रघुवंशं सर्गः ९ कालिदासकृतम्

रघुवंशं सर्गः ९ कालिदासकृतम्

पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः । दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः ॥ ९ -१॥ अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् । अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ॥ ९ -२॥ उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम्। बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥ ९ -३॥ जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः । क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥ ९ -४॥ दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् । तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥ ९ -५॥ समतया वसुवृष्टिविसर्जनैनियमनादसतां च नराधिपः । अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥ ९ -६॥ न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु । तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥ ९ -७॥ न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि । न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥ ९ -८॥ उअदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः । स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥ ९ -९॥ अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः । जयमघोषयदस्य तु केवलं गजवती जवतीव्रहया चमूः ॥ ९ -१०॥ अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः । विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः ॥ ९ -११॥ शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरंदरः । स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥ ९ -१२॥ चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन् । नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ॥ ९ -१३॥ निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् । समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ॥ ९ -१४॥ उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः । श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः ॥ ९ -१५॥ तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता । नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥ ९ -१६॥ तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः । मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ॥ ९ -१७॥ प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः । उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥ ९ -१८॥ स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः । स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥ ९ -१९॥ क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः । कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥ ९ -२०॥ अजिनदण्डभृतं कुशमेखलां यतगिरं मृगश‍ृङ्गपरिग्रहाम् । अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः ॥ ९ -२१॥ अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः । नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ ९ -२२॥ असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता । दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ ९ -२३॥ अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् । यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥ ९ -२४॥ जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः । दिनमुखानि रविर्हिमनिग्रहैर्विमलयन्मलयं नगमत्यजत् ॥ ९ -२५॥ कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् । इति यथाक्रममाविरभून्मधुर्द्रुमवतीमवतीर्य वनस्थलीम् ॥ ९ -२६॥ नयगुणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः । अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपतत्रिणः ॥ ९ -२७॥ कुसुममेव न केवलमार्तवं नवमशोकतरोः स्मरदीपनम् । किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः ॥ ९ -२८॥ विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः । मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः ॥ ९ -२९॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः । मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः ॥ ९ -३०॥ उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके । प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥ ९ -३१॥ व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् । न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥ ९ -३२॥ अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा । अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥ ९ -३३॥ प्रथममन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः । सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ९ -३४॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः । उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥ ९ -३५॥ ललितविभ्रमबन्धविचेक्षणं सुरभिगन्धपराजितकेसरम् । पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥ ९ -३६॥ शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः । विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः ॥ ९ -३७॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः । सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः ॥ ९ -३८॥ अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः । कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ ९ -३९॥ हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् । युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥ ९ -४०॥ अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः । न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकः प्रमदामिव ॥ ९ -४१॥ अमदयन्मधुगन्धसनाथया किसलयाधरसंगतया मनः । कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी ॥ ९ -४२॥ अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः । परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥ ९ -४३॥ उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगमुपेयुषी । सदृशकान्तिरक्ष्यत मञ्जरी तिलकजालकजालकमौक्तिकैः ॥ ९ -४४॥ ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णमृतुश्रियः । कुसुमकेसररेणुमलिव्रजाः सपवनोपवनोत्थितमन्वयुः ॥ ९ -४५॥ अनुभवन्नवदोलमृतूत्सवं पटुरपि प्रियकण्ठजिघृक्षया । अनयदासनरज्जुपरिग्रहे भुजलतां जलतामबलाजनः ॥ ९ -४६॥ त्यजत मानमलं बत विग्रहैर्न पुनरेति गतं चतुरं वयः । परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः ॥ ९ -४७॥ अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः । नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः ॥ ९ -४८॥ परिचयं चललक्ष्यनिपातने भयरुचोश्च तदिङ्गितबोधनम् । श्रमजयात्प्रगुणां च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ ॥ ९ -४९॥ मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः । गगनमश्वखुरोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥ ९ -५०॥ ग्रथितमौलिरसौ वनमालया तरुपलाशसवर्णतनुच्छदः । तुरगवल्गनचञ्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु ॥ ९ -५१॥ तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः । ददृशुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलम् ॥ ९ -५२॥ श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः । स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनम् ॥ ९ -५३॥ अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतम् । धनुरधिज्यमनाधिरुपाददे नरवरो रवरोषितकेसरी ॥ ९ -५४॥ तस्य स्तनप्रणयिभिर्मुहुरेणशावै- र्व्याहन्यमानहरिणीगमनं पुरस्तात् । आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्णसारम् ॥ ९ -५५॥ तत्प्रार्थितं जवनवाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति । श्यामीचकार वनमाकुलदृष्टिपातै- र्वातेरितोत्पलदलप्रकरैरिवार्द्रैः ॥ ९ -५६॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम् । आकर्णकृष्टमपि कामितया स धन्वी बाणं कृपामृदुमनाः प्रतिसंजहार ॥ ९ -५७॥ तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तमेत्य बिभिदे निबिडोऽपि मुष्टिः । त्रासातिमात्रचटुलैः स्मरतः सुनेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि ॥ ९ -५८॥ उत्तस्थुषः सपदि पल्वलपङ्कमध्या- न्मुस्ताप्ररोहकवलावयवानुकीर्णम् । जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तमार्द्रपदपङ्क्तिभिरायताभिः ॥ ९ -५९॥ तं वाहनादवनतोत्तरकायमीष- द्विध्यन्तमुद्धृतसटाः प्रतिहन्तुमीषुः । नात्मानमस्य विविदुः सहसा वराहा वृक्षेषु विद्धमिषुभिर्जघनाश्रयेषु ॥ ९ -६०॥ तेनाभिघातरभसस्य विकृष्य पत्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः । निर्भिद्य विग्रहमशोणितलिप्तपुङ्ख- स्तं पातयां प्रथममास पपात पश्चात् ॥ ९ -६१॥ प्रायो विषाणपरिमोक्षलघूत्तमाङ्गा- न्खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः । श‍ृङ्गं स दृप्तविनयाधिकृतः परेषा- मत्युच्छ्रितं न ममृषे न तु दीर्घमायुः ॥ ९ -६२॥ व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान् । शिक्षाविशेषलघुहस्ततया निमेषा- त्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ॥ ९ -६३॥ निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् । नूनं तेषामभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दो मृगेषु ॥ ९ -६४॥ तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् । आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त ॥ ९ -६५॥ चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी । नृपतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शन्तिम् ॥ ९ -६६॥ अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यीचकार । सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः ॥ ९ -६७॥ तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् । आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ ९ -६८॥ इति विस्मृतान्यकरणीयमात्मनः सचिवावलम्बिधुरं धराधिपम् । परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥ ९ -६९॥ स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् । नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥ ९ -७०॥ उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः । अरमत मधुराणि तत्र श‍ृण्वन्विहगविकूचितबन्दिमङ्गलानि ॥ ९ -७१॥ अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः । श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥ ९ -७२॥ कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः । तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥ ९ -७३॥ नृपतेः प्रतिषिद्धमेव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यत् । अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥ ९ -७४॥ हा तातेति क्रन्दितमाकर्ण्य विषण्ण- स्तस्यान्विष्यन्वेतसगूढं प्रभवं सः । शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीत्क्षितिपोऽपि ॥ ९ -७५॥ तेनावतीर्य तुरगात्प्रथितान्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः । तस्मै द्विजेतरतपस्विसुतं स्खलद्भि- रात्मानमक्षरपदैः कथयांबभूव ॥ ९ -७६॥ तच्चोदितः स तमनुद्धृतशल्यमेव पित्रोः सकाशमवसन्नदृशोर्निनाय । ताभ्यां तथागतमुपेत्य तमेकपुत्रमज्ञानतः स्वचरितं नृपतिः शशंस ॥ ९ -७७॥ तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातमुदहारयतामुरस्तः । सोऽभूत्परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयनवारिभिरेव वृद्धः ॥ ९ -७८॥ दिष्टान्तमाप्स्यति भवानपि पुत्रशोका- दन्त्ये वयस्यहमिवेति तमुक्तवन्तम् । आक्रान्तपूर्वमिव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः ॥ ९ -७९॥ शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयम् । कृष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति ॥ ९ -८०॥ इत्थं गते गतघृणः किमयं विधत्तां वध्यस्तवेत्यभिहितो वसुधाधिपेन । एधान्हुताशनवतः स मुनिर्ययाचे पुत्रं परासुमनुगन्तुमनाः सदारः ॥ ९ -८१॥ प्राप्तानुगः सपदि शासनमस्य राजा संपाद्य पातकविलुप्तधृतिर्निवृत्तः । अन्तर्निविष्टपदमात्मविनाशहेतुं शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः ॥ ९ -८२॥ इति श्रीरघुवंशे महाकाव्ये कविश्रीकालिदासकृतौ मृगयावर्णनो नाम नवमः सर्गः ॥
Encoded and Proofread by Arvind Kolhatkar akolhatkar at rogers.com
% Text title            : raghuvansha9
% File name             : raghuvansha9.itx
% itxtitle              : raghuva.nsham sargaH 09 (kAlidAsakRitam)
% engtitle              : Raghuvansha by Kalidas Chapter 9
% Category              : major_works, kAlidAsa
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : kalidasa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arvind Kolhatkar akolhatkar at rogers.com
% Proofread by          : Arvind Kolhatkar akolhatkar at rogers.com
% Latest update         : May 12, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org