॥ प्राणाभरणं पण्डितराजश्रीजगन्नाथविरचितम् ॥

अथ पण्डितराजश्रीजगन्नाथविरचितं प्राणाभरणम् । तत्कृतयैव टिप्पण्या समेतम् । विद्वांसो वसुधातले परवचःश्लाघासु वाचंयमा भूपालाः कमलाविलासमदिरोन्मीलन्मदाघूर्णिताः । आस्ये घास्यति कस्य लास्यमधुना धन्यस्य कामालस- स्वर्वामाधरमाधुरीमधरयन्वाचां विलासो मम ॥ १॥ विद्वांस इत्यादि प्रायदर्शनाभिप्रायमेतत् । तेन सहृदयैर्न मनागपि विमनायितव्यम् । भावध्वनिश्चायम् । उत्तरार्धप्रतिपाद्यार्थालम्बनाया एतत्पद्यप्रयोगानुभावायाः कविगतचिन्तायाः प्राधान्येनाभिव्यक्तेः । अनुपात्तोभयनिमित्तको व्यतिरेकः स्फुटोऽलंकारः । कामालसत्वं वामाविशेषमधरमाधुरीप्रकर्षकम् ॥ विद्राणैव गुणज्ञता समुदितो भूयानसूयाभरः कालोऽयं कलिराजगाम जगतीलावण्यकुक्षिंभरिः । एवं भावनया मदीयकविते मौनं किमालम्बसे जागर्तु क्षितिमण्डले चिरमिह श्रीकामरूपेश्वरः ॥ २॥ कविगतराजविषयकरतिभावध्वनिश्चायम् । इत ऊर्ध्वमयमेव आ चरमपद्यमनुवर्तयिष्यते । अस्य चात्र मौनानुभावितो वर्णनीयालम्बनो निर्वेदो गुण इति प्रेयोलंकारास्पदम् । अत्र चाचेतनायां कवितायां चेतनत्वाध्यवसायमूलासंबन्धे संबन्धात्मिकातिशयोक्तिर्विवक्षिता । तेन भावनामौननिर्वेदानां संबोधनस्य च नानुपपत्तिः ॥ पारीन्द्राणां घुरीणैरवनितलगुहागर्भतः सम्पतद्भिः स्वापभ्रंशापराधप्रचलितनयनप्रान्तमाकर्ण्यमानः । त्वत्प्रस्थानान्तरुद्यत्प्रलयजलधरध्वानधिक्कारधीरो घृष्टक्षीरोदतीरो जगति विजयते दुन्दुभिद्वन्द्वनादः ॥ ३॥ अत्र राजालम्बनस्य तादृशनादश्रवणोद्दीपितस्य नयनप्रचलनानुभावितस्य गिरिगुहागर्भोत्पतनाभिव्यक्तेनामर्षेण संचारिणा परिपोषितस्य पारीन्द्रगतोत्साहस्य स्थायिनो राजविषयकरतिभावाङ्गत्वाद्रसालंकारत्वम् । यदाहुः - 'प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे मतिः ॥' इति । तृतीयचतुर्थचरणयोस्तु स्फुटावेव व्यतिरेकातिशयौ । घृष्टाशब्देन तादृशनादो वेलाचलप्रतिबद्धत्वादग्रे न गतः । अन्यथा लोकालोकाचलमपि स्पृशेदिति गम्यते । एव मृष्टेति नोक्तम् । तथा सति शैथिल्यप्रत्ययापत्तेः ॥ किं ब्रूमस्तव वीरतां वयममी यस्मिन्धराखण्डल क्रीडाकुण्डलितभ्रु शोणनयनं दोर्मण्डलं पश्यति । माणिक्यावलिकान्तिदन्तुरतरैर्भूषासहस्रोत्करै- र्विन्ध्यारण्यगुहागृहावनिरुहास्तत्कालमुल्लासिताः ॥ ४॥ अत्र विन्ध्यारण्यगतानां गुहागृहाणामवनिरुहां च विन्ध्यगतानां गुहागृहाणामरण्यगतानामवनिरुहाणां वा भूषणेन कार्येणाप्रस्तुतेन त्वदरिनारीणां स्वनगराणि परित्यज्य निशि गुहागृहेषु तरुतलेषु च विन्यस्य सकलाभरणानि कृतशयनानां प्रातस्त्वदागमनसंभ्रमेण तत्कर्मकं विस्मरणं भारवशात्परित्यागो वा प्रस्तुतो गम्यत इत्यप्रस्तुतप्रशंसा । कार्यस्य यथाकथंचित्प्रस्तुतत्वे तु पर्यायोक्तमलंकारः ॥ माहात्म्यस्य परोऽवधिर्निजगृहं गम्भीरतायाः पिता रत्नानामहमेक एव भुवने को वापरो मादृशः । इत्येवं परिचिन्त्य मा स्म सहसा गर्वान्धकारं गमो दुग्धाब्धे भवता समो विजयते श्रीप्राणनारायणः ॥ ५॥ अत्रोपमानस्य गुणविशेषप्रयुक्तसादृश्याभावनिबन्धनमुत्कर्षं परिहर्तुं वर्ण्यमानसादृश्यात्मकः प्रतीपालंकारभेदः । स चोपमाविशेष इत्येके । विच्छित्तिवैलक्षण्यादतिरिक्त एवेत्यपरे ॥ तत्त्वो जन्म सितांशुशेखरतनुज्योत्स्नानिमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् । संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः कस्मान्नोज्ज्वलिमानमञ्चतुतमां देव त्वदीयं यशः ॥ ६॥ अत्र यशसि धवलतातिशयस्तद्धर्मिसंबन्धप्रयुक्तत्वेन कथित इति समस्य विषयः । अंशुकृतश्चन्द्रे तत्कृतश्च भगवति भगवत्कृतश्च राजनीत्येवमुत्तरोत्तरमुपचीयमानो राजगत उत्कर्षः प्रतीयत इति सारविषयः ॥ आबध्नास्यलकान्निरस्यसितमां चोलं रसाकाङ्क्षया लङ्कायावशतां तनोषि कुरुषे जङ्घाललाटक्षतम् । प्रत्यङ्गं परिमर्दनिर्दयमहो चेतः समालम्बसे वामानां विषये नृपेन्द्र भवतः प्रागल्भ्यमद्भुतम् ॥ ७॥ अत्र प्रकृतिधर्मिगतयोः प्रकृताप्रकृतयोः प्रकृतयोरेव वा वृत्तान्तयोः श्लेषः । स च षट्सु स्थलेषु शब्दनानात्वनिबन्धनो द्वयोश्चार्थनानात्वनिबन्धनः । द्वावप्येतौ शब्दालंकाराविति प्राञ्चः । आद्यो जतुकाष्ठन्यायेन शब्दश्लेषणाच्छब्दालंकारः, द्वितीयस्त्वेकवृन्तगतफलद्वयन्यायेनार्थश्लेषणादर्थालंकार इति नव्याः ॥ देव त्वां परितः स्तवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽनिशम् । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावती च सहसा गच्छत्यगम्यामपि ॥ ८॥ अत्र प्रतापगतः पृथिव्यादिसंबन्धो लिङ्गविशेषावच्छिन्नतत्तत्साधारणविशेषणाभिव्यक्तकामुकवृत्तान्ताभिन्नतया स्थित इति समासोक्तिः कार्यरूपधर्मप्रयुक्तशुद्धसाधारण्येन विशेषणसाम्यमालम्ब्य प्रवृत्ता । सा च निन्दोत्थापकत्वादद्व्याजस्तुतौ गुणः ॥ लोकानां विपदं धुनोषि कुरुषे सम्पत्तिमत्युत्कटा- मित्यल्पेतरजल्पितैर्जडधियां भूपाल मा गा मदम् । यत्कीर्तिस्तव वल्लभा लघुतरब्रह्माण्डभाण्डोदरे पिण्डीकृत्य महोन्नतामपि तनुं कष्टेन हा वर्तते ॥ ९॥ अत्रापि प्राग्वत् । परं त्वाधाराधेयान्यतरविस्तृतत्वसिद्धिफलकान्यतरन्यूनत्वकल्पनात्साधिकालंकारोऽपि तस्यां गुणः ॥ क्षोणीं शासति मय्युपद्रवलवः कस्यापि न स्यादिति प्रौढं व्याहरतो वचस्तव कथं देव प्रतीमो वयम् । प्रत्यक्षं भवतो विपक्षनिवहैर्द्यामुत्पतद्भिः क्रुधा यद्युष्मत्कुलकोटिमूलपुरुषो निर्भिद्यते भास्करः ॥ १०॥ इह त्वधिकसमासोक्तिभ्यामनालिङ्गितैव सा [व्याजस्तुतिः] ॥ आस्वादेन रसो रसेन कविता काव्येन वणी तया लोकान्तःकरणानुरागरसिकः सभ्यः सभा चामुना । दारिद्र्यानलदह्यमानजगतीपीयूषधाराधर क्षोणीनाथ तथा भवांश्च भवता भूमण्डलं भासते ॥ ११॥ मालादीपकमेतदिति प्राञ्चः । दीपकस्य सादृश्यमूलकतानियमान्न मालादीपकमपि त्वेकावलीभेद इति तु वयम् ॥ अम्लायन्यदरातिकैरवकुलान्यम्लासिषुः सत्वरं दैन्यध्वान्तकदम्बकानि परितो नेशुस्तमां तामसाः । सन्मार्गाः प्रसरन्ति साधुनलिनान्युल्लासमातन्वते तन्मन्ये भवतः प्रतापतपनो देव प्रभातोन्मुखः ॥ १२॥ इह रूपकनिष्पादितलिङ्गकमनुमानं निमित्तविरहादुत्प्रेक्षाया अयोगाद्वाचकमनुमितिपरम् ॥ उत्क्षिप्ताः कबरीभरं विवलिताः पार्श्वद्वयं न्यक्कृताः पादाम्भोजयुगं रुषा परिहृता दूरेण चेलाञ्चलम् । गृह्णन्ति त्वरया भवत्प्रतिभटक्ष्मापालवामभ्रुवां यान्तीनां गहनेषु कण्टकचिताः के के न भूमीरूहाः ॥ १३॥ अत्र कण्टकचितत्वेन कबरीग्रहणादेः संकीर्णत्वात्कार्यधर्मान्तरा संकीर्णशुद्धसाधारण्येन विशेषणसाम्यमालम्ब्य प्रवृत्ता समासोक्तिः ॥ दृष्टिः संभृतमङ्गला बुधमयी देव त्वदीया सभा काव्यस्याश्रयभूतमास्यमरुणाधारोऽधरः सुन्दरः । क्रोधस्तेऽशनिमूरुदारधिषण स्वान्तं तु सोमास्पदं राजन्नूनमनूनविक्रम भवान्सर्वग्रहालम्बनम् ॥ १४॥ अत्रोत्प्रेक्ष्यमानसर्वग्रहालम्बनत्वस्य समानाधिकरणेषु धर्मेषु तत्तद्ग्रहाश्रिताङ्गकत्वेषु विशेषणीभूतैस्तत्तद्ग्रहैः सह विषयस्य राज्ञो कल्याणाश्रयत्वादिषु विशेषणानां कल्याणादीनां श्लेषेणाभेदसम्पादनद्वारा तादृशधर्मसाधारणतासम्पत्तौ तन्निमित्तकोत्प्रेक्षासिद्धिः ॥ सृष्टिः सृष्टिभुवा पुरा किल परित्रातुं जगन्मण्डलं त्वं चण्डातपनिर्दयं तपसि यज्ज्वालाजटालैः करैः । संरम्भारुणलोचनो रणभुवि प्रस्थातुकामोऽधुना जानीमो भवता न हन्त विदितः श्रीकामरूपेश्वरः ॥ १५॥ अत्र राजवर्णनाङ्गत्वेन रवेर्भयोत्पादने वर्ण्यत्वेन प्रस्तुते साक्षात्तदननुगुणत्वेनाप्रस्तुतेन प्रस्थानेन साक्षात्तदनुगुणं रिपुकर्तृकं सूर्यमण्डलभेदनं कार्यं गम्यते ॥ आयाता कमलासनस्य भवनाद्द्रष्टुं त्रिलोकीतलं गीर्वाणेषु दिनानि कानिचिदहो नीत्वा पुनः कौतुकात् । भ्रान्त्वा भूवलये महाकविकुलोपास्या तवास्याम्बुजे राजन्सम्प्रति सत्यधामनि गिरां देवी सुखं वर्तते ॥ १६॥ अत्रैकस्याधेयस्यानेकाधारसंबन्धात्पर्यायः । तत्र प्रथमचरणगतमधिकरणमार्थविश्लेषावधिकपञ्चम्या विश्लेषस्योपश्लेषापेक्षत्वेनौपश्लेषिकाधिकरणस्याक्षेपगम्यत्वात् । सत्यधामनीति श्लेषभित्तिकाभेदाध्यवसानेन मुखस्य सत्यलोकतासिद्धौ सुखवर्तनसिद्धिः ॥ विद्वद्दैन्यतमस्त्रिमूर्तिरथवा वैरीन्द्रवंशाटवी- दावाग्निः किमहो महोज्ज्वलयशःशीतांशुदुग्धाम्बुधिः । किं वानङ्गभुजंगदष्टवनिताजीवातुरेवं नृणां केषामेष नराधिपो न जनयत्यल्पेतराः कल्पनाः ॥ १७॥ अत्र कोटीनामारोपान्तरमूलकत्वात्परम्परितसंशयः स चाहार्यः, मूलारोपस्य तथात्वात् । कवाविव कविनिबद्धप्रमात्रन्तरेऽप्याहार्यबुद्धेरविरोधात् ॥ नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः ॥ १८॥ अत्र मुख्यार्थस्य राजविषयायाः कविरतेरुपकारकस्य यदैव तव कोपोदयस्तदैव तव रिपूणां सम्पदो भस्मसाद्भविष्यन्तीति वस्तुन उपकारिका नयनकोणशोणद्युतेर्युगान्तदहनोपमा ॥ मयि त्वदुपमाविधौ वसुमतीश वाचंयमे न वर्णयति मामयं कविरिति क्रुधं मा कृथाः । चराचरमिदं जगज्जनयतो विधेर्मानसे पदं न विदधेतरां तव समो द्वितीयो नरः ॥ १९॥ अत्र त्वत्समोऽन्यो नास्तीति प्रत्ययादुपमानलुप्तोपमा व्यङ्ग्येति प्राञ्चः । सर्वथैव साम्यस्याप्रतिष्ठानान्नेयमुपमा । अन्यथा व्यतिरेकस्यापि तत्त्वापत्तेः । 'ढुंढोल्लन्तो मरिससि कंटककलिआइं केऐवणाइं । माल.इकुसुमसरिच्छं भमर भमंतो ण पावेसि ॥' इत्यत्र तु न प्राप्स्यसीत्युक्त्वा क्वचित्त्वदगोचरे स्थले भविष्यतीति प्रतीतेः सादृश्यप्रतिष्ठानाल्लुप्तोपमास्तु । तस्मादसमालंकार एवायमिति तु नव्याः ॥ भुजभ्रमितपट्टिशोद्दलितदृप्तदन्तावलं भवन्तमरिमण्डलक्रथन पश्यतः संगरे । करालकुलिशाहतिस्फुटविभिन्नविन्ध्याचलो न कस्य हृदयं झटित्यधिरुरोह जम्भाहितः ॥ २०॥ अत्र स्मरणालंकारः परंतु लक्ष्यः ॥ यमः प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाङ्क्षिणाम् । गृहं शरणमिच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृतः ॥ २१॥ अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवतः करणाद्रूपकेण विपक्षभूपालादीनामेतस्मिन्नागते यमत्वादिना भ्रान्तेरपि संभवाद्भ्रान्तिमता तैरेवानेकैर्ग्रहीतृभिरनेकैर्धर्मैरुल्लेखनादुल्लेखविशेषेण च सह संकीर्णोऽपि संबन्धिषष्ठ्यन्तभेदप्रयुक्तवर्ण्यानेकविधत्वक उल्लेखः ॥ द्विनेत्र इव वासवो मितकरो विवस्वानिव द्वितीय इव चन्द्रमाः श्रितवपुर्मनोभूरिव । नराकृतिरिवाम्बुधिर्गुरुरिव क्षमामागतो नुतो निखिलभूसुरैर्जयति कामरूपेश्वरः ॥ २२॥ अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणात्तन्निमित्तकोत्प्रेक्षा । सा चेह मालारूपा । न चात्रोपमा शक्यरूपणा । द्विनेत्रत्वाद्युक्तेर्निष्प्रयोजनकत्वापत्तेः । न चोपमानिष्पादकं तेषां साधारण्यं तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानैस्तस्या निष्पत्तेः । असुन्दरत्वेनोपमानिष्पादकतया कवेरनभिप्रेतत्वाच्च । एवं द्वितीयादीनां चन्द्रादिष्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात् ॥ दीनव्राते दयार्द्रा निखिलरिपुकुले निर्दया किं च मृद्वी काव्यालापेषु तर्कप्रतिवचनविधौ कर्कशत्वं दधाना । लुब्धा धर्मेष्वलुब्धा वसुनि परविपद्दर्शने कांदिशीका राजन्नाजन्मरम्य स्फुरति बहुविधा तावकी चित्तवृत्तिः ॥ २३॥ अत्र विषयानेकत्वप्रयुक्तचित्तवृत्तेरनेकविधत्वमित्युल्लेखः । तत्र च तदीयचित्तवृत्तित्वेनैकत्वाध्यवसानं तन्त्रम् ॥ देवाः के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्ता- देव जल्पन्ति तावत्प्रतिभटपृतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमूर्ते- र्मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ॥ २४॥ अत्र शुद्धपरम्परितरूपकम् ॥ प्राचीसंध्यासमुद्यन्महिमदिनमणेर्मानमाणिक्यकान्ति- र्ज्वालामाला कराला कवलितजगतः क्रोधकालानलस्य । आशाकान्तापदाम्भोरुहतलविगलन्मञ्जुलाक्षारसाभा सा भाति क्षोणिशोभाकरण तव दृशोः संगरे शोणिमश्रीः ॥ २५॥ अत्रापि तदेव परंतु मालात्मकम् ॥ त्वां सुन्दरीनिवहनिष्ठुरधैर्यगर्व- निर्वासनैकरसिकं समरे निरीक्ष्य । का वा रिपुक्षितिभृतां बत राजलक्ष्मीः स्वामिव्रतत्वमपरिस्खलितं बभार ॥ २६॥ अत्र शत्रूणां राज्यलक्ष्मीस्त्वां प्राप्तेति विवक्षितोऽर्थः पातिव्रत्यस्खलितरूपेणाभिहित इति पर्यायोक्तम् । तच्च राज्यलक्ष्म्या नायिकात्वसिद्ध्यर्थं समासोक्तिमपेक्षत इति सा तत्र गुणः ॥ नासत्ययोगो वचनेषु कीर्तौ तथार्जुनः कर्मणि चापि धर्मः । चित्ते जगत्प्राणभवो यदास्ते वशंवदास्ते किमु पाण्डुपुत्राः ॥ २७॥ अत्र पाण्डुपुत्रेषु विषयेषु राजवशंवदतादात्म्योत्प्रेक्षायां राजाश्रितत्वरूपो विषयिधर्मः श्लेषेण विषयाणां तदाश्रितानां चासत्याभावशुक्लगुनपुण्यपरमेश्वराणामभेदसम्पादनद्वारा विषयसाधारणीकृतः ॥ मन्थाचलभ्रमणवेघवशंवदा ये दुग्धाम्बुधेरुदपतन्नणवः सुधायाः । तैरेकतामुपगतैर्विविधौषधीभि- र्धाता ससर्ज तव देव दयादृगन्तान् ॥ २८॥ अत्र दृगन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुण एव कवेर्बुबोधयिषिता अपि तु निखिलजनवशीकारत्वादयोऽन्येऽपीति सुधाकणेष्वोषधीसंसर्गोऽतिशयार्थमुपात्तः ॥ केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् । त्वया रणे निष्करुणेन गाढं चापस्य जीवा चकृषे जवेन ॥ २९॥ अत्र चापकर्षणकार्याणानां केशाकर्षणादीनां पौर्वापर्यविपर्ययात्मनातिशयेनानुप्राणिता सहोक्तिः ॥ महेन्द्रतुल्यं कवयो भवन्तं वदन्तु किं तानिह वारयामः । भवान्सहस्रैः समुपास्यमानः कथं समानस्त्रिदशाधिपेन ॥ ३०॥ अत्र श्लेषोत्थापितत्रिदशत्वसंख्यामादाय व्यतिरेक उपात्तोभयनिमित्तकः ॥ स तु वर्षतु वारि वारिदस्त्वमुदाराशय रत्नवर्षणः । स कुहूरजनीमलीमसस्त्वमिहान्तर्बहिरेव निर्मलः ॥ ३१॥ अत्रापि स एव परं तु श्लेषोऽत्रानुत्थापको निषिध्यमानं साम्यं च न शाब्दमिति विशेषः ॥ मकरप्रतिमैर्महाभटैः कविभी रत्ननिभैः समन्वितः । कवितामृतकीर्तिचन्द्रयोस्त्वमिहोर्वीरमणासि भाजनम् ॥ ३३॥ अत्र राज्ञो जलध्युपमायाः शब्देनाभिधानेऽप्यङ्गोपमाभिराक्षेपादेकदेशविवर्तिन्युपमा तेनोत्तरार्ध उपमितसमास एव । विशेषणसमासवेद्यस्य तादात्म्यस्य प्रकृतेऽनुपयोगात् ॥ पुरः पुरस्तादरिभूपतीनां भवन्ति भूवल्लभ भस्मशेषाः । अनन्तरं ते भ्रुकुटीविटङ्कात्पतन्ति रोषानलविस्फुलिङ्गाः ॥ ३४॥ अत्र प्रयोजकातिशयकृतः प्रयोज्यशैघ्र्यातिशयो गम्यः । कार्यकारणपौर्वापर्यविपर्ययरूपा चेयमतिशयोक्तिः ॥ भुवनत्रितयेऽपि मानवैः परिपूर्णे विबुधैश्च दानवैः । न भविष्यति नास्ति नाभवन्नृप यस्ते भजते तुलास्पदम् ॥ ३५॥ अत्रोपमानलुप्तोपमेति प्राञ्चः । असमाख्यमलंकारान्तरमिति तु वयम् ॥ पीयूषयूषकल्पामल्पामपि ते गिरं निपीतवताम् । तोषाय कल्पते नो योषाधरबिम्बमधुरिमोद्रेकः ॥ ३६॥ अत्र संबन्धेऽप्यसंबन्ध इत्यतिशयोक्तिभेदः । उपमेयोपमानविशेषणाभ्यामल्पत्वोद्रिक्तत्वाभ्यामल्पयापि सह भूयानपि मधुरिमा साम्यं कर्तुं यत्रानीशस्तत्र किं वाच्यं भूयस्येति वैलक्षण्यात्मा व्यतिरेकश्च ॥ भासयति व्योमस्था जगदखिलं कुमुदिनीर्विकासयति । कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥ ३७॥ अत्र व्यजमानचन्द्रिकारूपकसंकीर्ण उल्लेखध्वनिः ॥ भाग्येन सह रिपूणामुत्तिष्ठसि विष्टरात्कृधाविष्टः । सहसैव पतसि तेषु क्षितिशासन मृत्युना साकम् ॥ ३८॥ 'केशैर्वधूनाम्' इत्यत्र कर्मणः सहोक्तिः । इह तु कर्तुरिति विशेषः ॥ त्वयि पाकशासनसमे शासति सकलं वसुंधरावलयम् । विपिने वैरिवधूनां वर्षन्ति विलोचनानि च दिनानि ॥ ३९॥ अत्र वर्षवदाचरन्तीत्याचारक्विबन्तेन श्लेषाच्छ्लेषमूलिका तुल्ययोगिता । रिपुकामिनीवर्णनविषयत्वेनोपमानोपमेययोर्द्वयोरपि प्रकृतत्वात् ॥ अहितापकरणभेषज नरनाथ भवान्करस्थितो यस्य । तस्य कुतोऽहिभयं स्यादखिलामपि मेदिनीं चरतः ॥ ४०॥ अत्र श्लेषनिवेदितस्य सर्पभयाभावस्योपपादकतयोपात्तस्य राजनि भेषजतादात्म्यारोपस्याप्युपपादकतया स्थितं राजसंबन्धिनि द्विषदपकरणरूपे धर्मे श्लेषनिवेदितसर्पतापकरणतादात्म्यमिति प्रथमचरणे श्लिष्टपरम्परितरूपकं तृतीये तु श्लेष एव । कुवलयलक्ष्मीं हरते तव कीर्तिस्तत्र किं चित्रम् । यस्मान्निदानमस्या लोकनमस्याङ्घ्रिपङ्कजो हि भवान् ॥ ४१॥ अत्रोत्पादकसमानगुणत्वादुत्पाद्यस्योत्पादकसंसर्गानुरूपः समालंकारविशेषः । श्लेषश्चास्मिन्गुणः ॥ दृष्टः सदसि चेदुग्राश्चन्द्रचन्दनचन्द्रिकाः । अथ त्वं संगरे सौम्याः शेषकालानलासयः ॥ ४२॥ अत्र दृष्टः सदसीति वाक्ये त्वमित्यस्यापकर्षणात्, अथ त्वं संगर इत्यत्र च त्वमित्यस्यानुवर्तनाद्वाक्ययोः पदविनिमयात्मालंकारः पूर्वार्धे । उत्तरार्धे प्रकृतानेकधर्मसंबन्धात्तुल्ययोगिता । उपमेयस्योत्कृष्टगुणत्वसिद्धय उपमानस्य तद्विरुद्धगुणकल्पनात्मकेनालंकारान्तरेण शबलिता ॥ अपारे खलु संसारे विधिनैकोऽर्जुनः कृतः । कीर्त्या निर्मलया भूप त्वया सर्वेऽर्जुनाः कृताः ॥ ४३॥ इह श्लेषमूलो व्यतिरेकः ॥ दधीचिबलिकर्णेषु हिमहेमाचलाब्धिषु । अदातृत्वमधैर्यं च दृष्टे भवति भासते ॥ ४४॥ अत्रापि सैव तथाविधा । यथासंख्यसंकरस्तु विशेषः ॥ शासति त्वयि हे राजन्नखण्डावनिमण्डलम् । न मनागपि निश्चिन्ते मण्डले शत्रुमित्त्रयोः ॥ ४५॥ इहापि तुल्ययोगिता मित्त्रशब्दश्लेषोत्थापिता व्याजस्तुतिश्च ॥ भानुरग्निर्यमो वायं बलिः कर्णोऽथवा शिबिः । प्रत्यर्थिनोऽर्थिनश्चेत्थं त्वयि यान्ति विकल्पनाम् ॥ ४६॥ इह तु संशय उल्लेखालिङ्गितः ॥ कमलावासकासारः क्षमाधृतिफणीश्वरः । भवान्कुवलयस्येन्दुरानन्दयति मानवान् ॥ ४७॥ इह श्लिष्टपरम्परितं रूपकं मालारूपम् ॥ गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले । पृथिव्यां सागरायन्ते भूपाल तव कीर्तयः ॥ ४८॥ इह मालोपमालिङ्गित उल्लेखः ॥ मृगतां हरयन्मध्ये वृक्षतां च पटीरयन् । नक्षत्रतां महीपानां त्वमिन्दवसि भूपते ॥ ४९॥ इह शुद्धपरम्परिता मालारूपोपमा । आचारक्विबन्ताच्छतरि रूपाणि । तिङि चैकम् [इन्दवसि] ॥ मध्ये सुधासम्दुरस्य सितामयगृहोदरे । पूर्णेन्दुविष्टरे देव स्थातुं योग्यास्तवोक्तयः ॥ ५०॥ अत्र त्रयाणां सुधासमुद्रादीनां विशेषणविशेष्यभावेन मधुरिमणि परां काष्ठामधिरूढे त्वदीयोक्तिपदसंबन्धो युक्तो न तु विशकलित इत्यतिशायकासद्विशेषणनिबन्धनः प्रौढोक्तिः ॥ अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा- न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधेः । उभयवदयं देव त्वत्तः कथं परमोल्बणः प्रलयदहनज्वालाजालाकुलो महसां गणः ॥ ५१॥ अत्र कारणगुणविरुद्धस्वगुणस्य कार्यस्योत्पत्तेर्विषमालंकारः । अमृतलहर्यादीनां त्रयाणामधरीकरणात्मना व्यतिरेकेण संजीवकत्वपरमशीतलत्वविशुद्धत्वसौन्दर्याणामतिशयो गम्यते । एवमेषु पद्येषु संभवन्तोऽप्यन्येऽलंकाराः स्फुटत्वान्न विवेचिताः । सहृदयानां प्रीत्यावश्यकं किंचिद्व्याख्यातमन्यत्तु तैरेवोल्लासनीयमित्यलं पल्लवितेन ॥ तैलङ्गान्वयमङ्गलालयमहालक्ष्मीदयाललितः श्रीमत्पेरमभट्टसूनुरनिशं विद्वल्ललाटंतपः । संतुष्टः कमताधिपस्य कवितामाकर्ण्य तद्वर्णनं श्रीमत्पण्डितराजपण्डितजगन्नाथो व्यधासीदिदम् ॥ ५२॥ दोर्दण्डद्वयकुण्डलीकृतलसत्कोदण्डाचण्डाशुग- ध्वस्तोद्दण्डविपक्षमण्डलमिह त्वां वीक्ष्य मध्येरणम् । वल्गद्गाण्डिवमुक्तकाण्डवलयज्वालावलीताण्डव- भ्रश्यत्खाण्डवरुष्टपाण्डवमहो को न क्षितीशः स्मरेत् ॥ ५३॥ अत्र स्मरणालंकारः । भाव इति तु न भ्रामितव्यम् । सादृश्यमूलकत्वातन्मूलकत्वाभ्यां भावत्वालंकारत्वयोरिह व्यवस्थितेः शब्दवेद्यत्वाच्च ॥ इति पण्डितराजश्रीजगन्नाथविरचितं प्राणाभरणं तत्कृतयैव टिप्पण्या समेतं समाप्तम् । The text is written by Jagannatha Pandita in honour of king Prananarayana of Kamarupa. https://bsvprasad.wordpress.com/2013/09/23/jagannatha-pandita-raya/ Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com

% Text title            : prANAbharNa
% File name             : prANAbharNa.itx
% itxtitle              : prANAbharaNam (paNDitarAjashrIjagannAthavirachitam)
% engtitle              : Pranabharanam
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : paNDitarAjashrIjagannAtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Description-comments  : The text is written by Jagannatha Pandita in honour of king Prananarayana of Kamarupa.  https://bsvprasad.wordpress.com/2013/09/23/jagannatha-pandita-raya/
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP