाने भिषजां सान्निपातिके । कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥ १३८॥ दमनकोऽपि तं प्रणम्य संजीवकसकाश प्रस्थितः सहर्ष- मचिन्तयत् - अहो प्रसादसंमुखो नः स्वामी वचनवशगश्च संवृत्तः । तन्नास्ति धन्यतरो मम । उक्तञ्च - अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम् । अमृतं राजसंमानममृतं क्षीरभोजनम् ॥ १३९॥ अथ संजीवकसकाशमासाद्य सप्रश्रयमुवाच - भो मित्र प्रार्थितोऽसौ मया भवदर्थे स्वाम्यभयप्रदानम् । तद्विश्रब्धं गम्यताम् इति । परं त्वया राजप्रसादमासाद्य मया सह समयधर्मेण वर्तितव्यम् । न गर्वमासाद्य स्वप्रभुतया विचरणीयम् । अहमपि तव सङ्केतेन सर्वां राज्यधुरममात्यपदवीमाश्रित्योद्धरिष्यामि । एवं कृते द्वयोरप्यावयो राजलक्ष्मीर्भोग्या भविष्यति । यतः - आखेटकस्य धर्मेण विभवाः स्युर्वशे नृणाम् । नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥ १४० ॥ तथा च - यो न पूजयते गर्वादुत्तमाधममध्यमान् । नृपासन्नात्स मान्योऽपि भ्रश्यते दन्तिलो यथा ॥ १४१ ॥ संजीवक आह - कथम् एतत् । सोऽब्रवीत् -
कथा ३ दन्तिलगोरम्भकथा । अस्त्यत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नानाभाण्डपतिः सकलपुरनायकः प्रतिवसति स्म । तेन पुरकार्यं नृपकार्यं च कुर्वता तुष्टिं नीतास्तत्पुरवासिनो लोका नृपतिश्च । किं बहुना न कोऽपि तादृक्केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यमेतदुक्तम् - नरपतिहितकर्ता द्वेष्यतां याति लोके जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रैः । इति महति विरोधे वर्तमाने समाने नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥ १४२॥ अथैवं गच्छति काले दन्तिलस्य कदाचिद्विवाहः संप्रवृत्तः । तत्र तेन सर्वे पुरनिवासिनो राजसंनिधिलोकाश्च सम्मानपुरः- सरमामन्त्र्य भोजिता वस्त्रादिभिः सत्कृताश्च । ततो विवाहानन्तरं राजा सान्तःपुरः स्वगृहमानीयाभ्यर्चितः । अथ तस्य नृपतेर्गृहसम्मार्जनकर्ता गोरम्भो नाम राजसेवको गृहायातोऽपि तेनानुचितस्थान उपविष्टोऽवज्ञयार्धचन्द्रं दत्त्वा निःसारितः । सोऽपि ततः प्रभृति निश्वसन्नपमानान्न रात्रावप्यधिशेते । कथं मया तस्य भाण्डपते राजप्रसादहानिः कर्तव्या इति चिन्तयन्नास्ते । अथवा किमनेन वृथा शरीरशोषणेन । न किंचिन्मया तस्यापकर्तुं शक्यमिति । अथवा साध्विदमुच्यते - यो ह्यपकर्तुमशक्तः कुप्यति किमसौ नरोऽत्र निर्लज्जः । उत्पतितोऽपि हि चणकः शक्तः किं भ्राष्ट्रकं भङ्क्तुम् ॥ १४३॥ अथ कदाचित्प्रत्यूषे योगनिद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्निदमाह - अहो दन्तिलस्य महद्दृप्तत्वं यद्राजमहिषीमालिङ्गति । तच्छ्रुत्वा राजा ससम्भ्रममुत्थाय तमुवाच - भो भो गोरम्भ । सत्यमेतद्यत्त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति । गोरम्भः प्राह - देव रात्रिजागरणेन द्यूतासक्तस्य मे बलान्निद्रा समायाता । तन्न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्वगतमेष तावदस्मद्गृहे- ऽप्रतिहतगतिस्तथा दन्तिलोऽपि । तत्कदाचिदनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदमभिहितम् । उक्तञ्च - यद्वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा । तत् स्वप्नेऽपि तदभ्यासाद्ब्रूते वाथ करोति वा ॥ १४४॥ तथा च - शुभं वा यदि व पापं यन्नृणां हृदि संस्थितम् । सुगूढमपि तज्ज्ञेयं स्वप्नवाक्यात्तथा मदात् ॥ १४५॥ अथवा स्त्रीणां विषये कोऽत्र सन्देहः । जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः । हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ १४६॥ अन्यच्च - एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरम् । वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः । दूरोदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया । केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वामभ्रुवाम् ॥ १४७॥ तथा च - नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥ १४८॥ रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥ १४९॥ यो मोहान्मन्यते मूढो रक्तेयं मम कामिनी । स तस्या वशगो नित्यं भवेत्क्रीडाशकुन्तवत् ॥ १५०॥ तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्यपि । करोति स कृतैर्लोके लघुत्वं याति सर्वतः ॥ १५१॥ स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति । ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥ १५२॥ अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥ १५३॥ नासां कश्चिदगम्योऽस्ति नासां च वयसि स्थितिः । विरूपं रूपवन्तं वा पुमानित्येव भुज्यते ॥ १५४॥ रक्तो हि जायते भोग्यो नारीणां शाटिका यथा । घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः ॥ १५५॥ अलक्तको यथा रक्तो निष्पीड्य पुरुषस्तथा । अबलाभिर्बलाद्रक्तः पादमूले निपात्यते ॥ १५६॥ एवं स राजा बहुविधं विलप्य ततः प्रभृति दन्तिलस्य प्रसाद- पराङ्मुखः संजातः । किं बहुना राजद्वारप्रवेशोऽपि तस्य निवारितः । दन्तिलोऽप्यकस्मादेव प्रसादपराङ्मुखमवनिपति- मवलोक्य चिन्तयामास - अहो साधु चेदमुच्यते - कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः । स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवम् । को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥ १५७॥ तथा च - काके शौचं द्यूतकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ १५८॥ अपरं मयास्य भूपतेरथवान्यस्यापि कस्यचिद्राजसम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत्किमेतत्पराङ्मुखो मां प्रति भूपतिरिति । एवं तं दन्तिलं कदाचिद्राजद्वारे विष्कम्भितं विलोक्य संमार्जनकर्ता गोरम्भो विहस्य द्वारपालानिदमूचे - भो भो द्वारपालाः राजप्रसादाधिष्ठितोऽयं दन्तिलः स्वयं निग्रहानुग्रहकर्ता च । तदनेन निवारितेन यथाहं तथा यूयमप्यर्धचन्द्रभाजिनो भविष्यथ । तच्छ्रुत्वा दन्तिलश्चिन्तयामास - नूनमिदमस्य गोरम्भस्य चेष्टितम् । अथवा साध्विदमुच्यते - अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते । अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥ १५९॥ अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः । तथापि न पराभूतिं जनादाप्नोति मानवः ॥ १६०॥ एवं स बहुविधं विलप्य विलक्षमनाः सोद्वेगो गतप्रभावः स्वगृहं निशामुखे गोरम्भमाहूय वस्त्रयुगलेन संमान्येदमुवाच - भद्र मया न तदा त्वं रागवशान्निः- सारितः । यतस्त्वं ब्राह्मणानामग्रतोऽनुचितस्थाने समुपविष्टो दृष्ट इत्यपमानितः । तत्क्षम्यताम् । सोऽपि स्वर्गराज्योपमं तद्वस्त्रयुगलमासाद्य परं परितोषं गत्वा तमुवाच - भोः श्रेष्ठिन् क्षान्तं मया ते तत् । तदस्य संमानस्य कृते पश्य मे बुद्धिप्रभावं राजप्रसादं च । एवमुक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदमुच्यते - स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो ससदृशा चेष्टा तुलायष्टेः खलस्य च ॥ १६१॥ ततश्चान्येद्युः स गोरम्भो राजकुलं गत्वा योगनिद्रां गतस्य भूपतेः संमार्जनक्रियां कुर्वन्निदमाह - अहो अविवेकोऽस्मद्- भूपतेः । यत् पुरीषोत्सर्गमाचरंश्चर्भटीभक्षणं करोति । तच्छ्रुत्वा राजा सविस्मयं तमुवाच - रे रे गोरम्भ किमप्रस्तुतं लपसि । गृहकर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिदहमेवंविधं कर्म समाचरन्दृष्टः । सोऽब्रवीत् - द्यूतासक्तस्य रात्रिजागरणेन संमार्जनं कुर्वाणस्य मम बलान्निद्रा समायाता । तयाधिष्ठितेन मया किंचिज्जल्पितम् । तन्न वेद्मि । तत्प्रसादं करोतु स्वामी निद्रापरवशस्य इति । एवं श्रुत्वा राजा चिन्तितवान् - यन्मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद्यथायं व्यतिकरोऽसम्भाव्यो ममानेन मूढेन व्याहृतःस्तथा दन्तिलस्यापीति निश्चयः । तन्मया न युक्तं कृतं यत्स वराकः संमानेन वियोजितः । न तादृक्पुरुषाणामेवंविधं चेष्टितं सम्भाव्यते । तदभावेन राजकृत्यानि पौरकृत्यानि सर्वाणि शिथिलतां व्रजन्ति । एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्गवस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि यो न पूजयते गर्वादिति । संजीवक आह - भद्र एवमेवैतत् । यद्भवताभिहितं तदेव मया कर्तव्यमिति । एवमभिहिते दमनकस्तमादाय पिङ्गलकसकाश- मगमत् । आह च - देव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः । पिङ्गलकोऽपि तस्य पीनायतककुद्मतो नखकुलिशालंकृतं दक्षिणपाणिमुपरि दत्त्वा मानपुरःसरमुवाच अपि शिवं भवतः । कुतस्त्वमस्मिन्वने विजने समायातोऽसि ।तेनाप्यात्मवृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस्तथा सर्वं निवेदितम् । तच्छ्रुत्वा पिङ्गलकः सादरतरं तमुवाच - वयस्य न भेतव्यम् । मद्भुजपञ्जरपरिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच्च नित्यं मत्समीपवर्तिना भाव्यम् । यतः कारणाद्बह्वपायं रौद्रसत्त्वनिषेवितं वनं गुरूणामपि सत्त्वानामसेव्यं कुतः शष्पभोजिनाम् । एवमुक्त्वा सकलमृगपरिवृतो यमुनाकच्छ- मवतीर्योदकग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः । ततश्च करकटदमनकनिक्षिप्तराज्यभारः संजीविकेन सह सुभाषितगोष्ठीमनुभवन्नास्ते । अथवा साध्विदमुच्यते - यदृच्छयाप्युपनतं सकृत्सज्जनसङ्गतम् । भवत्यजरमत्यन्तं नाभ्यासक्रममीक्षते ॥ १६२॥ संजीवकेनाप्यनेकशास्त्रावगाहनादुत्पन्नबुद्धिप्रागल्भ्येन स्तोकैरेवाहोभिर्मूढमतिः पिङ्गलको धीमांस्तथा कृतो यथा- ऽरण्यधर्माद्वियोज्य ग्राम्यधर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलकसंजीवकावेव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृगजनो दूरीभूतस्तिष्ठति । करटकदमनकावपि प्रवेशं न लभेते । अन्यच्च सिंहपराक्रमाभावात्सर्वोऽपि मृगजनस्तौ च शृगालौ क्षुधाव्याधिबाधिता एकां दिशमाश्रित्य स्थिताः । उक्तञ्च - फलहीनं नृपं भृत्याः कुलीनमपि चोन्नतम् । सन्त्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः ॥ १६३॥ तथा च - अपि संमानसंयुक्ताः कुलीना भक्तितत्पराः । वृत्तिभङ्गान्महीपालं त्यजन्त्येव हि सेवकाः ॥ १६४॥ अन्यच्च - कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः । कदाचित्तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥ १६५॥ तथा च केवलं सेवका इत्थंभूता यावत्समस्तमप्येतज्जगत्- परस्परं भक्षणार्थं सामादिभिरुपायैस्तिष्ठति । तद्यथा - देशानामुपरि क्ष्माभृदातुराणां चिकित्सकाः । वणिजो ग्राहकाणां च मूर्खाणामपि पण्डिताः ॥ १६६॥ प्रमादिनां तथा चौरा भिक्षुका गृहमेधिनाम् । गणिकाः कामिनां चैव सर्वलोकस्य शिल्पिनः ॥ १६७॥ सामादिसज्जितैः पाशैः प्रतीक्षन्ते दिवानिशम् । उपजीवन्ति शक्त्या हि जलजा जलदानिव ॥ १६८॥ अथवा साध्विदमुच्यते - सर्पाणां च खलानां च परद्रव्यापहारिणाम् । अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥ १६९॥ अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्तः फणी । तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाशनम् । इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे । तत्रान्यस्य कथं न भावि जगतो यस्मात्स्वरूपं हि तत् ॥ १७०॥ ततः स्वामिप्रसादरहितौ क्षुत्क्षामकण्ठौ परस्परं करटक- दमनकौ मन्त्रयेते । तत्र दमनको ब्रूते - आर्य करटक । आवां तावदप्रधानतां गतौ । एष पिङ्गलकः संजीवका- नुरक्तः स्वव्यापारपराङ्मुखः संजातः । सर्वोऽपि परिजनो गतः । तत्किं क्रियते । करटक आह - यद्यपि त्वदीयवचनं न करोति तथापि स्वामी स्वदोषनाशाय वाच्यः । उक्तञ्च - अशृण्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः । यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥ १७१॥ तथा च - मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः । उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः ॥ १७२॥ तत् त्वयैष शष्पभोजी स्वामिनः सकाशमानीतः । तत्स्वहस्तेनाङ्गाराः कर्षिताः । दमनक आह - सत्यमेतत् । ममायं दोषो न स्वामिनः । उक्तञ्च - जम्बूको हुडुयुद्धेन वयं चाषाढभूतिना । दूतिका परकार्येण त्रयो दोषाः स्वयं कृताः ॥ १७३॥ करटक आह - कथमेतत् । सोऽब्रवीत् -
कथा ४ देवशर्मपरिव्राजककथा । अस्ति कस्मिंश्चिद्विविक्तप्रदेशे मठायतनम् । तत्र देवशर्मा नाम परिव्राजकः प्रतिवसति स्म । तस्यानेकसाधुजनदत्तसूक्ष्मवस्त्र- विक्रयवशात्कालेन महती वित्तमात्रा सञ्जाता । ततः स न कस्यचिद्विश्वसिति । नक्तं दिनं कक्षान्तरात्तां मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते - अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥ १७४॥ अथाऽषाढभूतिर्नाम परवित्तापहारी धूर्तस्तामर्थमात्रां तस्य कक्षान्तरगतां लक्षयित्वा व्यचिन्तयत् - कथं मयास्येयमर्थमात्रा हर्तव्या इति । तदत्र मठे तावद्दृढशिला- सञ्चयवशाद्भित्तिभेदो न भवति । उच्चैस्तरत्वाच्च द्वारे प्रवेशो न स्यात् । तदेनं मायावचनैर्विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद्विश्वासमेति । उक्तञ्च - निस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः । नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चकः ॥ १७५॥ एवं निश्चित्य तस्यान्तिकमुपगम्य ॐ नमः शिवायेति प्रोच्चार्य साष्टाङ्गं प्रणम्य च सप्रश्रयमुवाच - भगवन्नसारः संसारोऽयम् । गिरिनदीवेगोपमं यौवनम् । तृणाग्निसमं जीवितम् । शरदभ्रच्छायासदृशा भोगाः । स्वप्नसदृशो मित्रपुत्र- कलत्रभृत्यवर्गसम्बन्धः । एवं मया सम्यक्परिज्ञातम् । तत्किं कुर्वतो मे संसारसमुद्रोत्तरणं भविष्यति । तच्छ्रुत्वा देवशर्मा सादरमाह - वत्स धन्योऽसि यत्प्रथमे वयस्येवं विरक्तीभावः । उक्तञ्च - पूर्वे वयसि यः शान्तः स शान्त इति मे मतिः । धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥ १७६॥ आदौ चित्ते ततः काये सतां संजायते जरा । असतां च पुनः काये नैव चित्ते कदाचन ॥ १७७॥ यच्च मां संसारसागरोत्तरणोपायं पृच्छसि । तच्छ्रूयताम् - शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः । दीक्षितः शिवमन्त्रेण स भस्माङ्गी शिवो भवेत् ॥ १७८॥ षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् । लिङ्गस्य मूर्ध्नि यो दद्यान्न स भूयोऽभिजायते ॥ १७९॥ तच्छ्रुत्वाऽषाढभूतिस्तत्पादौ गृहीत्वा सप्रश्रयमिदमाह- भगवन् तर्हि दीक्षया मेऽनुग्रहं कुरु । देवशर्मा आह - वत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठमध्ये न प्रवेष्टव्यम् । यत्कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तञ्च - दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनात् । विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् । मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रयात् । स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् ॥ १८०॥ तत्त्वया व्रतग्रहणानन्तरं मठद्वारे तृणकुटीरके शयितव्यमिति । स आह - भगवन् भवदादेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् । अथ कृतशयनसमयं देवशर्मनिग्रहं कृत्वा शास्त्रोक्तविधिना शिष्यतामनयत् । सोऽपि हस्तपादावमर्दनादि- परिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति । अथैवं गच्छति काल आषाढभूतिश्चिन्तयामास - अहो न कथंचिदेष मे विश्वासमागच्छति । तत्किं दिवापि शस्त्रेण मारयामि किं वा विषं प्रयच्छामि । किं वा पशुधर्मेण व्यापादयामीति । एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्यपुत्रः कश्चिद्ग्रामाद्- आमन्त्रणार्थं समायातः। प्राह च - भगवन् पवित्रारोपण- कृते मम गृहमागम्यतामिति । तच्छ्रुत्वा देवशर्मा। अषाढभूतिना सह प्रहृष्टमनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन्नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्थामध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमाषाढभूतिमिदमाह - भो आषाढभूते यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि तावदेषा कन्था योगेश्वरस्य सावधानतया रक्षणीया । इत्युक्त्वा गतः । आषाढभूतिरपि तस्मिन्नदर्शनीभूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्माऽपि छात्रगुणानु- रञ्जितमनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति तावत्सुवर्णरोम- देहयूथमध्ये हुडुयुद्धमपश्यत् । अथ रोषवशाद्धुडु- युगलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य ललाटपट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वालौल्येन रङ्गभूमिं प्रवेश्यास्वादयति । देवशर्माऽपि तदालोक्य व्यचिन्तयत् - अहो मन्दमतिरयं जम्बूकः । यदि कथमप्यनयोः सङ्घट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्कयामि । क्षणान्तरे च तथैव रक्तास्वादनलौल्यान्मध्ये प्रविशंस्तयोः शिरःसम्पाते पतितो मृतश्च शृगालः । देवशर्माऽपि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत्कन्थामालोकयति तावन्मात्रां न पश्यति । ततश्च हा हा मुषितोऽस्मीति जल्पन्पृथिवीतले मूर्च्छया निपपात । ततः क्षणाच्चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्कर्तुमारब्धः - भो आषाढभूते क्व मां वञ्चयित्वा गतोऽसि । तद्देहि मे प्रतिवचनम् । एवं बहु विलप्य तस्य पदपद्धति- मन्वेषयन्शनैः शनैः प्रस्थितः । अथैव गच्छन्सायन्तनसमये कञ्चिद्ग्राममाससाद । अथ तस्माद्ग्रामात्कश्चित्कौलिकः सभार्यो मद्यपानकृते समीपवर्तिनि नगरे प्रस्थितः । देवशर्माऽपि तमालोक्य प्रोवाच - भो भद्र वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः । न कमप्यत्र ग्रामे जानीमः । तद्गृह्यतामतिथिधर्मः । उक्तञ्च - सम्प्राप्तो योऽतिथिः सायं सूर्योढे गृहमेधिनाम् । पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥ १८१॥ तथा च - तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥ १८२॥ स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः । पादशौचेन पितरोऽर्घाच्छम्भुस्तथातिथेः ॥ १८३॥ कौलिकोऽपि तच्छ्रुत्वा भार्यामाह - प्रिये गच्छ त्वमतिथिमादाय गृहं प्रति पादशौचभोजनशयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूतमद्यमानेष्यामि । एवमुक्त्वा प्रस्थितः । साऽपि भार्या पुंश्चली तमादाय प्रहसितवदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते - दुर्दिवसे घनतिमिरे दुःसंचारासु नगरवीथीषु । पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥ १८४॥ तथा च - पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् । तृणमिव लघु मन्यन्ते कामिन्यश्चौर्यरतलुब्धाः ॥ १८५॥ तथा च - केलिं प्रदहति लज्जा शृङ्गारोऽस्थीनि चाटवः कटवः । वन्धत्रयाः परितोषो न किंचिदिष्टं भवेत्पत्यौ ॥ १८६॥ कुलपतनं जनगर्हां बन्धनमपि जीवितव्यसन्देहम् । अङ्गीकरोति कुलटा सततं परपुरुषसंसक्ता ॥ १८७॥ अथ कौलिकभार्या गृहं गत्वा देवशर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदमाह - भो भगवन् यावदहं स्वसखीं ग्रामादभ्यागतां सम्भाव्य द्रुतमागच्छामि तावत्त्वया मद्गृहेऽप्रमत्तेन भाव्यम् । एवमभिधाय शृङ्गारविधिं विधाय यावद्देवदत्तमुद्दिश्य व्रजति तावत्तद्भर्ता संमुखो मदविह्वलाङ्गो मुक्तकेशः पदे पदे प्रस्खलन्गृहीतमद्यभाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्वगृहं प्रविश्य मुक्तशृङ्गारवेशा यथापूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुतशृङ्गारां विलोक्य प्रागेव कर्णपरम्परया तस्याः श्रुतावपवादक्षुभितहृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश्च तथाविधं चेष्टितमवलोक्य दृष्टप्रत्ययः क्रोधवशगो गृहं प्रविश्य तामुवाच - आः पापे पुंश्चलि क्व प्रस्थितासि ।सा प्रोवाच - अहं त्वत्सकाशादागता न कुत्रचिदपि निर्गता । तत्कथं मद्यपान- वशादप्रस्तुतं वदसि । अथवा साध्विदमुच्यते - वैकल्यं धरणीपातमयथोचितजल्पनम् । संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥ १८८॥ करस्पन्दोऽम्बरत्यागस्तेजोहानिः सरागता । वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ॥ १८९॥ सोऽपि तच्छ्रुत्वा प्रतिकूलवचनं वेशविपर्ययं चावलोक्य तमाह - पुंश्चलि चिरकालं श्रुतो मया तवापवादः । तदद्य स्वयं सञ्जातप्रत्ययस्तव यथोचितं निग्रहं करोमि । इत्यभिधाय लगुडप्रहारैस्तां जर्जरितदेहां विधाय स्थूणया सह दृढबन्धनेन बद्ध्वा सोऽपि मदविह्वलो निद्रावशमगमत् । एतस्मिन्नन्तरे तस्याः सखी नापिती कौलिकं निद्रावशं विज्ञाय तां गत्वेदमाह - सखि स देवदत्तस्तस्मिन्स्थाने त्वां प्रतीक्षते । तच्छीघ्रमागम्यतामिति । सा चाह - पश्य ममावस्थाम् । तत्कथं गच्छामि । तद्गत्वा ब्रूहि तं कामिनं यदस्यां रात्रौ न त्वया सह समागमः । नापिती प्राह - सखि, मा मैवं वद । नायं कुलटाधर्मः । उक्तञ्च - विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् । उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥ १९०॥ तथा च - सन्दिग्धे परलोके जनापवादे च जगति बहुचित्रे । स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः ॥ १९१॥ अन्यच्च - यदि भवति दैवयोगात्पुमान्विरूपोऽपि बन्धको रहसि । न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव ॥ १९२॥ साऽब्रवीत् - यद्येवं तर्हि कथय कथं दृढबन्धनबद्धा सती तत्र गच्छामि । सन्निहितश्चायं पापात्मा मत्पतिः । नापित्याह - सखि मदविह्वलोऽयं सूर्यकरस्पृष्टः प्रबोधं यास्यति । तदहं त्वमुन्मोचयामि । मामात्मस्थाने बद्ध्वा द्रुततरं देवदत्तं सम्भाव्यागच्छ । साऽब्रवीदेवमस्त्विति । तदनु सा नापिती तां स्वसखीं बन्धनाद्विमोच्य तस्याः स्थाने यथापूर्वमात्मानं बद्ध्वा तां देवदत्तसकाशे सङ्केतस्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित्क्षणे समुत्थाय किंचिद्गतकोपो विमदस्तामाह - हे परुषवादिनि यदद्यप्रभृति गृहान्नि- ष्क्रमणं न करोषि न च परुषं वदसि ततस्त्वामुन्मोचयामि । नापित्यपि स्वरभेदभयाद्यावन्न किंचिदूचे तावत्सोऽपि भूयो भूयस्तां तदेवाह । अथ सा यावत्प्रत्युत्तरं किमपि न ददौ तावत्स प्रकुपितस्तीक्ष्णशस्त्रमादाय नासिकामच्छिनत् । आह च - रे पुंश्चलि तिष्ठेदानीम् । त्वां भूयस्तोषयिष्यामि । इति जल्पन् पुनरपि निद्रावशमगात् । देवशर्माऽपि वित्तनाशात्क्षुत्क्षाम- कण्ठो नष्टनिद्रस्तत्सर्वं स्त्रीचरित्रमपश्यत् । साऽपि कौलिकभार्या यथेच्छया देवदत्तेन सह सुरतसुखमनुभूय कस्मिंश्चित्क्षणे स्वगृहमागतय तां नापितीमिदमाह - अयि शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः । नापित्याह - शिवं नासिकया विना शेषस्य शरीरस्य । तद्द्रुतं मोचय बन्धनाद्यावन्नायं मां पश्यति येन स्वगृहं गच्छामि । तथानुष्ठिते भूयोऽपि कौलिक उत्थाय तामाह - पुंश्चलि किमद्यापि न वदसि ? किं भूयोऽप्यतो दुष्टतरं निग्रहं कर्णच्छेदेन करोमि । अथ सा सकोपं साधिक्षेप- मिदमाह - धिङ्महामूढ को मां महासतीं धर्षयितुं व्यङ्गयितुं वा समर्थः । तच्छृण्वन्तु सर्वेऽपि लोकपालाः । आदित्यचन्द्रहरिशंकरवासवाद्याः शक्ता न जेतुमतिदुःखकराणि यानि । तानीन्द्रियाणि बलवन्ति सुदुर्जयानि ये निर्जयन्ति भुवने बलिनस्त एके ॥ १९३॥ तद्यदि मम सतीत्वमस्ति मनसाऽपि परपुरुषो नाभिलषितः ततो देवा भूयोऽपि मे नासिकां तादृग्रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते परपुरुषस्य भ्रान्तिरपि भवति, मां भस्मसान्नयन्तु । एवमुक्त्वा भूयोऽपि तमाह - भो दुरात्मन् पश्य मे सतीत्वप्रभावेण तादृश्येव नासिका संवृत्ता । अथासावुल्मुकमादाय यावत्पश्यति तावत्तद्रूपां नासिकां च भूतले रक्तप्रवाहं च महान्तमपश्यत् । अथ स विस्मित- मनास्तां बन्धनाद्विमुच्य शय्यायामारोप्य च चाटुशतैः पर्यतोषयत् । देवशर्माऽ पि तं सर्ववृत्तान्तमालोक्य विस्मितमना इदमाह - शम्बरस्य च या माया या माया नमुचेरपि । बलेः कुम्भीनसश्चैव सर्वास्ता योषितो विदुः ॥ १९४॥ हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि । अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगतः ॥ १९५॥ उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः । स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥ १९६॥ अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् । इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥ १९७॥ अन्यत्राप्युक्तम् - नातिप्रसङ्गः प्रमदासु कार्यो नेच्छेद्बलं स्त्रीषु विवर्धमानम् । अतिप्रसक्तैः पुरुषैर्यतस्ताः क्रीडन्ति काकैरिव लूनपक्षैः ॥ १९८॥ सुमुखेन वदन्ति वल्गुना प्रहरन्त्येव शितेन चेतसा । मधु तिष्ठति वाचि योषितां हृदि हालहलं महद्विषम् ॥ १९९॥ अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते । पुरुषैः सुखलेशवञ्चितै- र्मधुलुब्धैः कमलं यथाऽलिभिः ॥ २००॥ अपि च - आवर्तः संशयानामविनयभवनं पत्तनं साहसानाम् । दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् । स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डम् । स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥ २०१॥ कार्कश्यं स्तनयोर्दृशोस्तरलताऽलीकं मुखे श्लाघ्यते । कौटिल्यं कचसंचये च वचने मान्द्यं त्रिके स्थूलता । भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये । यासां दोषगणो गुणो मृगदृशां ताः स्युर्नराणां प्रियाः ॥ २०२॥ एता हसन्ति च रुदन्ति च कार्यहेतो- र्विश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ॥ २०३॥ व्याकीर्णकेसरकरालमुखा मृगेन्द्रा नागाश्च भूरिमदराजिविराजमानाः । मेधाविनश्च पुरुषाः समरेषु शूराः स्त्रीसन्निधौ परमकापुरुषा भवन्ति ॥ २०४ ॥ कुर्वन्ति तावत्प्रथमं प्रियाणि यावन्न जानन्ति नरं प्रसक्तम् । ज्ञात्वा च तं मन्मथपाशबद्धं ग्रस्तामिषं मीनमिवोद्धरन्ति ॥ २०५॥ समुद्रवीचीव चलस्वभावाः सन्ध्याभ्ररेखेव मुहूर्तरागाः । स्त्रियः कृतार्थाः पुरुषं निरर्थं निष्पीडितालक्तकवत्त्यजन्ति ॥ २०६॥ अनृतं साहसं माया मूर्खत्वमतिलुब्धता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ २०७॥ सम्मोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सरलं हृदयं नराणां किं वा न वामनयना न समाचरन्ति ॥ २०८॥ अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः । गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥ २०९॥ एवं चिन्तयतस्तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्ननासिका स्वगृहं गत्वा चिन्तयामास - किमिदानीं कर्तव्यम् । कथमेत- न्महच्छिद्रं स्थगयितव्यम् । अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्यवशाद्राजकुले पर्युषितः प्रत्यूषे च स्वगृह- मभ्युपेत्य द्वारदेशस्थो विविधपौरकृत्योत्सुकतया तामाह - भद्रे शीघ्रमानीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि । सापि छिन्ननासिका गृहमध्यस्थितैव कार्यकरणा- पेक्षया क्षुरभाण्डात्क्षुरमेकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितोऽप्युत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन् तदभिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टोर्ध्वबाहू विधाय फुतकर्तुमना गृहान्निश्चक्राम । अहो पश्यत पापेनानेन मम सदाचारवर्तिन्याः नासिकाच्छेदो विहितः । तत्परित्रायतां परित्रायताम् । अत्रान्तरे राजपुरुषाः समभ्येत्य तं नापितं लगुडप्रहारैर्जर्जरीकृत्य दृढबन्धनै- र्बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरणस्थानं नीत्वा सभ्यानूचुः - शृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्रीरत्नमेतद्व्यङ्गितम् । तदस्य यद्युज्यते तत्क्रियताम् । इत्यभिहिते सभ्या ऊचुः - रे नापित किमर्थं त्वया भार्या व्यङ्गिता । किमनया परपुरुषोऽभिलषितः । उतस्वित्प्राण- द्रोहः कृतः किं वा चौर्यकर्माचरितम् । तत्कथ्यतामस्या- ऽपराधः । नापितोऽपि प्रहारपीडिततनुर्वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनरूचुः - अहो सत्यमेतद्राज- पुरुषाणां वचः । पापात्माऽयम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तञ्च - भिन्नस्वरमुखवर्णः शङ्कितदृष्टिः समुत्पतिततेजाः । भवति हि पापं कृत्वा स्वकर्मसन्त्रासितः पुरुषः ॥ २१०॥ तथा च - आयाति स्खलितैः पादैर्मुखवैवर्ण्यसंयुतः । ललाटस्वेदभाग्भूरिगद्गदं भाषते वचः ॥ २११॥ अधोदृष्टिर्वदेत्कृत्वा पापं प्राप्तः सभां नरः । तस्माद्यत्नात्परिज्ञेयाश्चिह्नैरेतैर्विचक्षणैः ॥ २१२॥ अन्यच्च - प्रसन्नवदनो दृष्टः स्पष्टवाक्यः सरोषदृक् । सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः ॥ २१३॥ तदेष दुष्टचरित्रलक्षणो दृश्यते । स्त्रीधर्षणाद्वध्य इति । तच्छूलीयामारोप्यतामिति । अथ वध्यस्थाने नीयमानं तमवलोक्य देवशर्मा तान्धर्माधिकृतान्गत्वा प्रोवाच - भो भो अन्यान्येनैष वराको वध्यते नापितः । साधुसमाचार एषः । तच्छ्रूयतां मे वाक्यं जम्बूको हुडुयुद्धेन इति ऽथ ते सभ्या ऊचुः - भो भगवन्कथमेतत् ।ततो देवशर्मा तेषां त्रयाणामपि वृत्तान्तं विस्तरेणाकथयत् । तदाकर्ण्य सुविस्मितमनसस्ते नापितं विमोच्य मिथः प्रोचुः - अहो अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः । येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥ २१४॥ तदस्या नासिकाच्छेदः स्वकर्मणा हि संवृत्तः । ततो राजनिग्रहस्तु कर्णच्छेदः कार्यः । तथानुष्ठिते देवशर्माऽपि वित्तनाश- समुद्भूतशोकरहितः पुनरपि स्वकीयं मठायतनं जगाम । अतोऽहं ब्रवीमि - जम्बूको हुडुयुद्धेनेति । करटक आह - एवंविधे व्यतिकरे किं कर्तव्यमावयोः । दमनकोऽब्रवीत् - एवंविधेऽपि समये मम बुद्धिस्फुरणं भविष्यति येन सञ्जीवकं प्रभोर्विश्लेषयिष्यामि । उक्तञ्च, यतः - एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता । प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि ॥ २१५॥ तदहं मायाप्रपञ्चेन गुप्तमाश्रित्य तं स्फोटयिष्यामि । करटक आह - भद्र यदि कथमपि तव मायाप्रवेशं पिङ्गलको ज्ञास्यति सञ्जीवको वा तदा नूनं विघात एव । सोऽब्रवीत् - तात मैवं वद । गूढबुद्धिभिरापत्काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस्त्याज्यः । कदाचि घुणाक्षरन्यायेन बुद्धेः साम्राज्यं भवति । उक्तञ्च - त्याज्यं न धैर्यं विधुरेऽपि दैवे धैर्यात्कदाचित्स्थितिमाप्नुयात्सः । याते समुद्रेऽपि हि पोतभङ्गे सांयात्रिको वाञ्छति कर्म एव ॥ २१६॥ तथा च - उद्योगिनं सततमत्र समेति लक्ष्मी- र्दैवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ २१७॥ तदेवं ज्ञात्वा सुगूढबुद्धिप्रभावेण यथा तौ द्वावपि न ज्ञास्यतः तथा मिथो वियोजयिष्यामि । उक्तञ्च - सुप्रयुक्तस्य दम्भस्य ब्रह्माऽप्यन्तं न गच्छति । कौलिको विष्णुरूपेण राजकन्यां निषेवते ॥ २१८॥ करटक आह - कथमेतत् । सोऽब्रवीत् -
कथा ५ कौलिकरथकारकथा । कस्मिंश्चिदधिष्ठाने कौलिकरथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्प्रभृति सहचारिणौ परस्परमतीव स्नेहपरौ सदैक- स्थानविहारिणौ कालं नयतः । अथ कदाचित् तत्राधिष्ठाने कस्मिंश्चिद् देवायतने यात्रामहोत्सवः संवृत्तः । तत्र च नटनर्तकचारणसङ्कुले नानादेशागतजनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद्राजकन्यां करेणुकारूढां सर्वलक्षण- सनाथां कञ्चुकिवर्षधरपरिवारितां देवतादर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्टग्रहगृहीत इव कामशरैर्हन्यमानः सहसा भूतले निपपात । अथ तं तदवस्थमवलोक्य रथकारस्तद्- दुःखदुःखित आप्तपुरुषैस्तं समुत्क्षिप्य स्वगृहमानयत् । तत्र च विविधैः शीतोपचारैश्चिकित्सकोपदिष्टैर्मन्त्रवादिभि- रुपचर्यमाणैश्चिरात्कथंचित्सचेतनो बभूव ।ततो रथकारेण पृष्टः - भो मित्र किमेवं त्वमकस्माद्विचेतनः सञ्जातः । तत्कथ्यतामात्मस्वरूपम् । स आह - वयस्य यद्येवं तच्छृणु मे रहस्यं येन सर्वामात्मवेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः काष्ठप्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद्वा किञ्चित्प्रणयातिरेकादयुक्तं तव मयानुष्ठितम् । सोऽपि तदाकर्ण्य बाष्पपिहितनयनः सगद्गद- मुवाच - वयस्य यत्किंचिद्दुःखकारणं तद्वद येन प्रतीकारः क्रियते यदि शक्यते कर्तुम् । उक्तञ्च - औषधार्थसुमन्त्राणां बुद्धेश्चैव महात्मनाम् । असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम् ॥ २१९॥ तदेषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि । कौलिक आह - वयस्य एतेषामन्येषामपि सहस्राणामुपायानामसाध्यं तन्मे दुःखम् । तस्मान्मम मरणे मा कालक्षेपं कुरु । रथकार आह - भो मित्र यद्यप्यसाध्यं तथापि निवेदय येनाहमपि तदसाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणमपि त्वद्वियोगं सहिष्ये । एष मे निश्चयः। कौलिक आह - वयस्य याऽसौ राजकन्या करेणुमारूढा तत्रोत्सवे दृष्टा तस्या दर्शनानन्तरं मकरध्वजेन ममेयमवस्था विहिता । तन्न शक्नोमि तद्वेदनां सोढुम् । तथा चोक्तम् - मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे तस्याः पयोधरयुगे रतिखेदखिन्नः । वक्षो निधाय भुजपञ्जरमध्यवर्ती स्वप्स्ये कदा क्षणमवाप्य तदीयसङ्गम् ॥ २२०॥ तथा च - रागी बिम्बाधरोऽसौ स्तनकलशयुगं यौवनारूढगर्वम् । नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् । कुर्वन्त्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु खेदम् । यन्मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन्न युक्तम् ॥ २२१॥ रथकारोऽप्येवं सकामं तद्वचनमाकर्ण्य सस्मितमिदमाह - वयस्य यद्येवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तदद्यैव तया सह समागमः क्रियतामिति ।कौलिक आह - वयस्य यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षा- पुरुषाधिष्ठिते कथं मम तस्या सह समागमः । तत्किं मामसत्यवचनेन विडम्बयसि । रथकार आह - मित्र पश्य मे बुद्धिबलम् । एवमभिधाय तत्क्षणात्कीलसञ्चारिणं वैनतेयं बाहुयुगलं वायुजवृक्षदारुणा शङ्खचक्रगदापद्मान्वितं सकिरीटकौस्तुभमघटयन् । ततस्तस्मिन्कौलिकं समारोप्य विष्णुचिह्नितं कृत्वा कीलसञ्चरणविज्ञानं च दर्शयित्वा प्रोवाच - वयस्य, अनेन विष्णुरूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्तभूमिकप्रासादप्रान्तगतां मुग्धस्वभावां त्वां वासुदेवं मन्यमानां स्वकीयमिथ्या- वक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्तविधिना भज । कौलिकोऽपि तदाकर्ण्य तथारूपस्तत्र गत्वा तामाह - राजपुत्रि सुप्ता किं वा जागर्षि । अहं तव कृते समुद्रात्सानुरागो लक्ष्मीं विहायैवागतः । तत्क्रियतां मया सह समागम इति ।साऽपि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य सविस्मया शयनादुत्थाय प्रोवाच - भगवन् अहं मानुषी कीटिकाशुचिः । भगवाꣳस्त्रैलोक्यपावनो वन्दनीयश्च । तत्कथमेतद्युज्यते । कौलिक आह - सुभगे सत्यमभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोपकुलप्रसूता प्रथमाऽसीत् । सा त्वमत्रावतीर्णा । तेनाहमत्रायातः । इत्युक्ता सा प्राह - भगवन् यद्येवं तन्मे तातं प्रार्थय । सोऽप्यविकल्पं मां तुभ्यं प्रयच्छति । कौलिक आह - सुभगे नाहं दर्शनपथं मानुषाणां गच्छामि । किं पुनरालापकरणम् । त्वं गान्धर्वेण विवाहेनात्मानं प्रयच्छ । नो चेच्छापं दत्त्वा सान्वयं ते पितरं भस्मसात्करिष्यामीति । एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायामानयत् । ततश्च रात्रिशेषं यावद्वात्स्यायनोक्तविधिना निषेव्य प्रत्यूषे स्वगृहमलक्षितो जगाम । एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित्कञ्चुकिनस्तस्याधरोष्ठप्रवालखण्डनं दृष्ट्वा मिथः प्रोचुः - अहो पश्यतास्या राजकन्यायाः पुरुषोपभुक्तायैव शरीरावयवा विभाव्यन्ते । तत्कथमयं सुरक्षितेऽप्यस्मिन्गृह एवंविधो व्यवहारः । तद्राज्ञे निवेदयामः । एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुः - देव वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तःपुरे कश्चित्प्रविशति । तद्देवः प्रमाणमिति । तच्छ्रुत्वा राजाऽतीव व्याकुलितचित्तो व्यचिन्तयत् - पुत्रीति जाता महतीह चिन्ता कस्मै प्रदेयेति महान्वितर्कः । दत्त्वा सुखं प्राप्स्यति वा न वेति कन्यापितृत्वं खलु नाम कष्टम् ॥ २२२॥ नद्यश्च नार्यश्च सदृक्प्रभावा- स्तुल्यानि कूलानि कुलानि तासाम् । तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुलानि नार्यः ॥ २२३॥ जननीमनो हरति जातवती परिवर्धते सह शुचा सुहृदाम् । परसात्कृतापि कुरुते मलिनं दुरितक्रमा दुहितरो विपदः ॥ २२४॥ एवं बहुविधं विचिन्त्य देवीं रहःस्थां प्रोवाच - देवि ज्ञायतां किमेते कञ्चुकिनो वदन्ति । तस्य कृतान्तः कुपितो येनैतदेवं क्रियते । देव्यपि तदाकर्ण्य व्याकुलीभूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नखविलिखितशरीरावयवां दुहितरमपश्यत् । आह च - आः पापे कुलकलङ्ककारिणि किमेव शीलखण्डनं कृतम् । कोऽयं कृतान्तावलोकितस्त्वत्सकाशमभ्येति । तत्कथ्यतां ममाग्रे सत्यम् । इति कोपाटोपविसङ्कटं वदत्यां मातरि राजपुत्री भयलज्जानताननं प्रोवाच - अम्ब साक्षान्नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेदसत्यं मम वाक्यं तत्स्वचक्षुषा विलोकयतु निगूढतरा निशीथे भगवन्तं रमाकान्तम् । तच्छ्रुत्वा सापि प्रहसितवदना पुलकाङ्कितसर्वाङ्गी सत्वरं राजानमूचे - देव दिष्ट्या वर्धसे । नित्यमेव निशीथे भगवान्नारायणः कन्यकापार्श्वेऽभ्येति । तेन गान्धर्वविवाहेन सा विवाहिता । तदद्य त्वया मया च रात्रौ वातायनगताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति । तच्छ्रुत्वा हर्षितस्य राज्ञस्तद्दिनं वर्षशतप्रायमिव कथञ्चिज्जगाम । ततस्तु रात्रौ निभृतो भूत्वा राज्ञीसहितो राजा वातायनस्थो गगनासक्तदृष्टिर्यावत्तिष्ठति तावत्तस्मिन्समये गरुडारूढं तं शङ्कचक्रगदापद्महस्तं यथोक्तचिह्नाङ्कितं व्योम्नोऽवतरन्तं नारायणमपश्यत् । ततः सुधापूरप्लावित- मिवात्मानं मन्यमानस्तामुवाच - प्रिये नास्त्यन्यो धन्यतरो लोके मत्तस्त्वत्तश्च । तत्प्रसूतिं नारायणो भजते । तत्सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृप्रभावेण सकलामपि वसुमतीं वश्यां करिष्यामि । एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादाव्यतिक्रममकरोत् । ते च तं मर्यादाव्यतिक्रमेण वर्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः । अत्रान्तरे स राजा देवीमुखेन तां दुहितरमुवाच - पुत्रि त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत्किमेवं युज्यते यत्सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत्संबोध्योऽद्य त्वया निजभर्ता यथा मम शत्रून्व्यापादयति । ततस्तया स कौलिको रात्रौ सविनयमभिहितः - भगवन् त्वयि जामातरि स्थिते मम तातो यच्छत्रुभिः परिभूयते तन्न युक्तम् । तत्प्रसादं कृत्वा सर्वांस्तान्शत्रून्व्यापादय। कौलिक आह - सुभगे कियन्मात्रास्त्वेते तव पितुः शत्रवः । तद्विश्वस्ता भव । क्षणेनापि सुदर्शनचक्रेण सर्वांस्तिलशः खण्डयिष्यामि । अथ गच्छता कालेन सर्वदेशं शत्रुभिरुद्वास्य स राजा प्राकारशेषः कृतः । तथापि वासुदेवरूपधरं कौलिकमजानन्राजा नित्यमेव विशेषतः कर्पूरागुरुकस्तूरिकादिपरिमलविशेषान्नानाप्रकारवस्त्रपुष्प- भक्ष्यपेयांश्च प्रेषयन्दुहितृमुखेन तमूचे - भगवन् प्रभाते नूनं स्थानभङ्गो भविष्यति । यतो यवसेन्धनक्षयः संजातस्तथा सर्वोऽपि जनः प्रहारैर्जर्जरितदेहः संवृत्तो योद्धुमक्षमः प्रचुरो मृतश्च । तदेवं ज्ञात्वाऽत्र काले यदुचितं भवति तद्विधेयमिति । तच्छ्रुत्वा कौलिकोऽप्यचिन्तयत् - स्थानभङ्गे जाते ममानया सह वियोगो भविष्यति । तस्माद्गरुडमारुह्य सायुधमात्मानमाकाशे दर्शयामि । कदाचिन्मां वासुदेवं मन्यमानास्ते साशङ्का राज्ञो योद्धृभिर्हन्यते । उक्तञ्च - निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषं भवतु वा माभूत्फणाटोपो भयङ्करः ॥ २२५॥ अथ यदि मम स्थानार्थमुद्यतस्य मृत्युर्भविष्यति तदपि सुन्दरतरम् । उक्तञ्च - गवामर्थे ब्राह्मणार्थे स्वाम्यर्थे स्वीकृतेऽथवा । स्थानार्थे यस्त्यजेत् प्राणांस्तस्य लोकाः सनातनाः ॥ २२६॥ चन्द्रे मण्डलसंस्थे विगृह्यते राहुणा दिनाधीशः । शरणागतेन सार्धं विपदपि तेजस्विनां श्लाघ्या ॥ २२७॥ एवं निश्चित्य प्रत्यूषे दन्तधावनं कृत्वा तां प्रोवाच - सुभगे समस्तैः शत्रुभिर्हतैरन्नं पानं चास्वादयिष्यामि । किं बहुना त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस्त्वयाऽत्मपिता यत्प्रभाते प्रभूतेन सैन्येन सह नगरान्निष्क्रम्य योद्धव्यम् । अहं चाकाशस्थित एव सर्वांस्तान्निस्तेजसः करिष्यामि । पश्चात्सुखेन भवता हन्तव्याः । यदि पुनरहं तान्स्वयमेव सूदयामि तत्तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात्ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति । सापि तदाकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्धसैन्यो युद्धार्थं निश्चक्राम । कौलिकोऽपि मरणे कृतनिश्चयश्चाप- पाणिर्गगनगतिर्गरुडारूढो युद्धाय प्रस्थितः । अत्रान्तरे भगवता नारायणेनातीतानागतवर्तमानवेदिना स्मृतमात्रो वैनतेयः संप्राप्तो विहस्य प्रोक्तः - भो गरुत्मन् जानासि त्वं यन्मम रूपेण कौलिको दारुमयगरुडे समारूढो राजकन्यां कामयते । सोऽब्रवीत् - देव सर्वं ज्ञायते तच्चेष्टितम् । तत् किं कुर्मः साम्प्रतम् । श्रीभगवानाह - अद्य कौलिको मरणे कृतनिश्चयो विहितनियमो युद्धार्थे विनिर्गतः स नूनं प्रधान- क्षत्रियैर्मिलित्वा वासुदेवो गरुडश्च निपातितः । ततः परं लोकोऽयमावयोः पूजां न करिष्यति । ततस्त्वं द्रुततरं तत्र दारुमयगरुडे सङ्क्रमणं कुरु । अहमपि कौलिकशरीरे प्रवेशं करिष्यामि । येन स शत्रून्व्यापादयति । ततश्च शत्रुवधादावयोर्माहात्म्यवृद्धिः स्यात् । अथ गरुडे तथेति प्रतिपन्ने श्रीभगवन्नारायणस्तच्छरीरे सङ्क्रमणमकरोत् । ततो भगवन्माहात्म्येन गगनस्थः स कौलिकः शङ्खचक्र- गदाचापचिह्नितः क्षणादेव लीलयैव समस्तानपि प्रधान- क्षत्रियान्निस्तेजसश्चकार । ततस्तेन राज्ञा स्वसैन्यपरिवृतेन सङ्ग्रामे जिता निहताश्च ते सर्वेऽपि शत्रवः । जातश्च लोकमध्ये प्रवादो यथाऽनेन विष्णुजामातृप्रभावेण सर्वे शत्रवो निहता इति । कौलिकोऽपि तान्हतान् दृष्ट्वा प्रमुदितमना गगनादवतीर्णः सन् यावद् राजामात्यपौरलोकास्तं नगरवास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किमेतदिति । ततः सोऽपि मूलादारभ्य सर्वं प्राग्वृत्तान्तं न्यवेदयत् । ततश्च कौलिकसाहसानुरञ्जितमनसा शत्रुवधादवाप्ततेजसा राज्ञा सा राजकन्या सकलजनप्रत्यक्षं विवाहविधिना तस्मै समर्पिता देशश्च प्रदत्तः । कौलिकोऽपि तया सार्धं पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभवन्कालं निनाय । अतस्तूच्यते सुप्रयुक्तस्य दम्भस्येति । तच्छ्रुत्वा करटक आह - भद्र अस्त्वेवम् । परं तथापि महन्मे भयम् । यतो बुद्धिमान्संजीवको रौद्रश्च सिंहः । यद्यपि ते बुद्धिप्रागल्भ्यं तथापि त्वं पिङ्गलकात्तं वियोजयितुमसमर्थ एव । दमनक आह - भ्रातः असमर्थोऽपि समर्थ एव । उक्तञ्च - उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः । काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥ २२८॥ करटक आह - कथमेतत् । सोऽब्रवीत् -
कथा ६ वायसदम्पतिकथा । अस्ति कस्मिंश्चित्प्रदेशे महान्न्यग्रोधपादपः । तत्र वायस- दम्पती प्रतिवसतः स्म । अथ तयोः प्रसवकाले वृक्षविवरान्नि- ष्क्रम्य कृष्णसर्पः सदैव तदपत्यानि भक्षयति । ततस्तौ निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं शृगालं गत्वोचतुः - भद्र किमेवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद्दुष्टात्मा कृष्णसर्पो वृक्षविवरान्निर्गत्यावयो- र्बालकान्भक्षयति । तत्कथ्यतां तद्रक्षार्थं कश्चिदुपायः । यस्य क्षेत्रं नदीतीरे भार्या च परसङ्गता । ससर्पे च गृहे वासः कथं स्यात्तस्य निर्वृतिः ॥ २२९॥ अन्यच्च - सर्पयुक्ते गृहे वासो मृत्युरेव न संशयः । यद्ग्रामान्ते वसेत्सर्पस्तस्य स्यात्प्राणसंशयः ॥ २३०॥ अस्माकमपि तत्रस्थितानां प्रतिदिनं प्राणसंशयः । स आह - नात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् । उपायेन जयो यादृग्रिपोस्तादृङ् न हेतिभिः । उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥ २३१॥ तथा च - भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् । अतिलौल्याद्बकः कश्चिन्मृतः कर्कटकग्रहात् ॥ २३२॥ तावूचतुः - कथमेतत् । सोऽब्रवीत् -
कथा ७ बककुलीरककथा । अस्ति कस्मिंश्चिद्वनप्रदेशे नानाजलचरसनाथं महत्सरः । तत्र च कृताश्रयो बक एको वृद्धभावमुपागतो मत्स्यान्व्यापाद- यितुमसमर्थः । ततश्च क्षुत्क्षामकण्ठः सरस्तीर उपविष्टो मुक्ताफलप्रकरसदृशैरश्रुप्रवाहैर्धरातलमभिषिञ्चन् रुरोद । एकः कुलीरको नानाजलचरसमेतः समेत्य तस्य दुःखेन दुःखितः सादरमिदमूचे - माम किमद्य त्वया नाहारवृत्ति- रनुष्ठीयते । केवलमश्रुपूर्णनेत्राभ्यां सनिःश्वासेन स्थीयते । स आह - वत्स सत्यमुपलक्षितं भवता । मया हि मत्स्यादनं प्रति परमवैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतानपि मत्स्यान्न भक्षयामि । कुलीरकस्तच्छ्रुत्वा प्राह - माम किं तद्वैराग्यकारणम् । स प्राह - वत्स अहमस्मिन्सरसि जातो वृद्धिं गतश्च । तन्मयैतच्छ्रुतं यद्द्वादशवर्षिक्यनावृष्टिः सम्पद्यते लग्ना । कुलीरक आह - कस्मात्तच्छ्रुतम् । बक आह - दैवज्ञमुखात् । एष शनैश्चरो हि रोहिणीशकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तञ्च वराहमिहिरेण - यदि भिन्ते सूर्यसुतो रोहिण्याः शकटमिह लोके । द्वादशवर्षाणि तदा न हि वर्षति वासवो भूमौ ॥ २३३॥ तथा च - प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा । भस्मास्थिशकलाकीर्णा कापालिकमिव व्रतं धत्ते ॥ २३४॥ तथा च - रोहिणीशकटमर्कनन्दनश्चेद्भिन्नत्ति रुधिरोऽथवा शशी । किं वदामि तदनिष्टसागरे सर्वलोकमुपयाति सङ्क्षयः ॥ २३५॥ रोहिणीशकटमध्यसंस्थिते चन्द्रमस्य शरणीकृता जनाः । क्वापि यान्ति शिशुपाचिताशनाः सूर्यतप्तभिदुराम्बुपायिनः ॥ २३६॥ तदेतत्सरः स्वल्पतोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सहाहं वृद्धिं गतः सदैव क्रीडितश्च ते सर्वे तोयाभावान्नाशं यास्यन्ति । तत्तेषां वियोगं द्रष्टुमहम- समर्थः । तेनैतत्प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्पजलाशयानां जलचरा गुरुजलाशयेषु स्वस्वजनैर्नीयन्ते । केचिच्च मकरशिशुमारजलहस्तिप्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति तेनाहं विशेषाद्रोदिमि यद्बीजशेषमात्रमप्यत्र नोद्धरिष्यति । ततः स तदाकर्ण्यान्येषामपि जलचराणां तत्तस्य वचनं निवेदयामास । अथ ते सर्वे भयत्रस्तमनसो मत्स्यकच्छप- प्रभृतयस्तमभ्युपेत्य पप्रच्छुः - माम अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति । बक आह - अस्त्यस्य जलाशयस्य नातिदूरे प्रभूतजलसनाथं सरः पद्मिनीखण्डमण्डितं यच्चतुर्विंशत्यपि वर्षाणामवृष्ट्या न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति तदहं तं तत्र नयामि । अथ ते तत्र विश्वासमापन्नाः तात मातुल भ्रातः इति ब्रुवाणा अहं पूर्वमहं पूर्वमिति समन्तात्परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान्पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचराणां मिथ्यावार्तासन्देशकै- र्मनांसि रञ्जयन्नित्यमेवाहारवृत्तिमकरोत् । अन्यस्मिन्दिने च कुलीरकेणोक्तः - माम मया सह ते प्रथमः स्नेहसम्भाषः सञ्जातः । तत्किं मां परित्यज्यान्यान्नयसि । तस्मादद्य मे प्राणत्राणं कुरु । तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान् - निर्विण्णोऽहं मत्स्यमांसादनेन तदद्यैनं कुलीरकं व्यञ्जनस्थाने करोमि । इति विचिन्त्य तं पृष्ठे समारोप्य तां वध्यशिलामुद्दिश्य प्रस्थितः । कुलीरकोऽपि दूरादेवास्थिपर्वतं शिलाश्रयमवलोक्य मस्त्यास्थीनि परिज्ञाय तमपृच्छत् - माम कियद्दूरे स जलाशयः । मदीयभारेणातिश्रान्तस्त्वम् । तत् कथय । सोऽपि मन्दधीर्जलचरोऽयमिति मत्वा स्थले न प्रभवतीति सस्मितमिदमाह - कुलीरक कुतोऽन्यो जलाशयः । मम प्राणयात्रेयम् । तस्मात्स्मर्यतामात्मनोऽभीष्टदेवता । त्वामप्यन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इत्युक्तवति तस्मिन्स्ववदनदंशद्वयेन मृणालनालधवलायां मृदुग्रीवायां गृहीतो मृतश्च । अथ स तां बकग्रीवां समादाय शनैः शनैस्तज्जलाशयमाससाद । ततः सर्वैरेव जलचरैः पृष्टः - भोः कुलीरक किं निवृत्तस्त्वम् । स मातुलोऽपि नायातः । तत् किं चिरयति। वयं सर्वे सोत्सुकाः कृतक्षणास्तिष्ठामः । एवं तैरभिहिते कुलीरकोऽपि विहस्योवाच - मूर्खाः सर्वे जलचरास्तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तन् ममायुःशेषतया तस्य विश्वासघातकस्याभिप्रायं ज्ञात्वा ग्रीवेयम् आनीता । तद् अलं सम्भ्रमेण । अधुना सर्वजलचराणां क्षेमं भविष्यति । अतोऽहं ब्रवीमि - भक्षयित्वा बहून्मत्स्यानिति । वायस आह - भद्र तत्कथय कथं स दुष्टसर्पो वधमुपैष्यति । शृगाल आह - गच्छतु भवान् कञ्चिन्नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत्कोटरे प्रक्षिप येन सर्पस्तद्ग्रहणेन वध्यते । तत्क्षणात्काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चित्सरः प्राप्य यावत्पश्यति तावत्तन्मध्ये कस्यचिद्राज्ञो- ऽन्तःपुरं जलासन्नं न्यस्तकनकसूत्रं मुक्तमुक्ताहार- वस्त्राभरणं जलक्रीडां कुरुते । अथ सा वायसी कनकसूत्र- मेकमादाय स्वगृहाभिमुखं प्रतस्थे । ततश्च कञ्चुकिनो वर्षवराश्च तन्नीयमानमुपलक्ष्य गृहीतलगुडाः सत्वरमनुययुः । काक्यपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरमवस्थिता । अथ यावद्राजपुरुषास्तं वृक्षमारुह्य तत्कोटरमवलोकयन्ति तावत्कृष्णसर्पः प्रसारितभोगस्तिष्ठति । ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः । वायसदम्पत्यपि ततः परं सुखेन वसतः । अतोऽहं ब्रवीमि उपायेन हि यत्कुर्यादिति । तन्न किंचिदिह बुद्धिमतामसाध्यमस्ति । उक्तञ्च - यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥ २३७॥ करटक आह - कथमेतत्। स आह -
