रघुवंशं सर्गः १५ कालिदासकृतम्

रघुवंशं सर्गः १५ कालिदासकृतम्

कृतसीतापरित्यागः स रत्नाकरमेखलाम् । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्॥ १५-१॥ लवणेन विलुप्तेज्यास्तामिस्रेण तमभ्ययुः । मुनयो यमुनाभाजः शरण्यं शरणार्थिनः॥ १५-२॥ अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा । त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययम्॥ १५-३॥ प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् । धर्मसंरक्षणार्थेव प्रवृत्तिर्भुवि शार्ङ्गिणः॥ १५-४॥ ते रामाय वधोपायमाचख्युर्विबुधद्विषः । दुर्जयो लवणः शूली विशूलः प्रार्थ्यतामिति॥ १५-५॥ आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः । करिष्यन्निव नामास्य यथार्थमरिनिग्रहात्॥ १५-६॥ यः कश्चन रघूणां हि परमेकः परंतपः । अपवाद इवोत्सर्गं व्यावर्तयितुमीश्वरः॥ १५-७॥ अग्रजेन प्रयुक्ताशीस्ततो दाशरथी रथी । ययौ वनस्थलीः पश्यन्पुष्पिताः सुरभीरभीः॥ १५-८॥ रामादेशादनुगता सेना तस्यार्थसिद्धये । पश्चादध्यनार्थस्य धातोरधिरिवाभवत्॥ १५-९॥ आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपसां वरः । विरराज रथप्रष्ठैर्वालखिल्यैरिवांशुमान्॥ १५-१०॥ तस्य मार्गवशादेका बभूव वसतिर्यतः । रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने॥ १५-११॥ तमृषिः पूजयामास कुमारं क्लान्तवाहनम् । तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः ॥ १५-१२॥ तस्यामेवास्य यामिन्यामन्तर्वन्ती प्रजावती । सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः॥ १५-१३॥ संतानश्रवणाद्भ्रातुः सौमित्रिः सौमनस्यवान् । प्राञ्जलिर्मुनिमामन्त्र्य प्रातर्युक्तरथो ययौ॥ १५-१४॥ स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः । वनात्करमिवादाय सत्त्वराशिमुपस्थितः ॥ १५-१५॥ धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः । क्रव्याद्गणपरीवारश्चिताग्निरिव जंगमः ॥ १५-१६॥ अपशूलं तमासाद्य लवणं लक्ष्मणानुजः । रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणाम्॥ १५-१७॥ नातिपर्याप्तमालक्ष्य मत्कुक्षेरद्य भोजनम् । दिष्ट्या त्वमसि मे धात्रा भीतेनेवोपपादितः॥ १५-१८॥ इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया । प्रांशुमुत्पाटयामास मुस्तास्तम्बमिव द्रुमम्॥ १५-१९॥ सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः । गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः॥ १५-२०॥ विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् । प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम्॥ १५-२१॥ ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः । सिकतात्वादपि परं प्रपेदे परमाणुताम्॥ १५-२२॥ तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः । एकताल इवोत्पातपवनप्रेरितो गिरिः॥ १५-२३॥ कार्ष्णेन पत्रिणा शत्रुः स भिन्नहृदयः पतन् । अनिनाय भुवः कम्पं जहाराश्रमवासिनाम्॥ १५-२४॥ वयसां पङ्क्तयः पेतुर्हतस्योपरि विद्विषः । तत्प्रतिद्वन्द्विनो मूर्ध्नि दिव्याः कुसुमवृष्टयः॥ १५-२५॥ स हत्वा लवणं वीरस्तदा मेने महौजसः । भ्रातुः सोदर्यमात्मानमिन्द्रजिद्वधशोभिनः॥ १५-२६॥ तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः । शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः॥ १५-२७॥ उपकूलं च कालिन्द्याः पुरीं पौरुषभूषणः । निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः॥ १५-२८॥ या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः । स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता॥ १५-२९॥ तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीम् । हेमभक्तिमतीं भूमेः प्रवेणीमिव पिप्रिये॥ १५-३०॥ सखा दशरथस्यापि जनकस्य च मन्त्रकृत् । संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि॥ १५-३१॥ स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया । कविः कुशलवावेव चकार किल नामतः॥ १५-३२॥ साङ्गं च वेदमध्याप्य किंचिदुत्क्रान्तशैशवौ । स्वकृतिं गापयामास कविप्रथमपद्धतिम्॥ १५-३३॥ रामस्य मधुरं वृत्तं गायन्तो मातुरग्रतः । तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ॥ १५-३४॥ इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः । तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः ॥ १५-३५॥ शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते । मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः॥ १५-३६॥ भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगात् । मैथिलीतनयोद्गीतनिःस्पन्दमृगमाश्रमम्॥ १५-३७॥ वशी विवेश चायोध्यां रथ्यसंस्कारशोभिनीम् । लवणस्य वधात्पौरैरीक्षितोऽत्यन्तगौरवम्॥ १५-३८॥ स ददर्श सभामध्ये सभासद्भिरुपस्थितम् । रामं सीतापरित्यागादसामान्यपतिं भुवः॥ १५-३९॥ तमभ्यनन्दत्प्रणतं लवणान्तकमग्रजः । कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणम्॥ १५-४०॥ स पृष्टः सर्वतो वार्तमाख्यद्राज्ञे न संततिम् । प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनात्॥ १५-४१॥ अथ जानपदो विप्रः शिशुमप्राप्तयौवनम् । अवतार्याङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः॥ १५-४२॥ शोचनीयासि वसुधे या त्वं दशरथाच्च्युता । रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता॥ १५-४३॥ श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः । न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत्॥ १५-४४॥ स मुहूर्तं क्षमस्वेति द्विजमाश्वास्य दुःखितम् । यानं सस्मार कौबेरं वैवस्वतजिगीषया॥ १५-४५॥ आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः । उच्चचार पुरस्तस्य गूढरूपा सरस्वती॥ १५-४६॥ राजन् प्रजासु ते कश्चिदपचारः प्रवर्तते । तमन्विष्य प्रशमयेर्भविष्यसि ततः कृती॥ १५-४७॥ इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् । दिशः पपात पत्रेण वेगनिष्कम्पहेतुना॥ १५-४८॥ अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् । ददर्श कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम्॥ १५-४९॥ पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः । आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनम्॥ १५-५०॥ तपस्यनधिकारित्वात्प्रजानां तमघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे॥ १५-५१॥ स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्॥ १५-५२॥ कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् । तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना॥ १५-५३॥ रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना । महौजसा संयुयुजे शरत्काल इवेन्दुना॥ १५-५४॥ कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहम् । ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम्॥ १५-५५॥ स दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना । पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः ॥ १५-५६॥ तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः । स्तुत्वा निवर्तयामास त्रातुर्वैवस्वतादपि॥ १५-५७॥ तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः । मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः॥ १५-५८॥ दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः । न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि॥ १५-५९॥ उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ । अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः॥ १५-६०॥ श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः । अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्मयी॥ १५-६१॥ विधेरधिकसंभारस्ततः प्रववृते मखः । आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः॥ १५-६२॥ अथ प्राचेतसोपज्ञं रामायणमितस्ततः । मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ॥ १५-६३॥ वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ । किं तद्येन मनो हर्तुमलं स्यातां न श‍ृण्वताम्॥ १५-६४॥ रूपे गीते च माधुर्यंतयोस्तज्ज्ञैर्निवेदितम् । ददर्श सानुजो रामः शुश्राव च कुतूहली॥ १५-६५॥ तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ । हिमनिष्यन्दिनी प्रातर्निर्वातेव वनस्थली॥ १५-६६॥ वयोवेषविसंवादि रामस्य च तयोस्तदा । जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत॥ १५-६७॥ उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये । नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा॥ १५-६८॥ गेये को नु विनेता वां कस्य चेयं कृतिः कवेः । इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम्॥ १५-६९॥ अथ सावरजो रामः प्राचेतसमुपेयिवान् । ऊरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत्॥ १५-७०॥ स तावाख्याय रामाय मैथिलीयौ तदात्मजौ । कविः कारुणिको वव्रे सीतायाः संपरिग्रहम्॥ १५-७१॥ तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि । दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः॥ १५-७२॥ ताः स्वचारित्र्यमुद्दिश्य प्रत्याययतु मैथिली । ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया॥ १५-७३॥ इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः । शिष्यैरानाययामास स्वसिद्धिं नियमैरिव॥ १५-७४॥ अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः । कविमाह्वाययामास प्रस्तुतप्रतिपत्तये॥ १५-७५॥ स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया । ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः॥ १५-७६॥ काषायपरिवीतेन स्वपदार्पितचक्षुषा । अन्वमीयत शुद्धेति शान्तेन वपुषैव सा॥ १५-७७॥ जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः । तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः॥ १५-७८॥ तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः । कुरु निःसंशयं वत्से स्ववृत्ते लोकमित्यशात्॥ १५-७९॥ अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः । आचम्योदीरयामास सीता सत्यां सरस्वतीम्॥ १५-८०॥ वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे । तथा विश्वंभरे देवि मामन्तर्धातुमर्हसि॥ १५-८१॥ एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः । शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ॥ १५-८२॥ तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी । समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा॥ १५-८३॥ सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम् । मामेति व्याहरत्येव तस्मिन्पातालमभ्यगात्॥ १५-८४॥ धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः । गुरुर्विधिबलापेक्षी शमयामास धन्विनः॥ १५-८५॥ ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् । रामः सीतागतं स्नेहं निदधे तदपत्ययोः॥ १५-८६॥ युधाजितस्य संदेशात्स देशं सिन्धुनामकम् । ददौ दत्तप्रभावाय भरताय भृतप्रजः॥ १५-८७॥ भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् । आतोद्यं ग्राहयामास समत्याजयदायुधम्॥ १५-८८॥ स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः । अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः॥ १५-८९॥ अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ । शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ॥ १५-९०॥ इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः । भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात्॥ १५-९१॥ उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् । रहःसंवादिनौ पश्येदावां यस्तं त्यजेरिति॥ १५-९२॥ तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः । आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः॥ १५-९३॥ विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणोऽभिनत् । भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिना॥ १५-९४॥ स गत्वा सरयूतीरं देहत्यागेन योगवित् । चकारावितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः॥ १५-९५॥ तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव॥ १५-९६॥ स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम्॥ १५-९७॥ उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया॥ १५-९८॥ जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः । कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः॥ १५-९९॥ उपस्थितविमानेन तेन भक्तानुकम्पिना । चक्रे त्रिदिवनिःश्रेणिः सरयूरनुयायिनाम्॥ १५-१००॥ यद्गोप्रतरकल्पोऽभूत्संमर्दस्तत्र मज्जताम् । अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे॥ १५-१०१॥ स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु । त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत्॥ १५-१०२॥ निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् । लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च॥ १५-१०३॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ॥ Encoded and Proofread by Arvind Kolhatkar akolhatkar at rogers.com
% Text title            : raghuvansha15
% File name             : raghuvansha15.itx
% itxtitle              : raghuva.nsham sargaH 15 (kAlidAsakRitam)
% engtitle              : Raghuvansha 15 by Kalidas
% Category              : major_works, kAlidAsa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : kalidasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arvind Kolhatkar akolhatkar at rogers.com
% Proofread by          : Arvind Kolhatkar akolhatkar at rogers.com
% Latest update         : Octobber 11, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org