साङ्ख्यपरिभाषा
श्रीगणेशाय नमः ।
श्रीदक्षिणामूर्तिगुरुभ्यो नमः ।
स्वानुभवं यथामति व्याख्यास्यामः ।
ॐ नमो नारायणाय प्रकृत्यै पुरुषाय च ।
वेदान्तसारगुह्याय साङ्ख्यतत्त्वस्वरूपिणे ॥ १॥
योगिनां परहंसानां तत्त्वज्ञानार्थदर्शनम् ।
अन्येषां च न दातव्यं मायया मोहितं जगत् ॥ २॥
शब्दश्रोता च व्याजेन निर्वाणार्थं च कथ्यते ।
यदा कश्चिन्महाभागस्तस्य विश्रान्तिकारकम् ॥
विभक्तिमत्र यो पश्येत्तस्य ज्ञानं च दूरतः ॥ ३॥
अथ गुरुः ।
गुरुयुक्त्या प्रसादेन ग्रन्थगर्भावलोकनम् ॥ ४॥
गुरुश्च द्विविधः प्रोक्तो वार्त्तिकाम्नाय एव च ।
वार्त्तिको भक्तिभावेन आम्नायो मूलकारिका ॥ ५॥
किन्तु -
ब्राह्मणस्त्रीशूद्रमुखोपास्या ये ते तु वार्त्तिकाः ।
संन्यासादिपारम्पर्येण स आम्नायः प्रकीर्तितः ॥ ६॥
आदौ शिवस्तथा विष्णुर्ब्रह्मा वसिष्ठ एव च ।
शक्तः पाराशरो व्यासः शुको गौडस्तथैव च ॥
गोविन्दपादपूज्येभ्यः शङ्करः शङ्करो परः ।
इयं परम्परा प्रोक्ता गुरोराम्नायसिद्धिदा ॥ ७॥
गुरुर्गायत्र्युपदेशो गुरुश्चोदरपोषकः ।
सद्गुरुर्मोक्षदाता च गुरोस्त्रिविधलक्षणम् ॥ ८॥
मन्त्राध्ययनं च व्याख्यानं कर्मतन्त्रानि चेटकाः ।
वैदिकी शिल्पविद्या च श्रीगुरोस्तस्य उच्यते ॥ ९॥
कार्यकारणतां हित्वा समाधिः पूर्णबोधकः ।
तारको मोक्षदाता च सद्गुरुस्तस्य उच्यते ॥ १०॥
अथ शिष्यः ।
रिक्तकामं मनो धृत्वा विश्वासं गुरुभक्तिदम् ।
आशामोक्षं विना नास्ति तच्छिष्यमुद्धरेद्गुरुः ॥ ११॥
भो भो स्वामिन् कृपासिन्धो प्रार्थयिष्यामि तेऽधुना ।
तप्तसंसारदावाग्नौ मुक्तिं कुरु दयानिधे ॥ १२॥
विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽरिवलवेदार्था अस्मिन् । तथा च
श्रुतिः -
समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं गुरुमुपश्रित्य तमनुसरति ॥
तद्धि सम्प्रणिपातेन परिप्रश्नेन सेवया ॥
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ १३॥
'यज्ज्ञात्वा न पुनर्मोहः' इति गीतासु ।
भुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज ॥
लोलुपः साधुसङ्गस्य अत्यन्तं सुखमश्नुते ॥ १४॥
इति गुरुपरम्परा ।
अथ सांख्यसाम्प्रदायेन ज्ञानमाह । तत्र प्रथमं
साधनचतुष्टयसम्पन्नस्य इहामुत्रार्थफलभोगविरागः । द्वितीयं
शमदमादिषट्कम् । तृतीयं नित्यानित्यवस्तुविवेकः । चतुर्थं मुमुक्षत्वं
मोक्षेच्छा । किन्तु इह नाम स्रक्चन्दनवनितादिविषयभोगविरागः । अमुत्र
नाम स्वर्गभोगादिअनिच्छा । शमो नाम मनोनिग्रहः । दम इन्द्रियनिग्रहः ।
तितिक्षा शीतोष्णादिपरोत्कर्षसहनम् । समाधानं सृष्ट्यादिमायाविलक्षणम् ।
श्रद्धा गुरावध्यात्मशास्त्रे रतिः । उपरमः कार्यकारणातीतम् । नित्य
आत्मा । अनित्या दृश्यपदार्थाः । अतः परं मोक्षेच्छा ॥
इति साधनचतुष्टयम् ।
कम्बलो खर्परी वेणुर्बुद्धेस्त्रिविधलक्षणम् ।
चित्तक्षिप्तगतायतालीनताभूमिकात्रयम् ॥ १॥
अथ भूमिका । विक्षेप्ता विषयपदार्थे रतिः । गतायाता संशयात्मिका ।
सुलीनता प्रीतिरूपा तुरीया ।
अथ बुद्धयः । गुरुः शास्त्रादियुक्त्या बोधयति तथापि शून्यं
कम्बलपेशीवत् । सा अधिकप्रकाशो न भवति खर्परच्छिद्रवत् ।
अनेकयुक्त्या विस्तारयति भग्नवेणुवत् जले तैलवत् । तत्रादौ वैराग्यम् ।
तत्र प्रमाणं श्रुतिः- न वाऽरे सर्वस्य कामाय सर्वं प्रियं
भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति इति ।
बृहदारण्यके 'त्यागेनैकेन अमृतत्वमानशुः' । तत्रादौ शबलत्यागः ॥
विष्ठामूत्रं च दुर्गन्धि कृम्यगारं च नश्वरम् ।
तत्सौख्यमानिनो मूढा अहंममेतिगर्विताः ॥ १॥
कस्य माता पिता कस्य कस्य भ्राता सहोदरः ।
कस्य स्त्री कस्य पुत्रस्तु नराणां कर्मबन्धनम् ॥ २॥
जायापत्यगृजक्षेत्रस्वजनद्रविणादिषु ।
उदासीनसमं पश्येत्सर्वं व्यर्थमिवात्मनि ॥ ३॥
स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।
क्षमी विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ ४॥
कायारण्यसमाविष्टो मनव्याघ्रो महाबली ।
भक्षते सकलांल्लोकान्देवानुरगमानवान् ॥ ५॥
ज्ञानखड्गं दृढं कृत्वा वैराग्यं भूमिशोधनम् ।
दुर्लभो यस्य संग्रामो कोऽसौ शूरश्च आत्मवान् ॥ ६॥
अथ शुद्धत्यागः ।
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ।
पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः ॥ ७॥
पदमिच्छसि ब्रह्मत्वं तदा विज्ञानतः शृणु ।
सर्वार्थेषु च वैराग्यं सर्वभूतेषु चात्मता ॥ ८॥
मुक्तिमिच्छसि चेत्त्वन्तु विषयान्विषवत्त्यज ।
क्षमार्जवदयातोषसत्यं पीयूषवद्भज ॥ ९॥
मनसा ध्यायते योगी कृपणस्तु धनं यथा ।
मनसा येन पीत्वा च तेन जित्वा जगत्त्रयम् ॥ १०॥
विहाय कामान्यः सर्वान्पुमांश्चरति निस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥ ११॥
अकिञ्चनश्च दान्तश्च शान्तश्च सममानसः ।
स लिङ्गानाश्रमं त्यक्त्वा चरेदविधिगोचरः ॥ १२॥
देहे च शृणु तं तात गुप्तप्रकटलक्षणम् ।
दशगुप्तकरं मोक्षद्वादशं सहजस्थितिः ॥ १३॥
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
अनुव्रज्यामहं नित्यं पूययेदङ्घ्रिरेणुभिः ॥ १४॥
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ।
एकाकी निस्पृहः शान्तो पाणिपात्रो दिगम्बरः ॥ १५॥
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ १६॥
निरालम्बपदं प्राप्य चित्ते तत्र लयं गते ।
निवर्तन्ते क्रियाः सर्वाः स योगी निर्गुणः परः ॥ १७॥
विषयेन्द्रियकारणमाकर्षचित्तविभ्रमः ।
यथा बहुसपत्नीनां लुठन्ति पतिमेकतः ॥ १८॥
साधु साधु शृणु स्वार्थमस्थियन्त्राच्च दूरतः ।
अस्य भागकृता लोके ममत्वं श्वानवत्कृतम् ॥ १९॥
शृणु तात द्वयं त्याज्यमाशा भेदस्तथैव च ।
आशया दीनतां कृत्वा भेदश्च भेदवर्धनम् ॥ २०॥
रोदनहास्यकाऽऽनेन पिशाचस्थितिमाश्रयेत् ।
अस्य सङ्गं सदा त्यज्य भव चिन्मात्र सर्वदा ॥ २१॥
छायाकार्यं यथा नास्ति तथैवायं हि देहकः ।
तत्त्वं गृहरसं त्यज्य परमां स्थितिमाश्रय ॥ २२॥
गोष्पदं पृथिवी मेरुः स्थाणुराकाशमुद्रिका ।
तृणं त्रिभुवनं राम वैराग्यालंकृता कृतिः ।
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ॥ २३॥
इति वैराग्यम् ॥
अथ भक्तिद्वारा चतुर्विधा मुक्तिः ।
वेदाक्षराणां सायुज्यं सरूपतां सलोकतामश्नुते ॥
प्रथमं चित्तशुद्धिं च मानसं पूजनद्वयम् ।
तृतीयं च सदा ध्यानं व्यापकं च चतुर्थकम् ॥ १॥
पञ्चमं तु निरालम्बं मोक्षभूमिर्यथाक्रमम् ।
यत्नेन साधयेन्मर्त्यो तस्य मुक्तिर्न संशयः ॥ २॥
जपानुष्ठानयोर्द्वारा चित्तशुद्धिर्विधीयते ।
पश्चाच्चतुर्विधा मुक्तिः शृणु साधु द्विजोत्तम ॥ ३॥
मानसे लोकसम्प्राप्तिस्तत्सदा च समीपता ।
तथा तस्य स्वरूपं च निरालम्बेन शाश्वतम् ॥ ४॥
ये ये यान् यान् यजन्देवांस्ते चत्वारमोक्षगाः ।
आत्मज्ञानं विना मोक्षो न भवेत्सच्चिदात्मनि ॥ ५॥
किन्तु -
मानसं नाम आसनस्थां सावयवमूर्त्तिं ध्यायेत् । निवातदीपवत्स्वस्थं
यथाबुद्ध्या षोडशोपचारैः पूजयेत् । तस्य गच्छतस्तिष्ठतश्च न
समीपावभासः । स एव सर्वभूतस्थं स्वरूपं पश्यति । ततः सावकाशमिव
भासते सा सायुज्यता ।
इति चतुर्विधा उपासना मुक्तिः ।
अथाद्वैतभक्तिः ।
सर्वेश्वरमयं भक्तिर्ज्ञानं चाभेददर्शनम् ।
निरपेक्षं च वैराग्यं मुक्तं निर्विषयं मनः ॥ १॥
किन्तु चाण्डालादिब्रह्मपर्यन्तं सर्वभूतेषु ईश्वररूपं भावयेत् ।
यथार्हं षोडशोपचारेण पूजयेत् । सा भक्तिः न तु प्रतिमा ।
ब्रह्मादिपिपीलिकापर्यन्तं स्वशरीरवदभेदं ज्ञात्वा तज्ज्ञानं
परदेहाहिस्वदेहावयमेकीकृत्य सर्वत्र एकमेव पिण्डमवधारयेत्
ब्रह्मादिस्थावरपर्यन्तमिहामुत्र निराशा । मुक्ति नाम वृत्तिशून्यम् ।
तत्र प्रमाणम् -
सर्वभूतेषु यः पश्येद्भगवद्भावमात्मनः ।
भूतानि च भवत्यात्मलेषभागवतोत्तमः ॥ २॥
यदा भूतपृथक्भावमेकस्थमनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३॥
प्रजहाति यदा कामान् सर्वान्पार्थ मनोगतान् ।
आत्मन्येवात्मनस्तुष्टः स्वपतः स न खिद्यते ॥ ४॥
गीतासु ।
ब्रह्मादिस्थावरान्तेषु वैराग्यं यद्धि जायते ।
यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ५॥
इति अद्वैतभक्तिः ।
अथ विवेकज्ञाननिर्णयः ।
अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम् ।
निर्लोभदाता भवमुक्तिहेतुर्ज्ञानस्य चिह्नं दशलक्षणानि ॥ १॥
कर्म अध्यात्मतत्त्वं च ब्रह्मज्ञानमतः परम् ।
इन्द्रं चत्वारि वाच्यार्थमात्मलक्षं सुखावहम् ॥ २॥
कर्मज्ञानी भवेज्जीवः पुरुषोऽध्यात्मसंज्ञकः ।
ईश्वरस्तत्त्ववेत्ता च सर्वं ब्रह्मेति ब्रह्मता ॥ ३॥
वर्णाश्रमं च धर्मं च होत्रादिकर्मतत्पराः ।
भजनं सर्वभूतेषु ज्ञानं च कर्मसज्ञितम् ॥ ४॥
वैराग्याध्यात्मशास्त्रं च यस्य माया विनिर्गता ।
जिज्ञासा मननाध्यासं ज्ञानमध्यात्मसंज्ञितम् ॥ ५॥
आलोक्य धर्मसांख्यादिधर्मकर्मक्रियाविधीः ।
तदर्थव्यतिरेकेण तत्त्वज्ञानं तदोच्यते ॥ ६॥
समाधिशब्दवाक्यार्थं ब्रह्माकारतया वृतिः ।
एकाकी निस्पृहः शान्तो ब्रह्मज्ञानं तदोच्यते ॥ ७॥
वाचो यस्मिन्निवर्तन्ते लिङ्गं गलितसर्वधीः ।
स्वयमेव स्वरूपस्थं स्वमिव स्वं विराजते ॥ ८॥
उक्ताचारविहीनस्य स्वबुद्धिर्वर्ततेऽखिलम् ।
द्रव्यादिविषयस्वार्थान्स जीवो नीचशब्दितः ॥ ९॥
सदाचाररतो नित्यं द्वन्द्वातीतश्च निस्पृहः ।
शुष्कञ्चाप्यशनं चैव पुरुषस्तस्य उच्यते ॥ १०॥
दण्डकाशायमात्रं च कामक्रोधविवर्जितः ।
भ्रमरीभुक्तसन्तोषमीश्वरस्तस्य उच्यते ॥ ११॥
दिग्वासं च स्वसंवेद्यमानन्दं स्वपरं न हि ।
पाणिपात्रे च यद्भुंक्ते स ब्रह्म राजते महीम् ॥ १२॥
देहान्तितं सदाकालं वर्णाश्रमविवर्जितम् ।
यत्कृतं तत्सदाचारमात्मारामो विराजते ॥ १३॥
इति
अथ धर्मशास्त्रे-
अनिष्टमिष्टमिश्रं च त्रिविधं कर्मणः फलम् ॥
पशुमिश्रस्तथा ज्ञानी सिद्धज्ञेयं च पञ्चकम् ।
एतैर्लक्षणसंयुक्तं वृत्तिभेदेन कथ्यते ॥ १४॥
उक्त्वा उक्त्वा च कार्येण द्रव्यं च साधयेत्ततः ।
शिश्नोदररताः स्वार्थं सत्पशोर्लक्षणं स्मृतम् ॥ १५॥
युगाचारेण वर्तन्ते संमतं वर्णमाश्रमम् ।
आत्मस्वार्थं न जानाति स मिश्रं लक्षणं स्मृतम् ॥ १६॥
वेदशास्त्रार्थसर्वज्ञो उक्ताचारश्च तत्परः ।
यथोक्त्वा च वदेद्वाक्यं स ज्ञानी लक्षणोच्यते ॥ १७॥
कार्यं च अन्यथाकर्तुं यद्वक्तुं तत्तु साधयेत् ।
सञ्चितार्थान्वदेत्प्राज्ञः स सिद्धिर्लक्षणोच्यते ॥ १८॥
कार्यकारणकर्तृत्वं विहाय विचरेन्महीम् ।
स्तुनादपी निकामी च आनन्दं ज्ञेयलक्षणम् ॥ १९॥
इति निर्वेदज्ञाननिर्णयः ।
देहवर्णाश्रया धर्मा कल्पनावेदनिर्मिताः ।
ता हि निर्मोकवत्त्याज्याः सोऽहमेको निरञ्जनः ॥ २०॥
तस्माज्ज्ञानात्तु कैवल्यमित्यादिश्रुतेः ज्ञानाग्निदग्धकर्माणीति गीता ।
परोक्षं शास्त्रियज्ञानमपरोक्षं च शाश्वतम् ।
प्रथमं जन्मकर्माणि द्वितीयं सच्चिदात्मकम् ॥ २१॥
उत्पत्तिस्थितिसंहारभूतं भूतेषु युज्यते ।
आत्मा च तत्र साक्षी च जगद्द्रष्टा च सूर्यवत् ॥ २२॥
भूतादिव्यक्तिरूपं च अचरं चरमेव च ।
तदिन्द्रजालवत्पश्येद्यथा नु वीचिवज्जगत् ॥ २३॥
कल्पनाबद्धजन्तुश्च सदा जल्पति दोषवत् ।
वपुर्नृत्यति रथ्यायां यावत्पतति भूतले ॥ २४॥
जनो बालपिशाचत्वं किं लज्जायोगिवृन्दिनाम् ।
जल्पन्ति विविधा वाचो किमर्थं सुखदुःखयोः ॥ २५॥
अस्ति भाति प्रियं स्थिरमस्थिरं नाम रूपकम् ।
चत्वार ईषणा त्याज्याः सोहमेको निरञ्जनः ॥ २६॥
मातृकाध्वनिरूपा च वर्तते विश्वमायया ।
जानीहि तत्र तन्नादं व्यर्थोऽर्थः प्रतिपद्यते ॥ २७॥
अमनस्तु सदा देहो यथा ग्रामो विना जनात् ।
ब्रह्माद्योऽपि न कर्त्तव्यः स पशुश्चात्मघातकः ॥ २८॥
उत्तमा च लये लीना ध्यानधारणमध्यमाः ।
अधमा प्रतिमापूजा गीतनृत्यं धमोधमः ॥ २९॥
स्नानं मनो मलत्यागः शौचमिन्द्रियनिग्रहः ।
अभेददर्शनं ज्ञानं ध्यानं निर्विषयं मनः ॥ ३०॥
स्थूलपेशिवत् प्रत्यक्षं लिङ्गं वन्ध्यं यथा स्त्रियः ।
मनसात्मैकरूपेण स्वयं ब्रह्म सनातनम् ॥ ३१॥
श्रुतिस्मृत्यर्थपूर्णं च समाधेश्चित्तसौरभम् ।
यावद्देहाभिमानं च तावत्यो निष्फला क्रियाः ॥ ३२॥
संसारकर्म आसक्तो ब्रह्माहमिति मन्यते ।
कर्मब्रह्मोभयभ्रष्टस्तं त्यजेदन्त्यजं यथा ॥ ३३॥
समाधेर्विक्षेपो यस्य नानायुक्तिप्रकारकः ।
यावद्देहलयं नैतावन्तो मोहकारकाः ॥ ३४॥
एकोसौ योगवासी च द्वयं ग्रामस्तथैव च ।
तृतीयं नगरं चैव मन्ये यद्वनवासिनाम् ॥ ३५॥
वेदशास्त्रपुराणानि नानायुक्तिं च वल्गुना ।
व्यवसयात्मिका बुद्धिर्न तु साधनरूपका ॥ ३६॥
आलोड्य चतुरो वेदान् सर्वशास्त्राणि सर्वदा ।
यो वै तत्त्वं न जानाति दर्वीपाकरसं यथा ॥ ३७॥
शब्दब्रह्मणि निष्णातो स्नायात्स परमे यदि ।
श्रमस्तस्य श्रमफलं ह्यधेनुरिव रक्षकः ॥ ३८॥
आकाशदर्पणे यस्मिन्यज्जगद्भासतेऽखिलम् ।
तत्सर्वं ब्रह्मरूपं च मायामयविचेष्टितम् ॥ ३९॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥ ४०॥
नाहं देहो न च प्राणो नेन्द्रियाणि तथैव च ।
न मनो हन्त बुद्धिश्च नैव चित्तमहङ्कृतिः ॥ ४१॥
नाहं मनुष्यो न च देव यक्षो न ब्राह्मणः क्षत्रियवैश्यशूद्रः ।
न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः ॥ ४२॥
कार्यकारणचेष्टा च त्रिविधं कल्पनाकृतम् ।
मनोहङ्कारसंयुक्तं व्यर्थं च शब्दमालिका ॥ ४३॥
शब्दे शब्दस्य ज्ञानार्थं योगी वदति निस्पृहः ।
यथा वाद्येषु नादश्च पारतन्त्र्येण वर्तते ॥ ४४॥
योगी च सर्वकार्याणि वर्तते देहकर्मणि ।
कौमारं क्रीडनं चैव सर्वं मिथ्यैव कारणम् ॥ ४५॥
यद्यावत्क्रियते जन्तुः स्वगृहे राजते पुमान् ।
यो यो यस्य यथा भावस्तत्ततेषां च सौख्यता ॥ ४६॥
तत्कामोपचेष्टितम् सर्वं वृथा भवति आयतौ ।
न चास्य क्रिया काचिन्नेह नानास्ति कर्हिचित् ॥ ४७॥
अहं चेष्ट इतो देहे सर्वकर्मसु चेष्टते ।
इति ज्ञानं विजानीयाद्यज्ज्ञानं स्मरणेन हि ॥ ४८॥
तडागः पूर्णतो येन यद्दातुं बलं राजते ।
किंचिच्छिद्रेण आद्यं च मनसात्मोदकक्रियाः ॥ ४९॥
बन्धं विहाय पूर्णानि कुर्वन्तु स्वस्थमानसम् ।
ये हि युक्तिं सदाभ्यासात्स वै ज्ञानोत्तमोत्तमः ॥ ५०॥
देहादिसर्वकर्माणि ज्ञानाज्ञानेषु ज्ञायसे ।
सोऽहं चिन्मात्ररूपेण जानीहि ब्रह्मलक्षणम् ॥ ५१॥
अहं मूर्खमहं ज्ञाता यो धर्मः प्रतिपाद्यते ।
सोऽहं चिन्मात्ररूपेण जानीहि ब्रह्मलक्षणम् ॥ ५२॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि यस्मिन् दृष्टे परावरे ॥ ५३॥
जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किञ्चन ।
ब्रह्मण्याभाति चिन्मिथ्या यथा मरुमरीचिका ॥ ५४॥
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः ।
न चास्ति किञ्चित्कर्तव्यमस्ति चेन्न स सत्त्ववित् ॥ ५५॥
न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः ।
असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ॥ ५६॥
देहाभिमानगलिते विदिते च चिदात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ ५७॥
आत्मैकभावनिष्ठस्य या या चेष्टास्तदर्चनम् ।
यो यो जल्पः स संमन्त्रस्तद्ध्यानं च निरीक्षणम् ॥ ५८॥
न संकल्पविकल्पस्य न लीनोपाधिवासनाः ।
निजस्वरूपे निर्मग्नः स योगी परतत्त्ववित् ॥ ५९॥
देहादिसर्वेन्द्रियाणि सत्तामात्रेण चेष्टते ।
यथा दीपे प्रपंचस्य चुंबकं लोहमेव च ॥ ६०॥
देहद्वयं तथा नाम वर्णाश्रमा च व्यर्थता ।
महीआकाशब्रह्माहमलमेतत्समाधिना ॥ ६१॥
अव्यक्तस्य कथं ध्यानं व्यापकस्य विसर्जनम् ।
अमूर्तस्य कथं पूजा स्वयं ब्रह्म सनातनम् ॥ ६२॥
फलस्य कारणं पुष्पं फले पुष्पं विनश्यति ।
ज्ञानस्य कारणं कर्म ज्ञाने कर्म विनश्यति ॥ ६३॥
किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
आत्मना पूरितं सर्व महाकल्पांबुना यथा ॥ ६४॥
भूतादिव्यक्तिरूपं च अचरं चरमेव च ।
तदिन्द्रजालवत्पश्येद्यथाम्बुवीचिवज्जगत् ॥ ६५॥
शब्दभागद्वयं कृत्वा व्यर्थो ज्ञानार्थयोगिनम् ।
कदाचिद्वक्तुं ज्ञानार्थं व्यर्थो वक्तुं न शक्यते ॥ ६६॥
गर्वं नो वहते न निन्दन्ति परान्नो भाषते निष्ठुरं
प्रोक्तं केनचिदप्रियं च हसते क्रोधं च नालम्बते ।
श्रुत्वा काव्यमलक्षणं परकृतं सन्तिष्ठते मूकव-
द्दोषान्नाददते स्वयं न कुरुते चैतत्सतां लक्षणम् ॥ ६७॥
बीजमध्ये यथा वृक्षं वृक्षमध्ये च बीजता ।
व्याप्यव्यापकसर्वात्मा स पृथक् नैव दृश्यते ॥ ६८॥
एकात्मा सर्वभूतेषु बन्धमोक्षः कथं द्विधा ।
जन्मसंस्कारयोगेन भिन्नत्वं वर्त्तते सदा ॥ ६९॥
प्रतिबिम्बयथोपाधिं दीर्घन्तिर्यक् च वर्त्तुलम् ।
तस्माद्विलक्षणो जीवः कथमेकं भविष्यति ॥ ७०॥
यथा योनिस्तथाचारपूर्वकर्मानुसारतः ।
तत्तज्ज्ञानाधिकारेण द्विविधा बन्धमोक्षयोः ॥ ७१॥
यथायमलमुत्पत्तिं प्रारब्धं विविधाकृतम् ।
तथैव सुखदुःखानि कथं भवति एकता ॥ ७२॥
द्रव्यं न भक्षयेत्प्राज्ञः स्वद्रव्यं नैव पोषयेत् ।
सन्तुष्टः सर्वदा नित्यं स नरो ज्ञानवान्भवेत् ॥ ७३॥
शरीरं नश्वरं सर्वं सम्बन्धः किन्तु शाश्वतः ।
वयसा सूत्रमार्गेण यथा स्थानेषु गच्छति ॥ ७४॥
यथा परगृहे वासो मार्गस्थं कुरुते सदा ।
तथैव सुखदुःखेन न स्पृशेत् ज्ञानिनो नरः ॥ ७५॥
नटी च नटनाट्यं च नानाक्रीडा च रञ्जनम् ।
अहं प्रत्ययजानाति तथैव ज्ञो सदा नरः ॥ ७६॥
इति ज्ञाननिर्णयः ।
अथ श्रोता उवाच ।
इदं किं दृश्यते केन कथं जातम् ?
तं होवाच-
प्रथम अनादिवस्तु चैतन्य आत्मा । तस्य स्फुरणं जातं स इममेवात्मानं
द्विधा पातयेत्ततः ।
पतिश्च पत्नी चाभवतामिति बृहदारण्ये ।
तत्त्वमसीति यस्मिन् त्रिपदानि भवन्ति । तत् त्वं असि । ब्रह्माहमस्मीति
सकलब्रह्मान्तं निश्वसितम् । अथ तत्सर्वं त्वमेव । इदमाश्चर्यम् ।
तर्हि चित्त एकाग्रम् अतिसूक्ष्मतरं कुरु । परमर्थमित्युक्तम् । आत्माऽयं
गुरुरचलधर्मव्यापकत्वादिति । अथ-
अन्धः पङ्गुरसङ्गे च सङ्गात्कर्म प्रतिष्ठितम् ।
यत्र पङ्गुस्वतन्त्रत्वं तत्रान्धो निःफलो भवेत् ॥ १॥
अन्धातीतं भवेत्पङ्गुरचलं च सनातनम् ।
सबाह्याभ्यन्तरं भूतं यथाकाशं च दृश्यते ॥ २॥
किन्तु माया अन्धा अविवेकित्वात् । उभयोरेकीभूत्वा मिथ्या जीवेश्वरौ व्याजेनापि
ब्रह्माण्डयोः । सृष्टिनिर्मिताः ।
तस्मान्मायापरित्यागेन स्वयमेव चिदाकाशे च वर्तते ।
तत्र प्रमाणं श्रुतिः । आकाश आत्मा खं ब्रह्म ।
अथ जीवेश्वरयोर्लक्षणम् । तत्र प्रमाणं श्रुतिः । द्वा सुपर्णा
सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यः पिप्पलं
स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति । अथ वेदेति । कार्योपादिचैतन्यं
जीवशब्दवाच्यम् । कारणोपाधिचैतन्यम् ईश्वरशब्दवाच्यम् ।
कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः ।
कार्यकारणतां हित्वा पूर्णबोभो विधीयते ॥ ३॥
तत्र कार्यं नाम अहङ्कारादिसृष्टिव्यापारः कारणं नाम साक्षी
ह्यन्तःस्फुरणम् । इति वेदान्ते ।
उपद्रष्टानुमन्ता च भर्त्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ ४॥
इति ईश्वरः ।
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुणसंयोगोऽस्य सदसद्योनिजन्मसु ॥ १॥
इति जीवः ।
मुखाभासको दर्पणे दृश्यमानो
मुखत्वापृथक् ते न हि वाऽस्ति वस्तु ॥
चिदाभासकोऽधीशजीवोऽपि तद्वत्
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ १॥
इति हस्तामले । सलिल एको इष्टाद्वैतो भवति । इति बृहदारण्ये । तथा
बिम्बप्रतिबिम्बन्यायेन जीवेश्वरौ कल्पितौ । तज्जीवस्य मोक्षसाधनमाह
कर्मपरं अहरहः सन्ध्यामुपासिता यावज्जीवमग्निहोत्रं जुहुयात् ।
ज्योतिष्टोमौ स्वर्गकामो यजेत् । ओमिति ब्रह्म । ओमितीद ॐ सर्वम् ।
ओमित्यग्निहोत्रमनुजानाति ।
इति कर्म ।
अथ ज्ञानपरम् । न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः
।
प्रथममायाशबलसृष्ट्यादिपुत्रकलत्रद्रव्याद्विलक्षणः । द्वितीयं
स्थूलसूक्ष्मादिशरीरस्य विलक्षणम् । तृतीयं केवलमोक्षसङ्कल्पः ।
यथा शुकनालकान्यायेन मिथ्यारज्जुसर्प्पे भ्रममाणे सति तस्य
मोक्षसाधनमाह । तत्र जीवस्वरूपं लक्षणं दृष्टिसम्बन्धेन
सूर्यप्रभया प्रतिभाति तद्वासना महधृदि ग्रन्थिः ।
इति जीवलक्षणम् ।
जीवस्य मोक्षकामाय त्रिवर्गं च पुरा कृतम् ।
कर्म पातञ्जलिं साङ्ख्यं तत्समासेन कथ्यते ॥ १॥
पञ्चभूतात्मिका पूजा विधिरेष समाशृणु ।
त्रयं कर्म पूजायोग्यं वा यो पातञ्जले स्मृतः ॥ २॥
द्वयं देहाभिमानेन एकं नाहं च सांख्यता ।
अहं नाहं द्वयं शब्दबन्धमोक्षं च कारकम् ॥ ३॥
तथा च श्रुतिः । अथातो धर्मजिज्ञासा । अथातो ब्रह्मजिज्ञासा ।
पूर्वपूर्वश्रुतियुक्त्यानुभवाभासानामुत्तरोत्तरश्रुतियुक्तानुभवाभासबोधदर्शनात्
।
सामान्यशास्त्रं स्यान्न्यूनं विशेषो बलवान्भवेत् ।
परेण पूर्वबाधो वा प्रायशो दृश्यतामिह ॥ ४॥
इति वेदान्ते कर्मपरम् । ज्ञानादेव तु कैवल्यमित्यादिश्रुतेः ।
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
ज्ञानाग्निदग्धकर्माणि ।
उदराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
इति ज्ञानपरम् ।
अथ वेदोक्तकर्मयोगः ।
वर्णाश्रमं च धर्मं ह वेदादिविधिपूर्वकम् ।
तच्च साध्यमसाध्यं वा जन्मकर्मफलप्रदम् ॥ १॥
ज्योतिष्टोमे भवेत्सर्गः श्रोता स्यादिति कर्मणि ।
निषेधविधिनिघ्नानि न भवन्मोक्षसिद्धिदम् ॥ २॥
जपानुष्ठानयोर्द्वारा देवतानुग्रहो भवेत् ।
तत्सकाशाद्भवेत् सिद्धिश्चैतन्योपाधिवर्जिता ॥ ३॥
तत्र भूतपूजा । पार्थिवस्थावरादितीर्थयात्रा अग्निहोत्रज्वालामुखीयागादि ।
आपः गङ्गायाः नैमिषारण्यादिजलपूजा । तथा च-
संहिता ब्राह्मणारण्यं द्वन्द्वदीक्षा निघण्टकम् ।
ज्योतिषं च निरुक्तं च दशग्रन्थानि सूत्रकम् ॥ ४॥
एकया लिङ्गग्रन्थ्या च बद्ध्यते सकलं जगत् ।
दशग्रन्थ्या यदा बद्धो तस्य मुक्तिः कथं भवेत् ॥ ५॥
एवं पठति वेदानां हंकारं पिण्डपोषणम्(?) ।
एतेज्ज्ञानपरं ज्ञात्वा स मुक्तो नात्र संशयः ॥ ६॥
किन्तु-
संहिता कार्यच्छन्दं च दृश्यब्रह्मेति ब्राह्मणम् ।
नभमारण्यमाश्रित्य छन्दम्ब्रह्मास्मि वाक्यता(?) ॥ ७॥
मन आदिरोधनं शिक्षा निघण्टं वृतिधारणम् ।
विवेकं ज्योतिषं चैव ममेदं सूर्यमुच्यते ॥ ८॥
निरुक्तं संशयच्छेद्यं सूत्रपाठं च ज्ञानधीः ।
अन्नोपाधिश्च वेदाद्या यस्तं वेद स वेदवित् ॥ ९॥
अस्यार्थः । संहिता नाम स्वहितम् । कार्यकारणातीतं न तु कर्मचोदना ।
ब्राह्मणं नाम सर्वस्वं ब्रह्मैव न तु यागादि । आरण्यं नाम नभलक्ष्यं न
तु आरण्यरोदनम् । छन्दो नाम ब्रह्मास्मीति स्मरणं न तु पिशाचवच्छलनम् ।
शिक्षा नाम शासनं मन आदिधारणा न तु पाठः निघण्टं नाम
काठिन्यं वृत्तिसावधनता न तु देशान्तरम् । ज्योतिषं नाम विवेकत न
तु गणकादिव्यापारः । सूत्रं नाम अभेदानुसन्धानं न तु कर्मप्रेरणा ।
निरुक्तं नाम संशयच्छेद्यं न तु वेदार्थप्रौढिः । सूत्रपाठं नाम
ज्ञानदृष्टिः । न तु व्याकरणबलम् ।
एतज्ज्ञानं परं ज्ञानमन्यत्संसारपोषणम् ।
इति वेदोक्तकर्मयोगः । प्रमाणं वेदाक्षराणां सायुज्यं सरूपतां
सलोकतामश्नुत इति श्रुतेः ॥
अथ पातञ्जलहठयोगः ।
अथ पातञ्जलयोगं कथयत्यङ्गानि वै क्रमात् ।
देहसाध्यं भवेन्मोक्षं तज्ज्ञानं साधनं शृणु ॥ १॥
तत्र हंसोपनिषदि- गुदमवष्टभ्याधाराद्वायुमुत्थाप्य स्वाधिष्ठानं
त्रिःप्रदक्षिणीकृत्य मणिपूरकं गत्वा अनाहतमतिक्रम्य विशुद्धे
प्राणान्निरुद्ध्य आज्ञामनु ब्रह्मरन्ध्रं ध्यायेत् । तत्र नादमनुभवति
चिणिति प्रथमः १ चिणिचिणि २ घण्टा ३ शङ्ख ४ तन्त्री ५ ताल ६ वेणु ७
भेरि ८ मृदङ्ग ९ मेघ १० नवमं त्याज्यं दशममभ्यसेत् । तस्मान्मनो
विलीनं भवति । यस्य मनसि विष्टना मनसोऽन्तरायं मनो न वेद यस्य
मनः शरीरं यो मनोन्तरो यमयति ।
चक्रं सप्त त्रिकूटं च श्रीहठं गोहठं तथा ।
भ्रूवोर्गुम्फा ब्रह्मरन्ध्रं सूलो यानं जलन्धरम् ॥ १॥
टाली लोली तथा धोती लम्बिकाशोधनं क्रमात् ।
खेचरी भूचरी चैव महाकाष्ठा तथैव च ॥ २॥
उद्गानं लोपनं चैव गाठनं चावकाशकम् ।
इडापिङ्गलयोर्नामान्यष्टाविंशत्यनुक्रमात् ॥ ३॥
प्रणवं व्याहरन् जाप्यं सोऽहं यामं मतान्तरे ।
अस्य कर्ता भवेज्जीवो देहभाजनसम्मतम् ।
साधनेन भवेत्सिद्धिरहं वृद्धोऽभिजायते ॥ ४॥
अणिमादि भवेत्तेषां भूतं भविष्यं वर्तमानम् ।
वाचां सिद्धिर्मृतं मोक्षं देहसङ्गेन मानिता ॥ ५॥
यथा प्रेते क्षमा लिङ्गं तत्सकाशाच्च सौख्यता ।
तथा देहसमीरेण अहं ममेति मानिता ॥ ६॥
ब्रह्मरन्ध्रे गते प्राणे ह्यहं मोक्षोऽपि जायते ।
यथा दध्नगृहस्वामी पलायन् सौख्यमानिता ॥ ७॥
पुनरहङ्कृतो वासो वासना जन्मदायिनी ।
तथा देहगतो मोक्षो बुद्धिरर्भकसंमता ॥ ८॥
तत्र गीता-
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरो पराणि ।
तथा शरीराणि विहाय जीर्णा-
न्यन्यानि संयाति नवानि देही ॥ ९॥
द्रष्टा दृश्यं यदा वर्त्ते देहे सङ्गेन मोक्षकः (?) ।
आत्मा देही कथं कृत्वा सर्वव्यापिविलक्षणः ॥ १०॥
तस्मादुन्मीलद्योगी च विकलः कौलशिक्षया ।
समाभ्युत्थानमन्यानि देहसङ्गेन व्यर्थता ॥ ११॥
आत्मा प्रज्ञानमानन्दनित्यशुद्धनिरामयः ।
विचरेज्ज्ञाप्तिमात्रेण देहातीतं च सर्वदा ॥ १२॥
यावद्देहाभिमानं च यावत्सिद्धिः प्रवर्त्तते ।
तावज्जन्यानदानं च भवेत्कर्मानुसारतः ॥ १३॥
तत्र निषेधार्थश्रुतिः-
न कर्मणा न प्रजया धनेन
त्यागेनैके अमृतत्वमानशुः ।
परेण नाकं निहितं गुहायां
विभ्राजते यद्यतयो विशन्ति ॥
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः इति
श्रुतेः । आब्रह्मभुवनाल्लोकात् इति गीतासु ।
इष्टादर्शनदृश्यानां विरामो यत्र वा भवेत् ।
तस्माद्विलक्षणं ह्यात्मा ह्यपरोक्षे भवेत्स्वयम् ॥ १॥
यावन्न ज्ञायते आत्मा कर्तृलाभलवं मुनिः ।
तावत्सर्वं भवेद्व्यर्थं यथा वन्ध्या विभूषिता ॥ २॥
इति कर्मपरः । परन्तु अनर्थकारी देहनाशकारी । तस्माज्ज्ञानाय साधयेत् ।
तत्र चक्रम् आधारं नाम देहम् ॥ १ ॥ स्वाधिष्ठानं सात्त्विकमहङ्कारः
॥ २ ॥ मणिपुरं बुद्धिः ॥ ३॥
अनाहतं सदाचारः ॥ ४ ॥ विशुद्धं गुहभक्तिः ॥ ५ ॥ आज्ञाचक्रे ज्ञाने
सावधानता ॥ ६ ॥ सहस्रदलं तुर्या ॥ ७ ॥ त्रिकूटं गुणरहितम् ॥ ८ ॥
श्रीहठं मायारहितम् ॥ ९॥
गोहठमविद्यातिरस्कारः ॥ १० ॥ भ्रुवोर्गुम्फा कामनाशून्यम् ॥ ११
॥ ब्रह्मरन्ध्रं मनोलयः ॥ १२ ॥ सूलबन्धमिन्द्रियनिग्रहः ॥
१३ ॥ यानं विषयनिरासः ॥ १४ ॥ जालन्धरं स्वपररहितम् ॥ १५
॥ टाली पदार्थवार्ताशून्यम् ॥ १६ ॥ लोली युक्ताहारः ॥ १७ ॥ धोती
सर्वजलेऽप्यैक्यम् ॥ १८ ॥ लम्बिका स्तुतिनिन्दारहितम् ॥ १९ ॥ खेचरी
अवकाशे दृष्टिः ॥ २० ॥ भूचरी युग्ममात्रमवलोकनम् ॥ २१ ॥
महाकाष्ठा सर्वं ब्रह्मेति निश्चयः ॥ २२ ॥ उद्गानमनिकेतम् ॥ २३ ॥
लोपनं कार्यातीतम् ॥ २४ ॥ गाठनं देहदुःखसहनम् ॥ २५ ॥ अवकाशम
देहातीतम् ॥ २६ ॥ इडापिङ्गलयोर्नाम ॥ २७ ॥ २८ ॥ प्रपञ्चबुद्धिरहितम् ॥
एवन्तु साधयेत्प्राज्ञो न तु देहविडम्बनम् ।
देहाद्विलक्षणं आत्मा वृथा भ्रमन्ति मानवाः ॥
इति पातञ्जलहठयोगः ॥
अथ साङ्ख्यराजयोगः ।
विना साङ्ख्येन प्रत्यक्षं न भवेदात्मयोगिनाम्(?) ।
देहः कञ्चुकवत्त्याज्यः स्वस्वं खमिव राजते ॥ १॥
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सर्वे घूर्णिपराः प्रपञ्चविकलाः सांख्यात्परं नान्यथा ॥ २॥
सांख्यं योगं समभ्यस्येत् पुरुषं पञ्चविंशतिः ।
इति श्रुतिर्वेदवाक्यं वेदान्तैः सद्भिरुच्यते ॥ ३॥
आकाशपूरकं सांख्यं योगः समीरपूरकः ।
देहाद्विलक्षणं आत्मा तस्मात्सांख्यं समभ्यसेत् ॥ ४॥
प्रलयः सर्वतद्वाचामात्मनो व्यतिरेकता(?) ।
स सांख्ययोगसंज्ञा च इतरं भ्रामिकं मतम् ॥ ५॥
सर्वाद्विलक्षणो ह्यात्मा एकमनेकरूपिणम् ।
एकमेवाद्वितीयं ब्रह्म अलं ततः परं भवेत् (?) ॥ ६ ॥
इति सांख्ययोगः ।
अथ देहलक्षणम्-
भोगरोगं तथा मलं निधनं क्षेत्रगामिता ।
प्रारब्धमनुवर्त्तन्ते यथा तद्वै विनिश्चितम् ॥ १॥
पञ्चतन्मात्रभूतानि प्रत्यक्षमखिलं जगत् ।
प्रकृतिर्गुणकर्माणि वर्त्तन्ते चित्प्रकाशतः ॥ २॥
मनोत्थाय यदा देहे तत्कर्म जीवसंज्ञकम् ।
देहेन मनमुत्थाय तत्कर्म देहसंज्ञितम्(?) ॥ ३॥
भक्ष्यभक्षकभावं च भूतं भूतेषु युज्यते ।
तदर्थं शृणु मे वत्स पञ्चभूतान्यनुक्रमात् ॥ ४॥
आपः पृथिवी भक्ष्यं च वायुरग्निश्च भक्षकः ।
तत्राकाशमावपनं सत्ता चिन्मात्रसंज्ञिता ॥ ५॥
क्षुत्पिपासाविसर्गं च देहे कर्माणि केवलम् ।
अन्यत्कार्याणि कर्माणि वेदसंज्ञा विधीयते ॥ ६॥
धैर्यं समरसश्चैव सर्वभक्षस्य निस्पृहः ।
अखण्डपञ्चभूतानि लक्षणैर्देह उच्यते ॥ ७॥
तत्राहमन्तःकरणं भोक्ता, भोक्ता नाम साक्षित्वम् इन्द्रियाणां भोगसाधनता
नाम रसपरीक्षा पञ्चभूतानां भोग्यं नाम स्थूलकृशादिद्रव्यगुणाः ।
यथा भवन्ति तथा । तत्र प्रमाणं श्रुतिः- ताभ्यः पुरुषमानयत्ता
अब्रुवन्पुरुषं स्तुतेति पुरुषो वा वसु कृतं यथायतनं प्रविशामि
क्षुत्पिपासे भवतेति श्रुतेः माताबालकन्यायेन तत्र गीतासु
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तम प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ ८॥
इति सांख्यपरिभाषा (१)॥
(१) सांख्यपरिभाषाग्रन्थस्य एकमेवादर्शपुस्तकं प्राप्तमपि च
ग्रन्थकृता ग्रन्थप्रारम्भे-
विभक्तिमत्र यो पश्येत्तस्य ज्ञानं च दूरतः ।
गुरुयुक्त्या प्रसादेन ग्रन्थगर्भावलोकनम् ॥
इति प्रतिज्ञातत्वादस्य मुद्रणे कारिते बहुषु स्थलेषु अगत्याऽशुद्धिरस्ति
किन्तु ग्रन्थार्थरक्षार्थं न तन्निरासेऽस्माभिर्दृष्टिपातः कृतः ।
ग्रन्थोऽपि खण्डित इवाभाति ।
Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com