कथा ८ भासुरकाख्यसिंहकथा । कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान्नित्यमेवानेकान्मृगशशकादीन्व्यापादय- न्नोपरराम । अथान्येद्युस्तद्वनजाः सर्वे सारङ्गवराहमहिष- शशकादयो मिलित्वा तमभ्युपेत्य प्रोचुः - स्वामिन्किमनेन सकलमृगवधेन नित्यमेव यतस्तवैकेनापि मृगेण तृप्तिर्भवति तत्क्रियतामस्माभिः सह समयधर्मः । अद्यप्रभृति तवात्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत्प्राणयात्रा क्लेशं विनाऽपि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राजधर्मोऽनुष्ठीयताम् । उक्तञ्च - शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथाबलम् । रसायनमिव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥ २३८॥ विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च । प्रयच्छति फलं भूमिररणीव हुताशनम् ॥ २३९॥ प्रजानां पालनं शस्यं स्वर्गकोशस्य वर्धनम् । पीडनं धर्मनाशाय पापायायशसे स्थितम् ॥ २४०॥ गोपालेन प्रजाधेनोर्वित्तदुग्धं शनैः शनैः । पालनात्पोषणाद्ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥ २४१॥ अजामिव प्रजां मोहाद्यो हन्यात् पृथिवीपतिः । तस्यैका जायते तृप्तिर्न द्वितीया कथञ्चन ॥ २४२॥ फलार्थी नृपतिर्लोकान्पालयेद्यत्नमास्थितः । दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥ २४३॥ नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि । आन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥ २४४॥ यथा गौर्दुह्यते काले पाल्यते च तथा प्रजा । सिच्यते चीयते चैव लता पुष्पफलप्रदा ॥ २४५॥ यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः । फलप्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥ २४६॥ हिरण्यधान्यरत्नानि यानानि विविधानि च । तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्महीपतेः ॥ २४७॥ लोकानुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः । लोकानां संक्षयाच्चैव क्षयं यान्ति न संशयः ॥ २४८॥ अथ तेषां तद्वचनमाकर्ण्य भासुरक आह - अहो सत्यमभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः श्वापदः समागमिष्यति । तन्नूनं सर्वानपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृतिभाजस्तत्रैव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति । वृद्धो वा वैराग्ययुक्तो वा शोकग्रस्तो वा पुत्रकलत्रनाशभीतो वा तेषां मध्यात्तस्य भोजनार्थं मध्याह्नसमय उपतिष्ठते । अथ कदाचिज्जातिक्रमाच्छशक- स्यावसरः समायातः । स समस्तमृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन्वेलातिक्रमं कृत्वा व्याकुलितहृदयो यावद्गच्छति तावन्मार्गे गच्छता कूपः संदृष्टः । यावत्कूपोपरि याति तावत्कूपमध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम् - यद्भव्य उपायोऽस्ति। अहं भासुरकं प्रकोप्य स्वबुद्ध्याऽस्मिन्कूपे पातयिष्यामि । अथासौ दिनशेषे भासुरकसमीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षामकण्ठः कोपाविष्टः सृक्कणी परिलेलिहन्व्यचिन्तयत् - अहो प्रातराहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्नाह - रे शशकाधम एकस्तावत्त्वं लघुः प्राप्तोऽपरतो वेलातिक्रमेण । तदस्मादपराधात्त्वां निपात्य प्रातः सकलान्यपि मृगकुलान्युच्छेदयिष्यामि ऽथ शशकः सविनयं प्रोवाच - स्वामिन्नापराधो मम । न च सत्त्वानाम् । तच्छ्रूयतां कारणम् । सिंह आह - सत्वरं निवेदय यावन्मम दंष्ट्रान्तर्गतो न भवान्भविष्यतीति । शशक आह - स्वामिन्समस्तमृगैरद्य जातिक्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्चशशकैः समं प्रेषितः । ततश्चाह- मागच्छन्नन्तराले महता केनचिदपरेण सिंहेन विवरान्निर्ग- त्याभिहितः - अभीष्टदेवतां स्मरत । ततो मयाभिहितम् - वयं स्वामिनो भासुरकसिंहस्य सकाशमाहारार्थं समयधर्मेण गच्छामः । ततस्तेनाभिहितम् - यद्येवं तर्हि मदीयमेतद्वनम् । मया सह समयधर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चौररूपी स भासुरकः । अथ यदि सोऽत्र राजा विश्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्छ । येन यः कश्चिदावयोर्मध्यात्पराक्रमेण राजा भविष्यति स सर्वानेतान्भक्षयिष्यतीति । ततोऽहं तेनादिष्टः स्वामिसकाशमभ्यागतः । एतद्वेलाव्यतिक्रमकारणम् । तदत्र स्वामी प्रमाणम् । तच्छ्रुत्वा भासुरक आह - भद्र यद्येवं तत्सत्वरं दर्शय मे तं चौरसिंहं येनाहं मृगकोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तञ्च - भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम् । नास्त्येकमपि यद्येषां न तं कुर्यात्कथञ्चन ॥ २४९॥ यत्र न स्यात्फलं भूरि यत्र च स्यात्पराभवः । न तत्र मतिमान्युद्धं समुत्पाद्य समाचरेत् ॥ २५०॥ शशक आह - स्वामिन् सत्यमिदम् । स्वभूमिहेतोः परिभवाच्च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः । दुर्गान्निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तञ्च - न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत्कृत्यं साध्यते राज्ञां दुर्गेणैकेन विग्रहे ॥ २५१॥ शतमेकोऽपि संधत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥ २५२॥ पुरा गुरोः समादेशाद्धिरण्यकशिपोर्भयात् । शक्रेण विहितं दुर्गं प्रभावाद्विश्वकर्मणः ॥ २५३॥ तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः । विजयी स्यात्ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥ २५४॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥ २५५॥ तच्छ्रुत्वा भासुरक आह । भद्र दुर्गस्थमपि दर्शय तं चौरसिंहं येन व्यापादयामि । उक्तञ्च - जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ २५६॥ तथा च - उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ २५७॥ अपि च - उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसा- वसाध्यतां व्याधिरिव प्रयाति ॥ २५८॥ तथा च - आत्मनः शक्तिमुद्वीक्ष्य मानोत्साहञ्च यो व्रजेत् । बहून्हन्ति स एकोऽपि क्षत्रियान्भार्गवो यथा ॥ २५९॥ शशक आह - अस्त्येतत् । तथापि बलवान्स मया दृष्टः । तन्न युज्यते स्वामिनस्तस्य सामर्थ्यमविदित्वा गन्तुम् । उक्तञ्च - अविदित्वाऽत्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥ २६०॥ यो बलात्प्रोन्नतं याति निहन्तुं सबलोऽप्यरिम् । विमदः स निवर्तेत शीर्णदन्तो गजो यथा ॥ २६१॥ भासुरक आह - भोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थमपि । अथ शशक आह - यद्येवं तर्ह्यागच्छतु स्वामी । एवमुक्त्वाऽग्रे व्यवस्थितः । ततश्च तेनागच्छता यः कूपो दृष्टोऽभूत्तमेव कूपमासाद्य भासुरकमाह - स्वामिन्कस्ते प्रतापं सोढुं समर्थः । त्वां दृष्ट्वा दूरतोऽपि चौरसिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ यथा दर्शयामीति । भासुरक आह - दर्शय मे दुर्गम् । तदनु दर्शितस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूपमध्य आत्मप्रतिबिम्बं जलमध्यगतं दृष्ट्वा सिंहनादं मुमोच । ततः प्रतिशब्देन कूपमध्या- द्द्विगुणतरो नादः समुत्थितः । अथ तेन तं शत्रुं मत्वाऽऽत्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्टमनाः सर्वमृगानानन्द्य तैः सह प्रशस्यमानो यथासुखं तत्र वने निवसति स्म । अतोऽहं ब्रवीमि - यस्य बुद्धिर्बलं तस्येति । तद्यदि भवान्कथयति तत्तत्रैव गत्वा तयोः स्वबुद्धिप्रभावेण मैत्रीभेदं करोमि । करटक आह - भद्र यद्येवं तर्हि गच्छ । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयताम् । अथ दमनकः सञ्जीवकवियुक्तं पिङ्गलकमवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलकोऽपि तमाह - भद्र किं चिराद्दृष्टः । दमनक आह - न किञ्चिद्देवपादानामस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राजप्रयोजनविनाशमवलोक्य संदह्यमानहृदयो व्याकुलतया स्वयमेवाभ्यागतो वक्तुम् । उक्तञ्च - प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाऽशुभम् । अपृष्टोऽपि हितं वक्ष्येद्यस्य नेच्छेत्पराभवम् ॥ २६२॥ अथ तस्य साभिप्रायं वचनमाकर्ण्य पिङ्गलक आह - किं वक्तुमना भवान् । तत्कथ्यतां यत्कथनीयमस्ति । स प्राह - देव सञ्जीवको युष्मत्पादानामुपरि द्रोहबुद्धिरिति । विश्वासगतस्य मम विजन इदमाह - भो दमनक दृष्टा मयास्य पिङ्गलकस्य सारासारता । तदहमेनं हत्वा सकलमृगाधिपत्यं त्वत्साचिव्य- पदवीसमन्वितं करिष्यामि । पिङ्गलकोऽपि तद्वज्रसारप्रहारसदृशं दारुणं वचः समाकर्ण्य मोहमुपगतो न किञ्चिदप्युक्तवान् । दमनकोऽपि तस्य तमाकारमालोक्य चिन्तितवान् - अयं तावत्सञ्जीवक- निबद्धरागः । तन्नूनमनेन मन्त्रिणा राजा विनाशमवाप्स्यतीति । उक्तञ्च - एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा । तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते । निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा । स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥ २६३॥ तत्किमत्र युक्तमिति । पिङ्गलकोऽपि चेतनां समासाद्य कथमपि तमाह - सञ्जीवकस्तावत्प्राणसमो भृत्यः । स कथं ममोपरि द्रोहबुद्धिं करोति । दमनक आह - देव भृत्योऽभृत्य इत्यनेकान्तिकमेतत् । उक्तञ्च - न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् । अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते ॥ २६४॥ पिङ्गलक आह - भद्र तथापि मम तस्योपरि चित्तवृत्तिर्न विकृतिं याति । अथवा साध्विदमुच्यते - अनेकदोषदुष्टस्य कायः कस्य न वल्लभः । कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥ २६५॥ दमनक आह - अत एवायं दोषः । उक्तञ्च - यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः । अकुलीनः कुलीनो वा स श्रिया भाजनं नरः ॥ २६६॥ अपरं केन गुणविशेषेण स्वामी सञ्जीवकं निर्गुणकमपि निकटे धारयति । अथ देव यद्येवं चिन्तयसि महाकायोऽयम् । अनेन रिपून्व्यापादयिष्यामि । तदस्मान्न सिध्यति यतोऽयं शष्पभोजी । देवपादानां पुनः शत्रवो मांसाशिनः । तद्रिपुसाधनमस्य साहाय्येन न भवति । तस्मादेनं दूषयित्वा हन्यतामिति । पिङ्गलक आह - उक्तो भवति यः पूर्वं गुणवान् इति संसदि । तस्य दोषो न वक्तव्यः प्रतिज्ञाभङ्गभीरुणा ॥ २६७॥ अन्यच्च । मयाऽस्य तव वचनेनाभयप्रदानं दत्तम् । तत्कथं स्वयमेव व्यापादयामि । सर्वथा सञ्जीवकोऽयं सुहृदस्माकम् । न तं प्रति कश्चिन्मन्युरिति । उक्तञ्च - इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ २६८॥ आदौ न वा प्रणयिनां प्रणयो विधेयो दत्तोऽथवा प्रतिदिनं परिपोषणीयः । उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥ २६९॥ उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥ २७०॥ तद्द्रोहबुद्धेरपि मयाऽस्य न विरुद्धमाचरणीयम् । दमनक आह - स्वामिन् । नैष राजधर्मो यद्द्रोहबुद्धिरपि क्षम्यते । उक्तञ्च - तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥ २७१॥ अपरं त्वयास्य सखित्वात्सर्वोऽपि राजधर्मः परित्यक्तः । राजधर्माभावात्सर्वोऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्पभोजी । भवान् मांसादः । तव प्रकृतयश्च । यत्तवावध्यव्यसायबाह्यं कुतस्तासां मांसाशनम् । यद्रहितास्त्वां त्यक्त्वा यास्यन्ति । ततोऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस्ते न कदाचिदाखेटके मतिर्भविष्यति । उक्तञ्च - यादृशैः सेव्यते भृत्यैर्यादृशांश्चोपसेवते । कदाचिन्नात्र सन्देहस्तादृग्भवति पूरुषः ॥ २७२॥ तथा च - सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते । मुक्तकारतया तदेव नलिनीपत्रस्थितं राजते । स्वातौ सागरशुक्तिकुक्षिपतितं तज्जायते मौक्तिकम् । प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥ २७३॥ तथा च - असतां सङ्गदोषेण सती याति मतिर्भ्रमम् । एकरात्रिप्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥ २७४॥ अत एव सन्तो नीचसङ्गं वर्जयन्ति । उक्तञ्च - न ह्यविज्ञातशीलस्य प्रदातव्यः प्रतिश्रयः । मत्कुणस्य च दोषेण हता मन्दविसर्पिणी ॥ २७५॥ पिङ्गलक आह - कथमेतत् । सोऽब्रवीत् -
कथा ९ मन्दविसर्पिणीनामयूकाकथा । अस्ति कस्यचिन्महीपतेर्मनोरमं शयनस्थानम् । तत्र श्वेततरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्येद्युश्च तत्र शयने क्वचिद्भ्राम्यन्नग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्णवदना प्रोवाच । भोऽग्निमुख कुतस्त्वमत्रानुचितस्थाने समायातः । तद्यावन्न कश्चिद्वेत्ति तावच्छीघ्रं गम्यतामिति । स आह - भगवति गृहागतस्यासाधोरपि नैतद्युज्यते वक्तुम् । उक्तञ्च - एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे । का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान्प्रणयिनः प्रत्यालपन्त्यादरात् । तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥ २७६॥ अपरं मयानेकमानुषाणामनेकविधानि रुधिराण्यास्वा- दितान्याहारदोषात्कटुतिक्तकषायाम्लरसास्वादानि न च कदाचिन्मधुररक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोषि तदस्य नृपतेर्विविधव्यञ्जनान्नपानचोष्यलेह्यस्वाद्वाहार- वशादस्य शरीरे यन्मिष्टं रक्तं सं जातं तदास्वादनेन सौख्यं सम्पादयामि जिह्वाया इति । उक्तञ्च - रङ्कस्य नृपतेर्वापि जिह्वासौख्यं समं स्मृतम् । तन्मात्रं च स्मृतं सारं तदर्थं यतते जनः ॥ २७७॥ यद्येव न भवेल्लोके कर्म जिह्वाप्रतुष्टिदम् । तन्न भृत्यो भवेत्कश्चित्कस्यचिद्वशगोऽथ वा ॥ २७८॥ यदसत्यं वदेन्मर्त्यो यद्वासेव्यं च सेवते । यद्गच्छति विदेशं च तत्सर्वमुदरार्थतः ॥ २७९॥ तन्मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्सकाशाद्भोजनमर्थनीयम् । तन्न त्वयैकाकिन्यास्य भूपते रक्तभोजनं कर्तुं युज्यते । तच्छ्रुत्वा मन्दविसर्पिण्याह - भो मत्कुण । अस्य नृपतेर्निद्रावशं गतस्य रक्तमास्वादयामि । पुनस्त्वमग्निमुखश्चपलश्च । तद्यदि मया सह रक्तपानं करोषि तत्तिष्ठ । अभीष्टतररक्तमास्वादय । सोऽब्रवीत् - भगवति एवं करिष्यामि । यावत्त्वं नास्वादयसि प्रथमं नृपरक्तं तावन्मम देवगुरुकृतः शपथः स्याद्यदि तदास्वादयामि । एवं तयोः परस्परं वदतोः स राजा तच्छयनमासाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वालौल्योत्कृष्टौत्सुक्याज्जाग्रतमपि तं महीपतिमदशत् । अथवा साध्विदमुच्यते । स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥ २८०॥ यदि स्याच्छीतलो वह्निः शीतांशुर्दहनात्मकः । न स्वभावोऽत्र मर्त्यानां शक्यते कर्तुमन्यथा ॥ २८१॥ अथासौ महीपतिः सूच्यग्रविद्ध इव तच्छयनं त्यक्त्वा तत्क्षणादेवोत्थितः । अहो ज्ञायतामत्र प्रच्छादनपटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस्तत्र स्थितास्ते सत्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मदृष्ट्या वीक्षांचक्रुः । अत्रान्तरे स मत्कुणश्चापल्यात्खट्वान्तं प्रविष्टः सा मन्दविसर्पिण्यपि वस्त्रसन्ध्यन्तर्गता तैर्दृष्टा व्यापादिता च । अतोऽहं ब्रवीमि - न ह्यविज्ञातशीलस्य इति । एवं ज्ञात्वा त्वयैष वध्यः । नो चेत्त्वां व्यापादयिष्यतीति । उक्तञ्च - त्यक्ताश्चाभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः । स एव मृत्युमाप्नोति यथा राजा ककुद्द्रुमः ॥ २८२॥ पिङ्गलक आह - कथमेतत् । सोऽब्रवीत् -
कथा १० चण्डरवनामशृगालकथा । अस्ति कस्मिंश्चिद्वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित्क्षुधाविष्टो जिह्वालौल्यान्नगरमध्ये प्रविष्टः । अथ तं नगरवासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्णदंष्ट्राग्रैर्भक्षितुमारब्धाः । सोऽपि तैर्भक्ष्यमाणः प्राणभयात्प्रत्यासन्नरजकगृहं प्रविष्टः । तत्र नीलीरसपरिपूर्णं महाभाण्डं सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्डमध्ये पतितः । अथ यावन्निष्क्रान्त- स्तावन्नीलीवर्णः सञ्जातः । तत्रापरे सारमेयास्तं शृगालमजानन्तो यथाभीष्टदिशं जग्मुः । चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नीलवर्णेन कदाचिन्निजरङ्गस्त्यज्यते । उक्तञ्च - वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोर्यथा ॥ २८३॥ अथ तं हरगलगरलतमालसमप्रभमपूर्वं सत्त्वमवलोक्य सर्वे सिंहव्याघ्रद्वीपिवृकप्रभृतयोऽरण्यनिवासिनो भयव्याकुलितचित्ताः समन्तात्पलायनक्रियां कुर्वन्ति । कथयन्ति च - न ज्ञायतेऽस्य कीदृग्विचेष्टितं पौरुषं च । तद्दूरतरं गच्छामः । उक्तञ्च - न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् । न तस्य विश्वसेत्प्राज्ञो यदीच्छेच्छ्रियमात्मनः ॥ २८४॥ चण्डरवोऽपि भयव्याकुलितान्विज्ञायेदमाह - भो भोः श्वापदाः । किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन्न भेतव्यम् । अहं ब्रह्मणाद्य स्वयमेव सृष्ट्वाभिहितः - यच्छ्वापदानां कश्चिद्राजा नास्ति । तत्त्वं मयाद्य सर्वश्वापदप्रभुत्वेऽभिषिक्तः ककुद्द्रुमाभिधः । ततो गत्वा क्षितितले तान्सर्वान्परिपालयेति । ततोऽहमत्रागतः । तन्मम छत्रच्छायायां सर्वैरपि श्वापदैर्वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि संजातः । तच्छ्रुत्वा सिंहव्याघ्रपुरःसराः श्वापदाः स्वामिन्प्रभो समादिशेति वदन्तस्तं परिवव्रुः । अथ तेन सिंहस्यामात्यपदवी प्रदत्ता । व्याघ्रस्य शय्यापालकत्वम् । द्वीपिनस्ताम्बूलाधिकारः । वृकस्य द्वारपालकत्वम् । ये चात्मीयाः शृगालास्तैः सहालापमात्रमपि न करोति । शृगालाः सर्वेऽप्यधर्मचन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्यक्रिययां वर्तमानस्य ते सिंहादयो मृगान्व्यापाद्य तत्पुरतः प्रक्षिपन्ति । सोऽपि प्रभुधर्मेण सर्वेषां तान्प्रविभज्य प्रयच्छति । एवं गच्छति काले कदाचित्तेन समागतेन दूरदेशे शब्दायमानस्य शृगालवृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रुत्वा पुलकिततनुरानन्दाश्रुपूर्णनयन उत्थाय तारस्वरेण विरोतुमारब्धवान् । अथ ते सिंहादयस्तं तारस्वरमाकर्ण्य शृगालोऽयमिति मत्वा लज्जयाऽधोमुखाः क्षणं स्थित्वा प्रोचुः - भोः । वाहिता वयमनेन क्षुद्रशृगालेन । तद्वध्यतामिति । सोऽपि तदाकर्ण्य पलायितुमिच्छꣳस्तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश्च ऽतोऽहं ब्रवीमि - त्यक्ताश्चाभ्यन्तरा येनेति । तदाकर्ण्य पिङ्गलक आह - भो दमनक । कः प्रत्ययोऽत्र विषये यत्स ममोपरि दुष्टबुद्धिः ।