॥ साङ्ख्यपरिभाषा ॥

श्रीगणेशाय नमः । श्रीदक्षिणामूर्तिगुरुभ्यो नमः । स्वानुभवं यथामति व्याख्यास्यामः । ॐ नमो नारायणाय प्रकृत्यै पुरुषाय च । वेदान्तसारगुह्याय साङ्ख्यतत्त्वस्वरूपिणे ॥ १॥ योगिनां परहंसानां तत्त्वज्ञानार्थदर्शनम् । अन्येषां च न दातव्यं मायया मोहितं जगत् ॥ २॥ शब्दश्रोता च व्याजेन निर्वाणार्थं च कथ्यते । यदा कश्चिन्महाभागस्तस्य विश्रान्तिकारकम् ॥ विभक्तिमत्र यो पश्येत्तस्य ज्ञानं च दूरतः ॥ ३॥ अथ गुरुः । गुरुयुक्त्या प्रसादेन ग्रन्थगर्भावलोकनम् ॥ ४॥ गुरुश्च द्विविधः प्रोक्तो वार्त्तिकाम्नाय एव च । वार्त्तिको भक्तिभावेन आम्नायो मूलकारिका ॥ ५॥ किन्तु - ब्राह्मणस्त्रीशूद्रमुखोपास्या ये ते तु वार्त्तिकाः । संन्यासादिपारम्पर्येण स आम्नायः प्रकीर्तितः ॥ ६॥ आदौ शिवस्तथा विष्णुर्ब्रह्मा वसिष्ठ एव च । शक्तः पाराशरो व्यासः शुको गौडस्तथैव च ॥ गोविन्दपादपूज्येभ्यः शङ्करः शङ्करो परः । इयं परम्परा प्रोक्ता गुरोराम्नायसिद्धिदा ॥ ७॥ गुरुर्गायत्र्युपदेशो गुरुश्चोदरपोषकः । सद्गुरुर्मोक्षदाता च गुरोस्त्रिविधलक्षणम् ॥ ८॥ मन्त्राध्ययनं च व्याख्यानं कर्मतन्त्रानि चेटकाः । वैदिकी शिल्पविद्या च श्रीगुरोस्तस्य उच्यते ॥ ९॥ कार्यकारणतां हित्वा समाधिः पूर्णबोधकः । तारको मोक्षदाता च सद्गुरुस्तस्य उच्यते ॥ १०॥ अथ शिष्यः । रिक्तकामं मनो धृत्वा विश्वासं गुरुभक्तिदम् । आशामोक्षं विना नास्ति तच्छिष्यमुद्धरेद्गुरुः ॥ ११॥ भो भो स्वामिन् कृपासिन्धो प्रार्थयिष्यामि तेऽधुना । तप्तसंसारदावाग्नौ मुक्तिं कुरु दयानिधे ॥ १२॥ विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽरिवलवेदार्था अस्मिन् । तथा च श्रुतिः - समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपश्रित्य तमनुसरति ॥ तद्धि सम्प्रणिपातेन परिप्रश्नेन सेवया ॥ उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ १३॥ 'यज्ज्ञात्वा न पुनर्मोहः' इति गीतासु । भुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज ॥ लोलुपः साधुसङ्गस्य अत्यन्तं सुखमश्नुते ॥ १४॥ इति गुरुपरम्परा । अथ सांख्यसाम्प्रदायेन ज्ञानमाह । तत्र प्रथमं साधनचतुष्टयसम्पन्नस्य इहामुत्रार्थफलभोगविरागः । द्वितीयं शमदमादिषट्कम् । तृतीयं नित्यानित्यवस्तुविवेकः । चतुर्थं मुमुक्षत्वं मोक्षेच्छा । किन्तु इह नाम स्रक्चन्दनवनितादिविषयभोगविरागः । अमुत्र नाम स्वर्गभोगादिअनिच्छा । शमो नाम मनोनिग्रहः । दम इन्द्रियनिग्रहः । तितिक्षा शीतोष्णादिपरोत्कर्षसहनम् । समाधानं सृष्ट्यादिमायाविलक्षणम् । श्रद्धा गुरावध्यात्मशास्त्रे रतिः । उपरमः कार्यकारणातीतम् । नित्य आत्मा । अनित्या दृश्यपदार्थाः । अतः परं मोक्षेच्छा ॥ इति साधनचतुष्टयम् । कम्बलो खर्परी वेणुर्बुद्धेस्त्रिविधलक्षणम् । चित्तक्षिप्तगतायतालीनताभूमिकात्रयम् ॥ १॥ अथ भूमिका । विक्षेप्ता विषयपदार्थे रतिः । गतायाता संशयात्मिका । सुलीनता प्रीतिरूपा तुरीया । अथ बुद्धयः । गुरुः शास्त्रादियुक्त्या बोधयति तथापि शून्यं कम्बलपेशीवत् । सा अधिकप्रकाशो न भवति खर्परच्छिद्रवत् । अनेकयुक्त्या विस्तारयति भग्नवेणुवत् जले तैलवत् । तत्रादौ वैराग्यम् । तत्र प्रमाणं श्रुतिः- न वाऽरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति इति । बृहदारण्यके 'त्यागेनैकेन अमृतत्वमानशुः' । तत्रादौ शबलत्यागः ॥ विष्ठामूत्रं च दुर्गन्धि कृम्यगारं च नश्वरम् । तत्सौख्यमानिनो मूढा अहंममेतिगर्विताः ॥ १॥ कस्य माता पिता कस्य कस्य भ्राता सहोदरः । कस्य स्त्री कस्य पुत्रस्तु नराणां कर्मबन्धनम् ॥ २॥ जायापत्यगृजक्षेत्रस्वजनद्रविणादिषु । उदासीनसमं पश्येत्सर्वं व्यर्थमिवात्मनि ॥ ३॥ स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् । क्षमी विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ ४॥ कायारण्यसमाविष्टो मनव्याघ्रो महाबली । भक्षते सकलांल्लोकान्देवानुरगमानवान् ॥ ५॥ ज्ञानखड्गं दृढं कृत्वा वैराग्यं भूमिशोधनम् । दुर्लभो यस्य संग्रामो कोऽसौ शूरश्च आत्मवान् ॥ ६॥ अथ शुद्धत्यागः । ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ ७॥ पदमिच्छसि ब्रह्मत्वं तदा विज्ञानतः शृणु । सर्वार्थेषु च वैराग्यं सर्वभूतेषु चात्मता ॥ ८॥ मुक्तिमिच्छसि चेत्त्वन्तु विषयान्विषवत्त्यज । क्षमार्जवदयातोषसत्यं पीयूषवद्भज ॥ ९॥ मनसा ध्यायते योगी कृपणस्तु धनं यथा । मनसा येन पीत्वा च तेन जित्वा जगत्त्रयम् ॥ १०॥ विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः । निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ ११॥ अकिञ्चनश्च दान्तश्च शान्तश्च सममानसः । स लिङ्गानाश्रमं त्यक्त्वा चरेदविधिगोचरः ॥ १२॥ देहे च शृणु तं तात गुप्तप्रकटलक्षणम् । दशगुप्तकरं मोक्षद्वादशं सहजस्थितिः ॥ १३॥ निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव्रज्यामहं नित्यं पूययेदङ्घ्रिरेणुभिः ॥ १४॥ कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः । एकाकी निस्पृहः शान्तो पाणिपात्रो दिगम्बरः ॥ १५॥ सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १६॥ निरालम्बपदं प्राप्य चित्ते तत्र लयं गते । निवर्तन्ते क्रियाः सर्वाः स योगी निर्गुणः परः ॥ १७॥ विषयेन्द्रियकारणमाकर्षचित्तविभ्रमः । यथा बहुसपत्नीनां लुठन्ति पतिमेकतः ॥ १८॥ साधु साधु शृणु स्वार्थमस्थियन्त्राच्च दूरतः । अस्य भागकृता लोके ममत्वं श्वानवत्कृतम् ॥ १९॥ शृणु तात द्वयं त्याज्यमाशा भेदस्तथैव च । आशया दीनतां कृत्वा भेदश्च भेदवर्धनम् ॥ २०॥ रोदनहास्यकाऽऽनेन पिशाचस्थितिमाश्रयेत् । अस्य सङ्गं सदा त्यज्य भव चिन्मात्र सर्वदा ॥ २१॥ छायाकार्यं यथा नास्ति तथैवायं हि देहकः । तत्त्वं गृहरसं त्यज्य परमां स्थितिमाश्रय ॥ २२॥ गोष्पदं पृथिवी मेरुः स्थाणुराकाशमुद्रिका । तृणं त्रिभुवनं राम वैराग्यालंकृता कृतिः । मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ॥ २३॥ इति वैराग्यम् ॥ अथ भक्तिद्वारा चतुर्विधा मुक्तिः । वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुते ॥ प्रथमं चित्तशुद्धिं च मानसं पूजनद्वयम् । तृतीयं च सदा ध्यानं व्यापकं च चतुर्थकम् ॥ १॥ पञ्चमं तु निरालम्बं मोक्षभूमिर्यथाक्रमम् । यत्नेन साधयेन्मर्त्यो तस्य मुक्तिर्न संशयः ॥ २॥ जपानुष्ठानयोर्द्वारा चित्तशुद्धिर्विधीयते । पश्चाच्चतुर्विधा मुक्तिः शृणु साधु द्विजोत्तम ॥ ३॥ मानसे लोकसम्प्राप्तिस्तत्सदा च समीपता । तथा तस्य स्वरूपं च निरालम्बेन शाश्वतम् ॥ ४॥ ये ये यान् यान् यजन्देवांस्ते चत्वारमोक्षगाः । आत्मज्ञानं विना मोक्षो न भवेत्सच्चिदात्मनि ॥ ५॥ किन्तु - मानसं नाम आसनस्थां सावयवमूर्त्तिं ध्यायेत् । निवातदीपवत्स्वस्थं यथाबुद्ध्या षोडशोपचारैः पूजयेत् । तस्य गच्छतस्तिष्ठतश्च न समीपावभासः । स एव सर्वभूतस्थं स्वरूपं पश्यति । ततः सावकाशमिव भासते सा सायुज्यता । इति चतुर्विधा उपासना मुक्तिः । अथाद्वैतभक्तिः । सर्वेश्वरमयं भक्तिर्ज्ञानं चाभेददर्शनम् । निरपेक्षं च वैराग्यं मुक्तं निर्विषयं मनः ॥ १॥ किन्तु चाण्डालादिब्रह्मपर्यन्तं सर्वभूतेषु ईश्वररूपं भावयेत् । यथार्हं षोडशोपचारेण पूजयेत् । सा भक्तिः न तु प्रतिमा । ब्रह्मादिपिपीलिकापर्यन्तं स्वशरीरवदभेदं ज्ञात्वा तज्ज्ञानं परदेहाहिस्वदेहावयमेकीकृत्य सर्वत्र एकमेव पिण्डमवधारयेत् ब्रह्मादिस्थावरपर्यन्तमिहामुत्र निराशा । मुक्ति नाम वृत्तिशून्यम् । तत्र प्रमाणम् - सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः । भूतानि च भवत्यात्मलेषभागवतोत्तमः ॥ २॥ यदा भूतपृथक्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३॥ प्रजहाति यदा कामान् सर्वान्पार्थ मनोगतान् । आत्मन्येवात्मनस्तुष्टः स्वपतः स न खिद्यते ॥ ४॥ गीतासु । ब्रह्मादिस्थावरान्तेषु वैराग्यं यद्धि जायते । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ५॥ इति अद्वैतभक्तिः । अथ विवेकज्ञाननिर्णयः । अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम् । निर्लोभदाता भवमुक्तिहेतुर्ज्ञानस्य चिह्नं दशलक्षणानि ॥ १॥ कर्म अध्यात्मतत्त्वं च ब्रह्मज्ञानमतः परम् । इन्द्रं चत्वारि वाच्यार्थमात्मलक्षं सुखावहम् ॥ २॥ कर्मज्ञानी भवेज्जीवः पुरुषोऽध्यात्मसंज्ञकः । ईश्वरस्तत्त्ववेत्ता च सर्वं ब्रह्मेति ब्रह्मता ॥ ३॥ वर्णाश्रमं च धर्मं च होत्रादिकर्मतत्पराः । भजनं सर्वभूतेषु ज्ञानं च कर्मसज्ञितम् ॥ ४॥ वैराग्याध्यात्मशास्त्रं च यस्य माया विनिर्गता । जिज्ञासा मननाध्यासं ज्ञानमध्यात्मसंज्ञितम् ॥ ५॥ आलोक्य धर्मसांख्यादिधर्मकर्मक्रियाविधीः । तदर्थव्यतिरेकेण तत्त्वज्ञानं तदोच्यते ॥ ६॥ समाधिशब्दवाक्यार्थं ब्रह्माकारतया वृतिः । एकाकी निस्पृहः शान्तो ब्रह्मज्ञानं तदोच्यते ॥ ७॥ वाचो यस्मिन्निवर्तन्ते लिङ्गं गलितसर्वधीः । स्वयमेव स्वरूपस्थं स्वमिव स्वं विराजते ॥ ८॥ उक्ताचारविहीनस्य स्वबुद्धिर्वर्ततेऽखिलम् । द्रव्यादिविषयस्वार्थान्स जीवो नीचशब्दितः ॥ ९॥ सदाचाररतो नित्यं द्वन्द्वातीतश्च निस्पृहः । शुष्कञ्चाप्यशनं चैव पुरुषस्तस्य उच्यते ॥ १०॥ दण्डकाशायमात्रं च कामक्रोधविवर्जितः । भ्रमरीभुक्तसन्तोषमीश्वरस्तस्य उच्यते ॥ ११॥ दिग्वासं च स्वसंवेद्यमानन्दं स्वपरं न हि । पाणिपात्रे च यद्भुंक्ते स ब्रह्म राजते महीम् ॥ १२॥ देहान्तितं सदाकालं वर्णाश्रमविवर्जितम् । यत्कृतं तत्सदाचारमात्मारामो विराजते ॥ १३॥ इति अथ धर्मशास्त्रे- अनिष्टमिष्टमिश्रं च त्रिविधं कर्मणः फलम् ॥ पशुमिश्रस्तथा ज्ञानी सिद्धज्ञेयं च पञ्चकम् । एतैर्लक्षणसंयुक्तं वृत्तिभेदेन कथ्यते ॥ १४॥ उक्त्वा उक्त्वा च कार्येण द्रव्यं च साधयेत्ततः । शिश्नोदररताः स्वार्थं सत्पशोर्लक्षणं स्मृतम् ॥ १५॥ युगाचारेण वर्तन्ते संमतं वर्णमाश्रमम् । आत्मस्वार्थं न जानाति स मिश्रं लक्षणं स्मृतम् ॥ १६॥ वेदशास्त्रार्थसर्वज्ञो उक्ताचारश्च तत्परः । यथोक्त्वा च वदेद्वाक्यं स ज्ञानी लक्षणोच्यते ॥ १७॥ कार्यं च अन्यथाकर्तुं यद्वक्तुं तत्तु साधयेत् । सञ्चितार्थान्वदेत्प्राज्ञः स सिद्धिर्लक्षणोच्यते ॥ १८॥ कार्यकारणकर्तृत्वं विहाय विचरेन्महीम् । स्तुनादपी निकामी च आनन्दं ज्ञेयलक्षणम् ॥ १९॥ इति निर्वेदज्ञाननिर्णयः । देहवर्णाश्रया धर्मा कल्पनावेदनिर्मिताः । ता हि निर्मोकवत्त्याज्याः सोऽहमेको निरञ्जनः ॥ २०॥ तस्माज्ज्ञानात्तु कैवल्यमित्यादिश्रुतेः ज्ञानाग्निदग्धकर्माणीति गीता । परोक्षं शास्त्रियज्ञानमपरोक्षं च शाश्वतम् । प्रथमं जन्मकर्माणि द्वितीयं सच्चिदात्मकम् ॥ २१॥ उत्पत्तिस्थितिसंहारभूतं भूतेषु युज्यते । आत्मा च तत्र साक्षी च जगद्द्रष्टा च सूर्यवत् ॥ २२॥ भूतादिव्यक्तिरूपं च अचरं चरमेव च । तदिन्द्रजालवत्पश्येद्यथा नु वीचिवज्जगत् ॥ २३॥ कल्पनाबद्धजन्तुश्च सदा जल्पति दोषवत् । वपुर्नृत्यति रथ्यायां यावत्पतति भूतले ॥ २४॥ जनो बालपिशाचत्वं किं लज्जायोगिवृन्दिनाम् । जल्पन्ति विविधा वाचो किमर्थं सुखदुःखयोः ॥ २५॥ अस्ति भाति प्रियं स्थिरमस्थिरं नाम रूपकम् । चत्वार ईषणा त्याज्याः सोहमेको निरञ्जनः ॥ २६॥ मातृकाध्वनिरूपा च वर्तते विश्वमायया । जानीहि तत्र तन्नादं व्यर्थोऽर्थः प्रतिपद्यते ॥ २७॥ अमनस्तु सदा देहो यथा ग्रामो विना जनात् । ब्रह्माद्योपि न कर्त्तव्यः स पशुश्चात्मघातकः ॥ २८॥ उत्तमा च लये लीना ध्यानधारणमध्यमाः । अधमा प्रतिमापूजा गीतनृत्यं धमोधमः ॥ २९॥ स्नानं मनो मलत्यागः शौचमिन्द्रियनिग्रहः । अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः ॥ ३०॥ स्थूलपेशिवत् प्रत्यक्षं लिङ्गं वन्ध्यं यथा स्त्रियः । मनसात्मैकरूपेण स्वयं ब्रह्म सनातनम् ॥ ३१॥ श्रुतिस्मृत्यर्थपूर्णं च समाधेश्चित्तसौरभम् । यावद्देहाभिमानं च तावत्यो निष्फला क्रियाः ॥ ३२॥ संसारकर्म आसक्तो ब्रह्माहमिति मन्यते । कर्मब्रह्मोभयभ्रष्टस्तं त्यजेदन्त्यजं यथा ॥ ३३॥ समाधेर्विक्षेपो यस्य नानायुक्तिप्रकारकः । यावद्देहलयं नैतावन्तो मोहकारकाः ॥ ३४॥ एकोसौ योगवासी च द्वयं ग्रामस्तथैव च । तृतीयं नगरं चैव मन्ये यद्वनवासिनाम् ॥ ३५॥ वेदशास्त्रपुराणानि नानायुक्तिं च वल्गुना । व्यवसयात्मिका बुद्धिर्न तु साधनरूपका ॥ ३६॥ आलोड्य चतुरो वेदान् सर्वशास्त्राणि सर्वदा । यो वै तत्त्वं न जानाति दर्वीपाकरसं यथा ॥ ३७॥ शब्दब्रह्मणि निष्णातो स्नायात्स परमे यदि । श्रमस्तस्य श्रमफलं ह्यधेनुरिव रक्षकः ॥ ३८॥ आकाशदर्पणे यस्मिन्यज्जगद्भासतेऽखिलम् । तत्सर्वं ब्रह्मरूपं च मायामयविचेष्टितम् ॥ ३९॥ या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥ ४०॥ नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च । न मनो हन्त बुद्धिश्च नैव चित्तमहङ्कृतिः ॥ ४१॥ नाहं मनुष्यो न च देव यक्षो न ब्राह्मणः क्षत्रियवैश्यशूद्रः । न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः ॥ ४२॥ कार्यकारणचेष्टा च त्रिविधं कल्पनाकृतम् । मनोहङ्कारसंयुक्तं व्यर्थं च शब्दमालिका ॥ ४३॥ शब्दे शब्दस्य ज्ञानार्थं योगी वदति निस्पृहः । यथा वाद्येषु नादश्च पारतन्त्र्येण वर्तते ॥ ४४॥ योगी च सर्वकार्याणि वर्तते देहकर्मणि । कौमारं क्रीडनं चैव सर्वं मिथ्यैव कारणम् ॥ ४५॥ यद्यावत्क्रियते जन्तुः स्वगृहे राजते पुमान् । यो यो यस्य यथा भावस्तत्ततेषां च सौख्यता ॥ ४६॥ तत्कामोपचेष्टितम् सर्वं वृथा भवति आयतौ । न चास्य क्रिया काचिन्नेह नानास्ति कर्हिचित् ॥ ४७॥ अहं चेष्ट इतो देहे सर्वकर्मसु चेष्टते । इति ज्ञानं विजानीयाद्यज्ज्ञानं स्मरणेन हि ॥ ४८॥ तडागः पूर्णतो येन यद्दातुं बलं राजते । किंचिच्छिद्रेण आद्यं च मनसात्मोदकक्रियाः ॥ ४९॥ बन्धं विहाय पूर्णानि कुर्वन्तु स्वस्थमानसम् । ये हि युक्तिं सदाभ्यासात्स वै ज्ञानोत्तमोत्तमः ॥ ५०॥ देहादिसर्वकर्माणि ज्ञानाज्ञानेषु ज्ञायसे । सोऽहं चिन्मात्ररूपेण जानीहि ब्रह्मलक्षणम् ॥ ५१॥ अहं मूर्खमहं ज्ञाता यो धर्मः प्रतिपाद्यते । सोऽहं चिन्मात्ररूपेण जानीहि ब्रह्मलक्षणम् ॥ ५२॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि यस्मिन् दृष्टे परावरे ॥ ५३॥ जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किञ्चन । ब्रह्मण्याभाति चिन्मिथ्या यथा मरुमरीचिका ॥ ५४॥ ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स सत्त्ववित् ॥ ५५॥ न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः । असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ॥ ५६॥ देहाभिमानगलिते विदिते च चिदात्मनि । यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ ५७॥ आत्मैकभावनिष्ठस्य या या चेष्टास्तदर्चनम् । यो यो जल्पः स संमन्त्रस्तद्ध्यानं च निरीक्षणम् ॥ ५८॥ न संकल्पविकल्पस्य न लीनोपाधिवासनाः । निजस्वरूपे निर्मग्नः स योगी परतत्त्ववित् ॥ ५९॥ देहादिसर्वेन्द्रियाणि सत्तामात्रेण चेष्टते । यथा दीपे प्रपंचस्य चुंबकं लोहमेव च ॥ ६०॥ देहद्वयं तथा नाम वर्णाश्रमा च व्यर्थता । महीआकाशब्रह्माहमलमेतत्समाधिना ॥ ६१॥ अव्यक्तस्य कथं ध्यानं व्यापकस्य विसर्जनम् । अमूर्तस्य कथं पूजा स्वयं ब्रह्म सनातनम् ॥ ६२॥ फलस्य कारणं पुष्पं फले पुष्पं विनश्यति । ज्ञानस्य कारणं कर्म ज्ञाने कर्म विनश्यति ॥ ६३॥ किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । आत्मना पूरितं सर्व महाकल्पांबुना यथा ॥ ६४॥ भूतादिव्यक्तिरूपं च अचरं चरमेव च । तदिन्द्रजालवत्पश्येद्यथाम्बुवीचिवज्जगत् ॥ ६५॥ शब्दभागद्वयं कृत्वा व्यर्थो ज्ञानार्थयोगिनम् । कदाचिद्वक्तुं ज्ञानार्थं व्यर्थो वक्तुं न शक्यते ॥ ६६॥ गर्वं नो वहते न निन्दन्ति परान्नो भाषते निष्ठुरं प्रोक्तं केनचिदप्रियं च हसते क्रोधं च नालम्बते । श्रुत्वा काव्यमलक्षणं परकृतं सन्तिष्ठते मूकव- द्दोषान्नाददते स्वयं न कुरुते चैतत्सतां लक्षणम् ॥ ६७॥ बीजमध्ये यथा वृक्षं वृक्षमध्ये च बीजता । व्याप्यव्यापकसर्वात्मा स पृथक् नैव दृश्यते ॥ ६८॥ एकात्मा सर्वभूतेषु बन्धमोक्षः कथं द्विधा । जन्मसंस्कारयोगेन भिन्नत्वं वर्त्तते सदा ॥ ६९॥ प्रतिबिम्बयथोपाधिं दीर्घन्तिर्यक् च वर्त्तुलम् । तस्माद्विलक्षणो जीवः कथमेकं भविष्यति ॥ ७०॥ यथा योनिस्तथाचारपूर्वकर्मानुसारतः । तत्तज्ज्ञानाधिकारेण द्विविधा बन्धमोक्षयोः ॥ ७१॥ यथायमलमुत्पत्तिं प्रारब्धं विविधाकृतम् । तथैव सुखदुःखानि कथं भवति एकता ॥ ७२॥ द्रव्यं न भक्षयेत्प्राज्ञः स्वद्रव्यं नैव पोषयेत् । सन्तुष्टः सर्वदा नित्यं स नरो ज्ञानवान्भवेत् ॥ ७३॥ शरीरं नश्वरं सर्वं सम्बन्धः किन्तु शाश्वतः । वयसा सूत्रमार्गेण यथा स्थानेषु गच्छति ॥ ७४॥ यथा परगृहे वासो मार्गस्थं कुरुते सदा । तथैव सुखदुःखेन न स्पृशेत् ज्ञानिनो नरः ॥ ७५॥ नटी च नटनाट्यं च नानाक्रीडा च रञ्जनम् । अहं प्रत्ययजानाति तथैव ज्ञो सदा नरः ॥ ७६॥ इति ज्ञाननिर्णयः । अथ श्रोता उवाच । इदं किं दृश्यते केन कथं जातम् ? तं होवाच- प्रथम अनादिवस्तु चैतन्य आत्मा । तस्य स्फुरणं जातं स इममेवात्मानं द्विधा पातयेत्ततः । पतिश्च पत्नी चाभवतामिति बृहदारण्ये । तत्त्वमसीति यस्मिन् त्रिपदानि भवन्ति । तत् त्वं असि । ब्रह्माहमस्मीति सकलब्रह्मान्तं निश्वसितम् । अथ तत्सर्वं त्वमेव । इदमाश्चर्यम् । तर्हि चित्त एकाग्रम् अतिसूक्ष्मतरं कुरु । परमर्थमित्युक्तम् । आत्माऽयं गुरुरचलधर्मव्यापकत्वादिति । अथ- अन्धः पङ्गुरसङ्गे च सङ्गात्कर्म प्रतिष्ठितम् । यत्र पङ्गुस्वतन्त्रत्वं तत्रान्धो निःफलो भवेत् ॥ १॥ अन्धातीतं भवेत्पङ्गुरचलं च सनातनम् । सबाह्याभ्यन्तरं भूतं यथाकाशं च दृश्यते ॥ २॥ किन्तु माया अन्धा अविवेकित्वात् । उभयोरेकीभूत्वा मिथ्या जीवेश्वरौ व्याजेनापि ब्रह्माण्डयोः । सृष्टिनिर्मिताः । तस्मान्मायापरित्यागेन स्वयमेव चिदाकाशे च वर्तते । तत्र प्रमाणं श्रुतिः । आकाश आत्मा खं ब्रह्म । अथ जीवेश्वरयोर्लक्षणम् । तत्र प्रमाणं श्रुतिः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । अथ वेदेति । कार्योपादिचैतन्यं जीवशब्दवाच्यम् । कारणोपाधिचैतन्यम् ईश्वरशब्दवाच्यम् । कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः । कार्यकारणतां हित्वा पूर्णबोभो विधीयते ॥ ३॥ तत्र कार्यं नाम अहङ्कारादिसृष्टिव्यापारः कारणं नाम साक्षी ह्यन्तःस्फुरणम् । इति वेदान्ते । उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ ४॥ इति ईश्वरः । पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसंयोगोऽस्य सदसद्योनिजन्मसु ॥ १॥ इति जीवः । मुखाभासको दर्पणे दृश्यमानो मुखत्वापृथक् ते न हि वाऽस्ति वस्तु ॥ चिदाभासकोऽधीशजीवोऽपि तद्वत् स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १॥ इति हस्तामले । सलिल एको इष्टाद्वैतो भवति । इति बृहदारण्ये । तथा बिम्बप्रतिबिम्बन्यायेन जीवेश्वरौ कल्पितौ । तज्जीवस्य मोक्षसाधनमाह कर्मपरं अहरहः सन्ध्यामुपासिता यावज्जीवमग्निहोत्रं जुहुयात् । ज्योतिष्टोमौ स्वर्गकामो यजेत् । ओमिति ब्रह्म । ओमितीद ॐ सर्वम् । ओमित्यग्निहोत्रमनुजानाति । इति कर्म । अथ ज्ञानपरम् । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । प्रथममायाशबलसृष्ट्यादिपुत्रकलत्रद्रव्याद्विलक्षणः । द्वितीयं स्थूलसूक्ष्मादिशरीरस्य विलक्षणम् । तृतीयं केवलमोक्षसङ्कल्पः । यथा शुकनालकान्यायेन मिथ्यारज्जुसर्प्पे भ्रममाणे सति तस्य मोक्षसाधनमाह । तत्र जीवस्वरूपं लक्षणं दृष्टिसम्बन्धेन सूर्यप्रभया प्रतिभाति तद्वासना महधृदि ग्रन्थिः । इति जीवलक्षणम् । जीवस्य मोक्षकामाय त्रिवर्गं च पुरा कृतम् । कर्म पातञ्जलिं साङ्ख्यं तत्समासेन कथ्यते ॥ १॥ पञ्चभूतात्मिका पूजा विधिरेष समाशृणु । त्रयं कर्म पूजायोग्यं वा यो पातञ्जले स्मृतः ॥ २॥ द्वयं देहाभिमानेन एकं नाहं च सांख्यता । अहं नाहं द्वयं शब्दबन्धमोक्षं च कारकम् ॥ ३॥ तथा च श्रुतिः । अथातो धर्मजिज्ञासा । अथातो ब्रह्मजिज्ञासा । पूर्वपूर्वश्रुतियुक्त्यानुभवाभासानामुत्तरोत्तरश्रुतियुक्तानुभवाभासबोधदर्शनात् । सामान्यशास्त्रं स्यान्न्यूनं विशेषो बलवान्भवेत् । परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥ ४॥ इति वेदान्ते कर्मपरम् । ज्ञानादेव तु कैवल्यमित्यादिश्रुतेः । न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । ज्ञानाग्निदग्धकर्माणि । उदराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् । इति ज्ञानपरम् । अथ वेदोक्तकर्मयोगः । वर्णाश्रमं च धर्मं ह वेदादिविधिपूर्वकम् । तच्च साध्यमसाध्यं वा जन्मकर्मफलप्रदम् ॥ १॥ ज्योतिष्टोमे भवेत्सर्गः श्रोता स्यादिति कर्मणि । निषेधविधिनिघ्नानि न भवन्मोक्षसिद्धिदम् ॥ २॥ जपानुष्ठानयोर्द्वारा देवतानुग्रहो भवेत् । तत्सकाशाद्भवेत् सिद्धिश्चैतन्योपाधिवर्जिता ॥ ३॥ तत्र भूतपूजा । पार्थिवस्थावरादितीर्थयात्रा अग्निहोत्रज्वालामुखीयागादि । आपः गङ्गायाः नैमिषारण्यादिजलपूजा । तथा च- संहिता ब्राह्मणारण्यं द्वन्द्वदीक्षा निघण्टकम् । ज्योतिषं च निरुक्तं च दशग्रन्थानि सूत्रकम् ॥ ४॥ एकया लिङ्गग्रन्थ्या च बद्ध्यते सकलं जगत् । दशग्रन्थ्या यदा बद्धो तस्य मुक्तिः कथं भवेत् ॥ ५॥ एवं पठति वेदानां हंकारं पिण्डपोषणम्(?) । एतेज्ज्ञानपरं ज्ञात्वा स मुक्तो नात्र संशयः ॥ ६॥ किन्तु- संहिता कार्यच्छन्दं च दृश्यब्रह्मेति ब्राह्मणम् । नभमारण्यमाश्रित्य छन्दम्ब्रह्मास्मि वाक्यता(?) ॥ ७॥ मन आदिरोधनं शिक्षा निघण्टं वृतिधारणम् । विवेकं ज्योतिषं चैव ममेदं सूर्यमुच्यते ॥ ८॥ निरुक्तं संशयच्छेद्यं सूत्रपाठं च ज्ञानधीः । अन्नोपाधिश्च वेदाद्या यस्तं वेद स वेदवित् ॥ ९॥ अस्यार्थः । संहिता नाम स्वहितम् । कार्यकारणातीतं न तु कर्मचोदना । ब्राह्मणं नाम सर्वस्वं ब्रह्मैव न तु यागादि । आरण्यं नाम नभलक्ष्यं न तु आरण्यरोदनम् । छन्दो नाम ब्रह्मास्मीति स्मरणं न तु पिशाचवच्छलनम् । शिक्षा नाम शासनं मन आदिधारणा न तु पाठः निघण्टं नाम काठिन्यं वृत्तिसावधनता न तु देशान्तरम् । ज्योतिषं नाम विवेकत न तु गणकादिव्यापारः । सूत्रं नाम अभेदानुसन्धानं न तु कर्मप्रेरणा । निरुक्तं नाम संशयच्छेद्यं न तु वेदार्थप्रौढिः । सूत्रपाठं नाम ज्ञानदृष्टिः । न तु व्याकरणबलम् । एतज्ज्ञानं परं ज्ञानमन्यत्संसारपोषणम् । इति वेदोक्तकर्मयोगः । प्रमाणं वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुत इति श्रुतेः ॥ अथ पातञ्जलहठयोगः । अथ पातञ्जलयोगं कथयत्यङ्गानि वै क्रमात् । देहसाध्यं भवेन्मोक्षं तज्ज्ञानं साधनं शृणु ॥ १॥ तत्र हंसोपनिषदि- गुदमवष्टभ्याधाराद्वायुमुत्थाप्य स्वाधिष्ठानं त्रिःप्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहतमतिक्रम्य विशुद्धे प्राणान्निरुद्ध्य आज्ञामनु ब्रह्मरन्ध्रं ध्यायेत् । तत्र नादमनुभवति चिणिति प्रथमः १ चिणिचिणि २ घण्टा ३ शङ्ख ४ तन्त्री ५ ताल ६ वेणु ७ भेरि ८ मृदङ्ग ९ मेघ १० नवमं त्याज्यं दशममभ्यसेत् । तस्मान्मनो विलीनं भवति । यस्य मनसि विष्टना मनसोऽन्तरायं मनो न वेद यस्य मनः शरीरं यो मनोन्तरो यमयति । चक्रं सप्त त्रिकूटं च श्रीहठं गोहठं तथा । भ्रूवोर्गुम्फा ब्रह्मरन्ध्रं सूलो यानं जलन्धरम् ॥ १॥ टाली लोली तथा धोती लम्बिकाशोधनं क्रमात् । खेचरी भूचरी चैव महाकाष्ठा तथैव च ॥ २॥ उद्गानं लोपनं चैव गाठनं चावकाशकम् । इडापिङ्गलयोर्नामान्यष्टाविंशत्यनुक्रमात् ॥ ३॥ प्रणवं व्याहरन् जाप्यं सोऽहं यामं मतान्तरे । अस्य कर्ता भवेज्जीवो देहभाजनसम्मतम् । साधनेन भवेत्सिद्धिरहं वृद्धोऽभिजायते ॥ ४॥ अणिमादि भवेत्तेषां भूतं भविष्यं वर्तमानम् । वाचां सिद्धिर्मृतं मोक्षं देहसङ्गेन मानिता ॥ ५॥ यथा प्रेते क्षमा लिङ्गं तत्सकाशाच्च सौख्यता । तथा देहसमीरेण अहं ममेति मानिता ॥ ६॥ ब्रह्मरन्ध्रे गते प्राणे ह्यहं मोक्षोऽपि जायते । यथा दध्नगृहस्वामी पलायन् सौख्यमानिता ॥ ७॥ पुनरहङ्कृतो वासो वासना जन्मदायिनी । तथा देहगतो मोक्षो बुद्धिरर्भकसंमता ॥ ८॥ तत्र गीता- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरो पराणि । तथा शरीराणि विहाय जीर्णा- न्यन्यानि संयाति नवानि देही ॥ ९॥ द्रष्टा दृश्यं यदा वर्त्ते देहे सङ्गेन मोक्षकः (?) । आत्मा देही कथं कृत्वा सर्वव्यापिविलक्षणः । १०॥ तस्मादुन्मीलद्योगी च विकलः कौलशिक्षया । समाभ्युत्थानमन्यानि देहसङ्गेन व्यर्थता ॥ ११॥ आत्मा प्रज्ञानमानन्दनित्यशुद्धनिरामयः । विचरेज्ज्ञाप्तिमात्रेण देहातीतं च सर्वदा ॥ १२॥ यावद्देहाभिमानं च यावत्सिद्धिः प्रवर्त्तते । तावज्जन्यानदानं च भवेत्कर्मानुसारतः ॥ १३॥ तत्र निषेधार्थश्रुतिः- न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति ॥ वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः इति श्रुतेः । आब्रह्मभुवनाल्लोकात् इति गीतासु । इष्टादर्शनदृश्यानां विरामो यत्र वा भवेत् । तस्माद्विलक्षणं ह्यात्मा ह्यपरोक्षे भवेत्स्वयम् ॥ १॥ यावन्न ज्ञायते आत्मा कर्तृलाभलवं मुनिः । तावत्सर्वं भवेद्व्यर्थं यथा वन्ध्या विभूषिता ॥ २॥ इति कर्मपरः । परन्तु अनर्थकारी देहनाशकारी । तस्माज्ज्ञानाय साधयेत् । तत्र चक्रम् आधारं नाम देहम् ॥ १ ॥ स्वाधिष्ठानं सात्त्विकमहङ्कारः ॥ २ ॥ मणिपुरं बुद्धिः ॥ ३॥ अनाहतं सदाचारः ॥ ४ ॥ विशुद्धं गुहभक्तिः ॥ ५ ॥ आज्ञाचक्रे ज्ञाने सावधानता ॥ ६ ॥ सहस्रदलं तुर्या ॥ ७ ॥ त्रिकूटं गुणरहितम् ॥ ८ ॥ श्रीहठं मायारहितम् ॥ ९॥ गोहठमविद्यातिरस्कारः ॥ १० ॥ भ्रुवोर्गुम्फा कामनाशून्यम् ॥ ११ ॥ ब्रह्मरन्ध्रं मनोलयः ॥ १२ ॥ सूलबन्धमिन्द्रियनिग्रहः ॥ १३ ॥ यानं विषयनिरासः ॥ १४ ॥ जालन्धरं स्वपररहितम् ॥ १५ ॥ टाली पदार्थवार्ताशून्यम् ॥ १६ ॥ लोली युक्ताहारः ॥ १७ ॥ धोती सर्वजलेऽप्यैक्यम् ॥ १८ ॥ लम्बिका स्तुतिनिन्दारहितम् ॥ १९ ॥ खेचरी अवकाशे दृष्टिः ॥ २० ॥ भूचरी युग्ममात्रमवलोकनम् ॥ २१ ॥ महाकाष्ठा सर्वं ब्रह्मेति निश्चयः ॥ २२ ॥ उद्गानमनिकेतम् ॥ २३ ॥ लोपनं कार्यातीतम् ॥ २४ ॥ गाठनं देहदुःखसहनम् ॥ २५ ॥ अवकाशम देहातीतम् ॥ २६ ॥ इडापिङ्गलयोर्नाम ॥ २७ ॥ २८ ॥ प्रपञ्चबुद्धिरहितम् ॥ एवन्तु साधयेत्प्राज्ञो न तु देहविडम्बनम् । देहाद्विलक्षणं आत्मा वृथा भ्रमन्ति मानवाः ॥ इति पातञ्जलहठयोगः ॥ अथ साङ्ख्यराजयोगः । विना साङ्ख्येन प्रत्यक्षं न भवेदात्मयोगिनाम्(?) । देहः कञ्चुकवत्त्याज्यः स्वस्वं खमिव राजते ॥ १॥ यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः । अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः सर्वे घूर्णिपराः प्रपञ्चविकलाः सांख्यात्परं नान्यथा ॥ २॥ सांख्यं योगं समभ्यस्येत् पुरुषं पञ्चविंशतिः । इति श्रुतिर्वेदवाक्यं वेदान्तैः सद्भिरुच्यते ॥ ३॥ आकाशपूरकं सांख्यं योगः समीरपूरकः । देहाद्विलक्षणं आत्मा तस्मात्सांख्यं समभ्यसेत् ॥ ४॥ प्रलयः सर्वतद्वाचामात्मनो व्यतिरेकता(?) । स सांख्ययोगसंज्ञा च इतरं भ्रामिकं मतम् ॥ ५॥ सर्वाद्विलक्षणो ह्यात्मा एकमनेकरूपिणम् । एकमेवाद्वितीयं ब्रह्म अलं ततः परं भवेत् (?) ॥ ६ ॥ इति सांख्ययोगः । अथ देहलक्षणम्- भोगरोगं तथा मलं निधनं क्षेत्रगामिता । प्रारब्धमनुवर्त्तन्ते यथा तद्वै विनिश्चितम् ॥ १॥ पञ्चतन्मात्रभूतानि प्रत्यक्षमखिलं जगत् । प्रकृतिर्गुणकर्माणि वर्त्तन्ते चित्प्रकाशतः ॥ २॥ मनोत्थाय यदा देहे तत्कर्म जीवसंज्ञकम् । देहेन मनमुत्थाय तत्कर्म देहसंज्ञितम्(?) ॥ ३॥ भक्ष्यभक्षकभावं च भूतं भूतेषु युज्यते । तदर्थं शृणु मे वत्स पञ्चभूतान्यनुक्रमात् ॥ ४॥ आपः पृथिवी भक्ष्यं च वायुरग्निश्च भक्षकः । तत्राकाशमावपनं सत्ता चिन्मात्रसंज्ञिता ॥ ५॥ क्षुत्पिपासाविसर्गं च देहे कर्माणि केवलम् । अन्यत्कार्याणि कर्माणि वेदसंज्ञा विधीयते ॥ ६॥ धैर्यं समरसश्चैव सर्वभक्षस्य निस्पृहः । अखण्डपञ्चभूतानि लक्षणैर्देह उच्यते ॥ ७॥ तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्वम् इन्द्रियाणां भोगसाधनता नाम रसपरीक्षा पञ्चभूतानां भोग्यं नाम स्थूलकृशादिद्रव्यगुणाः । यथा भवन्ति तथा । तत्र प्रमाणं श्रुतिः- ताभ्यः पुरुषमानयत्ता अब्रुवन्पुरुषं स्तुतेति पुरुषो वा वसु कृतं यथायतनं प्रविशामि क्षुत्पिपासे भवतेति श्रुतेः माताबालकन्यायेन तत्र गीतासु इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तम प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ ८॥ इति सांख्यपरिभाषा (१)॥ (१) सांख्यपरिभाषाग्रन्थस्य एकमेवादर्शपुस्तकं प्राप्तमपि च ग्रन्थकृता ग्रन्थप्रारम्भे- विभक्तिमत्र यो पश्येत्तस्य ज्ञानं च दूरतः । गुरुयुक्त्या प्रसादेन ग्रन्थगर्भावलोकनम् ॥ इति प्रतिज्ञातत्वादस्य मुद्रणे कारिते बहुषु स्थलेषु अगत्याऽशुद्धिरस्ति किन्तु ग्रन्थार्थरक्षार्थं न तन्निरासेऽस्माभिर्दृष्टिपातः कृतः । ग्रन्थोऽपि खण्डित इवाभाति । Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com
% Text title            : sAMkhyaparibhASA
% File name             : sAMkhyaparibhASA.itx
% itxtitle              : sANkhyaparibhAShA
% engtitle              : sAMkhyaparibhAShA
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Source                : sAnkhyasaNgrahaH 1918
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP