रघुवंशं सर्गः १० कालिदासकृतम्

रघुवंशं सर्गः १० कालिदासकृतम्

पृथिवीं शासतस्तस्य पाकशासनतेजसः । किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ॥ १०-१॥ न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् । सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम्॥ १०-२॥ अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः । प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः॥ १०-३॥ ऋष्यश‍ृङ्गादयस्तस्य सन्तः सन्तानकाङ्क्षिणः । आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः॥ १०-४॥ तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् । अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः॥ १०-५॥ ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः । अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्॥ १०-६॥ भोगिभोगासनासीनं ददृशुस्तं दिवौकसः । तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम्॥ १०-७॥ श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले । अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे॥ १०-८॥ प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् । दिवसं शारदमिव प्रारम्भसुखदर्शनम्॥ १०-९॥ प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा॥ १०-१०॥ बहुभिर्विटपाकारैर्दिव्याभरणभूषितैः । आविर्भूतमपां मध्ये पारिजातमिवापरम्॥ १०-११॥ दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः । हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम्॥ १०-१२॥ मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा । उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता॥ १०-१३॥ योगनिद्रान्तविशदैः पावनैरवलोकनैः । भृग्वादीननुगृह्णन्तं सौखशायनिकानृषीन्॥ १०-१४॥ प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषां । अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम्॥ १०-१५॥ नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने॥ १०-१६॥ रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते । देशे देशे गुणेष्वेवमवस्थास्तवमविक्रियः॥ १०-१७॥ अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः । अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम्॥ १०-१८॥ हृदयस्थमनासन्नमकामं त्वां तपस्विनम् । दयालुमनघस्पृष्टं पुराणमजरं विदुः॥ १०-१९॥ सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः । सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक्॥ १०-२०॥ सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् । सप्तार्चिमुखमाचख्युः सप्तलोकैकसंश्रयम्॥ १०-२१॥ चतुर्वर्गफलं ज्ञानं कालावस्थाश्चतुर्युगाः । चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखात्॥ १०-२२॥ अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् । ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये॥ १०-२३॥ अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः । स्वपतो जागरूकस्य याथार्थ्यं वेद कस्तव॥ १०-२४॥ शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः । पर्याप्तोऽसि प्रजाः पातुमौदासीन्येन वर्तितुम्॥ १०-२५॥ बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः । त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे॥ १०-२६॥ त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणाम् । गतिस्त्वं वीतरागाणामभूयःसंनिवृत्तये॥ १०-२७॥ प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव । आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा॥ १०-२८॥ केवलं स्मरणेनैव पुनांसि पुरुषं यतः । अनेन वृत्तयः शेषा निवेदितफलास्त्वयि॥ १०-२९॥ उदधेरिव रत्नानि तेजांसीव विवस्वतः । स्तुतिभ्यो व्यतिरिच्यन्ते दूराणि चरितानि ते॥ १०-३०॥ अनवाप्तमवाप्तव्यं न ते किञ्चन विद्यते । लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः॥ १०-३१॥ महिमानं यदुत्कीर्त्य तव संह्रियते वचः । श्रमेण तदशक्त्या वा न गुणानामियत्तया॥ १०-३२॥ इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् । भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ १०-३३॥ तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः । भयमप्रलयोद्वेलादाचख्युर्नैरृतोदधेः॥ १०-३४॥ अथ वेलासमासन्नशैलरन्ध्रानुवादिना । स्वरेणोवाच भगवान् परिभूतार्णवध्वनिः॥ १०-३५॥ पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता । बभूव कृतसंस्कारा चरितार्थैव भारती॥ १०-३६॥ बभौ सदशनज्योत्स्ना सा विभोर्वदनोद्गता । निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी॥ १०-३७॥ जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ । अङ्गिनां तमसेवोभौ गुणौ प्रथममध्यमौ॥ १०-३८॥ विदितं तप्यमानं च तेन मे भुवनत्रयम् । अकामोपनतेनेव साधोर्हृदयमेनसा॥ १०-३९॥ कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा । स्वयमेव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते॥ १०-४०॥ स्वासिधारापरिहृतः कामं चक्रस्य तेन मे । स्थापितो दशमो मूर्धा लभ्यांश इव रक्षसा॥ १०-४१॥ स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः । अत्यारूढं रिपोः सोढं चन्दनेनेव भोगिनः॥ १०-४२॥ धातारं तपसा प्रीतं ययाचे स हि राक्षसः । दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः॥ १०-४३॥ सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमम् । करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयम्॥ १०-४४॥ अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः । मायाविभिरनालीढमादास्यध्वे निशाचरैः॥ १०-४५॥ वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि । पुष्पकालोकसंक्षोभं मेघावरणतत्पराः॥ १०-४६॥ मोक्ष्यध्वे स्वर्गबन्दीनां वेणीबन्धनदूषितान् । शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः॥ १०-४७॥ रावणावग्रहक्लान्तमिति वागमृतेन सः । अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे॥ १०-४८॥ पुरहूतप्रभृतयः सुरकार्योद्यतं सुराः । अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः॥ १०-४९॥ अथ तस्य विशांपत्युरन्ते कामस्य कर्मणः । पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम्॥ १०-५०॥ हेमपात्रगतं दोर्भ्यामादधानः पयश्चरुम् । अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम्॥ १०-५१॥ प्राजापत्योपनीतं तदन्नं प्रत्यग्रहीन्नृपः । वृषेव पयसां सारमाविष्कृतमुदन्वता॥ १०-५२॥ अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः । प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यत्॥ १०-५३॥ स तेजो वैष्णवं पत्न्योर्विभेजे चरुसंज्ञितम् । द्यावापृथिव्योः प्रत्यग्रमहर्पतिरिवातपम्॥ १०-५४॥ अर्चिता तस्य कौसल्या प्रिया केकयवंशजा । अतः संभावितां ताभ्यां सुमित्रामैच्छदीश्वरः॥ १०-५५॥ ते बहुज्ञस्य चित्तज्ञे पत्नौ पत्युर्महीक्षितः । चरोरर्धार्धभागाभ्यां तामयोजयतामुभे॥ १०-५६॥ सा हि प्रणयवत्यासीत्सपत्न्योरुभयोरपि । भ्रमरी वारणस्येव मदनिस्यन्दरेखयोः॥ १०-५७॥ ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसंभवः । सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः॥ १०-५८॥ सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः । अन्तर्गतफलारम्भाः सस्यानामिव संपदः॥ १०-५९॥ गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः । जलजासिकदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः॥ १०-६०॥ हेमपक्षप्रभाजालं गगने च वितन्वता । उह्यन्ते स्म सुपर्णेन वेगाकृष्टपयोमुचा॥ १०-६१॥ बिभ्रत्या कौस्तुभन्यासं स्तनान्तरविलम्बितम् । पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया॥ १०-६२॥ कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः । ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपतस्थिरे॥ १०-६३॥ ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः । मेने परार्ध्यमात्मानं गुरुत्वेन जगद्गुरोः॥ १०-६४॥ विभक्तात्मा विभुस्तासामेकः कुक्षिष्वनेकधा । उवास प्रतिमाचन्द्रः प्रसन्नानामपामिव॥ १०-६५॥ अथाग्र्यमहिषी राज्ञः प्रसूतिसमये सती । पुत्रं तमोपहं लेभे नक्तं ज्योतिरिवौषधिः॥ १०-६६॥ राम इत्यभिरामेण वपुषा तस्य चोदितः । नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम्॥ १०-६७॥ रघुवंशप्रदीपेन तेनाप्रतिमतेजसा । रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन्॥ १०-६८॥ शय्यागतेन रामेण माता शातोदरी बभौ । सैकताम्भोजबलिना जाह्नवीव शरत्कृशा॥ १०-६९॥ कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान् । जनयित्रीमलंचक्रे यः प्रश्रय इव श्रियम्॥ १०-७०॥ सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ । सम्यगाराधिता विद्या प्रबोधविनयाविव॥ १०-७१॥ निर्दोषमभवत्सर्वमाविष्कृतगुणं जगत् । अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमम्॥ १०-७२॥ तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः । विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव॥ १०-७३॥ कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः । रक्षोविप्रकृतावास्तामपविद्धशुचाविव॥ १०-७४॥ दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः । मणिव्याजेन पर्यस्ताः पृथिव्यामश्रुबिन्दवः॥ १०-७५॥ पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः । आरम्भं प्रथमं चक्रुर्देवदुन्दुभयो दिवि॥ १०-७६॥ संतानकमयी वृष्टिर्भवने चास्य पेतुषी । सन्मङ्गलोपचाराणां सैवादिरचनाऽभवत्॥ १०-७७॥ कुमाराः कृतसंस्कारास्ते धात्रीस्तन्यपायिनः । आनन्देनाग्रजेनेव समं ववृधिरे पितुः॥ १०-७८॥ स्वाभाविकं विनीतत्वं तेषां विनयकर्मणा । मुमूर्च्छ सहजं तेजो हविषेव हविर्भुजाम्॥ १०-७९॥ परस्परविरुद्धास्ते तद्रगोरनघं कुलम् । अलमुद्योतयामासुर्देवारण्यमिवर्तवः समानेऽपि हि सौभ्रात्रे यथेभौ रामलक्ष्मणौ । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः॥ १०-८१॥ तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन । यथा वायुर्विभावस्वोर्यथा चन्द्रसमुद्रयोः॥ १०-८२॥ ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च । मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव॥ १०-८३॥ स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः । धर्मार्थकाममोक्षाणामवतार इवाङ्गवान्॥ १०-८४॥ गुणैराराधयामासुस्ते गुरुं गुरुवत्सलाः । तमेव चतुरन्तेशं रत्नैरिव महार्णवाः॥ १०-८५॥ सुरगज इव दन्तैर्भग्नदैत्यासिधारै- र्नय इव पणबन्धव्यक्तयोगैरुपायैः । हरिरिव युगदीर्घैर्दोर्भिरंशैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः॥ १०-८६॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ रामावतारू नाम दशमः सर्गः ॥ Encoded and proofread by Arvind Kolhatkar akolhatkar at rogers.com
% Text title            : raghuvansha 10
% File name             : raghuvansha10.itx
% itxtitle              : raghuva.nsham sargaH 10 (kAlidAsakRitam)
% engtitle              : Raghuvansha by Kalidas Chapter 10
% Category              : major_works, kAlidAsa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : kalidasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arvind Kolhatkar akolhatkar at rogers.com
% Proofread by          : Arvind Kolhatkar akolhatkar at rogers.com
% Latest update         : May 30, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org