स आह - यदद्य ममाग्रे तेन निश्चयः कृतो यत्प्रभाते पिङ्गलकं वधिष्यामि । तदत्रैव प्रत्ययः । प्रभातेऽवसरवेलायामारक्तमुखनयनः स्फुरिताधरो दिशोऽवलोकयन्ननुचितस्थानोपविष्टस्त्वां क्रूरदृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यदुचितं तत्कर्तव्यम् । इति कथयित्वा संजीवकसकाशं गतस्तं प्रणम्योपविष्टः । संजीवकोऽपि सोद्वेगाकारं मन्दगत्या समायान्तं तमुद्वीक्ष्य सादरतरमुवाच - भो मित्र । स्वागतम् । चिराद्दृष्टोऽसि । अपि शिवं भवतः । तत्कथय येनादेयमपि तुभ्यं गृहागताय प्रयच्छामि । उक्तञ्च - ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले । आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥ २८५॥ दमनक आह - भोः । कथं शिवं सेवकजनस्य । सम्पत्तयः परायत्ताः सदा चित्तमनिर्वृतम् । स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः ॥ २८६॥ तथा च - सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् । स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥ २८७॥ तावज्जन्मातिदुःखाय ततो दुर्गतता सदा । तत्रापि सेवया वृत्तिरहो दुःखपरम्परा ॥ २८८॥ जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ २८९॥ नाश्नाति स्वच्छयोत्सुक्याद्विनिद्रो न प्रबुध्यते । न निःशङ्कं वचो ब्रूते सेवकोऽप्यत्र जीवति ॥ २९०॥ सेवा श्ववृत्तिराख्याता यैस्तैर्मिथ्या प्रजल्पितम् । स्वच्छन्दं चरति श्वाऽत्र सेवकः परशासनात् ॥ २९१॥ भूशय्या ब्रह्मचर्यं च कृशत्वं लघुभोजनम् । सेवकस्य यतेर्यद्वद्विशेषः पापधर्मजः ॥ २९२॥ शीतातपादिकष्टानि सहते यानि सेवकः । धनाय तानि चाल्पानि यदि धर्मान्न मुच्यते ॥ २९३॥ मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा । मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥ २९४॥ संजीवक आह - अथ भवान्किं वक्तुमनाः । सोऽब्रवीत् - मित्र सचिवानां मन्त्रभेदं कर्तुं न युज्यते । उक्तञ्च - यो मन्त्रं स्वामिनो भिद्यात्साचिव्ये सन्नियोजितः । स हत्वा नृपकार्यं तत्स्वयं च नरकं व्रजेत् ॥ २९५॥ येन यस्य कृतो भेदः सचिवेन महीपतेः । तेनाशस्त्रवधस्तस्य कृत इत्याह नारदः ॥ २९६॥ तथापि मया तव स्नेहपाशबद्धेन मन्त्रभेदः कृतः । यतस्त्वं मम वचनेनात्र राजकुले विश्वस्तः प्रविष्टश्च । उक्तञ्च - विश्रम्भाद्यस्य यो मृत्युमवाप्नोति कथञ्चन । तस्य हत्या तदुत्था सा प्राहेदं वचनं मनुः ॥ २९७॥ तत्तवोपरि पिङ्गलकोऽयं दुष्टबुद्धिः कथितं चाद्यानेन मत्पुरतश्चतुष्कर्णतया - यत्प्रभाते संजीवकं हत्वा समस्तमृगपरिवारं चिरात्तृप्तिं नेष्यामि । ततः स मयोक्तः - स्वामिन् । न युक्तमिदं यन्मित्रद्रोहेण जीवनं क्रियते । उक्तञ्च - अपि ब्रह्मवधं कृत्वा प्रायश्चित्तेन शुध्यति । तदर्थेन विचीर्णेन न कथञ्चित्सुहृद्द्रुहः ॥ २९८॥ ततस्तेनाहं सामर्षेणोक्तः - भो दुष्टबुद्धे संजीवकस्तावच्छष्पभोजी वयं मांसाशिनः । तदस्माकं स्वाभाविकं वैरमिति कथं रिपुरुपेक्ष्यते । तस्मात्सामादिभिरु- पायैर्हन्यते । न च हते तस्मिन्दोषः स्यात् । उक्तञ्च - दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता । अन्योपायैरशक्यो यो हते दोषो न विद्यते ॥ २९९॥ कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः । प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ॥ ३००॥ तदहं तस्य निश्चयं ज्ञात्वा त्वत्सकाशमिहागतः । साम्प्रतं मे नास्ति विश्वासघातकदोषः । मया सुगुप्तमन्त्रस्तव निवेदितः । अथ यत्ते प्रतिभाति तत्कुरुष्व इति । अथ संजीवकस्तस्य तद्वज्रपातदारुणं वचनं श्रुत्वा मोहमुपगतः । अथ चेतनां लब्ध्वा सवैराग्यमिदमाह - भोः साध्विदमुच्यते - दुर्जनगम्या नार्यः प्रायेणास्नेहवान्भवति राजा । कृपणानुसारि च धनं मेघो गिरिदुर्गवर्षी च ॥ ३०१॥ अहं हि संमतो राज्ञो य एवं मन्यते कुधीः । बलीवर्दः स विज्ञेयो विषाणपरिवर्जितः ॥ ३०२॥ वरं वनं वरं भैक्षं वरं भारोपजीवनम् । वरं व्याधिर्मनुष्याणां नाधिकारेण सम्पदः ॥ ३०३॥ तदयुक्तं मया कृतं यदनेन सह मैत्री विहिता । उक्तञ्च - ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥ ३०४॥ तथा च - मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरगैः । मूर्खाश्च मूर्खैः सुधियः सुधीभिः समानशीलव्यसनेन सख्यम् ॥ ३०५॥ तद्यदि गत्वा तं प्रसादयामि तथापि न प्रसादं यास्यति । उक्तञ्च - निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रशाम्यति । अकारणद्वेषपरो हि यो भवेत् कथं नरस्तं परितोषयिष्यति ॥ ३०६॥ अहो साधु चेदमुच्यते - भक्तानामुपकारिणां परहितव्यापारयुक्तात्मनाम् । सेवासंव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि । व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा । तस्मादम्बुपतेरिवावनिपतेः सेवा सदा शङ्किनी ॥ ३०७॥ तथा च - भावस्निग्धैरुपकृतमपि द्वेष्यतां याति लोके । साक्षादन्यैरपकृतमपि प्रीतये चोपयाति । दुर्ग्राह्यत्वान्नृपतिमनसां नैकभावाश्रयाणाम् । सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ३०८॥ तत्परिज्ञातं मया मत्प्रसादमसहमानैः समीपवर्तिभिरेष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्याप्येवं वदति । उक्तञ्च - प्रभोः प्रसादमन्यस्य न सहन्तीह सेवकाः । सपत्न्य इव संक्रुद्धाः सपत्न्याः सुकृतैरपि ॥ ३०९॥ भवति चैवं यद्गुणवत्सु समीपवर्तिषु गुणहीनानां न प्रसादो भवति । उक्तञ्च - गुणवत्तरपात्रेण च्छाद्यन्ते गुणिनां गुणाः । रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ॥ ३१०॥ दमनक आह - भो मित्र । यद्येवं तन्नास्ति ते भयम् । प्रकोपितोऽपि स दुर्जनैस्तव वचनरचनया प्रसादं यास्यति । स आह - भोः । न युक्तमुक्तं भवता । लघूनामपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तञ्च - बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः । कुर्युः कृत्यमकृत्यं वा उष्ट्रे काकादयो यथा ॥ ३११॥ दमनक आह - कथमेतत् । सोऽब्रवीत् -
कथा ११ मदोत्कटसिंहकथा । अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवसति स्म । तस्य चानुचरा अन्ये द्वीपिवायसगोमायवः सन्ति । अथ कदाचित्तैरितस्ततो भ्रमद्भिः सार्थाद्भ्रष्टः क्रथनको नामोष्ट्रो दृष्टः । अथ सिंह आह - अहो अपूर्वमिदं सत्त्वम् । तज्ज्ञायतां किमेतदारण्यकं ग्राम्यं वेति । तच्छ्रुत्वा वायस आह - भोः स्वामिन् । ग्राम्योऽयमुष्ट्रनामा जीवविशेषस्तव भोज्यः । तद्व्यापाद्यताम् । सिंह आह - नाहं गृहमागतं हन्मि । उक्तञ्च - गृहं शत्रुमपि प्राप्तं विश्वस्तमकुतोभयम् । यो हन्यात्तस्य पापं स्याच्छतब्राह्मणघातजम् ॥ ३१२॥ तदभयप्रदानं दत्त्वा मत्सकाशमानीयतां येनास्यागम- कारणं पृच्छामि । अथासौ सर्वैरपि विश्वास्याभयप्रदानं दत्त्वा मदोत्कटसकाशमानीतः प्रणम्योपविष्टश्च । ततस्तस्य पृच्छतस्तेनात्मवृत्तान्तः सार्थभ्रंशसमुद्भवो निवेदितः । ततः सिंहेनोक्तम् - भोः क्रथनक । मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहनकष्टभागी भूयाः । तदत्रैवारण्ये निर्विशङ्को मरकतसदृशानि शष्पाग्राणि भक्षयन्मया सह सदैव वस । सोऽपि तथेत्युक्त्वा तेषां मध्ये विचरन्न कुतोऽपि भयमिति सुखेनास्ते । तथान्येद्युर्मदोत्कटस्य महागजेना- रण्यचारिणा सह युद्धमभवत् । ततस्तस्य दन्तमुसलप्रहारैर्व्यथा सञ्जाता । व्यथितः कथमपि प्राणैर्न वियुक्तः । अथ शरीरासामर्थ्यान्न कुत्रचित्पदमपि चलितुं शक्नोति । ते सर्वे काकादयोऽप्यप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः । अथ तान्सिंहः प्राह - भोः । अन्विष्यतां कुत्रचित्किंचित्सत्त्वं येनाहमेतामपि दशां प्राप्तस्तद्धत्वा युष्मद्भोजनं सम्पादयामि । अथ ते चत्वारोऽपि भ्रमितुमारब्धा यावन्न किंचित्सत्त्वं पश्यन्ति तावद्वायसशृगालौ परस्परं मन्त्रयतः । शृगाल आह - भो वायस । किं प्रभूतभ्रान्तेन । अयमस्माकं प्रभोः क्रथनको विश्वस्तस्तिष्ठति । तदेनं हत्वा प्राणयात्रां कुर्मः । वायस आह - युक्तमुक्तं भवता । परं स्वामिना तस्याभयप्रदानं दत्तमास्ते न वध्योऽयमिति । शृगाल आह - भो वायस । अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत्तिष्ठन्तु भवन्तोऽत्रैव यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा चागच्छामि । एवमभिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः । अथ सिंहमासाद्येदमाह - स्वामिन् । समस्तं वनं भ्रान्त्वा वयमागताः । न किंचित्सत्त्वमासादितम् । तत्किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदमेकमपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । तद्यदि देवादेशो भवति तत्क्रथनकपिशितेनाद्य पथ्यक्रिया क्रियते । अथ सिंहस्तस्य तद्दारुणं वचनमाकर्ण्य सकोपमिदमाह - धिक्पापाधम । यद्येवं भूयोऽपि वदसि ततस्त्वां तत्क्षणमेव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत्कथं व्यापादयामि । उक्तञ्च - न गोप्रदानं न महीप्रदानं न चान्नदानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं सर्वप्रदानेष्वभयप्रदानम् ॥ ३१३॥ तच्छ्रुत्वा शृगाल आह - स्वामिन् यद्यभयप्रदानं दत्त्वा वधः क्रियते तदेष दोषो भवति । पुनर्यदि देवपादानां भक्त्या स आत्मनो जीवितव्यं प्रयच्छति तन्न दोषः । ततो यदि स स्वयमेवात्मानं वधाय नियोजयति तद्वध्योऽन्यथास्माकं मध्यादेकतमो वध्य इति । यतो देवपादाः पथ्याशिनः क्षुन्निरोधादन्त्यां दशां यास्यन्ति । तत्किमेतैः प्राणैरस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चादप्यस्माभिर्वह्निप्रवेशः कार्यो यदि स्वामिपादानां किंचिदनिष्टं भविष्यति । उक्तञ्च - यस्मिन्कुले यः पुरुषः प्रधानः स सर्वयत्नैः परिरक्षणीयः । तस्मिन्विनष्टे स्वकुलं विनष्टं न नाभिभङ्गे ह्यरका वहन्ति ॥ ३१४॥ तदाकर्ण्य मदोत्कट आह - यद्येवं तत्कुरुष्व यद्रोचते । तच्छ्रुत्वा स सत्वरं गत्वा तानाह - भोः । स्वामिनो महत्यवस्था वर्तते । तत्किं पर्यटितेन । तेन विना कोऽत्रास्मान्रक्षयिष्यति । तद्गत्वा तस्य क्षुद्रोगात्परलोकं प्रस्थितस्यात्मशरीरदानं कुर्मो येन स्वामिप्रसादस्यानृणतां गच्छामः । उक्तञ्च - आपदं प्राप्नुयात्स्वामी यस्य भृत्यस्य पश्यतः । प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥ ३१५॥ तदनन्तरं ते सर्वे बाष्पपूरितदृशो मदोत्कटं प्रणम्योपविष्टाः । तान्दृष्ट्वा मदोत्कट आह - भोः । प्राप्तं दृष्टं वा किञ्चित्सत्त्वम् । अथ तेषां मध्यात्काकः प्रोवाच - स्वामिन् । वयं तावत्सर्वत्र पर्यटिताः परं न किञ्चित्सत्त्वमासादितं दृष्टं वा । तदद्य मां भक्षयित्वा प्राणान्धारयतु स्वामी येन देवस्याश्वासनं भवति मम पुनः स्वर्गप्राप्तिरिति । उक्तञ्च - स्वाम्यर्थे यस्त्यजेत्प्राणान्भृत्यो भक्तिसमन्वितः । स परं पदमाप्नोति जरामरणवर्जितम् ॥ ३१६॥ तच्छ्रुत्वा शृगाल आह - भोः स्वल्पकायो भवान् । तव भक्षणात्स्वामिनस्तावत्प्राणयात्रा न भवति । अपरो दोषश्च तावत्समुत्पद्यते । उक्तञ्च - काकमांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलम् । भक्षितेनापि किं तेन येन तृप्तिर्न जायते ॥ ३१७॥ तद्दर्षिता स्वामिभक्तिर्भवता गतं चाऽनृण्यं भर्तृपिण्डस्य प्राप्तश्चोभयलोके साधुवादः । तदपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राह - स्वामिन् । मां भक्षयित्वाद्य प्राणयात्रां विधाय ममोभयलोकप्राप्तिं कुरु । उक्तञ्च - स्वाम्यायत्ताः सदा प्राणा भृत्यानामर्जिता धनैः । यतस्ततो न दोषोऽस्ति तेषां ग्रहणसम्भवः ॥ ३१८॥ अथ तच्छ्रुत्वा द्वीप्याह - भोः साधूक्तं भवता पुनर्भवानपि स्वल्पकायः स्वजातिश्च नखायुधत्वादभक्ष्य एव । उक्तञ्च - नाभक्ष्यं भक्षयेत्प्राज्ञः प्राणैः कण्ठगतैरपि । विशेषात्तदपि स्तोकं लोकद्वयविनाशकम् ॥ ३१९॥ तद्दर्शितं त्वयात्मनः कौलीन्यम् । अथवा साधु चेदमुच्यते - एतदर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥ ३२०॥ तदपसराग्रतः येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटमाह - स्वामिन् । क्रियतामद्य मम प्राणैः प्राणयात्रा । दीयतामक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षितितले प्रभूतं यशः । तन्नात्र विस्मयः कार्यः । उक्तञ्च - मृतानां स्वामिनः कार्ये भृत्यानामनुवर्तिनाम् । भवेत्स्वर्गेऽक्षयो वासः कीर्तिश्च धरणीतले ॥ ३२१॥ तच्छ्रुत्वा क्रथनकश्चिन्तयामास - एतैस्तावत्सर्वैरपि शोभावाक्यान्युक्तानि न चैकोऽपि स्वामिना विनाशितः । तदहमपि प्राप्तकालं वक्ष्यामि येन मद्वचनमेते त्रयोऽपि समर्थयन्ति । इति निश्चित्य प्रोवाच - भोः सत्यमुक्तं भवता परं भवानपि नखायुधः । तत्कथं भवन्तं स्वामी भक्षयति । उक्तञ्च - मनसाऽपि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्येव इह लोके परत्र च ॥ ३२२॥ तदपसराग्रतः येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनकोऽग्रे स्थित्वा प्रणम्योवाच - स्वामिन् । एतेऽभक्ष्यास्तव तन्मम प्राणैः प्राणयात्रा विधीयतां येन ममोभयलोकप्राप्तिर्भवति । उक्तञ्च - न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झितप्राणाः स्वाम्यर्थे सेवकोत्तमाः ॥ ३२३॥ एवमभिहिते ताभ्यां शृगालचित्रकाभ्यां विदारितोभयकुक्षिः क्रथनकः प्राणानत्याक्षीत् । ततश्च तैः क्षुद्रपण्डितैः सर्वैर्भक्षितः । अतोऽहं ब्रवीमि - बहवः पण्डिताः क्षुद्रा इति । तद्भद्र क्षुद्रपरिवारोऽयं ते राजा मया सम्यग्ज्ञातः । सतामसेव्यश्च । उक्तञ्च - अशुद्धप्रकृतौ राज्ञि जनता नानुरज्यते । यथा गृध्रसमासन्नः कलहंसः समाचरेत् ॥ ३२४॥ तथा च - गृध्राकारोऽपि सेव्यः स्याद्धंसाकारैः सभासदैः । हंसाकारोऽपि सन्त्याज्यो गृध्राकारैः स तैर्नृपः ॥ ३२५॥ तन्नूनं ममोपरि केनचिद्दुर्जनेनायं प्रकोपितः तेनैवं वदति । अथवा भवत्येतत् । उक्तञ्च - मृदुना सलिलेन खन्यमाना- न्यवघृष्यन्ति गिरेरपि स्थलानि । उपजापविदां च कर्णजापैः किमु चेतांसि मृदूनि मानवानाम् ॥ ३२६॥ कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः । क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥ ३२७॥ अथवा साध्विदमुच्यते - पादाहतोऽपि दृढदण्डसमाहतोऽपि यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः । कोऽप्येष एव पिशुनोग्रमनुष्यधर्मः कर्णे परं स्पृशति हन्ति परं समूलम् ॥ ३२८॥ तथा च - अहो खलभुजङ्गस्य विपरीतो वधक्रमः । कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ॥ ३२९॥ तदेवं गतेऽपि किं कर्तव्यमित्यहं त्वां सुहृद्भावात्पृच्छामि । दमनक आह - तद्देशान्तरगमनं युज्यते । नैवंविधस्य कुस्वामिनः सेवां विधातुम् । उक्तञ्च - गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ ३३०॥ संजीवक आह - अस्माकमुपरि स्वामिनि कुपिते गन्तुं न शक्यते न चान्यत्र गतानामपि निर्वृतिर्भवति । उक्तञ्च - महतां योऽपराध्येत दूरस्थोऽस्मीति नाश्वसेत् । दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥ ३३१॥ तद्युद्धं मुक्त्वा मे नान्यदस्ति श्रेयस्करम् । उक्तञ्च - न तान्हि तीर्थैस्तपसा च लोकान्- स्वर्गैषिणो दानशतैः सुवृत्तैः । क्षणेन यान्यान्ति रणेषु धीराः प्राणान्समुज्झन्ति हि ये सुशीलाः ॥ ३३२॥ मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिरुत्तमा । तदुभावपि शूराणां गुणावेतौ सुदुर्लभौ ॥ ३३३॥ ललाटदेशे रुधिरं स्रवत्तु शूरस्य यस्य प्रविशेच्च वक्त्रे । तत्सोमपानेन समं भवेच्च सङ्ग्रामयज्ञे विधिवत्प्रदिष्टम् ॥ ३३४॥ तथा च - होमार्थैर्विधिवत्प्रदानविधिना सद्विप्रवृन्दार्चनै - र्यज्ञैर्भूरिसुदक्षिणैः सुविहितैः सम्प्राप्यते यत्फलम् । सत्तीर्थाश्रमवासहोमनियमैश्चान्द्रायणाद्यैः कृतैः पुंभिस्तत्फलमाहवे विनिहितैः सम्प्राप्यते तत्क्षणात् ॥ ३३५॥ तदाकर्ण्य दमनकश्चिन्तयामास - युद्धाय कृतनिश्चयोऽयं दृश्यते दुरात्मा । तद्यदि कदाचित्तीक्ष्णशृङ्गाभ्यां स्वामिनं प्रहरिष्यति तन्महाननर्थः सम्पत्स्यते । तदेनं भूयोऽपि स्वबुद्ध्या प्रबोध्य तथा करोमि यथा देशान्तरगमनं करोति । आह च - भो मित्र । सम्यगभिहितं भवता । परं कः स्वामिभृत्ययोः सङ्ग्रामः । उक्तञ्च - बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् । बलवद्भिश्च कर्तव्या शरच्चन्द्रप्रकाशता ॥ ३३६॥ अन्यच्च - शत्रोर्विक्रममज्ञात्वा वैरमारभते हि यः । स पराभवमाप्नोति समुद्रष्टिट्टिभाद्यथा ॥ ३३७॥ संजीवक आह - कथमेतत् । सोऽब्रवीत् -
कथा १२ टिट्टिभदम्पतीकथा । कस्मिंश्चित्समुद्रैकदेशे टिट्टिभदम्पती प्रतिवसतः स्म । ततो गच्छति काल ऋतुसमयमासाद्य टिट्टिभी गर्भमाधत्त । आसन्नप्रसवा सती सा टिट्टिभमूचे - भोः कान्त । मम प्रसवसमयो वर्तते । तद्विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्राहमण्डकमोक्षणं करोमि ।टिट्टिभः प्राह - भद्रे रम्योऽयं समुद्रप्रदेशः । तदत्रैव प्रसवः कार्यः । सा प्राह - अत्र पूर्णिमादिने समुद्रवेला चरति । सा मत्तगजेन्द्रानपि समाकर्षति । तद्दूरमन्यत्र किञ्चित्स्थानमन्विष्यताम् । तच्छ्रुत्वा विहस्य टिट्टिभ आह - भद्रे न युक्तमुक्तं भवत्या । का मात्रा समुद्रस्य यो मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या - बद्ध्वाम्बरचरमार्गं व्यपगतधूमं सदा महद्भयदम् । मन्दमतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः ॥ ३३८॥ मत्तेभकुम्भविदलनकृतश्रमं सुप्तमन्तकप्रतिमम् । यमलोकदर्शनेच्छुः सिंहं बोधयति को नाम ॥ ३३९॥ को गत्वा यमसदनं स्वयमन्तकमादिशत्यजातभयः । प्राणानपहर मत्तो यदि शक्तिः काचिदस्ति तव ॥ ३४०॥ प्रालेयलेशमिश्रे मरुति प्राभातिके च वाति जडे । गुणदोषज्ञः पुरुषो जलेन कः शीतमपनयति ॥ ३४१॥ तस्माद्विश्रब्धाऽत्रैव गर्भं मुञ्च । उक्तञ्च - यः पराभवसन्त्रस्तः स्वस्थानं सन्त्यजेन्नरः । तेन चेत्पुत्रिणी माता तद्वन्ध्या केन कथ्यते ॥ ३४२॥ तच्छ्रुत्वा समुद्रश्चिन्तयामास - अहो गर्वः पक्षिकीटस्यास्य । अथवा साध्विदमुच्यते - उत्क्षिप्य टिट्टिभः पादावास्ते भङ्गभयाद्दिवः । स्वचित्तकल्पितो गर्वः कस्य नात्रापि विद्यते ॥ ३४३॥ तन्मयास्य प्रमाणं कुतूहलादपि द्रष्टव्यम् । किं ममैषोऽण्डापहारे कृते करिष्यति । इति चिन्तयित्वा स्थितः । अथ प्रसवानन्तरं प्राणयात्रार्थं गतायाष्टिट्टिभ्याः समुद्रो वेलाव्याजेनाण्डान्यपजहार । अथायाता सा टिट्टिभी प्रसवस्थानं शून्यमवलोक्य प्रलपन्ती टिट्टिभमूचे - भो मूर्ख । कथितमासीन्मया ते यत्समुद्रवेलयाऽण्डानां विनाशो भविष्यति तद्दूरतरं व्रजावः परं मूढतयाऽहंकार- माश्रित्य मम वचनं न करोषि । अथवा साध्विदमुच्यते । सुहृदां हितकामानां न करोतीह यो वचः । स कूर्म इव दुर्बुद्धिः काष्ठाद्भ्रष्टो विनश्यति ॥ ३४४॥ टिट्टिभ आह - कथमेतत् । साब्रवीत् -
कथा १३ कम्बुग्रीवाख्यकूर्मकथा । अस्ति कस्मिंश्चिज्जलाशये कम्बुग्रीवो नाम कच्छपः । तस्य च सङ्कटविकटनाम्नी मित्रे हंसजातीये परमस्नेहकोटिमाश्रिते नित्यमेव सरस्तीरमासाद्य तेन सहानेकदेवर्षिमहर्षीणां कथाः कृत्वाऽस्तमयवेलायां स्वनीडासंश्रयं कुरुतः । अथ गच्छता कालेनावृष्टिवशात् सरः शनैः शनैः शोषमगमत् । ततस्तद्दुःखदुःखितौ तावूचतुः - भो मित्र । जम्बालशेषमेतत्सरः सञ्जातम् । तत्कथं भवान्भविष्यतीति व्याकुलत्वं नो हृदि वर्तते । तच्छ्रुत्वा कम्बुग्रीव आह - भोः साम्प्रतं नास्त्यस्माकं जीवितव्यं जलाभावात् । तथाप्युपायश्चिन्त्यतामिति । उक्तञ्च - त्याज्यं न धैर्यं विधुरेऽपि काले धैर्यात्कदाचिद्गतिमाप्नुयात्सः । यथा समुद्रेऽपि च पोतभङ्गे सांयात्रिको वाञ्छति तर्तुमेव ॥ ३४५॥ अपरञ्च - मित्रार्थे बान्धवार्थे च बुद्धिमान्यतते सदा । जातास्वापत्सु यत्नेन जगादेदं वचो मनुः ॥ ३४६॥ तदानीयतां काचिद्दृढरज्जुर्लघुकाष्ठं वा । अन्विष्यतां च प्रभूतजलसनाथं सरः येन मया मध्यप्रदेशे दन्तैर्गृहीते सति युवां कोटिभागयोस्तत्काष्ठं मया सहितं सङ्गृह्य तत्सरो नयथः । तावूचतुः - भो मित्र । एवं करिष्यावः । परं भवता मौनव्रतेन स्थातव्यम् । नो चेत्तव काष्ठात्पातो भविष्यति । तथानुष्ठिते गच्छता कम्बुग्रीवेणाधोभागव्यवस्थितं किञ्चित्पुरमालोकितम् । तत्र ये पौरास्ते तथा नीयमानं विलोक्य सविस्मयमिदमूचुः - अहो चक्राकारं किमपि पक्षिभ्यां नीयते । पश्यत पश्यत । अथ तेषां कोलाहलमाकर्ण्य कम्बुग्रीव आह - भोः । किमेष कोलाहलः । इति वक्तुमना अर्धोक्ते पतितः पौरैः खण्डशः कृतश्च । अतोऽहं ब्रवीमि - सुहृदां हितकामानामिति । तथा च - अनागतविधाता च प्रत्युत्पन्नमतिस्तथा । द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति ॥ ३४७॥ टिट्टिभ आह - कथमेतत् । साऽब्रवीत् -
कथा १४ अनागतविधातादिमत्स्यत्रयकथा । कस्मिंश्चिज्जलाशयेऽनागतविधाता प्रत्युत्पन्नमति- र्यद्भविष्यश्चेति त्रयो मत्स्याः सन्ति । अथ कदाचित्तं जलाशयं दृष्ट्वा गच्छद्भिर्मत्स्यजीविभिरुक्तं यदहो बहुमत्स्योऽयं ह्रदः । कदाचिदपि नास्माभिरन्वेषितः । तदद्य तावदाहारवृत्तिः सञ्जाता । सन्ध्यासमयश्च संवृत्तः । ततः प्रभातेऽत्रागन्तव्यमिति निश्चयः । अतस्तेषां तत्कुलिशपातोपमं वचः समाकर्ण्यानागतविधाता सर्वान्मत्स्यानाहूयेदमूचे - अहो श्रुतं भवद्भिर्यन्मत्स्यजीविभिरभिहितम् । तद्रात्रावपि गम्यतां किञ्चिन्निकटं सरः । उक्तञ्च - अशक्तैर्बलिनः शत्रोः कर्तव्यं प्रपलायनम् । संश्रितव्योऽथवा दुर्गो नान्या तेषां गतिर्भवेत् ॥ ३४८॥ तन्नूनं प्रभातसमये मत्स्यजीविनोऽत्र समागम्य मत्स्यसंक्षयं करिष्यन्ति । एतन्मम मनसि वर्तते । तन्न युक्तं साम्प्रतं क्षणमप्यत्रावस्थातुम् । उक्तञ्च - विद्यमाना गतिर्येषामन्यत्रापि सुखावहा । ते न पश्यन्ति विद्वांसो देहभङ्गं कुलक्षयम् ॥ ३४९॥ तदाकर्ण्य प्रत्युत्पन्नमतिः प्राह - अहो सत्यमभिहितं भवता । ममाप्यभीष्टमेतत् । तदन्यत्र गम्यतामिति । उक्तञ्च - परदेशभयाद्भीता बहुमाया नपुंसकाः । स्वदेशे निधनं यान्ति काकाः कापुरुषा मृगाः ॥ ३५०॥ यस्यास्ति सर्वत्र गतिः स कस्मात् स्वदेशरागेण हि याति नाशम् । तातस्य कूपोऽयमिति ब्रुवाणाः क्षारं जलं कापुरुषाः पिबन्ति ॥ ३५१॥ अथ तत्समाकर्ण्य प्रोच्चैर्विहस्य यद्भविष्यः प्रोवाच - अहो न भवद्भ्यां मन्त्रितं सम्यगेतदिति यतः किं वाङ्मात्रेणापि तेषां पितृपैतामहिकमेतत्सरस्त्यक्तुं युज्यते । यद्यायुःक्षयोऽस्ति तदन्यत्र गतानामपि मृत्युर्भविष्यत्येव । उक्तञ्च - अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ ३५२॥ तदहं न यास्यामि । भवद्भ्यां च यत्प्रतिभाति तत्कर्तव्यम् । अथ तस्य तं निश्चयं ज्ञात्वाऽनागतविधाता प्रत्युत्पन्नमतिश्च निष्क्रान्तौ सह परिजनेन । अथ प्रभाते तैर्मत्स्यजीविभिर्जालैस्तज्जलाशयमालोड्य यद्भविष्येण सह तत्सरो निर्मत्स्यतां नीतम् । अतोऽहं ब्रवीमि - अनागतविधाता चेति । तच्छ्रुत्वा टिट्टिभ आह - भद्रे किं मां यद्भविष्यसदृशं सम्भावयसि । तत्पश्य मे बुद्धिप्रभावं यावदेनं दुष्टसमुद्रं स्वचञ्च्वा शोषयामि । टिट्टिभ्याह - अहो कस्ते समुद्रेण सह विग्रहः । तन्न युक्तमस्योपरि कोपं कर्तुम् । उक्तञ्च - पुंसामसमर्थानामुपद्रवायात्मनो भवेत्कोपः । पिठरं ज्वलदतिमात्रं निजपार्श्वानेव दहतितराम् ॥ ३५३॥ तथा च - अविदित्वात्मनः शक्तिं परस्य न समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥ ३५४॥ टिट्टिभ आह - प्रिये मा मैवं वद । येषामुत्साहशक्तिर्भवति ते स्वल्पा अपि गुरून्विक्रमन्ते । उक्तञ्च - विशेषात्परिपूर्णस्य याति शत्रोरमर्षणः । आभिमुख्यं शशाङ्कस्य यथाद्यापि विधुन्तुदः ॥ ३५५॥ तथा च - प्रमाणादधिकस्यापि गण्डश्याममदच्युतेः । पदं मूर्ध्नि समाधत्ते केसरी मत्तदन्तिनः ॥ ३५६॥ तथा च - बालस्यापि रवेः पादाः पतन्त्युपरि भूभृताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ ३५७॥ हस्ती स्थूलतरः स चाङ्कुशवशः किं हस्तिमात्रोऽङ्कुशोः । दीपे प्रज्वलिते प्रणश्यति तमः किं दीपमात्रं तमः । वज्रेणापि हताः पतन्ति गिरयः किं वज्रमात्रो गिरि - स्तेजो यस्य विराजते स बलवान्स्थूलेषु कः प्रत्ययः ॥ ३५८॥ तदनया चञ्च्वास्य सकलं तोयं शुष्कस्थलतां नयामि । टिट्टिभ्याह - भोः कान्त । यत्र जाह्नवी नवनदीशतानि गृहीत्वा नित्यमेव प्रविशति तथा सिन्धुश्च । तत्कथं त्वमष्टादश- नदीशतैः पूर्यमाणं तं विप्रुषवाहिन्या चञ्च्वा शोषयिष्यसि । तत्किमश्रद्धेयेनोक्तेन । टिट्टिभ आह - प्रिये । अनिर्वेदः श्रियो मूलं चञ्चुर्मे लोहसंनिभा । अहोरात्राणि दीर्घाणि समुद्रः किं न शुष्यति ॥ ३५९॥ दुरधिगमः परभागो यावत्पुरुषेण पौरुषं न कृतम् । जयति तुलामधिरूढो भास्वानपि जलदपटलानि ॥ ३६०॥ टिट्टिभ्याह - यदि त्वयावश्यं समुद्रेण सह विग्रहानुष्ठानं कार्यं तदन्यानपि विहङ्गमानाहूय सुहृज्जनसहित एवं समाचर । उक्तञ्च - बहूनामप्यसाराणां समवायो हि दुर्जयः । तृणैरावेष्ट्यते रज्जुर्येन नागोऽपि बद्ध्यते ॥ ३६१॥ तथा च - चटका काष्ठकूटेन मक्षिका दर्दुरैस्तथा । महाजनविरोधेन कुञ्जरः प्रलयं गतः ॥ ३६२॥ टिट्टिभ आह - कथमेतत् । सा प्राह -
कथा १५ कुञ्जरचटकदम्पतीकथा । कस्मिंश्चिद्वनोद्देशे चटकदम्पती तमालतरुकृतनिलयौ प्रतिवसतः स्म । अथ तयोर्गच्छता कालेन सन्ततिरभवत् । अन्यस्मिन्नहनि प्रमत्तो वनगजः कश्चित्तं तमालवृक्षं घर्मार्तश्छायार्थी समाश्रितः । ततो मदोत्कर्षात्तां तस्य शाखां चटकाश्रितां पुष्कराग्रेणाकृष्य बभञ्ज । तस्या भङ्गेन चटकाण्डानि सर्वाणि विशीर्णानि । आयुःशेषतया च चटकौ कथमपि प्राणैर्न वियुक्तौ । अथ चटका स्वाण्डभङ्गा- भिभूता प्रलापान्कुर्वाणा न किञ्चित्सुखमाससाद । अत्रान्तरे तस्यास्तान्प्रलापान्श्रुत्वा काष्ठकूटो नाम पक्षी तस्याः परमसुहृत्तद्दुःखदुःखितोऽभ्येत्य तामुवाच - भगवति । किं वृथा प्रलापेन । उक्तञ्च - नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः । पण्डितानां च मूर्खाणां विशेषोऽयं यतः स्मृतः ॥ ३६३॥ तथा च - अशोच्यानीह भूतानि यो मूढस्तानि शोचति । तद्दुःखाल्लभते दुःखं द्वावनर्थौ निषेवते ॥ ३६४॥ अन्यच्च - श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । तस्मान्न रोदितव्यं हि क्रियाः कार्याश्च शक्तितः ॥ ३६५॥ चटका प्राह - अस्त्वेतत् । परं दुष्टगजेन मदान्मम सन्तानक्षयः कृतः । तद्यदि मम त्वं सुहृत्सत्यस्तदस्य गजापसदस्य कोऽपि वधोपायश्चिन्त्यताम् । यस्यानुष्ठानेन मे सन्ततिनाशदुःखमपसरति । उक्तञ्च - आपदि येनोपकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोरुभयोः पुनरपि जातं नरं मन्ये ॥ ३६६॥ काष्ठकूट आह - भगवति सत्यमभिहितं भवत्या । उक्तञ्च - स सुहृद्व्यसने यः स्यादन्यजात्युद्भवोऽपि सन् । वृद्धौ सर्वोऽपि मित्रं स्यात्सर्वेषामेव देहिनाम् ॥ ३६७॥ स सुहृद्व्यसने यः स्यात्स पुत्रो यस्तु भक्तिमान् । स भृत्यो यो विधेयज्ञः सा भार्या यत्र निर्वृतिः ॥ ३६८॥ तत्पश्य मे बुद्धिप्रभावम् । परं ममापि सुहृद्भूता वीणारवा नाम मक्षिकास्ति । तत्तामाहूयागच्छामि येन स दुरात्मा दुष्टगजो वध्यते ऽथासौ चटकया सह मक्षिकामासाद्य प्रोवाच - भद्रे ममेष्टेयं चटका केनचिद्दुष्टगजेन पराभूताण्डस्फोटनेन । तत्तस्य वधोपायमनुतिष्ठतो मे साहाय्यं कर्तुमर्हसि । मक्षिकाप्याह - भद्र । किमुच्यतेऽत्र विषये । उक्तञ्च - पुनः प्रत्युपकाराय मित्राणां क्रियते प्रियम् । यत्पुनर्मित्रमित्रस्य कार्यं मित्रैर्न किं कृतम् ॥ ३६९॥ सत्यमेतत् । परं ममापि भेको मेघनादो नाम मित्रं तिष्ठति । तमप्याहूय यथोचितं कुर्मः । उक्तञ्च - हितैः साधुसमाचारैः शास्त्रज्ञैर्मतिशालिभिः । कथञ्चिन्न विकल्पन्ते विद्वद्भिश्चिन्तिता नयाः ॥ ३७०॥ अथ ते त्रयोऽपि गत्वा मेघनादस्याग्रे समस्तं वृत्तान्तं निवेद्य तस्थुः । अथ स प्रोवाच - कियन्मात्रोऽसौ वराको गजो महाजनस्य कुपितस्याग्रे । तन्मदीयो मन्त्रः कर्तव्यः । मक्षिके त्वं गत्वा मध्याह्नसमये तस्य मदोद्धतस्य गजस्य कर्णे वीणारवसदृशं शब्दं कुरु । येन श्रवणसुखलालसो निमीलितनयनो भवति । ततश्च काष्ठकूटचञ्च्वा स्फोटितनयनोऽन्धीभूतस्तृषार्तो मम गर्ततटाश्रितस्य सपरिकरस्य शब्दं श्रुत्वा जलाशयं मत्वा समभ्येति । ततो गर्तमासाद्य पतिष्यति पञ्चत्वं यास्यति चेति । एवं समवायः कर्तव्यो यथा वैरसाधनं भवति । अथ तथानुष्ठिते स मत्तगजो मक्षिकागेयसुखान्निमीलितनेत्रः काष्ठकूटहृतचक्षु- र्मध्याह्नसमये भ्राम्यन्मण्डूकशब्दानुसारी गच्छन्महतीं गर्तामासाद्य पतितो मृतश्च । अतोऽहं ब्रवीमि - चटका काष्ठकूटेनेति । टिट्टिभ आह - भद्रे एवं भवतु । सुहृद्वर्गसमुदायेन सह समुद्रं शोषयिष्यामि । इति निश्चित्य बकसारसमयूरादीन्समाहूय प्रोवाच - भोः पराभूतोऽहं समुद्रेणाण्डकापहरेण । तच्चिन्त्यतामस्य शोषणोपायः । ते सम्मन्त्र्य प्रोचुः - अशक्ता वयं समुद्रशोषणे । तत्किं वृथा प्रयासेन । उक्तञ्च - अबलः प्रोन्नतं शत्रुं यो याति मदमोहितः । युद्धार्थं स निवर्तेत शीर्णदन्तो यथा गजः ॥ ३७१॥ तदस्माकं स्वामी वैनतेयोऽस्ति । तस्मै सर्वमेतत्परिभवस्थानं निवेद्यतां येन स्वजातिपरिभवकुपितो वैरानृण्यं गच्छति । अथवात्रावलेपं करिष्यति तथापि नास्ति वो दुःखम् । उक्तञ्च - सुहृदि निरन्तररचिते गुणवति भृत्येऽनुवर्तिनि कलत्रे । स्वामिनि शक्तिसमेते निवेद्य दुःखं सुखी भवति ॥ ३७२॥ तद्यामो वैनतेयसकाशं यतोऽसावस्माकं स्वामी । तथानुष्ठिते सर्वे ते पक्षिणो विषण्णवदना बाष्पपूरितदृशो वैनतेयसकाशमासाद्य करुणस्वरेण फूत्कर्तुमारब्धाः - अहो । अब्रह्मण्यमब्रह्मण्यम् । अधुना सदाचारस्य टिट्टिभस्य भवति नाथे सति समुद्रेणाण्डान्यपहृतानि तत्प्रनष्टमधुना पक्षिकुलम् । अन्येऽपि स्वेच्छया समुद्रेण व्यापादिष्यन्ते । उक्तञ्च - क्व कस्य कर्म संवीक्ष्य करोत्यन्योऽपि गर्हितम् । गतानुगतिको लोको न लोकः पारमार्थिकः ॥ ३७३॥ चाटुतस्करदुर्वृत्तैस्तथा साहसिकादिभिः । पीड्यमानाः प्रजा रक्ष्याः कूटच्छद्मादिभिस्तथा ॥ ३७४॥ प्रजानां धर्मषड्भागो राज्ञो भवति रक्षितुः । अधर्मादपि षड्भागो जायते यो न रक्षति ॥ ३७५॥ प्रजापीडनसन्तापात्समुद्भूतो हुताशनः । राज्ञः श्रियं कुलं प्राणान्नादग्ध्वा विनिवर्तते ॥ ३७६॥ राजा बन्धुरबन्धूनां राजा चक्षुरचक्षुषाम् । राजा पिता च माता च सर्वेषां न्यायवर्तिनाम् ॥ ३७७॥ फलार्थी पार्थिवो लोकान्पालयेद्यत्नमास्थितः । दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥ ३७८॥ यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः । फलप्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥ ३७९॥ हिरण्यधान्यरत्नानि यानानि विविधानि च । तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्नृपस्य तत् ॥ ३८०॥ अथैवं गरुडः समाकर्ण्य तद्दुःखदुःखितः कोपाविष्टश्च व्यचिन्तयत् - अहो । सत्यमुक्तमेतैः पक्षिभिः । तदद्य गत्वा तं समुद्रं शोषयामः । एवं चिन्तयतस्तस्य विष्णुदूतः समागत्याह - भो गरुत्मन् । भगवता नारायणेनाहं तव पार्श्वे प्रेषितः । देवकार्याय भगवानमरावत्यां यास्यतीति । तत्सत्वरमागम्यताम्। तच्छ्रुत्वा गरुडः साभिमानं प्राह - भो दूत । किं मया कुभृत्येन भगवान्करिष्यति । तद्गत्वा तं वद यदन्यो भृत्यो वाहनायास्मत्स्थाने क्रियताम् । मदीयो नमस्कारो वाच्यो भगवतः । उक्तञ्च - यो न वेत्ति गुणान्यस्य न तं सेवेत पण्डितः । न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥ ३८१॥ दूत आह - भो वैनतेय । कदाचिदपि भगवन्तं प्रति त्वया नैतदभिहितमीदृक्। तत्कथय किं ते भगवतापमानस्थानं कृतम् । गरुड आह - भगवदाश्रयभूतेन समुद्रेणास्मट्टिट्टिभाण्डान्यपहृतानि । तद्यदि निग्रहं न करोति तदहं भगवतो न भृत्य इत्येष निश्चयस्त्वया वाच्यः । तद्द्रुततरं गत्वा भवता भगवतः समीपे वक्तव्यम् ऽथ दूतमुखेन प्रणयकुपितं वैनतेयं विज्ञाय भगवांश्चिन्तयामास अहो स्थाने कोपो वैनतेयस्य । तत्स्वयमेव गत्वा सम्मानपुरःसरं तमानयामि। उक्तञ्च - भक्तं शक्तं कुलीनं च न भृत्यमवमानयेत् । पुत्रव लालयेन्नित्यं य इच्छेच्छ्रियमात्मनः ॥ ३८२॥ अन्यच्च - राजा तुष्टोऽपि भृत्यानामर्थमात्रं प्रयच्छति । ते तु सम्मानितास्तस्य प्राणैरप्युपकुर्वते ॥ ३८३॥ इत्येवं सम्प्रधार्य रुक्मपुरे वैनतेयसकाशं सत्वरमगमत् । वैनतेयोऽपि गृहागतं भगवन्तमवलोक्य त्रपाधोमुखः प्रणम्योवाच - भगवन् । त्वदाश्रयोन्मत्तेन समुद्रेण मम भृत्यास्याण्डान्यपहृत्य ममापमानो विहितः । परं भगवल्लज्जया मया विलम्बितम् । नो चेदेनमहं स्थलान्तरमद्यैव नयामि । यतः स्वामिभयाच्छुणोऽपि प्रहारो न दीयते । उक्तञ्च - येन स्याल्लघुता वाथ पीडा चित्ते प्रभोः क्वचित् । प्राणत्यागेऽपि तत्कर्म न कुर्यात्कुलसेवकः ॥ ३८४॥ तच्छ्रुत्वा भगवानाह - भो वैनतेय । सत्यमभिहितं भवता । उक्तञ्च - भृत्यापराधजो दण्डः स्वामिनो जायते यतः । तेन लज्जापि तस्योत्था न भृत्यस्य तथा पुनः ॥ ३८५॥ तदागच्छ येनाण्डानि समुद्रादादाय टिट्टिभं सम्भावयावः । अमरावतीं च गच्छावः । तथानुष्ठिते समुद्रो भगवता निर्भर्त्स्याग्नेयं शरं सन्ध्यायाभिहितः - भो दुरात्मन् । दीयन्तां टिट्टिभाण्डानि । नो चेत्स्थलतां त्वां नयामि । ततः समुद्रेण सभयेन टिट्टिभाण्डानि तानि प्रदत्तानि । टिट्टिभेनापि भार्यायै समर्पितानि । अतोऽहं ब्रवीमि - शत्रोर्बलमविज्ञाय इति । तस्मात्पुरुषेणोद्यमो न त्याज्यः । तदाकर्ण्य संजीवकस्तमेव भूयोऽपि पप्रच्छ - भो मित्र । कथं ज्ञेयो मयाऽसौ दुष्टबुद्धिरिति । इयन्तं कालं यावदुत्तरोत्तरस्नेहेन प्रसादेन चाहं दृष्टः । न कदाचित्तद्विकृतिर्दृष्टा । तत्कथ्यतां येनाहमात्मरक्षार्थं तद्वधायोद्यमं करोमि । दमनक आह - भद्र किमत्र ज्ञेयम् । एष ते प्रत्ययः । यदि रक्तनेत्रस्त्रिशिखां भ्रूकुटिं दधानः सृक्किणीं परिलेलिहन्त्वां दृष्ट्वा भवति तद्दुष्टबुद्धिः । अन्यथा सुप्रसादश्चेति । तदाज्ञापय माम् । स्वाश्रयं प्रति गच्छामि । त्वया च यथायं मन्त्रभेदो न भवति तथा कार्यम् । यदि निशामुखं प्राप्य गन्तुं शक्नोषि तद्देशत्यागः कार्यः । यतः - त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥ ३८६॥ आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ३८७॥ बलवताभिभूतस्य विदेशगमनं तदनुप्रवेशो वा नीतिः । तद्देशत्यागः कार्यः। अथवात्मा सामादिभिरुपायै- रभिरक्षणीयः । उक्तञ्च - अपि पुत्रकलत्रैर्वा प्राणान्रक्षेत पण्डितः । विद्यमानैर्यतस्तैः स्यात्सर्वं भूयोऽपि देहिनाम् ॥ ३८८॥ तथा च - येन केनाप्युपायेन शुभेनाप्यशुभेन वा । उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत् ॥ ३८९॥ यो मायां कुरुते मूढः प्राणत्यागे धनादिषु । तस्य प्राणाः प्रणश्यन्ति तैर्नष्टैर्नष्टमेव तत् ॥ ३९०॥ एवमभिधाय दमनकः करटकसकाशमगमत् । करटकोऽपि तमायान्तं दृष्ट्वा प्रोवाच - भद्र । किं कृतं तत्रभवता । दमनक आह - मया तावन्नीतिबीजनिर्वापणं कृतम् । परतो दैवविहितायत्तम् । उक्तञ्च - पराङ्मुखेऽपि दैवेऽत्र कृत्यं कार्यं विपश्चिता । आत्मदोषविनाशाय स्वचित्तस्तम्भनाय च ॥ ३९१॥ तथा च - उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी - र्दैवं हि दैवमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या । यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ ३९२॥ करटक आह - तत्कथय कीदृक्त्वया नीतिबीजं निर्वापितम् । सोऽब्रवीत् - मयाऽन्योन्यं ताभ्यां मिथ्याप्रजल्पेन भेदस्तथा विहितो यथा भूयोऽपि मन्त्रयन्तावेकस्थानस्थितौ न द्रक्ष्यसि । करटक आह - अहो न युक्तं भवता विहितं यत्परस्परं तौ स्नेहार्द्रहृदयौ सुखाश्रयौ कोपसागरे प्रक्षिप्तौ । उक्तञ्च - अविरुद्धं सुखस्थं यो दुःखमार्गे नियोजयेत् । जन्मजन्मान्तरं दुःखी स नरः स्यादसंशयम् ॥ ३९३॥ अपरं त्वं यद्भेदमात्रेणापि तुष्टस्तदप्ययुक्तं यतः सर्वतोऽपि जनो विरूपकरणे समर्थो भवति नोपकर्तुम् । उक्तञ्च - घातयितुमेव नीचः परकार्यं वेत्ति न प्रसादयितुम् । पातयितुमस्ति शक्तिर्वायोर्वृक्षं न चोन्नमितुम् ॥ ३९४॥ दमनक आह - अनभिज्ञो भवान्नीतिशास्त्रस्य तेनैतद्ब्रवीति । उक्तञ्च यतः - जातमात्रं न यः शत्रुं व्याधिं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥ ३९५॥ तच्छत्रुभूतोऽयमस्माकं मन्त्रिपदाहरणात् । उक्तञ्च - पितृपैतामहं स्थानं यो यस्यात्र जिगीषते । स तस्य सहजः शत्रुरुच्छेद्योऽपि प्रिये स्थितः ॥ ३९६॥ तन्मया स उदासीनतया समानीतोऽभयप्रदानेन यावत्तावदहमपि तेन साचिव्यात्प्रच्यावितः । अथवा साध्विदमुच्यते - दद्यात्साधुर्यदि निजपदे दुर्जनाय प्रवेशम् तन्नाशाय प्रभवति ततो वाञ्छमानः स्वयं सः । तस्माद्देयो विपुलमतिभिर्नावकाशोऽधमानाम् । जारापि स्याद्गृहपतिरिति श्रूयते वाक्यतोऽत्र ॥ ३९७॥ तेन मया तस्योपरि वधोपाय एव विरच्यते । देशत्यागाय वा भविष्यति । तच्च त्वां मुक्त्वाऽन्यो न ज्ञास्यति । तदुक्तमेतत्ते स्वार्थायानुष्ठितम् । उक्तञ्च - निस्त्रिंशं हृदयं कृत्वा वाणीं क्षुरसमोपमाम् । विकल्पोऽत्र न कर्तव्यो हन्यात्तत्रापकारिणम् ॥ ३९८॥ अपरं मृतोऽप्यस्माकं भोज्यो भविष्यति । तदेकं तावद्वरसाधनम् । अपरं साचिव्यं च भविष्यति तृप्तिश्चेति । तद्गुणत्रयेऽस्मिन्नुपस्थिते कस्मान्मां दूषयसि त्वं जाड्यभावात् । उक्तञ्च - परस्य पीडनं कुर्वन्स्वार्थसिद्धिं च पण्डितः । मूढबुद्धिर्न भक्षेत वने चतुरको यथा ॥ ३९९॥ करटक आह - कथमेतत् । स आह -
कथा १६ वज्रदंष्ट्रनामसिंहकथा । अस्ति कस्मिंश्चिद्वनोद्देशे वज्रदंष्ट्रो नाम सिंहः । तस्य चतुरकक्रव्यमुखनामानौ शृगालवृकौ भृत्यभूतौ सदैवानुगतौ तत्रैव वने प्रतिवसतः । अथान्यदिने सिंहेन कदाचिदासन्नप्रसवा प्रसववेदनया स्वयूथाद्भ्रष्टोष्ट्र्युपविष्टा कस्मिंश्चिद्वनगहने समासादिता । अथ तां व्यापाद्य यावदुदरं स्फोटयति तावज्जीवल्लघुदासेरकशिशुर्निष्क्रान्तः । सिंहोऽपि दासेरक्याः पिशितेन सपरिवारः परां तृप्तिमुपागतः । परं स्नेहाद्बालदासेरकं त्यक्तं गृहमानीयेदमुवाच - भद्र न तेऽस्ति मृत्योर्भयं मत्तो नान्यस्मादपि । ततः स्वेच्छयाऽत्र वने भ्राम्यतामिति । यतस्ते शङ्कुसदृशौ कर्णौ ततः शङ्कुकर्णो नाम भविष्यति । एवमनुष्ठिते चत्वारोऽपि त एकस्थाने विहारिणः परस्परमनेकप्रकारगोष्ठीसुख- मनुभवन्तस्तिष्ठन्ति । शङ्कुकर्णोऽपि यौवनपदवीमारूढः क्षणमपि न तं सिंहं मुञ्चति । अथ कदाचिद्वज्रदंष्ट्रस्य केनचिद्वन्येन मत्तगजेन सह युद्धमभवत् । तेन मदवीर्यात्स दन्तप्रहारैस्तथा क्षतशरीरो विहितो यथा प्रचलितुं न शक्नोति । तदा क्षुत्क्षामकण्ठस्तान्प्रोवाच - भोः । अन्विष्यतां किञ्चित्सत्त्वं येनाहमेवंस्थितोऽपि तं व्यापाद्याऽत्मनो युष्माकं च क्षुत्प्रणाशं करोमि । तच्छ्रुत्वा ते त्रयोऽपि वने सन्ध्याकालं यावद्भ्रान्ताः परं न किञ्चित्सत्त्वमासादितम्। अथ चतुरकश्चिन्तयामास - यदि शङ्कुकर्णोऽयं व्यापाद्येत ततः सर्वेषां कतिचिद्दिनानि तृप्तिर्भवति । परं नैनं स्वामी मित्रत्वादाश्रयसमाश्रितत्वाच्च विनाशयिष्यति । अथवा बुद्धिप्रभावेण स्वामिनं प्रतिबोध्य तथा करिष्ये यथा व्यापादयिष्यति । उक्तञ्च - अवध्यं चाथवागम्यमकृत्यं नास्ति किञ्चन । लोके बुद्धिमतां बुद्धेस्तस्मात्तां विनियोजयेत्॥ ४००॥ एवं विचिन्त्य शङ्कुकर्णमिदमाह - भोः शङ्कुकर्ण । स्वामी तावत्पथ्यं विना क्षुधया परिपीड्यते । स्वाम्यभावादस्माक- मपि ध्रुवं विनाश एव । ततो वाक्यं किञ्चित्स्वाम्यर्थे वदिष्यामि । तच्छ्रूयताम् । शङ्कुकर्ण आह - भोः शीघ्रं निवेद्यतां येन ते वचनं शीघ्रं निर्विकल्पं करोमि । अपरं स्वामिनो हिते कृते मया सुकृतशतं कृतं भविष्यति । अथ चतुरक आह - भो भद्र । आत्मशरीरं द्विगुणलाभेन स्वामिने प्रयच्छ येन ते द्विगुणं शरीरं भवति । स्वामिनः पुनः प्राणयात्रा भवति । तदाकर्ण्य शङ्कुकर्णः प्राह - भद्र । यद्येवं तन्मदीय- प्रयोजनमेतदुच्यतां स्वाम्यर्थः क्रियतामिति । परमत्र धर्मः प्रतिभूरिति । ते विचिन्त्य सर्वे सिंहसकाशमाजग्मुः । ततश्चतुरक आह - देव । न किञ्चित्सत्त्वं प्राप्तम् । भगवानादित्योऽप्यस्तं गतः । तद्यदि स्वामी द्विगुणं शरीरं प्रयच्छति ततः शङ्कुकर्णोऽयं द्विगुणवृद्ध्या स्वशरीरं प्रयच्छति धर्मप्रतिभुवा । सिंह आह - भोः यद्येवं तत्सुन्दरतरम् । व्यवहारस्यास्य धर्मः प्रतिभूः क्रियतामिति ऽथ सिंहवचनानन्तरं वृकशृगा- लाभ्यां विदारितोभयकुक्षिः शङ्कुकर्णः पञ्चत्वमुपागतः । अथ वज्रदंष्ट्रश्चतुरकमाह - भोश्चतुरक । यावदहं नदीं गत्वा स्नानं देवतार्चनविधिं कृत्वाऽऽगच्छामि तावत्त्वया ऽत्राप्रमत्तेन भाव्यमित्युक्त्वा नद्यां गतः । अथ तस्मिन्गते चतुरकश्चिन्तयामास - कथं ममैकाकिनो भोज्योऽयमुष्ट्रो भविष्यति इति विचिन्त्य क्रव्यमुखमाह - भोः क्रव्यमुख । क्षुधालुर्भवान् । तद्यावदसौ स्वामी नागच्छति तावत्त्वमस्यो- ष्ट्रस्य मांसं भक्षय । अहं त्वां स्वामिनो निर्दोषं प्रतिपादयिष्यामि । सोऽपि तच्छ्रुत्वा यावत्किञ्चिन्मांसमास्वा- दयति तावच्चतुरकेणोक्तम् - भोः क्रव्यमुख । समागच्छति स्वामी । तत्त्यक्त्वैनं दूरे तिष्ठ येनास्य भक्षणं न विकल्पयति । तथानुष्ठिते सिंहः समायातो यावदुष्ट्रं पश्यति तावद्रिक्तीकृतहृदयो दासेरकः । ततो भृकुटिं कृत्वा परुषतरमाह - अहो केनैष उष्ट्र उच्छिष्टतां नीतो येन तमपि व्यापादयामि । एवमभिहिते क्रव्यमुखश्चतुरकमुख- मवलोकयति । अथ चतुरको विहस्योवाच - भोः । मामनादृत्य पिशितं भक्षयित्वाऽधुना मन्मुखमवलोकयसि । तदास्वादयास्य दुर्णयतरोः फलमिति । तदाकर्ण्य क्रव्यमुखो जीवनाशभयाद्दूरदेशं गतः । एतस्मिन्नन्तरे तेन मार्गेण दासेरकसार्थो भाराक्रान्तः समायातः । तस्याग्रेसरोष्ट्रस्य कण्ठे महती घण्टा बद्धा । तस्याः शब्दं दूरतोऽप्याकर्ण्य सिंहो जम्बुकमाह - भद्र ज्ञायतां किमेष रौद्रः शब्दः श्रूयतेऽश्रुतपूर्वः । तच्छ्रुत्वा चतुरकः किञ्चिद्वनान्तरं गत्वा सत्वरमभ्युपेत्य प्रोवाच - स्वामिन् । गम्यतां गम्यतां यदि शक्नोषि गन्तुम् । सोऽब्रवीत् - भद्र किमेवं मां व्याकुलयसि । तत्कथय किमेतदिति । चतुरक आह - स्वामिन् एष धर्मराजस्तवोपरि कुपितओ यदनेनाकाले दासेरकोऽयं मदीयो व्यापादितः । तत्सहस्रगुणमुष्ट्रमस्य सकाशाद्ग्रहीष्यामि । इति निश्चित्य बृहन्मानमादायाग्रेसरस्योष्ट्रस्य ग्रीवायां घण्टां बद्ध्वा बध्यदासेरकसक्तानपि पितृपितामहानादाय वैरनिर्यातनार्थमायात एव । सिंहोऽपि तच्छ्रुत्वा सर्वतो दूरादेवावलोक्य मृतमुष्ट्रं परित्यज्य प्राणभयात्प्रणष्टः । चतुरकोऽपि शनैः शनैस्तस्योष्ट्रस्य मांसं भक्षयामास । अतोऽहं ब्रवीमि - परस्य पीडनं कुर्वन्निति । अथ दमनके गते संजीवकश्चिन्तयामास - अहो किमेतन्मया कृतम् । यच्छष्पादोऽपि मांसाशितस्तस्यानुगः संवृत्तः । अथवा साध्विदमुच्यते - अगम्यान्यः पुमान्याति योऽसेव्यांश्च निषेवते । स मृत्युमुपग्ऱिह्णाति गर्भमश्वतरी यथा ॥ ४०१॥ तत्किं करोमि । क्व गच्छामि । कथं मे शान्तिर्भविष्यति । अथवा तमेव पिङ्गलकं गच्छामि । कदाचिन्मां शरणागतं रक्षति । प्राणैर्न वियोजयति । यत उक्तञ्च - धर्मार्थंयततामपीह विपदो देवाद्यदि स्युः क्वचित् । तत्तासामुपशान्तये सुमतिभिः कार्यो विशेषान्नयः । लोके ख्यातिमुपागताऽत्र सकले लोकोक्तिरेषा यतः । दग्धानां किल वह्निना हितकरः सेकोऽपि तस्योद्भवः ॥ ४०२॥ तथा च - लोकेऽथवा तनुभृतां निजकर्मपाकं नित्यं समाश्रितवतां सुहितक्रियाणाम् । भावार्जितं शुभमथाप्यशुभं निकामं यद्भावि तद्भवति नात्र विचारहेतुः ॥ ४०३॥ अपरं चान्यत्र गतस्यापि मे कस्यचिद्दुष्टसत्त्वस्य मांसाशिनः सकाशान्मृत्युर्भविष्यति । तद्वरं सिंहात् । उक्तञ्च - महद्भिः स्पर्धमानस्य विपदेव गरीयसी । दन्तभङ्गोऽपि नागानां श्लाघ्यो गिरिविदारणे ॥ ४०४॥ तथा च - महतोऽपि क्षयं लब्ध्वा श्लाघ्यं नीचोऽपि गच्छति । दानार्थी मधुपो यद्वद्गजकर्णसमाहतः ॥ ४०५॥ एवं निश्चित्य स स्थलितगतिर्मन्दं गत्वा सिंहाश्रयं पश्यन्नपठत् - अहो साध्विदमुच्यते - अन्तर्लीनभुजङ्गमं गृहमिवान्तःस्थोग्रसिंहं वनम् । ग्राहाकीर्णमिवाभिरामकमलच्छायासनाथं सरः । कालेनार्यजनापवादपिशुनैः क्षुद्रैरनार्यैः श्रितम् । दुःखेन प्रविगाह्यते सचकितं राज्ञां मनः सामयम् ॥ ४०६॥ एवं पठन्दमनकोक्ताकारं पिङ्गलकं दृष्ट्वा प्रचकितः संवृतशरीरो दूरतरं प्रणामकृतिं विनाप्युपविष्टः । पिङ्गलकोऽपि तथाविधं तं विलोक्य दमनकवाक्यं श्रद्दधानः कोपात्तस्योपरि पपात । अथ संजीवकः खरनखविकर्तितपृष्ठः शृङ्गाभ्यां तदुदरमुल्लिख्य कथमपि तस्मादपेतः शृङ्गाभ्यां हन्तुमिच्छन्युद्धा- यावस्थितः । अथ द्वावपि तौ पुष्पितपलाशप्रतिमौ परस्परवध- काङ्क्षिणौ दृष्ट्वा करटको दमनकमाह - भो मूढमते । अनयोर्विरोधं वितन्वता त्वया साधु न कृतम् । न च त्वं नीतितत्त्वं वेत्सि । नीतिविद्भिरुक्तञ्च - कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये । प्रीत्या संशमयन्ति नीतिकुशलाः साम्नैव ते मन्त्रिणः । निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैः । तेषां दुर्णयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ ४०७॥ तद्यदि स्वाम्यभिघातो भविष्यति तत्किं त्वदीयमन्त्रबुद्ध्या क्रियते । अथ संजीवको न बध्यते तथाप्यभव्यम् । यतः प्राणसंदेहात्तस्य च वधः । तन्मूढ । कथं त्वं मन्त्रिपदमभिलषसि । सामसिद्धिं न वेत्सि । तद्वृथा मनोरथोऽयं ते दण्डरुचेः । उक्तञ्च - सामादिदण्डपर्यन्तो नयः प्रोक्तः स्वयम्भुवा । तेषां दण्डस्तु पापीयांस्तं पश्चाद्विनियोजयेत् ॥ ४०८॥ तथा च - साम्नैव यत्र सिद्धिर्न तत्र दण्डो बुधेन विनियोज्यः । पित्तं यदि शर्करया शाम्यति कोऽर्थः पटोलेन ॥ ४०९॥ तथा च - आदौ साम प्रयोक्तव्यं पुरुषेण विजानता । सामसाध्यानि कार्याणि विक्रियां यान्ति न क्वचित् ॥ ४१०॥ न चन्द्रेण न चौषध्या न सूर्येण न वह्निना । साम्नैव विलयंयाति विद्वेषप्रभवं तमः ॥ ४११॥ तथा यत्त्वं मन्त्रित्वमभिलषसि तदप्ययुक्तम् । यतस्त्वं मन्त्रिगतिं न वेत्सि । यतः पञ्चविधो मन्त्रः । स च कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद्देशकालविभागो विनिपातप्रतीकारः कार्यसिद्धिश्चेति । सोऽयं स्वाम्यमात्ययो- रेकतमस्य किं वा द्वयोरपि विनिपातः समुत्पद्यते लग्नः । तद्यदि काचिच्छक्तिरस्ति तद्विचिन्त्यतां विनिपातप्रतीकारः । भिन्नसन्धाने हि मन्त्रिणां बुद्धिपरीक्षा । तन्मूर्ख । तत्कर्तुमसमर्थस्त्वं यतो विपरीतबुद्धिरसि । उक्तञ्च - मन्त्रिणां भिन्नसन्धाने भिषजां सांनिपातिके । कर्मणि व्यज्यते प्रज्ञा सुस्थे को वा न पण्डितः ॥ ४१२॥ अन्यच्च - घातयितुमेव नीचः परकार्यं वेत्ति न प्रसाधयितुम् । पातयितुमेव शक्तिर्नाखोरुद्धर्तुमन्नपिटम् ॥ ४१३॥ अथवा न ते दोषोऽयम् । स्वामिनो दोषः यस्ते वाक्यं श्रद्दधाति । उक्तञ्च - नराधिपा नीचजनानुवर्तिनो बुधोपदिष्टेन पथा न यान्ति ये । विशन्त्यतो दुर्गममार्गनिर्गमं समस्तसम्बाधमनर्थपञ्जरम् ॥ ४१४॥ तद्यदि त्वमस्य मन्त्री भविष्यसि तदान्योऽपि कश्चिन्नास्य समीपे साधुजनः समेष्यति । उक्तञ्च - गुणालयोऽप्यसन्मन्त्री नृपतिर्नाधिगम्यते । प्रसन्नस्वादुसलिलो दुष्टग्राह्यो यथा ह्रदः ॥ ४१५॥ तथा च शिष्टजनरहितस्य स्वामिनोऽपि नाशो भविष्यति । उक्तञ्च - चित्रास्वादकथैर्भृत्यैरनायासितकार्मुकैः । ये रमन्ते नृपास्तेषां रमन्ते रिपवः श्रिया ॥ ४१६॥ तत्किं मूर्खोपदेशेन । केवलं दोषो न गुणः । उक्तञ्च - नानाम्यं नमते दारु नाश्मनि स्यात्क्षुरक्रिया । सूचीमुखं विजानीहि नाशिष्यायोपश्यते ॥ ४१७॥ दमनक आह कथमेतत् । सोऽब्रवीत् -
कथा १७ वानरयूथकथा । अस्ति कस्मिंश्चित्पर्वतैकदेशे वानरयूथम् । तच्च कदाचिद्धेमन्त- समयेऽतिकठोरवातसंस्पर्शवेपमानकलेवरं तुषारवर्षो- द्धतप्रवर्षघनधारानिपातसमाहतं न कथञ्चिच्छान्ति- मगमत् । अथ केचिद्वानरा वह्निकणसदृशानि गुञ्जाफला- न्यवचित्य वह्निवाञ्छया फूत्कुर्वन्तः समन्तात्तस्थुः । अथ सूचीमुखो नाम पक्षी तेषां तं वृथायासमवलोक्य प्रोवाच - भोः सर्वे मूर्खा यूयम् । नैते वह्निकणाः गुञ्जाफलानि एतानि । तत्किं वृथा श्रमेण । नैतस्माच्छीतरक्षा भविष्यति । तदन्विष्यतां कश्चिन्निर्वातो वनप्रदेशो गुहा गिरिकन्दरं वा । अद्यापि सटोपा मेधा दृश्यन्ते । अथ तेषामेकतमो वृद्धवानरस्तमुवाच - भो मूर्ख । किं तावदनेन व्यापारेण । तद्गम्यताम् । उक्तञ्च - मुहुर्विघ्नितकर्माणं द्यूतकारं पराजितम् । नालापयेद्विवेकज्ञो यदीच्छेत्सिद्धिमात्मनः ॥ ४१८॥ तथा च - आखेटकं वृथाक्लेशं मूर्खं व्यसनसंस्थितम् । समालापेन यो युङ्क्ते स गच्छति पराभवम् ॥ ४१९॥ सोऽपि तमनादृत्य भूयोऽपि वानराननवरतमाह - भोः । किं वृथा क्लेशेन । अथ यावदसौ न कथञ्चित्प्रलपन्विरमति तावदेकेन वानरेण व्यर्थश्रमत्वात्कुपितेन पक्षाभ्यां गृहीत्वा शिलायामास्फालित उपरतश्च । अतोऽहं ब्रवीमि - नानम्यं नमते दारु इत्यादि । तथा च - उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विषवर्धनम् ॥ ४२०॥ अन्यच्च - उपदेशो न दातव्यो यादृशे तादृशे नरे । पश्य वानरमूर्खेण सुगृही निर्गृहीकृता ॥ ४२१॥ दमनक आह - कथमेतत् । सोऽब्रवीत् -
कथा १८ कस्मिंश्चिद्वनोद्देशे शमीवृक्षः । तस्य लम्बमानशाखायां कृतावासावरण्यचटकदम्पती प्रतिवसतः स्म । अथ कदाचित्तयोः सुखसंस्थयोर्हेमन्तमेघो मन्दं मन्दं वर्षितुमारब्धः । अत्रान्तरे कश्चिच्छाखामृगो वातासारसमाहतः प्रोद्धूषित- शरीरो दन्तवीणां वादयन्वेपमानस्तस्याः शम्या मूलमासाद्योपविष्टः । अथ तं तादृषमवलोक्य चटका प्राह - भो भद्र । हस्तपादसमोपेतो दृश्यसे पुरुषाकृतिः । शीतेन भिद्यसे मूढ कथं न कुरुषे गृहम् ॥ ४२२॥ एतच्छ्रुत्वा तां वानरः सकोपमाह - अधमे कस्मान्न त्वं मौनव्रता भवसि । अहो धार्ष्ट्यमस्याः । अद्य मामुपहसति - सूचीमुखी दुराचारा रण्डा पण्डितवादिनी । नाशङ्कते प्रजल्पन्ती तत्किमेनां न हन्म्यहम् ॥ ४२३॥ एवं प्रलप्य तामाह - मुग्धे । किं मम चिन्तया तव प्रयोजनम् । उक्तञ्च - वाच्यं श्रद्धासमेतस्य पृच्छतश्च विशेषतः । प्रोक्तं श्रद्धाविहीनस्य अरण्यरुदितोपमम् ॥ ४२४॥ तत्किं बहुना तावत् । कुलायस्थितया तया पुनरप्यभिहितः । स तावत्तां शमीमारुह्य तस्याः कुलायं शतधा खण्डशोऽकरोत् । अतोऽहं ब्रवीमि - उपदेशो न दातव्य इति । तन्मूर्ख । शिक्षापितोऽपि न शिक्षितस्त्वम् । अथवा न ते दोषोऽस्ति यतः साधोः शिक्षा गुणाय सम्पद्यते नासाधोः । उक्तञ्च - किं करोत्येव पाण्डित्यमस्थाने विनियोजितम् । अन्धकारप्रतिच्छन्ने घटे दीप इवाहितः ॥ ४२५॥ तद्व्यर्थपाण्डित्यमाश्रित्य मम वचनमशृण्वन्नात्मनः शान्तिमपि वेत्सि तन्नूनमपजातस्त्वम् । उक्तञ्च - जातः पुत्रोऽनुजातश्च अतिजातस्तथैव च । अपजातश्च लोकेऽस्मिन्मन्तव्याः शास्त्रवेदिभिः ॥ ४२६॥ मातृतुल्यगुणो जातस्त्वनुजातः पितुः समः । अतिजातोऽधिकस्तस्मादपजातोऽधमाधमः ॥ ४२७॥ अप्यात्मनो विनाशं गणयति न खलः परव्यसनहृष्टः । प्रायो मस्तकनाशे समरमुखे नृत्यति कबन्धः ॥ ४२८॥ अहो साध्विदमुच्यते - धर्मबुद्धिः कुबुद्धिश्च द्वावेतौ विदितौ मम । पुत्रेण व्यर्थपाण्डित्यात्पिता धूमेन घातितः ॥ ४२९॥ दमनक आह कथमेतत् । सोऽब्रवीत् -
कथा २० कस्मिंश्चिद्देशे धर्मबुद्धिः पापबुद्धिश्च द्वे मित्रे प्रतिवसतः । अथ कदाचित्पापबुद्धिना चिन्तितं यदहं तावन्मूर्खो दारिद्र्योपेतश्च । तदेनं धर्मबुद्धिमादाय देशान्तरं गत्वाऽस्याश्रयेणार्थोपार्जनां कृत्वैनमपि वञ्चयित्वा सुखीभवामि । अथान्यस्मिन्नहनि पापबुद्धिर्धर्मबुद्धिं प्राह - भो मित्र । वार्धकभावे किं त्वात्मविचेष्टितं स्मरसि । देशान्तरमदृष्ट्वा कां शिष्टजनस्य वार्त्तां कथयिष्यसि । उक्तञ्च - देशान्तरेषु बहुविधभाषावेषादि येन न ज्ञातम् । भ्रमता धरणीपीठे तस्य फलं जन्मनो व्यर्थम् ॥ ४३०॥ तथा च - विद्यां वित्तं शिल्पं तावन्नाप्नोति मानवः सम्यक् । यावद्व्रजति न भूमौ देशाद्देशान्तरं हृष्टः ॥ ४३१॥ अथ तस्य तद्वचनमाकर्ण्य प्रहृष्टमनास्तेनैव सह गुरुजनानुज्ञातः शुभेऽहनि देशान्तरं प्रस्थितः । तत्र च धर्मबुद्धिप्रभावेण भ्रमता पापबुद्धिना प्रभूततरं वित्तमासादितम् । ततश्च तौ द्वावपि प्रभूतोपार्जितद्रव्यौ प्रहृष्टौ स्वगृहं प्रत्यौत्सुक्येन प्रस्थितौ । उक्तञ्च - प्राप्तविद्यार्थशिल्पानां देशान्तरनिवासिनाम् । क्रोशमात्रोऽपि भूभागः शतयोजनवद्भवेत् ॥ ४३२॥ अथ स्वस्थानसमीपवर्तिना पापबुद्धिना धर्मबुद्धिरभिहितः - भद्र । न सर्वमेतद्धनं गृहं प्रति नेतुं युज्यते । यतः कुटुम्बिनो बान्धवाश्च प्रार्थयिष्यन्ते । तदत्रैव वनगहने क्वापि भूमौ निक्षिप्य किञ्चिन्मात्रमादाय गृहं प्रविशावः । भूयोऽपि प्रयोजने सञ्जाते तन्मात्रं समेत्यास्मात्- स्थानान्नेष्यावः । उक्तञ्च - न वित्तं दर्शयेत्प्राज्ञः कस्यचित्स्वल्पमप्यहो । मुनेरपि यतस्तस्य दर्शनाच्चलते मनः ॥ ४३३॥ तथा च - यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥ ४३४॥ तदाकर्ण्य धर्मबुद्धिराह - भद्र एवं क्रियताम् । तथानुष्ठिते द्वावपि तौ स्वगृहं गत्वा सुखेन सं स्थितवन्तौ । अथान्यस्मिन्नहनि पापबुद्धिर्निशीथेऽटव्यां गत्वा तत्सर्वं वित्तं समादाय गर्तं पूरयित्वा स्वभवनं जगाम । अथान्येद्यु- र्धर्मबुद्धिं समेत्य प्रोवाच - सखे बहुकुटुम्बा वयं वित्ताभावात्सीदामः । तद्गत्वा तत्र स्थाने किञ्चिन्मात्रं धनमानयावः । सोऽब्रवीत् - भद्र एवं क्रियताम् । अथ द्वावपि गत्वा तत्स्थानं यावत्खनतस्तावद्रिक्तं भाण्डं दृष्टवन्तौ । अत्रान्तरे पापबुद्धिः शिरस्ताडयन्प्रोवाच - भो धर्मबुद्धे । त्वया हृतमेतद्धनं नान्येन । यतो भूयोऽपि गर्तापूरणं कृतम् । तत्प्रयच्छ मे तस्यार्धम् । अन्यथाऽहं राजकुले निवेदयिष्यामि । स आह - भो दुरात्मन् । मा मैवं वद । धर्मबुद्धिः खल्वहम् । नैतच्चौरकर्म करोमि । उक्तञ्च - मातृवत्परदाराणि परद्रव्याणि लोष्टवत् । आत्मवत्सर्वभूतानि वीक्षन्ते धर्मबुद्धयः ॥ ४३५॥ एवं द्वावपि विवदमानौ धर्माधिकारिणं गतौ । प्रोचतुश्च परस्परं दूषयन्तौ । अथ धर्माधिकरणाधिष्ठितपुरुषै- र्दिव्यार्थे यावन्नियोजितौ तावत्पापबुद्धिराह - अहो न सम्यग्दृष्टो न्यायः । उक्तञ्च - विवादेऽन्विष्यते पत्रं तदभावेऽपि साक्षिणः । साक्ष्यभावात्ततो दिव्यं प्रवदन्ति मनीषिणः ॥ ४३६॥ तदत्र विषये मम वृक्षदेवताः साक्षीभूतास्तिष्ठन्ति । ता अप्यावयोरेकतरं चौरं साधुं वा करिष्यन्ति । अथ तैः सर्वैरभिहितम् - भो युक्तमुक्तं भवता । उक्तञ्च - अन्त्यजोऽपि यदा साक्षी विवादे सम्प्रजायते । न तत्र युज्यते दिव्यं किं पुनर्वनदेवताः ॥ ४३७॥ तदस्माकमप्यत्र विषये महत्कौतूहलं वर्तते । प्रत्यूषसमये युवाभ्यामप्यस्माभिः सह तत्र वनोद्देशे गन्तव्यमिति । एतस्मिन्नन्तरे पापबुद्धिः स्वगृहं गत्वा स्वजनकमुवाच - तात प्रभूतोऽयं मयार्थो धर्मबुद्धेश्चोरितः । स च तव वचनेन परिणतिं गच्छति । अन्यथाऽस्माकं प्राणैः सह यास्यति । स आह - वत्स द्रुतं वद येन प्रोच्य तद्द्रव्यं स्थिरतां नयामि । पापबुद्धिराह - तात अस्ति तत्प्रदेशे महाशमी । तस्यां महत्कोटरमस्ति । तत्र त्वं सांप्रतमेव प्रविश । ततः प्रभाते यदाहं सत्यश्रावणं करोमि तदा त्वया वाच्यं यद्धर्मबुद्धिश्चौर इति । तथानुष्ठिते प्रत्यूषे स्नात्वा पापबुद्धिः धर्मबुद्धिपुरःसरो धर्माधिकरणकैः सह तां शमीमभ्येत्य तारस्वरेण प्रोवाच । आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मो हि जानाति नरस्य वृत्तम् ॥ ४३८॥ भगवति वनदेवते । आवयोर्मध्ये यश्चौरस्तं कथय । अथ पापबुद्धिपिता शमीकोटरस्थः प्रोवाच - भो धर्मबुद्धिना हृतमेतद्धनम्। तदाकर्ण्य सर्वे ते राजपुरुषा विस्मयोत्फुल्ललोचना यावद्धर्मबुद्धेर्वित्तहरणोचितं निग्रहं शास्त्रदृष्ट्यावलोकयन्ति तावद्धर्मबुद्धिना तच्छमीकोटरं वह्निभोज्यद्रव्यैः परिवेष्ट्य वह्निना सन्दीपितम् । अथ ज्वलति तस्मिन्शमीकोटरेऽर्धदग्धशरीरः स्फुटितेक्षणः करुणं परिदेवयन्पापबुद्धिपिता निश्चक्राम । ततश्च तैः सर्वैः पृष्टः - भोः किमिदम् । इत्युक्त इदं सर्वं कुकृत्यं पापबुद्धेः कारणाज्जातमित्युक्त्वा मृतः । ततस्ते राजपुरुषाः पापबुद्धिं शमीशाखायां प्रतिलम्ब्य धर्मबुद्धिं प्रशस्येदमूचुः - अहो साध्विदमुच्यते - उपायं चिन्तयेत्प्राज्ञस्तथापायं च चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलैर्भक्षिताः सुताः ॥ ४३९॥ धर्मबुद्धिः प्राह - कथमेतत् । ते प्रोचुः -
कथा २१ कृष्णसर्पकथा । अस्ति कस्मिंश्चिद्वनोद्देशे बहुबकसनाथो वटपादपः । तस्य कोटरे कृष्णसर्पः प्रतिवसति स्म । स च बकबालकानजात- पक्षानपि सदैव भक्षयन्कालं नयति । अथैको बकस्तेन भक्षितान्यपत्यानि दृष्ट्वा शिशुवैराग्यात्सरस्तीरमासाद्य बाष्पपूरपूरितनयनोऽधोमुखस्तिष्ठति । तं च तादृक्चेष्टित- मवलोक्य कुलीरकः प्रोवाच - माम किमेवं रुद्यते भवताऽद्य । स आह - भद्र किं करोमि । मम मन्दभाग्यस्य बालकाः कोटरनिवासिना सर्पेण भक्षिताः । तद्दुःखदुःखितोऽहं रोदिमि । तत्कथय मे यद्यस्ति कश्चिदुपायस्तद्विनाशाय । तदाकर्ण्य कुलीरकश्चिन्तयामास - अयं तावदस्मत्सहजवैरी । तथोपदेशं प्रयच्छामि सत्यानृतं यथान्येऽपि बकाः सर्वे सङ्क्षयमायान्ति । उक्तञ्च - नवनीतसमां वाणीं कृत्वा चित्तं तु निर्दयम् । तथा प्रबोध्यते शत्रुः सान्वयो म्रियते यथा ॥ ४४०॥ आह च - माम यद्येवं तन्मत्स्यमांसखण्डानि नकुलस्य बिलद्वारात्सर्पकोटरं यावत्प्रक्षिप यथा नकुलस्तन्मार्गेण गत्वा तं दुष्टसर्पं विनाशयति । अथ तथानुष्ठिते मत्स्यमांसानुसारिणा नकुलेन तं कृष्णसर्पं निहत्य तेऽपि तद्वृक्षाश्रयाः सर्वे बकाश्च शनैः शनैर्भक्षिताः । अतो वयं ब्रूमः - उपायं चिन्तयेदिति । एवं मूढ । त्वयाप्युपाय- श्चिन्तितो नापायः पापबुद्धिवत् । तन्न भवसि त्वं सज्जनः। केवलं पापबुद्धिरसि । ज्ञातो मया स्वामिनः प्राणसंदेहानयनात् । प्रकटीकृतं त्वया स्वयमेवात्मनो दुष्टत्वं कौटिल्यं च । अथवा साध्विदमुच्यते - यत्नादपि कः पश्येच्छिखिनामाहारनिःसरणमार्गम् । यदि जलदध्वनिमुदितास्त एव मूढा न नृत्येयुः ॥ ४४१॥ यदि त्वं स्वामिनमेनां दशां नयसि तदस्मद्विधस्य का गणना । तस्मान्ममासन्नेन भवता न भाव्यम् । उक्तञ्च - तुलां लोहसहस्रस्य यत्र खादन्ति मूषकाः । राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ ४४२॥ दमनक आह कथमेतत् ।सोऽब्रवीत् -
कथा २२ जीर्णधननामवणिक्पुत्रकथा । अस्ति कस्मिंश्चिदधिष्ठाने जीर्णधनो नाम वणिक्पुत्रः । स च द्रव्यक्षयाद्देशान्तरगमनमना व्यचिन्तयत् - यत्र देशेऽथवा स्थाने भोगान्भुक्त्वा स्ववीर्यतः । तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः ॥ ४४३॥ तथा च - येनाहंकारयुक्तेन चिरं विलसितं पुरा । दीनं वदति तत्रैव यः परेषां स निन्दितः ॥ ४४४॥ तस्य च गृहे सहस्रलोहभारघटिता पूर्वपुरुषोपार्जिता तुलाऽसीत् । तां च कस्यचिच्छ्रेष्टिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच - भोः श्रेष्ठिन् । दीयतां मे सा निक्षेपतुला । स आह - भो । नास्ति सा त्वदीया तुला । मूषिकैर्भक्षिता । जीर्णधन आह - भोः श्रेष्ठिन् । नास्ति दोषस्ते यदि मूषिकैर्भक्षितेति । ईदृगेवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थं गमिष्यामि । तत्त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सह स्नानोपकरणहस्तं प्रेषयेति । सोऽपि चौर्यभयात्तस्य शङ्कितः स्वपुत्रमुवाच - वत्स पितृव्योऽयं तव स्नानार्थं नद्यां यास्यति । तद्गम्यतामनेन सार्धं स्नानोपकरणमादायेति । अहो साध्विदमुच्यते - न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः । मुक्त्वा भयं प्रलोभं वा कार्यकारणमेव वा ॥ ४४५॥ तथा च - अत्यादरो भवेद्यत्र कार्यकारणवर्जितः । तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥ ४४६॥ अथासौ वणिक्षिशुः स्नानोपकरणमादाय प्रहृष्टमना- स्तेनाभ्यागतेन सह प्रस्थितः । तथानुष्ठिते वणिक्स्नात्वा तं शिशुं नदीगुहायां प्रक्षिप्य तद्द्वारं बृहच्छिलयाच्छाद्य सत्वरं गृहमागतः । पृष्टश्च तेन वणिजा - भो अभ्यागत तत्कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः इति । स आह - नदीतटात्स श्येनेन हृत इति । श्रेष्ठ्याह - मिथ्यावादिन् । किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति । तत्समर्पय मे सुतमन्यथा राजकुले निवेदयिष्यामीति । स आह - भोः सत्यवादिन् । यथा श्येनो बालं न नयति तथा मूषिका अपि लोहभारघटितां तुलां न भक्षयन्ति । तदर्पय मे तुलां यदि दारकेण प्रयोजनम् । एवं विवदमानौ द्वावपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच - भो अब्रह्मण्यमब्रह्मण्यम् । मम शिशुरनेन चौरेणापहृतः । अथ धर्माधिकारिणस्तमूचुः - भोः समर्प्यतां श्रेष्ठिसुतः । स आह - किं करोमि । पश्यतो मे नदीतटाच्छ्येनेनापहृतः शिशुः । तच्छ्रुत्वा ते प्रोचुः - भो न सत्यमभिहितं भवता । किं श्येनः शिशुं हर्तुं समर्थो भवति । स आह - भो भोः श्रूयतां मद्वचः । तुलां लोहसहस्रस्य यत्र खादन्ति मूषिकाः । राजंस्तत्र हरेच्छ्येनो बालकं नात्र सं शयः ॥ ४४७॥ ते प्रोचुः - कथमेतत् । ततः श्रेष्ठी सभ्यानामग्रे सर्वं वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तौ परस्परं सम्बोध्य तुलाशिशुप्रदानेन सन्तोषितौ । अतोऽहं ब्रवीमि - तुलां लोहसहस्रस्य इति । तन्मूर्ख । संजीवकप्रसादमसहमानेन त्वयैतत्कृतम् । अहो साध्विदमुच्यते - प्रायेणात्र कुलान्वितं कुकुलजाः श्रीवल्लभं दुर्भगा दातारं कृपणा ऋजूननृजवो वित्ते स्थितं निर्धनाः । वैरूप्योपहताश्च कान्तवपुषं धर्माश्रयं पापिनो नानाशास्त्रविचक्षणं च पुरुषं निन्दन्ति मूर्खाः सदा ॥ ४४८॥ तथा च - मूर्खाणां पण्डिता द्वेष्या निर्धनानां महाधनाः । व्रतिनः पापशीलानामसतीनां कुलस्त्रियः ॥ ४४९॥ तन्मूर्ख त्वया हितमप्यहितं कृतम् । उक्तञ्च - पण्डितोऽपि वरं शत्रुर्न मूर्खो हितकारकः । वानरेण हतो राजा विप्राश्चौरेण रक्षिताः ॥ ४५०॥ दमनक आह कथमेतत् । सोऽब्रवीत् -
कथा २३ कस्यचिद्राज्ञो नित्यं वानरोऽतिभक्तिपरोऽङ्गसेवकोऽन्तःपुरे- ऽप्यप्रतिषिद्धप्रसरोऽतिविश्वासस्थानमभूत् । एकदा राज्ञो निद्रां गतस्य वानरे व्यजनं नीत्वा वायुं विदधति राज्ञो वक्षःस्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्य- मानापि पुनः पुनस्तत्र एवोपविशति । ततस्तेन स्वभावचपलेन मूर्खेण वानरेण क्रुद्धेन सता तीक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिकोड्डीय गता परं तेन शितधारेणासिना राज्ञो वक्षो द्विधा जातं राजा मृतश्च । तस्माच्चिरायुरिच्छता नृपेण मूर्खोऽनुचरो न रक्षणीयः । अपरमेकस्मिन्नगरे कोऽपि विप्रो महाविद्वान्परं पूर्वजन्मयोगेन चौरो वर्तते । तस्मिन्पुरेऽन्यदेशादागतांश्चतुरो विप्रान्बहूनि वस्तूनि विक्रीणतो दृष्ट्वा चिन्तितवान् - अहो केनोपायेनैषां धनं लभे । इति विचिन्त्य तेषां पुरोऽनेकानि शास्त्रोक्तानि सुभाषितानि चातिप्रियाणि मधुराणि वचनानि जल्पता तेषां मनसि विश्वासमुत्पाद्य सेवा कर्तुमारब्धा । अथवा साध्विदमुच्यते - असती भवति सलज्जा क्षारं नीरं च शीतलं भवति । दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ ४५१॥ अथ तस्मिन्सेवां कुर्वति तैर्विप्रैः सर्ववस्तूनि विक्रीय बहुमूल्यानि रत्नानि क्रीतानि । ततस्तानि जङ्घामध्ये तत्समक्षं प्रक्षिप्य स्वदेशं प्रति गन्तुमुद्यमो विहितः । ततः स धूर्तविप्रस्तान्विप्रान् गन्तुमुद्यतान्प्रेक्ष्य चिन्ताव्याकुलितमनाः संजातः - अहो धनमेतन्न किञ्चिन्मम चटितम् । अथैभिः सह यामि । पथि क्वापि विषं दत्त्वैतान्निहत्य सर्वरत्नानि गृह्णामि । इति विचिन्त्य तेषामग्रे सकरुणं विलप्येदमाह - भो मित्राणि । यूयं मामेकाकिनं मुक्त्वा गन्तुमुद्यताः । तन्मे मनो भवद्भिः सह स्नेहपाशेन बद्धं भवद्विरहनाम्नैवाकुलं सञ्जातं यथा धृतिं क्वापि न धत्ते । यूयमनुग्रहं विधाय सहायभूतं मामपि सहैव नयत । तद्वचः श्रुत्वा ते करुणार्द्रचित्तास्तेन सममेव स्वदेशं प्रति प्रस्थिताः । अथाध्वनि तेषां पञ्चानामपि पल्लीपुरमध्ये व्रजतां ध्वाङ्क्षाः कथयितुमारब्धाः - रे रे किराताः । धावत धावत । सपादलक्षधनिनो यान्ति । एतान्निहत्य धनं नयत । ततः किरातैर्ध्वाङ्क्षवचनमाकर्ण्य सत्वरं गत्वा ते विप्रा लगुडप्रहारैर्जर्जरीकृत्य वस्त्राणि मोचयित्वा विलोकिताः परं धनं किञ्चिन्न लब्धम् । तदा तैः किरातैरभिहितम् - भोः पान्थाः । पुरा कदापि ध्वाङ्क्षवचनमनृतं नासीत् । ततो भवतां संनिधौ क्वापि धनं विद्यते तदर्पयत । अन्यथा सर्वेषामपि वधं विधाय चर्म विदार्य प्रत्यङ्गं प्रेक्ष्य धनं नेष्यामः । तदा तेषामीदृशं वचनमाकर्ण्य चौरविप्रेण मनसि चिन्तितम् - यदैषां विप्राणां वधं विधायाङ्गं विलोक्य रत्नानि नेष्यन्ति तदापि मां वधिष्यन्ति ततोऽहं पूर्वमेवात्मानमरत्नं समर्प्यैतान्मुञ्चामि । उक्तञ्च - मृत्योर्बिभेषि किं बाल न स भीतं विमुञ्चति । अद्य वाऽब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥ ४५२॥ तथा च - गवार्थे ब्राह्मणार्थे च प्राणत्यागं करोति यः । सूर्यस्य मण्डलं भित्त्वा स याति परमां गतिम् ॥ ४५३॥ इति निश्चित्याभिहितम् - भोः किराताः । यद्येवं ततो मां पूर्वं निहत्य विलोकयत । ततस्तैस्तथानुष्ठिते तं धनरहितमवलोक्यापरे चत्वारोऽपि मुक्ताः ऽतोऽहं ब्रवीमि - पण्डितोऽपि वरं शत्रुरिति । अथैवं संवदतोस्तयोः संजीवकः क्षणमेकं पिङ्गलकेन सह युद्धं कृत्वा तस्य खरनखरप्रहाराभिहितो गतासुर्वसुन्धरापीठे निपपात । अथ तं गतासुमवलोक्य पिङ्गलकस्तद्गुणस्मरणार्द्रहृदयः प्रोवाच - भो अयुक्तं मया पापेन कृतं संजीवकं व्यापादयता । यतो विश्वासघातादन्यन्नास्ति पापतरं कर्म । उक्तञ्च - मित्रद्रोही कृतघ्नश्च यश्च विश्वासघातकः । ते नरा नरकं यान्ति यावच्चन्द्रदिवाकरौ ॥ ४५४॥ भूमिक्षये राजविनाश एव भृत्यस्य वा बुद्धिमतो विनाशे । नो युक्तमुक्तं ह्यनयोः समत्वं नष्टापि भूमिः सुलभा न भृत्याः ॥ ४५५॥ तथा मया सभामध्ये स सदैव प्रशंसितः । तत्किं कथयिष्यामि तेषामग्रतः । उक्तञ्च - उक्तो भवति यः पूर्वं गुणवान् इति संसदि । न तस्य दोषो वक्तव्यः प्रतिज्ञाभङ्गभीरुणा ॥ ४५६॥ एवंविधं प्रलपन्तं दमनकः समेत्य सहर्षमिदमाह - देव कातरतमस्तवैष न्यायो यद्द्रोहकारिणं शष्पभुजं हत्वेत्थं शोचसि । तन्नैतदुपपन्नं भूभुजाम् । उक्तञ्च - पिता वा यदि वा भ्राता पुत्रो भार्याऽथवा सुहृत् । प्राणद्रोहं यदा गच्छेद्धन्तव्यो नास्ति पातकम् ॥ ४५७॥ तथा च - राजा घृणी ब्राह्मणः सर्वभक्षी स्त्री चात्रपा दुष्टमतिः सहायः । प्रेष्यः प्रतीपोऽधिकृतः प्रमादी त्याज्या अमी यश्च कृतं न वेत्ति ॥ ४५८॥ अपि च - सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या । भूरिव्यथा प्रचुरवित्तसमागमा च वेश्याङ्गनेव नृपनीतिरनेकरूपा ॥ ४५९॥ अपि च - अकृतोपद्रवः कश्चिन्महानपि न पूज्यते । पूजयन्ति नरा नागान्न तार्क्ष्यं नागघातिनम् ॥ ४६०॥ तथा च - अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ४६१॥ एवं तेन सम्बोधितः पिङ्गलकः संजीवकशोकं त्यक्त्वा दमनकसाचिव्येन राज्यमकरोत् । इति श्रीविष्णुशर्मविरचिते पञ्चतन्त्रे मित्रभेदो नाम प्रथमं तन्त्रम् । Notes: 1) The original encoding showed all समासs broken into their पदs, separated by hyphens. All hyphens have been removed now and the समासs joined together. 2) The original encoding also had all सन्धिs separated into their components. These have been joined back. 3) Punctuation marks such as ? and ! have been replaced by दण्डs. The introduction of the original encoding: The text used for this edition comes from the following : (ed.)Ramchandra Jha. Vidyabhavan Sanskrit Granthamala, 17. Sixth edition.(Varanasi: Chowkhamba Vidyabhavan, 1991). There are considerable differences in various editions of the Panchatantra. I have also consulted (ed.) N.R. Kale. Delhi: Motilal Banarsidass, reprint 1991 (original 1911), but clearly there are several differences. Eventually, a revised version based on Kosambi as 1949 critical edition should be prepared. Electronic text entered by Jan Brzezinski, 2003. This text is available freely, but we request all users to please acknowledge Gaudiya Grantha Mandir as its source. A few corrections have been made (2003-11-02) Corrections from Ulrich Stiehl entered 2003-11-05
Assembled, reprocessed, and proofread by Arvind Kolhatkar akolhatkar at rogers.com
% Text title            : panchatantra tantra 1 mitrabhed
% File name             : panchatantra1.itx
% itxtitle              : pancatantram adhyAyaH 1 mitrabhedaH
% engtitle              : Panchatantra 1 Mitrabheda Tantra by Vishnusharman
% Category              : major_works, svara
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : svara
% Author                : viShNusharman
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski of Gaudiya Grantha Mandira, Arvind Kolhatkar akolhatkar at rogers.com
% Proofread by          : Arvind Kolhatkar akolhatkar at rogers.com
% Latest update         : March 29, 2007
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP