॥ साङ्ख्यतत्त्वप्रदीपिका ॥

ॐ नमः परमात्मने । दुर्निवारमनस्तापनिवारणपटीयसीम् । जगदानन्दसन्दोहजननीमहमाश्रये ॥ १॥ भट्टकेशवसम्भूतसदानन्दात्मजः सुधीः । यजुर्वित् केशवः प्राह किञ्चित् सांख्ये यथामति ॥ २॥ इह द्विविधं तत्त्वं प्रकृतिः पुरुषश्चेति । प्रकृतिरेव प्रधानमित्यभिधीयते सत्त्वादित्रिगुणा नित्येति प्रकृतिस्वरूपलक्षणम् । विकाररहितत्त्वाच्च नित्यैवेयम् । पुरुषे अतिव्याप्तिवारणाय सत्त्वादित्रिगुणेत्युक्तम् । सत्त्वादयस्त्रयो गुणा यस्या इति विग्रहः । महदादितत्त्वानामपि त्रिगुणात्मकत्वात् तत्रातिप्रसङ्गवारणाय नित्येति । तटस्थलक्षणं तु जगदुपादानकारणं प्रकृतिरिति । तथाहि विमतं सुखदुःखमोहसामान्योपादानकं नियमेन तदन्वितस्वभावत्वात् यन्नियमेन यदन्वितस्वभावं तत् तत्सामान्योपादानकं यथा मृत्सामान्यान्वितस्वभावं घटशरावादि तथाहि काचन तरुणी कस्यचित् कान्तस्य सुखमुत्पादयति कस्यचिन्मोहं कस्यचिद्द्वेषमिति तत्कस्य हेतोस्तं तं प्रति सुखदुःकमोहात्मकसत्त्वरजस्तमसामाविर्भावात् । सा च चतुर्विंशतिधा प्रकृतेः प्रथमो महानिति विकारः परिणाम इति यावत् महत्तत्त्वमेव बुद्धितत्त्वमित्यभिधीयते अहमित्यहंकाराख्यो महत्तत्त्वस्य प्रथमो विकारः तदनन्तरं पञ्चतन्मात्राः शब्दस्पर्शरूपरसगन्धाख्या भवति अथाकाशादिभूतपञ्चकं अथैकादशाक्षाणि श्रोत्रस्पर्शनचक्षूरसनघ्राणवाग्गुदलिङ्गकरचरणान्तःकरणान्येकादशेन्द्रियाणि भवन्ति । तत्र महत्तत्त्वमहंकारतत्त्वं शब्दाद्याः पञ्चतन्मात्रा इत्येतत् तत्त्वसप्तकं प्रकृतिविकृतिभावापन्नं पूर्वं पूर्वं प्रति कार्यत्वमुत्तरोत्तरं प्रति कारणत्वमित्यर्थः । तथाहि महत्तत्त्वं मूलप्रकृतेः कार्यं कारणं चाहंकारतत्त्वस्य अहंकारतत्त्वं तथा महत्तत्त्वस्य कार्यं कारणं च शब्दतत्त्वाख्यादितन्मात्रं प्रति तथाहि तदपि पूर्वं प्रति कार्यमुत्तरं प्रति कारणं चेति बोध्यम् । आकाशादिभूतपञ्चकमेकादशेन्द्रियाणीत्येते पुनः षोडशभावाश्च प्रकृतिजन्या एव न तु कस्यचित् प्रकृतिः तत्त्वान्तरोपादानरूपत्वाभावात् । सेयं प्रकृतिरचेतना परिणामित्वात् । ननु विषयाणां घटादीनां चेतनसम्बन्धः साक्षादेवास्तु किं महदादिप्रणालिकयेति चेत् । तत् किं चितिरेव विषयबन्धनस्वभावा तथा सति चैत्यन्यनित्यतया मोक्षः कदापि न स्यात् । अथ चैतन्यं प्रकृतौ प्रतिबिम्बितं प्रकृतिविषययोस्तु साक्षात् सम्बन्धः स्यात् किं महदादिनेति चेत् तथाहि पुरुषवन्नित्यतया पुनरनिर्मोक्षापत्तिरेव । अथ चितिर्विषयसम्बद्धस्वभावा मास्तु विषया एव चितिसम्बद्धस्वभावाः सन्तु तथा च विषयतिरोभावे मोक्षः स्यादिति चेत् तर्हीदं दृष्टमिति न स्यात् सर्वथा चितिसम्बन्धस्वाभाव्येनाव्यवधानात् । अथ विषया इन्द्रियद्वारा चितिसम्बद्धात्मानः सन्तु दृष्टादृष्टव्यवहारादि सन्निकर्षविप्रकर्षाभ्यामुपपत्स्यत इति चेन्न व्यासङ्गानुपपत्तेः इन्द्रियसम्बद्धे विषये ज्ञानोत्पत्तेरावश्यकत्वात् । अथ व्यासङ्गानुपपत्त्या मनः कल्प्यतां किमहंकारेण मैवं एवं च सति स्वस्मिन् व्याघ्रोहं वराहोहमिति नारोपयेत् किंत्विन्द्रियं मनोद्वारा चितिसम्बद्धं स्वकीयं नरत्वमेव गृह्णीयात् । अथैवमहंकारोस्तु स्वप्नदशायामारोपार्थं बुद्धितत्त्वे न मानमस्ति मैवं सुषुप्त्यवस्थायां मनोवदहंकारोपि निवृत्तव्यापार एव तथा च श्वासप्रयोजकजीवनयोनियत्नस्य व्यापारः स्यादिति तदनुरोधेन बुद्धितत्त्वस्याप्यावश्यकत्वात् तस्माद्बुद्धितत्त्वं परिगमेन(?) सम्बद्धो विषयो गजतुरगमहिषादिः पुरुषेण चैतन्येन सम्बध्यते तत आसंसारबुद्धितत्त्वनाशादेव च मोक्ष इति नानिर्मोक्षः । अकारणमकार्यं च कूटस्थचैतन्यरूपः पुरुषः अत्रायं पुरुषः स्वयं ज्योतिरिति श्रुत्या तावत् स्वप्रकाशमात्मनोऽभिधीयते स्वप्रकाशं च विज्ञानमेव तेनात्मनः स्वप्रकाशत्वमभिदधतीयं श्रुतिर्विज्ञानात्मकतां पुरुषस्यावेदयति । न च क्षणिकस्य ज्ञानस्य नित्यपुरुषात्मकत्वं सम्भवतीति ज्ञानस्य क्षणभङ्गुरत्वासिद्धेः विनाशव्यवहारस्य तव घटाकाशदिविनाशव्यवहारवदौपाधिकत्वेनाप्युपपत्तेः पुरुषातिरिक्तचैतन्यस्वीकर्तुस्तवापि मते ज्ञानस्य क्षणिकत्वे मानाभावः अन्यथा कालान्तरेऽनुभूतस्मरणानुपपत्तिः । न च संस्कारो द्वारं तत्कल्पनापेक्षया ज्ञानस्य स्थैर्यकल्पनायां लाघवात् नित्यत्वाच्चासौ न कस्यचिद्विकारः न वा कारणं स्वप्रकाशत्वात् यदि हि स्वप्रकाशस्याप्यस्य प्रकृतित्वमाश्रीयते तर्ह्येतद्विकृतित्वेनाभिमतस्यापि स्वप्रकाशत्वमस्य वा जडत्वमापद्येत समानयोरेव प्रकृतिविकृतिभावोपलम्भात् भेदाग्रहाच्च निष्क्रियेपि पुरुषे कर्तृत्वाभिमानः एवं सुखदुःखादिव्यवहारोपि तथाहि परिशुद्धचैतन्यविग्रहः प्रकृतिविकृतिभावानपेततटस्थः पुष्करपलाशवन्निर्लेपोऽप्यन्तःकरणाकारपरिणतप्रकृतितादात्म्यमविवेकलक्षणमविद्यया प्रतिपद्यते ततश्चेतरेतराध्यासादन्तःकरणावृत्तीनां दुःखादीनां पुरुषे पुरुषधर्माणां चिच्चैतन्यादीनामन्तःकरणेऽध्यासादहं दुःखीत्यादिव्यवहारो भवतीति । अविद्यानामातात्त्विकी ख्यातिः सा च तमोगुणोद्रेकादाविर्भवन्ती विविक्तयोस्तादात्म्यमवभासयति । ततश्चोत्तरेषामस्मितारागद्वेषाभिनिवेशानां क्लेशशब्दाभिधेयानां हेतुरविद्येति गीयते । तत्सिद्धं निर्लेप एवायमिति । असङ्गो ह्ययमिति श्रुतेरुपपद्यते च । न च कोप्यस्य व्यापार इति आलोचनं तावदिन्द्रियव्यापारः विकल्पस्तु मनसः अभिमानोहंकारस्य कृत्यध्यवसायो बुद्धेः । अथ कृत्यध्यवसायः कृतिमत्तया ज्ञानं तत्कथमचेतनाया बुद्धेरिति बुद्धिरंशत्रयवती पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेति । भवति हि ममेदं कर्तव्यमिति तत्र ममेत्यंशश्चेतनस्य दर्पणनिर्मलाया बुद्धेः प्रतिबिम्ब उपधानं तच्चातात्त्विकमेव चैतन्येन बुद्धेर्वास्तवसम्बन्धाभावात् यथा दर्पणं मुखसम्बन्धमन्तरेणापि पुरुषभ्रमस्तद्वदिहापि । इदमिति विषयोपधानं तच्च वास्तवमेक इन्द्रियप्रणालिकया बुद्धौ ज्ञानरूपविषयसम्बन्धात् दर्पणस्येव निःश्वासाभिहतस्य मलिनिमा पारमार्थिकः पुरुषोपरागः विषयोपरागमाहिम्ना च कृतिमत्तयाध्यवसायः अयमेव व्यापारावेशः । अथ ज्ञानमेव चैतन्यं कथमनयोर्भेद इति उच्यते कृत्यध्यवसायलक्षणव्यापारविशिष्टा बुद्धिरिन्द्रियप्रणालिकया बुद्धेर्विषयस्य घटादेः सम्बन्धो वृत्तिविशेषस्तदेव ज्ञानं विषयोपरागेण सह यः पुरुषोपरागस्यातात्त्विकः सम्बन्धः स उपलब्धिः यथा दर्पणनिष्ठा मलिनिमा दर्पणप्रतिबिम्बितमुखे दृश्यते तथेति यावत् । तथा घटमहं जानामीत्यनुव्यवसायाख्योपलब्धिरिति विभावनीयम् । तदेव ज्ञानं सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मरूपा अष्टौ भावा बुद्धेरेव अहं जाने सुखीत्यादिसामानाधिकरण्यप्रतीतेः । ननु यत्रैते धर्माः स एव चेतनः किं न स्यादिति चेन्न अनित्यधर्मरूपतया परिणामित्वात् धर्मधर्मिणोरभेदात् । ये पुनस्तयोर्भेदं प्रतिपन्नास्तार्किकप्रभृतयस्ते तावन्नीलो घटा इत्याद्यभेदावगाहिप्रत्ययमपश्यन्त उपेक्षणीयाः । ननु प्रधानस्याचैतन्यस्य कथं जगत्कर्तृत्वं यत् खलु नाम्ना रूपेण च व्याक्रियते तच्चेतनकर्तृकं दृष्टं यथा घटादि । विवादाध्यासितं च जगन्नामरूपेण व्याकृतं तस्माच्चेतनकर्तृकमिति सम्भाव्यते चेतनो हि बुद्धावालिख्य नामरूपे घटा इति नाम्ना रूपेण च कम्बुग्रीवादिना बाह्यं घटं निष्पादयति । अत एव घटस्य निवर्त्यस्याप्यन्तःसंकल्पात्मना सिद्धस्य कर्मकारकभावो घटं करोतीति । अत्र वदामः चैतन्यस्य जगदुपादानत्वे जगतो जडत्वानुपपत्तिः यत् कार्यं तच्चेतनकर्तृकमिति व्याप्त्या शरीरी कर्ता स्यात् किं च तथापि ज्ञानस्य चैतन्यविशिष्टस्य क्षित्यादिजनकत्वे मानाभावः कुलालादिज्ञानेच्छयोः कृतिजनकत्वेनैवान्यथासिद्धत्वात् ईश्वरकृतेश्च जन्यत्वात् । अथ यः कृतिमान् स ज्ञानवानिति व्याप्त्या तत्सिद्धिः एवं हि यो ज्ञानवान् स सुखीत्यादिव्याप्त्या सुखमपीश्वरे स्यात् अप्रयोजकत्वं चेत् तुल्यं तवापि । कर्मैव जगत्कारणमित्यपि ये प्रतिपन्नास्ते तावन्नत्यन्तं पारिहर्तव्याः धर्माधर्मात्मकार्थानर्थलक्षणचोदनालक्षणस्य प्रकृत्यभेदात् बुद्ध्याकारपरिणताया एव प्रकृतेरष्टौ भावा इत्यभ्युपगमात् । अथेदानीं प्रमाणं विवेचयामः । तत् तावत् त्रिविधम् प्रत्यक्षानुगमानागमभेदात् । प्रत्यक्षप्रमाकरणं प्रत्यक्षम् । लिङ्गमनुमानम् । अथातीतानागतयोः कथं लिङ्गभावः जात्या धर्माधर्मात्मना तत्सत्त्वात् । आप्तवचनं शब्दः यथास्मिन्नरपतिनिलये गजरथतुरगाः सन्तीति । पान्थसकलाध्यायवचन(?)मनुमाने चरितार्थत्वान्नोपमानमर्हति । अर्थापत्तिरभावश्च सम्भवश्चेष्टितं तथा । नैतिह्यमागमातद्धि व्यक्तमन्यत्र विस्तरात् ॥ स चायं पुरुषः प्रतिशरीरं भिन्नः । तथाहि विमतानि शरीराणि स्वसंख्यासंख्येयात्मवन्ति शरीरत्वात् सम्प्रतिपन्नवत् किं चैवं यथैकस्मिन्नेव जीवति देवदत्ते शरीरे जाते वा चेष्टावति वा मृते वा भावोपि जातचेष्टावान् मृतः किलेति लोको व्यवहरति तथा शरीरान्तरेपि तथैव व्यवहारात् तस्मात् पुरुषभेदोभ्युपेयः । एकमेवाद्वितीयमित्यादिश्रुतेश्च कथञ्चिदुपचरितार्थत्वेन तथा आत्मनो हि विभुनियत्वादभिन्नदेशकाला इत्येकत्वेनोच्यते अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्य इत्यादिश्रुतेश्च पुरुषभेदमवगच्छामः । किं पुनरस्य प्रयोजनं निःश्रेयसं किं तत् अखिलानर्थमूलभूताया अविद्यायाः सत्त्वातिशयविशेषाविर्भूतविद्यया विनाशे सति तत्पुरुषस्य सहजचैतन्यात्मनावस्थानं तन्मोक्षापरपर्यायं निःश्रेयसं प्रकृतिपुरुषविवेकज्ञानं च तद्धेतुः । ननु प्रकृतेर्नित्यत्वात् पुनरपि तमोद्रेकसम्भवादविद्याविर्भावसम्भवे मुक्तिप्रच्युतिः स्यादिति । नैतत् दृढतमचित्तवृत्तिनिरोधलक्षणयोगबलात् पुनरुद्रेकानुपपत्तेः । यदाहुः स तु दीर्घकालनैरन्तर्यसत्कारसेवितो दृढभूमिर्व्युत्थानसंस्कारेण न बाध्यत इति । अथ निर्लेपस्यास्य महापुरुषस्य सम्बन्ध एव न कुतोऽपवर्ग इति सत्यमाह किं तु प्रकृतेरेव बन्धमोक्षौ पुंस्युपचर्येते तदाहुः । रूपैः सप्तभिरेवं बध्नात्यात्मानमात्मना प्रकृतिः । सैव च पुरुषस्यार्थं विमोचयत्येकरूपेण ॥ इति । अयमर्थः धर्माधर्मवैराग्यावैराग्यैश्वर्यानैश्वर्यज्ञानाज्ञानान्यष्टौ प्रकृतिरूपाणि तत्र ज्ञानव्यतिरिक्तैः धर्माधर्माद्यैः सप्तभी रूपैः प्रकृतिरात्मनैवात्मानं बध्नाति एकरूपेण ज्ञानाख्येन च विमोचयतीति । यदाहुः । धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धम् ॥ इति । शिष्टं सकलमकलङ्कं चाभ्युदयसिद्धान्तसिद्धमित्युपेक्षितमिति । दर्शितानर्थमूलाय सर्वतत्त्वार्थदर्शिने । करुणापूर्णचित्ताय कपिलाय नमो नमः ॥ इति सांख्यार्थतत्त्वप्रदीपिका समाप्ता ॥ Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com
% Text title            : sAMkhyArthatattvapradIpikA
% File name             : sAMkhyArthatattvapradIpikA.itx
% itxtitle              : sANkhyatattvapradIpikA
% engtitle              : sAMkhyatattvapradIpikA
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Source                : sAnkhyasaNgrahaH 1918
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP