॥ साङ्ख्यतत्त्वकौमुदी ॥

टत्त्वकौमुदि विथ् सन्स्क्रित् नोतेस् रजेश्वर शस्त्रि कारिका १ अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां नमामः । अजा ये तां जुषमाणां भजन्ते जहत्येनां भुक्तभोगां नुमस्तान् ॥ १॥ कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये । पञ्चशिखाय तथेश्वरकृष्णायैते नमस्यामः ॥ २॥ इह खलु प्रतिपित्सितमर्थं प्रतिपादयन् प्रतिपादयिताऽवधेयवचनो भवति प्रेक्षावताम् । अप्रतिपित्सितमर्थं तु प्रतिपादयन् 'नायं लौकिको नापि परीक्षकः' इति प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत । स चैषां प्रतिपित्सितोऽर्थो, यो ज्ञातः सन् परमपुरुषार्थाय कल्पते, इति प्रारिप्सितशास्रविषयज्ञानस्य परमपुरुषार्थसाधनहेतुत्वात् तद्विषयजिज्ञासामवतारयति- ॥ दुःखत्रयाभिघाताज्जिज्ञासा तदघातके हेतौ । दृष्टे सापार्था चेत् नैकान्तात्यन्ततोऽभावात् ॥ १ ॥ ॥ एवं हि शास्त्रविषयो न जिज्ञास्येत यदि दुःखं नाम जगति न स्यात्, सद्वा न जिहासितम्, जिहासितं वा अशक्यसमुच्छेदम् । अशक्यसमुच्छेदता च द्वेधा- दुःखस्य नित्यत्वात्, तदुच्छेदोपायापरिज्ञानाद्वा । शक्यसमुच्छेदत्वेऽपि च शास्त्रविषयस्य ज्ञानस्यानुपायभूतत्वाद्वा, सुकरस्योपायान्तरस्य सद्भावाद्वा ॥ तत्र न तावद् दुःखं नास्ति, नाप्यजिहासितमित्युक्तम्- ᳚दुःखत्रयाभिघाताद्᳚ इति । दुःखानां त्रयं दुःखत्रयं । तत् खलु आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकञ्च । तत्राध्यात्मिकं द्विविधम्, शारीरं मानसं च । शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं कामक्रोधलोभमोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम् । सर्वञ्चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दुःखं द्वेधा, आधिभौतिकम्, आधिदैविकञ्च । तत्राधिभौतिकं मानुषपशुसरीसृपस्थावरनिमित्तम्, आधिदैविकं तु - यक्षराक्षसविनायकग्रहाद्यावेशनिबन्धनम् ॥ तदेतत् प्रत्यात्मवेदनीयं दुःखं रजःपरिणामभेदो न शक्यते प्रत्याख्यातुम् । तदनेन दुःखत्रयेणान्तःकरणवर्तिना चेतनाशक्तेः प्रतिकूलवेदनीयतयाऽभिसंबन्धोऽभिघात इति । एतावता प्रतिकूलवेदनीयत्वं जिहासाहेतुरुक्तः । यद्यपि न सन्निरुध्यते दुःखं, तथापि तदभिभवः शक्यः कर्तुमित्युपरिष्टादुपपादयिष्यते । तस्मादुपपन्नम् ᳚तदपघातेके हेतौ᳚ इति । तस्य दुःखत्रयस्य अपघातकः तदपघातकः । उपसर्जनस्यापि बुद्ध्या सन्निकृष्टस्य तदा परामर्शः । अपघातकश्च हेतुः शास्त्रप्रतिपाद्यो, नान्य इत्याशयः ॥ अत्र शङ्कते- ᳚दृष्टे साऽपार्था चेत्᳚ इति। अयमर्थः । अस्तु तर्हि दुःखत्रयं, जिहासितं च तद् भवतु, भवतु च तच्छक्यहानं, सहतां च शास्त्रगम्य उपायस्तदुच्छेत्तुम् । तथाप्यत्र प्रेक्षावतां जिज्ञासा न युक्ता, दृष्टस्यैवोपायस्य तदुच्छेदकस्य सुकरस्य विद्यमानत्वात्, तच्छक्यहानम्, सहतां च शास्रगम्य उपायस्तदुच्छेत्तुम् । तथाऽप्यत्र प्रेक्षावतां जिज्ञासा न युक्ता, दृष्टस्यैवोपायस्य तदुच्छेदकस्य सुकरस्य विद्यमानत्वात् । तत्त्वज्ञानस्य तु अनेकजन्माभ्यासपरम्पराऽऽयाससाध्यतयाऽतिदुष्करत्वात् । तथा च लौकिकानामाभाणकः- 'अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ॥ इष्टस्यार्थस्य संसिद्धौ कि विद्वान् यत्नमाचरेत्' ॥ इति । सन्ति चोपायाः शतशः शारीरदुःखप्रतीकारायेषत्करा भिषजां वरैरुपदिष्टाः । मानसस्यापि सन्तापस्य प्रतीकाराय मनोज्ञस्त्रीपानभोजनविलेपनवस्त्रालङ्कारादिविषयसम्प्राप्तिरुपायः सुकरः । एवमाधिभौतिकस्यापि दुःखस्य नीतिशास्त्राभ्यासकुशलतानिरत्ययस्थानाध्यासनादिः प्रतीकारहेतुरीषत्करः । तथाऽधिदैविकस्यापि मणिमन्त्रौषधाद्युपयोगः सुकरः प्रतीकारोपाय इति ॥ निराकरोति- ᳚न᳚ इति । कुतः ? ᳚एकान्तात्यन्ततोऽभावात्᳚ । एकान्तो - दुःखनिवृत्तेरवश्यम्भावः, अत्यन्तो - निवृत्तस्य दुःखस्य पुनरुत्पादः, तयोरेकान्तात्यन्तयोरभाव एकान्तात्यन्ततोऽभावः । षष्ठीस्थाने सार्वविभक्तिकस्तसिः । एतदुक्तं भवति यथाविधि रसायनादिकामिनीनीतिशास्त्राभ्यासमन्त्राद्युपयोगेऽपि तस्य तस्याध्यात्मिकादेर्दुःखस्य निवृत्तेरदर्शनाद् अनैकान्तिकत्वम्, निवृत्तस्यापि पुनरुत्पत्तिदर्शनाद् अनात्यन्तिकत्वम्, इति सुकरोऽपि ऐकान्तिकात्यन्तिकदुःखनिवृत्तेर्न दृष्ट उपाय इति नापार्था जिज्ञासेत्यर्थः ॥ यद्यपि दुःखममङ्गलम्, तथापि तत्परिहारार्थत्वेन तदपघातो मङ्गलमेवेति युक्तं शास्त्रादौ तत्कीर्तनमिति ॥ १॥ कारिका २ स्यादेतत् । मा भूद् दृष्ट उपायः, वैदिकस्तु ज्योतिष्टोमादिः सहस्रसंवत्सरपर्यन्तः कर्मकलापस्तापत्रयमेकान्तमत्यन्तञ्चापनेष्यति । श्रुतिश्च- ᳚स्वर्गकामो यजेत᳚ इति । स्वर्गश्च- ᳚यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषोपनीतं च तत् सुखं स्वःपदास्पदम् ॥ इति । (तन्त्रवार्तिकम्) दुःखविरोधी सुखविशेषश्च स्वर्गः । स च स्वसत्तया समूलघातमपहन्ति दुःखम् । न चैष क्षयी । तथा हि श्रूयते- 'अपाम सोमममृता अभूम᳚ इति । तत्क्षये कुतोऽस्यामृतत्वसम्भवः ? तस्माद्वैदिकस्योपायस्य तापत्रयप्रतीकारहेतोर्मुहूर्तयामाहोरात्रमाससंवत्सरनिर्वर्तनीयस्यानेकजन्मपरम्परायाससम्पादनीयात् विवेकज्ञानाद् ईषत्करत्वात् पुनरपि व्यर्था जिज्ञासा इत्याशङ्क्याह- ॥ दृष्टवदानुश्रविकः, स ह्यविशुद्धिक्षयातिशययुक्तः । तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥ ॥ ᳚दृष्ट᳚ इति । गुरुपाठादनुश्रूयते इत्यनुश्रवो वेदः । एतदुक्तं भवति- 'श्रूयत एव परं न केनापि क्रियते' इति । तत्र भव आनुश्रविकः । तत्र प्राप्तो ज्ञात इति यावत् । आनुश्रविकोऽपि कर्मकलापो दृष्टेन तुल्यो वर्तते, ऐकान्तिकात्यन्तिकदुःखप्रतीकारानुपायत्वस्योभयत्रापि तुल्यत्वात् । यद्यपि च ᳚आनुश्रविकः᳚ इति सामान्याभिधानम्, तथापि कर्मकलापाभिप्रायं द्रष्टव्यम्, विवेकज्ञानस्याप्यानुश्रविकत्वात् । तथा च श्रूयते- ᳚आत्मा वाऽरे ज्ञातव्यः प्रकृतितो विवेक्तव्यः᳚ (बृहदारण्यक २।४।५), ᳚न स पुनरावर्तते᳚ (छान्दोग्य ८।१५) इति ॥ अस्यां प्रतिज्ञायां हेतुमाह- ᳚स ह्यविशुद्धिक्षयातिशययुक्तः᳚ इति । ᳚अविशुद्धिः᳚ सोमादियागस्य पशुबीजादिवधसाधनता । यथाऽऽह स्म भगवान् पञ्चशिखाचार्यः- ᳚स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्षः᳚ इति । 'स्वल्पः सङ्करो' ज्योतिष्टामादिजन्मनः प्रधानापूर्वस्य स्वल्पेन पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण सङ्करः । 'सपरिहारः' कियताऽपि प्रायश्चित्तेन परिहर्तुं शक्यः । अथ च प्रमादतः प्रायश्चित्तमपि नाचरितम्, प्रधानकर्मविपाकसमये स पच्यते । तथाऽपि यावदसावनर्थं सूते तावत् प्रत्यवमर्षेण सहिष्णुतया सह वर्तत इति ᳚सप्रत्यवमर्षः᳚ । मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाहृदावगाहिनः कुशलाः पापमात्रोपसादितां दुःखवह्निकणिकाम् ॥ न च- ᳚मा हिंस्यात् सर्वा भूतानि᳚ इति सामान्यशास्त्रं विशेषशास्त्रेण ᳚अग्नीषोमीयं पशुमालभेत᳚ इत्यनेन बाध्यते- इति युक्तम्, विरोधाभावात् । विरोधे हि बलीयसा दुर्बलो बाध्यते । न चेहास्ति कश्चिद्विरोधः, भिन्नविषयत्वात् । तथा हि- ᳚न हिंस्याद्᳚ इति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते, न त्वक्रत्वर्थत्वमपि, ᳚अग्नीषोमीयं पशुमालभेत᳚ इत्यनेन तु पशुहिंसायाः क्रत्वर्थमुच्यते, नानर्थहेतुत्वाभावः, तथा सति वाक्यभेदप्रसङ्गात् । न चानर्थहेतुत्वक्रतूपकारकत्वयोः कश्चिद्विरोधोऽस्ति । हिंसा हि पुरुषस्य दोषमावक्ष्यति, क्रतोश्चोपकरिष्यतीति । क्षयातिशयौ च फलगतावप्युपाये उपचरितौ । क्षयित्वं च स्वर्गादेः 'सत्त्वे सति कार्यत्वात्' अनुमितम् । ज्योतिष्टोमादयः स्वर्गमात्रस्य साधनम्, वाजपेयादयस्तु स्वाराज्यस्येत्यतिशययुक्तत्वम् । परसम्पदुत्कर्षो हि हीनसम्पदं पुरुषं दुःखाकरोति ॥ ᳚अपाम सोमममृता अभूम᳚ इति चामृतत्वाभिधानम् चिरस्थेमानमुपलक्षयति । यदाहुः- ᳚आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते᳚ इति ॥ अत एव च श्रुतिः- ᳚न कर्मणा न प्रजया धनेन त्यागेनैकेनामृतत्वमानशुः । परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति᳚ इति (महानारायण, १०।५) । तथा ᳚कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमीहमानाः । तथा परे ऋषयो ये मनीषिणः परं कर्मभ्योऽमृतत्वमानशुः᳚ इति च ॥ तदेतत् सर्वमभिप्रेत्याह- ᳚तद्विपरीतः श्रेयान्, व्यक्ताव्यक्तज्ञविज्ञानात्᳚ इति । तस्मात् - आनुश्रविकात् दुःखपघातकोपायात् सोमपानादेरविशुद्धाद् अनित्यसातिशयफलात् विपरीतः विशुद्धः हिंसादिसङ्कराभावात्, नित्यनिरतिशयफलः, असकृत् पुनरावृत्तिश्रुतेः । न च कार्यत्वेनानित्यता फलस्य युक्ता, भावकार्यस्य तथात्वात्, दुःखप्रध्वंसस्य तु कार्यस्यापि तद्वैपरीत्यात् । न च दुःखान्तरोत्पादः, कारणाप्रवृत्तौ कार्यस्यानुत्पादात्, विवेकज्ञानोपजननपर्यन्तत्वाच्च कारणप्रवृत्तेः । एतच्चोपरिष्टादुपपादयिष्यते ॥ अक्षरार्थस्तु- तस्मात् - आनुश्रविकात् दुःखापघातकाद् हेतोः, विपरीतः - सत्त्वपुरुषान्यताप्रत्ययः साक्षात्कारो दुःखापघातको हेतुः, अत एव श्रेयान् । आनुश्रविको हि वेदविहितत्वात् मात्रया दुःखापघातकत्वाच्च प्रशस्यः । सत्त्वपुरुषान्यताप्रत्ययोऽपि प्रशस्यः । तदनयोः प्रशस्ययोर्मध्ये सत्त्वपुरुषान्यताप्रत्ययः श्रेयान् ॥ कुतः पुनरस्योत्पत्तिः ? इत्यत आह- ᳚व्यक्ताव्यक्तज्ञविज्ञानात्᳚ इति । व्यक्तं च अव्यक्तं च ज्ञश्च व्यक्ताव्यक्तज्ञाः, तेषां विज्ञानं विवेकेन ज्ञानम्, व्यक्ताव्यक्तज्ञविज्ञानम् । व्यक्तज्ञानपूर्वकमव्यक्तस्य तत्कारणस्य ज्ञानम् । तयोः पारार्थ्येनात्मा परो ज्ञायते, इति ज्ञानक्रमेणाभिधानम् । एतदुक्तं भवति- श्रुतिस्मृतीतिहासपुराणेभ्यो व्यक्तादीन् विवेकेन श्रुत्वा, शास्त्रयुक्त्या च व्यवस्थाप्य, दीर्घकालादरनैरन्तर्यसत्कारसेवितात् भावनामयात् विज्ञानमिति । तथा च वक्ष्यति- एवं तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् । अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ इति(कारिका ६४) ॥ २॥ कारिका ३ तदेवं प्रेक्षावदपेक्षितार्थत्वेन शास्त्रारम्भं समाधाय शास्त्रमारभमाणः श्रोतृबुद्धिसमवधानाय तदर्थं संक्षेपतः प्रतिजानीते- ॥ मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥ ३ ॥ ॥ संक्षेपतो हि शास्त्रार्थस्य चतस्रो विधाः । कश्चिदर्थः प्रकृतिरेव, कश्चिदर्थो विकृतिरेव, कश्चित्प्रकृतिविकृतिः, कश्चिदनुभयरूपः । तत्र का प्रकृतिः ? इत्युक्तम्- ᳚मूलप्रकृतिरविकृतिः᳚ इति । प्रकरोतीति प्रकृतिः प्रधानम्, सत्त्वरजस्तमसां साम्यावस्था, सा अविकृतिः, प्रकृतिरेवेत्यर्थः । कुतः ? इत्युक्तम्, ᳚मूलेति᳚ मूलञ्चासौ प्रकृतिश्चेति मूलप्रकृतिः । विश्वस्य कार्यसङ्घातस्य सा मूलम्, न त्वस्या मूलान्तरमस्ति, अनवस्थाप्रसङ्गात् । न चानवस्थायां प्रमाणमस्तीति भावः ॥ कतमाः पुनः प्रकृतिविकृतयः, कियत्यश्च ? इत्यत उक्तम्- ᳚महदाद्याः प्रकृतिविकृतयः सप्त᳚ इति । प्रकृतयश्च विकृतयश्च ता इति प्रकृतिविकृतयः सप्त । तथा हि- महत्तत्त्वमहङ्कारस्य प्रकृतिः, विकृतिश्च मूलप्रकृतेः । एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः विकृतिश्च महतः । एवं पञ्चतन्मात्राणि तत्त्वानि भूतानामाकाशादीनां प्रकृतयो विकृतयश्चाहङ्कारस्य ॥ अथ का विकृतिरेव, कियती चेत्यत उक्तम्- ᳚षोडशकस्तु विकारः᳚ इति । षोडशसंख्यापरिमितो गणः षोडषकः । तुशब्दोऽवधारणे भिन्नक्रमश्च । पञ्चमहाभूतानि एकादश इन्द्रियाणि चेति षोडशको गणो विकार एव, न प्रकृतिरिति । यद्यपि च पृथिव्यादीनां गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदानां पयोबीजादीनां दध्यङ्कुरादयः, तथाऽपि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम् । 'तत्त्वान्तरोपादानत्वं च प्रकृतित्वम्' इहाभिप्रेतमिति न दोषः । सर्वेषां गोघटादीनां स्थूलतेन्द्रियग्राह्यता च समेति न तत्त्वान्तरत्वम् । अनुभयरूपमुक्तं, तदाह - ᳚न प्रकृतिर्न विकृतिः पुरुषः᳚ इति । एतच्च सर्वमुपरिष्टादुपपादयिष्यते ॥ ३॥ कारिका ४ तमिममर्थं प्रामाणिकं कर्तुमभिमताः प्रमाणभेदा लक्षणीयाः । न च सामान्यलक्षणमन्तरेण शक्यते विशेषलक्षणं कर्तुमिति प्रमाणसामान्यं तावल्लक्षयति- ॥ दृष्टमनुमानमाप्तवचनं च, सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४ ॥ ॥ अत्र च 'प्रमाणम्' इति समाख्यया लक्ष्यपदम् । तन्निर्वचनं च लक्षणम् । प्रमीयतेऽनेनेति निर्वचनात् प्रमां प्रति करणत्वमवगम्यते । असन्दिग्धाविपरीतानधिगतविषया चित्तवृत्तिः । बोधश्च पौरुषेयः फलं प्रमा । तत्साधनं प्रमाणमिति । एतेन संशयविपर्ययस्मृतिसाधनेष्वप्रमाणेष्वप्रसङ्गः ॥ संख्याविप्रतिपत्तिं निराकरोति- ᳚त्रिविधम्᳚ इति । तिस्रो विधा अस्य प्रमाणसामान्यस्य तत् त्रिविधं, न न्यूनं, नाप्यधिकमित्यर्थः । विशेषलक्षणानन्तरं चैतदुपपादयिष्यामः । कतमाः पुनस्ता विधा ? इत्यत आह- ᳚दृष्टमनुमानमाप्तवचनं च᳚ इति । एतच्च लौकिकप्रमाणाभिप्रायम्, लोकव्युत्पादनार्थत्वाच्छास्त्रस्य, तस्यैवात्राधिकारात् । आर्षं तु विज्ञानं योगिनामूर्ध्वस्रोतसां न लोकव्युत्पादनायालमिति सदपि नाभिहितम्, अनधिकारात् ॥ स्यादेतत् - मा भून्न्यूनम्, अधिकं तु कस्मान्न भवति, सङ्गिरन्ते हि प्रतिवादिन उपमानादीन्यपि प्रमाणानि, इत्यत आह- ᳚सर्वप्रमाणसिद्धत्वात्᳚ इति । एष्वेव दृष्टानुमानाप्तवचनेषु सर्वेषां प्रमाणानां सिद्धत्वात्- अन्तर्भावादित्यर्थः । एतच्चोपपादयिष्यत इत्युक्तम् । अथ प्रमेयव्युत्पादनाय प्रवृत्तं शास्त्रं कस्मात् प्रमाणं सामान्यतो विशेषतश्च लक्षयति ? इत्यत आह- ᳚प्रमेयसिद्धिः प्रमाणाद्धि᳚ इति । सिद्धिः प्रतीतिः । सेयमार्याऽर्थक्रमानुरोधेन पाठक्रममनादृत्यैव व्याख्याता ॥ ४॥ कारिका ५ सम्प्रति प्रमाणविशेषलक्षणावसरे प्रत्यक्षस्य प्रमाणेषु ज्येष्ठत्वात् तदधीनत्वाच्चानुमानादीनां, सर्ववादिनामविप्रतिपत्तेश्च, तदेव तावल्लक्षयति- ॥ प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ ५ ॥ ॥ ᳚प्रतिविषयाध्यवसायो दृष्टम्᳚ इति । अत्र ᳚दृष्टम्᳚ इति लक्ष्यनिर्देशः, परिशिष्टं तु लक्षणम् । समानासमानजातीयव्यवच्छेदो लक्षणार्थः ॥ अवयवार्थस्तु- विसिन्वन्ति विषयिणमनुबध्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् । ᳚विषयाः᳚ पृथिव्यादयः सुखादयश्च, अस्मदादीनामविषयाः तन्मात्रलक्षणाः योगिनामूर्ध्वस्रोतसां च विषयाः, विषयं विषयं प्रति वर्तत इति प्रतिविषयम् । वृत्तिश्च सन्निकर्षः । अर्थसन्निकृष्टमिन्द्रियमित्यर्थः । तस्मिन् अध्यवसायः, तदाश्रित इत्यर्थः । अध्यवसायश्च बुद्धिव्यापारो ज्ञानम्, उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यां बुद्धेस्तमोऽभिभवे सति यः सत्त्वसमुद्रेकः, सोऽध्यवसाय इति वृत्तिरिति ज्ञानमिति चाख्यायते । इदं तत् प्रमाणम् । अनेन यश्चेतनाशक्तेरनुग्रहस्तत्फलं, प्रमा बोधः । बुद्धितत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यवसायोऽप्यचेतनः घटादिवत् । एवं बुद्धितत्त्वस्य सुखादयोऽपि परिणामभेदा अचेतनाः । पुरुषस्तु सुखाद्यननुषङ्गी चेतनः । सोऽयं बुद्धितत्त्ववर्तिना ज्ञानसुखादिना तत्प्रतिबिम्बितस्तच्छायापत्त्या ज्ञानसुखादिमानिव भवतीति चेतनोऽनुगृह्यते । चितिच्छायापत्त्या चाचेतनाऽपि बुद्धिस्तदध्यवसायोऽप्यचेतनश्चेतनवद् भवतीति । तथा च वक्ष्यति- तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ (का० २१) इति । अत्राध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति, संशयस्यानवस्थितग्रहणेनानिश्चितरूपत्वात् । निश्चयोऽध्यवसाय इति चानर्थान्तरम् । विषयग्रहणेन चासद्विषयं विपर्ययमपाकरोति । प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनादनुमानस्मृत्यादयः पराकृता भवन्ति । तदेवं समानासमानजातीयव्यवच्छेदकत्वात् ᳚प्रतिविषयाध्यवसायः᳚ इति दृष्टस्य सम्पूर्णं लक्षणम् । तन्त्रान्तरेषु लक्षणान्तराणि तैर्थिकानां न दूषितानि, विस्तरभयादिति । 'नानुमानं प्रमाणम्'इति वदता लोकायतिकेनाप्रतिपन्नः सन्दिग्धो विपर्यस्तो वा पुरुषः कथं प्रतिपद्येत ? न च पुरुषान्तरगता अज्ञानसन्देहविपर्ययाः शक्या अर्वाग्दृशा प्रत्यक्षेण प्रतिपत्तुम् । नापि प्रमाणान्तरेण, अनभ्युपगमात् । अनवधृताज्ञानसंशयविपर्ययस्तु यं कञ्चन पुरुषं प्रति वर्तमानोऽनवधेयवचनतया प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत । तदनेनाज्ञानादयः परपुरुषवर्तिनोऽभिप्रायभेदाद्वचनभेदाद् वा लिङ्गादनुमातव्याः, इत्यकामेनाप्यनुमानं प्रमाणमभ्युपेयम् । तत्र प्रत्यक्षकार्यत्वादनुमानं प्रत्यक्षानन्तरं लक्षणीयम् । तत्रापि सामान्यलक्षणपूर्वकत्वाद्विशेषलक्षणस्येत्यनुमानसामान्यं तावल्लक्षयति- ᳚तल्लिङ्गलिङ्गिपूर्वकम्᳚ इति । लिङ्गं व्याप्यं, लिङ्गि व्यापकम् । शङ्कितसमारोपितोपाधिनिराकरणेन च वस्तुस्वभावप्रतिबद्धं व्याप्यम्, येन च प्रतिबद्धं, तद्व्यापकम् । लिङ्गलिङ्गिग्रहणेन च विषयवाचिना विषयिणं प्रत्ययमुपलक्षयति । 'धूमादिर्व्याप्यो वह्न्यादिर्व्यापकः' इति यः प्रत्ययस्तत्पूर्वकम् । लिङ्गिग्रहणं चावर्तनीयम् । तेन च लिङ्गमस्यास्तीति पक्षधर्मताज्ञानमपि दर्शितं भवति । तत् 'व्याप्यव्यापकभावपक्षधर्मताज्ञानपूर्वकमनुमानम्'इति- अनुमानसामान्यं लक्षितम् । अनुमानविशेषान् तन्त्रान्तरलक्षितान् अभिमतान् स्मारयति- ᳚त्रिविधमनुमानमाख्यातम्᳚ इति, तत् सामान्यतो लक्षितमनुमानं विशेषतस्त्रिविधं, पूर्ववत्, शेषवत्, सामान्यतो दृष्टञ्चेति । तत्र प्रथमं तावत् द्विविधं- वीतमवीतं च । अन्वयमुखेन प्रवर्तमानं विधायकं वीतम्, व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम् । तत्रावीतं शेषवत् । शिष्यते परिशिष्या इति शेषः, स एव विषयतया यस्यास्त्यनुमानज्ञानस्य तच्छेषवत् । यदाहुः- 'प्रसक्तप्रतिषेधे, अन्यत्राप्रसङ्गात् शिष्यमाणे सम्प्रत्ययः परिशेषः' इति (न्यायभाष्यम्) । अस्य चावीतस्य व्यतिरेकिण उदाहरणमग्रेऽभिधास्यते । वीतं च द्वेधा- पूर्ववत्, सामान्यतो दृष्टं च । तत्रैकं दृष्टस्वलक्षणसामान्यविषयं यत् तत्पूर्ववत्, पूर्वं प्रसिद्धं दृष्टस्वलक्षणसामान्यमिति यावत्, तदस्य विषयत्वेनास्त्यनुमानस्येति पूर्ववत् । यथा धूमात् वह्नित्वसामान्यविशेषः पर्वतेऽनुमीयते, तस्य वह्नित्वसामान्यविशेषस्य स्वलक्षणं वह्निविशेषो दृष्टो रसवत्थाम् । अपरं च वीतं सामान्यतो दृष्टम्- अदृष्टस्वलक्षणसामान्यविषयम् । यथेन्द्रियविषयमनुमानम् । अत्र हि रूपादिविज्ञानानां क्रियात्वेन करणवत्त्वमनुमीयते । यद्यपि करणत्वसामान्यस्य छिदादौ वास्यादि स्वलक्षणमुपलब्धम्, तथाऽपि यज्जातीयं रूपादिज्ञाने करणवत्त्वमनुमीयते तज्जातीयस्य करणस्य न दृष्टं स्वलक्षणं प्रत्यक्षेण । इन्द्रियजातीयं हि तत्करणम्, नचेन्द्रियत्वसामान्यस्य स्वलक्षणमिन्द्रियविशेषः प्रत्यक्षगोचरोऽर्वाग्दृशाम्, यथा वह्नित्वसामान्यस्य स्वलक्षणं वह्निः । सोऽयं पूर्ववतः सामान्यतोदृष्टात् सत्यपि वीतत्वेन तुल्यत्वे विशेषः । अत्र च दृष्टं दर्शनम्, सामान्यत इति सामान्यस्य, सार्वविभक्तिकस्तसिः । अदृष्टस्वलक्षणस्य सामान्यविशेषस्य दर्शनं सामान्यतोदृष्टमनुमानमित्यर्थः । सर्वं चैतदस्माभिर्न्यायवार्तिकतात्पर्यटीकायां व्युत्पादितमिति नेहोक्तं विस्तरभयात् । प्रयोजकवृद्धशब्दश्रवणसमनन्तरं प्रयोज्यवृद्धप्रवृत्तिहेतुज्ञानानुमानपूर्वकत्वाच्छब्दार्थसम्बन्धग्रहणस्य, स्वार्थसम्बन्धज्ञानसहकारिणश्च शब्दस्यार्थप्रत्यायकत्वादनुमानपूर्वकत्वमित्यनुमानान्तरं शब्दं लक्षयति- ᳚आप्तश्रुतिराप्तवचनं तु᳚ इति । आप्तवचनमिति लक्ष्यनिर्देशः, परिशिष्टं लक्षणम् । आप्ता प्राप्ता युक्तेति यावत् । आप्ता चासौ श्रुतिश्चेति आप्तश्रुतिः । श्रुतिः- वाक्यजनितं वाक्यार्थज्ञानम् । तच्च स्वतःप्रमाणम् । अपौरुषेयवेदवाक्यजनितत्वेन सकलदोषाशङ्काविनिर्मुक्तेर्युक्तं भवति । एवं वेदमूलस्मृतीतिहासपुराणवाक्यजनितमपि ज्ञानं युक्तं भवति । आदिविदुषश्च कपिलस्य कल्पादौ कल्पान्तराधीतश्रुतिविस्मरणसम्भवः, सुप्तप्रबुद्धस्येव पूर्वेद्युरवगतानामर्थानामपरेद्युः । तथा च आवट्यजैगीषव्यसंवादे भगवान् जैगीषव्यो दशमहाकल्पवर्तिजन्मस्मरणमात्मन उवाच ᳚ दशसु महाकल्पेषु विपरिवर्तमानेन मया᳚ इत्यादिना ग्रन्थसन्दर्भेण । आप्तग्रहणेनायुक्ताः शाक्यभिक्षुनिर्ग्रन्थकसंसारमोचकादिनामागमाभासाः परिहृता भवन्ति । अयुक्तत्वं चैतेषां विगानात् विच्छिन्नमूलत्वात् प्रमाणविरुद्धार्थाभिधानाच्च, कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः पशुप्रायैः परिग्रहाद्बोद्धव्यम् । तुशब्देनानुमानाद्व्यवच्छिनत्ति । वाक्यार्थो हि प्रमेयः, न तु तद्धर्मो वाक्यम्, येन तत्र लिङ्गं भवेत् । न च वाक्यं वाक्यार्थं बोधयत् सम्बन्धग्रहणमपेक्षते, अभिनवकविरचितस्य वाक्यस्यादृष्टपूर्वस्याननुभूतचरवाक्यार्थबोधकत्वादिति । एवं प्रमाणसामान्यलक्षणेषु तद्विशेषलक्षणेषु च सत्सु, यानि प्रमाणान्तराण्युपमानादीनि प्रतिवादिभिरभ्युपेयन्ते तान्युक्तलक्षणेष्वेव प्रमाणेष्वन्तर्भवन्ति । तथा हि - उपमानं तावत् 'यथा गौस्तथा गवयः' इति वाक्यम् । तज्जनिता धीरागम एव । योऽप्ययं 'गवयशब्दो गोसदृशस्य वाचकः' इति प्रत्ययः, सोऽप्यनुमानमेव । यो हि शब्दो यत्र वृद्धैः प्रयुज्यते, सोऽसति वृत्त्यन्तरे, तस्य वाचकः, यथा गोशब्दो गोत्वस्य । प्रयुज्यते चैवं गवयशब्दो गोसदृशे, इति तस्यैव वाचक इति तत् ज्ञानमनुमानमेव । यत्तु गवयस्य चक्षुःसन्निकृष्टस्य गोसादृश्यज्ञानं तत् प्रत्यक्षमेव । अत एव स्मर्यमाणायां गवि गवयसादृश्यज्ञानं प्रत्यक्षम् । न त्वन्यद्गवि सादृश्यम् । अन्यच्च गवये । भूयोऽवयवसामान्ययोगो हि जात्यन्तरवर्ती जात्यन्तरे सादृश्यमुच्यते । सामान्ययोगश्चैकः । स चेद्गवये प्रत्यक्षः, गव्यपि तथेति नोपमानस्य प्रमेयान्तरमस्ति, यत्र प्रमाणान्तरमुपमानं भवेत्, इति न प्रमाणान्तरमुपमानम् । एवमर्थापत्तिरपि न प्रमाणान्तरम् । तथा हि- जीवतश्चैत्रस्य गृहाभावदर्शनेन बहिर्भावस्यादृष्टस्य कल्पनमर्थापत्तिरभिमता वृद्धानाम् । साऽप्यनुमानमेव । यदा खल्वव्यापकः सन्नेकत्र नास्ति तदाऽन्यन्नास्ति । यदाऽव्यापक एकत्रास्ति तदाऽन्यत्र नास्ति, इति सुकरः स्वशरीरे व्याप्तिग्रहः । तथा च सतो गृहाभावदर्शनेन लिङ्गेन बहिर्भावदर्शनमनुमानमेव । न च चैत्रस्य क्वचित्सत्त्वेन गृहाभावः शक्योऽपह्नोतुम्, येनासिद्धो गृहाभावो बहिर्भावे न हेतुः स्यात् । न च गृहाभावेन वा सत्त्वमपह्नूयते, येन सत्त्वमेवानुपपद्यमानमात्मानं न बहिरवस्थापयेत् । तथा हि- चैत्रस्य गृहासत्त्वेन सत्त्वमात्रं विरुध्यते, गृहसत्त्वं वा ? न तावद्यत्र क्वचन सत्त्वस्यास्ति विरोधो गृहासत्त्वेन, भिन्नविषयत्वात् । देशसामान्येन गृहविशेषाक्षेपिऽपि पाक्षिक इति सामान्यविषयतया विरोध इति चेत्, प्रमाणविनिश्चितस्य गृहेऽसत्त्वस्य पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षपायोगात् । नापि प्रमाणनिश्चितो गृहाभावः पाक्षिकमस्य गृहसत्त्वं प्रतिक्षिपन् सत्त्वमपि प्रतिक्षेप्तुं सांशयिकत्वं च व्यपनेतुर्महतीति युक्तम् । गृहावच्छिन्नेन चैत्राभावेन गृहसत्त्वं विरुद्ध्यते, न तु सत्त्वमात्रम्, तस्य तत्रौदासीन्यात् । तस्माद्गृहाभावेन लिङ्गेन सिद्धेन सतो बहिर्भावोऽनुमीयत इति युक्तम् । एतेन- 'विरुद्धयोः प्रमाणयोर्विषयव्यवस्थयाऽविरोधापादनमर्थापत्तेर्विषयः' इति निरस्तम्, अवच्छिन्नानवच्छिन्नयोर्विरोधाभावात् । उदाहरणान्तराणि चार्थापत्तेरेवमेवानुमानेऽन्तर्भावनीयानि । तस्मान्नानुमानात्प्रमाणान्तरमर्थापत्तिरिति सिद्धम् । एवमभावोऽपि प्रत्यक्षमेव । न हि भूतलस्य परिणामविशेषात् कैवल्यलक्षणादन्यो घटाभावो नाम । प्रतिक्षणपरिणामिनो हि सर्वे एव भावाः, ऋते चितिशक्तेः । स च परिणामभेद ऐन्द्रियक इति नास्ति प्रत्यक्षानवरुद्धो विषयो यत्राऽभावाह्वयं प्रमाणान्तरमभ्युपेयेतेति । सम्भवस्तु, यथा खार्यां द्रोणाढकप्रस्त्याद्यवगमः । स चानुमानमेव । खारीत्वं हि द्रोणाद्यविनाभूतं प्रतीतं खार्यां द्रोणादिसत्त्वमवगमयति । यच्चानिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमात्रम्- 'इति होचुर्वृद्धाः' इत्यैतिह्यम् । यथा 'इह वटे यक्षः प्रतिवसति' इति, न तत् प्रमाणान्तरम् । अनिर्दिष्टप्रवक्तृकत्वेन सांशयिकत्वात् । आप्तवक्तृकत्वनिश्चये त्वागम एव, इत्युपपन्नं ᳚त्रिविधम्प्रमाणम्᳚ इति । कारिका ६ एवं तावद्व्यक्ताव्यक्तज्ञलक्षणप्रमेयसिद्ध्यर्थं प्रमाणानि लक्षितानि । तत्र व्यक्तं पृथिव्यादि स्वरूपतः पांसुलपादो हालिकोऽपि प्रत्यक्षतः प्रतिपद्यते, पूर्ववता चानुमानेन धूमादिदर्शनात् वह्न्यादीनि चेति, तद्व्युत्पादनाय मन्दप्रयोजनं शास्त्रमिति दुरधिगममनेन व्युत्पाद्यम् । तत्र यत् प्रमाणं यत्र शक्तं तदुक्तलक्षणेभ्यः प्रमाणेभ्यो निष्कृष्य दर्शयति - ॥ सामान्यतस्तु दृष्टात् अतीन्द्रियाणां प्रतीतिरनुमानात् । तस्मादपि चासिद्धम् परोक्षाप्तागमात् सिद्धम् ॥ ६ ॥ ॥ ᳚सामान्यतः᳚ इति । तुशब्दः प्रत्यक्षपूर्ववद्भ्यां विशिनष्टि । सामान्यतोदृष्टादनुमानादतीन्द्रियाणां प्रधानपुरुषादीनां प्रतीतिः - चितिच्छायापत्तिर्बुद्धेरध्यवसाय इत्यर्थः । उपलक्षणं चैतत्, शेषवत इत्यपि द्रष्टव्यम् । तत्किं सर्वेष्वतीन्द्रियेषु सामान्यतोदृष्टमेव प्रवर्त्तते ? तथा च यत्र तन्नासि, महदाद्यारम्भक्रमे स्वर्गापूर्वदेवतादौ च, तत्र तेषामभावः प्राप्त इत्यत आह - ᳚तस्मादपि᳚ इति । तस्मादपीत्येतावतैव सिद्धे चकारेण शेषवत् इत्यपि समुच्चितम् ॥ कारिका ७ स्यादेतत्, यथा गगनकुसुमकूर्मरोमशशविषाणाद्षु प्रत्यक्षमप्रवर्तमानं तदभावमवगमयति, एवं प्रधानादिष्वपि । तत्कथं तेषां सामान्यतोदृष्टादिभ्यः सिद्धिरित्यत आह - ॥ अतिदूरात् सामीप्यात् इन्द्रियघातान्मनोऽनवस्थानात् । सौक्ष्म्याद्व्यवधानात् अभिभवात् समानाभिहाराच्च ॥ ७ ॥ ॥ ᳚अतिदूरात्᳚ इति अनुपलब्धिरिति वक्ष्यमाणं सिंहावलोकनन्यायेनानुषञ्जनीयम् । यथा उत्पतन् वियति अतिदूरतया सन्नपि प्रत्यक्षेण नोपलभ्यते । सामीप्यादित्यत्राप्यतिरनुवर्तनीयः, यथा लोचनस्थमञ्जनमतिसामीप्यान्न दृश्यते । इन्द्रियघातोऽन्धत्वबधिरत्वादिः । ᳚मनोऽवस्थानात्᳚ यथा कामाद्युपहतमनाः स्फीतालोकमध्यवर्तिनमिन्द्रियसन्निकृष्टमर्थं न पश्यति । ᳚सौक्ष्म्यात्᳚ यथेन्द्रियसन्निकृष्टं परमाण्वादि प्रणिहितमना अपि न पश्यति । व्यवधानात्- यथा कुड्यादिव्यवहितं राजदारादिकं न पश्यति । अभिभवात्- यथाऽहनि सौराभिर्भाभिरभिभूतं ग्रहनक्षत्रमण्डलं न पश्यति । समानाभिहारात् - यथा तोयदविमुक्तानुदबिन्दून् जलाशये न पश्यति । चकारोऽनुक्तसमुच्चयार्थः । तेनानुद्भवोऽपि सङ्गृहीतः । तद्यथा क्षीराद्यवस्थायां दध्याद्यनुद्भवान्न पश्यति । एतदुक्तं भवति न प्रत्यक्षनिवृत्तिमात्राद्वस्त्वभावो भवति, अतिप्रसङ्गात् । तथा हि - गृहाद्विनिर्गतो गृहजनमपश्यंस्तदभावं विनिश्चिनुयात्, न त्वेवम् । अपि तु योग्यप्रत्यक्षनिवृत्तेरयमभावं विनिश्चिनोति । न च प्रधानपुरुषादीनामस्ति प्रत्यक्षयोग्यता, इति न तन्निवृत्तिमात्रात्तदभावनिश्चयो युक्तः प्रामाणिकानामिति । कारिका ८ कतमत्पुनरेतेषु कारणं प्रधानादीनामनुपलब्धौ ? इत्यत आह - ॥ सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्, कार्यतस्तदुपलब्धेः । महदादि तच्च कार्यं प्रकृतिसरूपं विरूपं च ॥ ८ ॥ ॥ ᳚सौक्ष्म्यात्᳚ इति । अथाभावादेव सप्तमरसवदेतेषामनुपलब्धिः कस्मान्न भवति? इत्यत आह - ᳚नाभावात्᳚ इति । कुतः ? ᳚कार्यतस्तदुपलब्धेः᳚, 'तत्' इति प्रधानं परामृशति । पुरुषोपलब्धौ तु प्रमाणं वक्ष्यति, ᳚सङ्घातपरार्थत्वात्᳚ -(का० १७) इति । दृढतरप्रमाणावधारिते हि प्रत्यक्षमप्रवर्तमानमयोग्यत्वान्न प्रवर्तते इति कल्प्यते । सप्तमस्तु रसो न प्रमाणेनावधारित इति न तत्र प्रत्यक्षस्यायोग्यता शक्याऽध्यवसातुमित्यभिप्रायः । किं पुनस्तत्कार्यं यतः प्रधानानुमानम् ? इत्यत आह - ᳚महदादि तच्च कार्यम्᳚ इति । एतच्च यथा गमकं तथोपरिष्टादुपपादयिष्यते । तस्य च कार्यस्य विवेकज्ञानोपयोगिनी सारूप्यवैरूप्ये आह - ᳚प्रकृतिसरूपं विरूपं च᳚ इति । एते तूपरिष्टाद्विभजनीये इति । कारिका ९ कार्यात् कारणमात्रं गम्यते । सन्ति चात्र वादिनां विप्रतिपत्तयः । तथा हि केचिदाहुः - 'असतः सत् जातते' इति, 'एकस्य सतो विवर्तः कार्यजातं न वस्तुसत्' इत्यपरे, अन्ये तु 'सतः असत् जायते' इति, 'सतः सत् जायते' इति वृद्धाः । तत्र पूर्वस्मिन् कल्पत्रये प्रधानं न सिद्ध्यति । सुखदुःखमोहभेदस्वरूपपरिणामशब्दाद्यात्मकं हि जगत्कारणस्य प्रधानत्वं सत्त्वरजस्तमःस्वभावत्वमवगमयति । यदि पुनरसतः सज्जायेत असत् निरूपाख्यं कारणं सुखादिरूपशब्दाद्यात्मकं कथं स्यात् ? सदसतोस्तादात्म्यानुपपत्तेः । अथैकरूपस्य सतो विवर्तः शब्दादिप्रपञ्चः, तथाऽपि सतः सज्जायत इति न स्यात् । न चास्याद्वयस्य प्रपञ्चात्मकत्वम्, अपि त्वप्रपञ्चस्य प्रपञ्चात्मकतया प्रतीतिर्भ्रम एव । येषामपि कणभक्षाक्षचरणादीनां सत एव कारणादसतो जन्म, तेषामपि सदसतोरेकत्वानुपपत्तेर्न कार्यात्मकं कारणमिति न तन्मते प्रधानसिद्धिः । अतः प्रधानसिद्ध्यर्थं प्रथमं तावत्सत्कार्यं प्रतिजानीते । ॥ असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ ९ ॥ ॥ ᳚असदकरणात्᳚ इति । ᳚सत् कार्यम्᳚ कारणव्यापारात् प्रागपीति शेषः । तथा च न सिद्धसाधनं नैयायिकतनयैरुद्भावनीयम् । यद्यपि बीजमृत्पिण्डादिप्रध्वंसानन्तरमङ्कुरघटाद्युत्पत्तिरुपलभ्यते, तथाऽपि न प्रध्वंसस्य कारणत्वम्, अपि तु भावस्यैव बीजाद्यवयवस्य । अभावात्तु भावोत्पत्तौ तस्य सर्वत्र सुलभत्वात् सर्वदा सर्वकार्योत्पादप्रसङ्ग इत्यादि न्यायवार्तिकतात्पर्यटीकायामस्माभिः प्रतिपादितम् । प्रपञ्चप्रत्ययश्चासति बाधके न शक्यो मिथ्येति वदितुमिति कणभक्षाक्षचारणमतमवशिष्यते । तत्रेदं प्रतिज्ञातम्, ᳚सत् कार्यम्᳚ इति । अत्र हेतुमाह ᳚असदकरणात्᳚ इति । असत् चेत् कारणव्यापारात् पूर्वं कार्यम्, नास्य सत्त्वं कर्तुं केनापि शक्यम् । न हि नीलं शिल्पिसहस्रेणापि पीतं कर्तुं शक्यते । 'सदसत्त्वे घटस्य धर्मौ' इति चेत्, तथापि असति धर्मिणि न तस्य धर्म इति सत्त्वं तदवस्थमेव, तथा च नात्त्वम् । असम्बद्धेनातदात्मना चासत्त्वेन कथमसन् घटः? तस्मात् कारणव्यापारादूर्ध्वमिव ततः प्रागपि सदेव कार्यमिति । कारणाच्चास्य सतोऽभिव्यक्तिरेवावशिष्यते । सतश्चाभिव्यक्तिरुपपन्ना । यथा पीडनेन तिलेषु तैलरूप, अवघातेन धान्येषु तण्डुलानाम्, दोहनेन सौरभेयीषु पयसः । असतः करणे तु न निदर्शनं किञ्चिदस्ति । न खल्वभिव्यज्यमानं चोत्पद्यमानं वा क्वचिदसत् दृष्टम् । इतश्च कारणव्यापारात् प्राक् सदेव कार्यम्- ᳚उपादानग्रहणात्᳚, उपादानानि- कारणानि, तेषां ग्रहणं - कार्येण सम्बन्धः । उपादानैः कार्यस्य सम्बन्धादिति यावत् । एतदुक्तं भवति- कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, सम्बन्धश्च कार्यस्यासतो न सम्भवति, तस्मादिति । स्यादेतत् - असम्बद्धमेव कारणैः कार्यं कस्मान्न जन्यते ? तथा चासदेवोत्पस्येत इत्यत आह - ᳚सर्वसम्बवाभावात्᳚ इति । असम्बद्धस्य जन्यत्वे असम्बद्धत्वाविशेषेण सर्वं कार्यजातं सर्वस्माद्भवेत् । न चैतदस्ति, तस्मान्नासम्बद्धमसम्बद्धेन जन्यते, अपि तु सम्बद्धं सम्बद्धेन जन्यत इति । यथाऽऽहुः सांख्यवृद्धाः - ᳚असत्त्वे नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः । असम्बद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः-᳚ इति । स्यादेतत्- असम्बद्धमपि सत् तदेव करोति यत्र यत् कारणं शक्तं, शक्तिश्च कार्यदर्शनादवगम्यते । तेन नाव्यवस्थेत्यत आह- ᳚शक्तस्य शक्यकरणात्᳚ इति । सा शक्तिः शक्तकारणाश्रया, सर्वत्र वा स्यात्, शक्ये एव वा ? सर्वत्र चेत्, तदवस्थैवाव्यवस्था । शक्ये चेत्, कथमसति शक्ये तत्र ? इति वक्तव्यम् । शक्तिभेद एव एतादृशो यतः किञ्चिदेव कार्यं जनयेत् न सर्वमिति चेत्, हन्त भोः ! शक्तिविशेषः कार्यसम्बद्धो वाऽसम्बद्धो वा ? सम्बद्धत्वे नासता सम्बन्ध इति सत् कार्यम् । असम्बद्धत्वे सैवाव्यवस्था, इति सुष्ठूक्तं ᳚शक्तस्य शक्यकरणात्᳚ इति । इतश्च सत् कार्यमित्याह - ᳚कारणभावाच्च᳚, कार्यस्य कारणात्मकत्वात् । न हि कारणाद्भिन्नं कार्यम्, कारणं च सदिति कथं तदभिन्नं कार्यमसद्भवेत् ? कार्यस्य कारणाभेदसाधनानि च प्रमाणानि - (१) न पटस्तन्तुभ्यो भिद्यते, तन्तुधर्मात् । इह यद्यतो भिद्यते तत् तस्य धर्मो न भवति, यथा गौरश्वस्य । धर्मश्च पटस्तन्तूनां, तस्मान्नार्थान्तरम् । (२) उपादानोपादेयभावाच्च नार्थान्तरत्वं तन्तुपटयोः । ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावः, यथा घटपटयोः । उपादानोपादेयभावश्च तन्तुपटयोः । तस्मान्नार्थान्तरत्वम् । (३) इतश्च नार्थान्तरत्वं तन्तुपटयोः, संयोगाप्राप्त्यभावात् । अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः, अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः । न चेह संयोगाप्राप्ती, तस्मान्नार्थान्तरत्वमिति । (४) इतश्च पटस्तन्तुभ्यो न भिद्यते, गुरुत्वान्तरकार्याग्रहणात् । इह यद्यस्माद्भिन्नम्, तस्मात् तस्य गुरुत्वान्तरं कार्यं गृह्यते, यथैकपलिकस्य स्वस्तिकस्य यो गुरुत्वकार्योऽवनतिविशेषस्तस्माद्द्विपलिकस्य स्वस्तिकस्य गुरुत्वकार्योऽवनतिभेदोऽधिकः । न च तथा तन्तुगुरुत्वकार्यात् पटगुरुत्वकार्यान्तरं दृश्यते । तस्मादभिन्नस्तन्तुभ्यः पट इति । तान्येतान्यभेदसाधनान्यवीतानि । एवमभेदे सिद्धे, तन्तव एव तेन संस्थानभेदेन परिणताः पटः, न तन्तुभ्योऽर्थान्तरं पटः । स्वात्मनि क्रियानिरोधबुद्धिव्यपदेशार्थक्रियाभेदाश्च नैकान्तिकं भेदं साधयितुमर्हन्ति । एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरोधात् । यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरोभवन्ति, निःसरन्ति चाविर्भवन्ति, न तु कूर्मतस्तदङ्गान्युत्पद्यन्ते प्रध्वंसन्ते वा । एवमेकस्या मृदः सुवर्णस्य वा घटमुकुटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते, निविशमानास्तिरोभवन्ति विनश्यन्तीत्युच्यन्ते । न पुनरसतामुत्पादः सतां वा निरोधः । यथाऽऽह भगवान् कृष्णद्वैपायनः - ᳚नासतो विद्यते भावो नाभावो विद्यते सतः ᳚ (गीता २-१६ इति) । यथा कूर्मः स्वावयवेभ्यः सङ्कोचविकासिभ्यो न भिन्नः, एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्यो न भिन्नाः । एवञ्च 'इह तन्तुषु पटः' इति व्यपदेशो यथा 'इह वने तिलकाः' इत्युपपन्नः । न चार्थक्रियाभेदोऽपि भेदमापादयति, एकस्यापि नानार्थक्रियादर्शनात् । यथैक एव वह्निर्दाहकः पाचकः प्रकाशकश्चेति । नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतुः, तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात् । यथा प्रत्येकं विष्टयो वर्त्मदर्शनलक्षणामर्थक्रियां कुर्वन्ति, न तु शिबिकावहनम्, मिलितास्तु शिबिकामुद्वहन्ति, एवं तन्तवः प्रत्येकं प्रावरणमकुर्वाणा अपि मिलिता आविर्भूतपटभावाः प्रावरिष्यन्ति । स्यादेतत् - आविर्भावः पटस्य कारणव्यापारात् प्राक् सन् असन् वा ? असंश्चेत् प्राप्तं तर्ह्यसदुत्पादनम् । अथ सन्, कृतं तर्हि कारणव्यापारेण । न हि सति कार्ये कारणव्यापारप्रयोजनं पश्यामः । आविर्भावे चाविर्भावान्तरकल्पनेऽनवस्थाप्रसङ्गः । तस्मादाविर्भूतपटभावास्तन्तवः क्रियन्त इति रिक्तं वचः । मैवम् । अथासदुत्पद्यत इति मते केयमसदुत्पत्तिः ? सती, असती वा ? सती चेत्, कृतं तर्हि कारणैः । असती चेत्, तस्या अप्युत्पत्त्यन्तरमित्यनवस्था । अथ- उत्पत्तिः पटान्नार्थान्तरम्, अपि तु पट एवासौ, तथापि यावदुक्तं भवति 'पटः' इति, तावदुक्तं भवति 'उत्पद्यते' इति । ततश्च 'पटः' इत्युक्ते 'उत्पद्यते' इति न वाच्यम्, पौनरुक्त्यात्, 'विनश्यति' इत्यपि न वाच्यम्, उत्पत्तिविनाशयोर्युगपदेकत्र विरोधात् । तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा, स्वसत्तासमवायो वा ? उभयथाऽपि नोत्पद्यते, अथ च तदर्थानि कारणानि व्यापार्यन्ते । एवं सत एव पटादेराविर्भावाय कारणापेक्षेत्युपपन्नम् । न च पटरूपेण कारणानां सम्बन्धः, तद्रूपस्याक्रियात्वात्, क्रियासम्बन्धित्वाच्च कारकाणाम्, अन्यथा कारणत्वाभावात् । तस्मात् सत् कार्यमिति पुष्कलम् । कारिका १० तदेवं प्रधानसाधनानुगुणं सत्कार्यमुपपाद्य यादृशं तत् प्रधानं साधनीयं तादृशमादर्शयितुं विवेकज्ञानोपयोगिनी व्यक्ताव्यक्तसारूप्यवैरूप्ये तावदाह - ॥ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं, विपरीतमव्यक्तम् ॥ १० ॥ ॥ ᳚हेतुमत्᳚ इति । व्यक्तं हेतुमत्, हेतुः कारणम्, तद्वत्, यस्य च यो हेतुस्तमुपरिष्टाद्वक्ष्यति । ᳚अनित्यम्᳚ विनाशि, तिरोभावीति यावत् । ᳚अव्यापि᳚ सर्वं परिणामिनं न व्याप्नोति । कारणेन हि कार्यमाविष्टम्, न कार्येण कारणम् । न च बुद्ध्यादयः प्रधानं वेविषतीत्यव्यापकाः । ᳚सक्रियम्᳚ परिस्पन्दवत् । तथा हि बुद्ध्यादयः उपात्तमुपात्तं देहं त्यजन्ति, देहान्तरं चोपाददते, इति तेषां परिस्पन्दः । शरीरपृथिव्यादीनां च परिस्पन्दः प्रसिद्ध एव । ᳚अनेकम्᳚ प्रतिपुरुषं बुद्ध्यादीनां भेदात् । पृथिव्याद्यपि शरीरघटादिभेदेनानेकमेव । ᳚आश्रितम्᳚ स्वकारणमाश्रितम् । बुद्ध्यादिकार्याणामभेदेऽपि कथञ्चिद्भेदविवक्षयाऽऽश्रयाश्रयिभावः, यथा 'इह वने तिलकाः' इत्युक्तम् । ᳚लिङ्गम्᳚ प्रधानस्य । यथा चैते बुद्ध्यादयः प्रधानस्य लिङ्गम्, तथोपरिष्टाद्वक्ष्यति । प्रधानं तु न प्रधानस्य लिङ्गं पुरुषस्य लिङ्गं भवदपीति भावः । ᳚सावयवम्᳚ अवयनमवयवः, अवयवानामवयविनां मिथः संश्लेषो मिश्रणं संयोग इति यावत् । अप्राप्तिपूर्विका प्राप्तिः संयोगः । तेन सह वर्तत इति सावयवम् । तथा हि- पृथिव्यादयः परस्परं संयुज्यन्ते, एवमन्येऽपि, न तु प्रधानस्य बुद्ध्यादिभिः संयोगः, तादात्म्यात् । नापि सत्त्वरजस्तमसां परस्परं संयोगः, अप्राप्तेरभावात् । ᳚परतन्त्रम्᳚ बुद्ध्यादि । बुद्ध्या स्वकार्येऽहङ्कारे जनयितव्ये प्रकृत्यापूरोऽपेक्ष्यते, अन्यथा क्षीणा सती नालमहङ्कारं जनयितुमिति स्थितिः । एवमहङ्कारादिभिरपि स्वकार्यजनने इति सर्वं स्वकार्येषु प्रकृत्याऽऽपूरमपेक्षते । तेन परां प्रकृतिमपेक्षमाणं कारणमपि स्वकार्यजनने परतन्त्रं व्यक्तम् । ᳚विपरीतमव्यक्तम्᳚ व्यक्तात् । अहेतुमत्, नित्यं, व्यापि, निष्क्रियम्, यद्यप्यव्यक्तस्यास्ति परिणामलक्षणा क्रिया, तथाऽपि परिस्पन्दो नास्ति । एकम्, अनाश्रितम्, अलिङ्गम्, अनवयवम्, स्वतन्त्रम्, अव्यक्तम् । कारिका ११ तदनेन प्रबन्धेन व्यक्ताव्यक्तयोर्वैधर्म्यमुक्तम् । सम्प्रति तयोः साधर्म्यम्, पुरुषाच्च वैधर्म्यमाह - ॥ त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानम्, तद्विपरीतस्तथा च पुमान् ॥ ११ ॥ ॥ ᳚त्रिगुणम्᳚ इति । त्रयो गुणाः सुखदुःखमोहा अस्येति त्रिगुणम् । तदनेन सुखादीनामात्मगुणत्वं पराभिमतमपाकृतम् । ᳚अविवेकि᳚ । यथा प्रधानं न स्वतो विविच्यते, एवम्महदादयोऽपि न प्रधानाद्विविच्यन्ते, तदात्मकत्वात् । अथ वा सम्भूयकारिताऽत्राविवेकिता । न हि किञ्चिदेकं पर्याप्तं स्वकार्ये, अपि तु सम्भूय । तत्र नैकस्मात् यस्य कस्यचित् केनचित्सम्भव इति ॥ ये त्वाहुः - 'विज्ञानमेव हर्षविषादमोहशब्दाद्यात्मकम्, न पुनरितोऽन्यस्तद्धर्मा' इति- तान् प्रत्याह - ᳚विषय᳚ इति । 'विषयो' ग्राह्यः, विज्ञानाद्बहिरिति यावत् । अत एव ᳚सामान्यम्᳚ साधारणम्, घटादिवत् । अनेकैः पुरुषैर्गृहीतमित्यर्थः । विज्ञानाकारत्वे तु असाधारण्याद्विज्ञानानां वृत्तिरूपाणां, तेऽप्यसाधारणाः स्युः, विज्ञानं यथा परेण न गृह्यते, परबुद्धेरप्रत्यक्षत्वादित्यभिप्रायः । तथा च नर्तकीभ्रूलताभङ्गे एकस्मिन् बहूनां प्रतिसन्धानं युक्तम् । अन्यथा तन्न स्यादिति भावः । ᳚अचेतनम्᳚ । सर्वे एव प्रधानबुद्ध्यादयोऽचेतनाः, न तु वैनाशिकवत् - चैतन्यं बुद्धेरित्यर्थः । ᳚प्रसवधर्मि᳚ - प्रसवरूपो धर्मो यः सोऽस्याऽस्तीति प्रसवधर्मि । प्रसवधर्मेति वक्तव्ये मत्वर्थीयः प्रसवधर्मस्य नित्ययोगमाख्यातुम् । सरूपविरूपपरिणामाभ्यां न कदाचिदपि वियुज्यते इत्यर्थः । व्यक्तवृत्तमव्यक्तेऽतिदिशति - ᳚तथा प्रधानम्᳚ इति । यथा व्यक्तं तथाऽव्यक्तमित्यर्थः । ताभ्यां वैधर्म्यं पुरुषस्याह - ᳚तद्विपरीतः पुमान्᳚ इति । स्यादेतत्- अहेतुमत्त्वनित्यत्वादि प्रधानसाधर्म्यमस्ति पुरुषस्य, एवमनेकत्वं व्यक्तसाधर्म्यम्, तत्कथमुच्यते 'तद्विपरीतः पुमान्' इति ? अत आह - ᳚तथा च᳚ इति । चकारोऽप्यर्थः । यद्यप्यहेतुमत्त्वादिकं साधर्म्यम्, तथाऽप्यत्रैगुण्यादिवैपरीत्यमस्त्येवेत्यर्थः । कारिका १२ त्रिगुणमित्युक्तम्, तत्र के ते त्रयो गुणाः ? किं च तल्लक्षणम् ? इत्यत आह - ॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥ ॥ ᳚गुणाः᳚ इति परार्थाः । ᳚सत्त्वं लघु प्रकाशकम्᳚ इत्यत्र च सत्त्वादयः क्रमेण निर्देक्ष्यन्ते । तदनागतावेक्षणेन तन्त्रयुक्त्या वा प्रीत्यादीनां यथासङ्ख्यं वेदितव्यम् । एतदुक्तं भवति - प्रीतिः सुखम्, प्रीत्यात्मकः सत्त्वगुणः । अप्रीतिः दुःखम्, अप्रीत्यात्मको रजोगुणः । विषादः मोहः, विषादात्मकस्तमोगुण इत्यर्थः । ये तु मन्यन्ते ᳚ न प्रीतिर्दुःखाभावादतिरिच्यते, एवं दुःखमपि न प्रीत्यभावादन्यदिति, तान् प्रति ᳚आत्म᳚ग्रहणम् । नेतरेतराभावाः सुखादयः, अपि तु भावाः, आत्मशब्दस्य भाववचनत्वात्, प्रीतिरात्माभावो येषां ते प्रीत्यात्मानः । एवमन्यदपि व्याख्येयम् । भावरूपता चैषामनुभवसिद्धा । परस्पराभावात्मकत्वे तु परस्पराश्रयापत्तेरेकस्याप्यसिद्धेरुभयासिद्धिरिति भावः । स्वरूपमेषामुक्त्वा प्रयोजनमाह - ᳚प्रकाशप्रवृत्तिनियमार्थाः᳚ इति । अत्रापि यथासङ्ख्यमेव । रजः प्रवर्तकत्वात् सर्वत्र लघु सत्त्वं प्रवर्तयेत्, यदि तमसा गुरुणा न नियम्येत, तमोनियतं तु क्वचिदेव प्रवर्ततीति भवति तमो नियमार्थम् । प्रयोजनमुक्त्वा क्रियामाह- ᳚अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च᳚ इति । वृत्तिः - क्रिया, सा च प्रत्येकमभिसम्बध्यते । ᳚अन्योन्याभिभववृत्तयः᳚ एषामन्यतमेनार्थवशादुद्भूतेनान्यदभिभूयते । तथा हि- सत्त्वं रजस्तमसी अभिभूय शान्तामात्मनो वृत्तिं प्रतिलभते, एवं रजः सत्त्वतमसी अभिभूय घोराम्, एवं तमः सत्त्वरजसी अभिभूय मूढामिति । ᳚अन्योन्याश्रयवृत्तयः᳚ । यद्यप्याधाराधेयभावेन नायमर्थो घटते, तथाऽपि यदपेक्षया यस्य क्रिया स तस्याश्रयः । तथा हि- सत्त्वं प्रवृत्तिनियमावाश्रित्य रजस्तमसोः प्रकाशेनोपकरोति, रजः प्रकाशनियमावाश्रित्य प्रवृत्त्या इतरयोः, तमः प्रकाशप्रवृत्ती आश्रित्य नियमेनेतरयोरिति । ᳚अन्योन्यजननवृत्तयः᳚ । अन्यतमोऽन्यतमं जनयति । जननं च परिणामः, स च गुणानां सदृशरूपः । अत एव न हेतुमत्त्वम्, तत्त्वान्तरस्य हेतोरभावात् । नाप्यनित्यत्वम्, तत्त्वान्तरे लयाभावात् । ᳚अन्योन्यमिथुनवृत्तयः᳚ । अन्योन्यसहचराः अविनाभाववृत्तय इति यावत् । ᳚चः᳚ समुच्चये । भवति चात्रागमः - ᳚अन्योन्यमिथुनाः सर्वे सर्वे सर्वत्र गामिनः । रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः ॥ तमसश्चापि मिथुने ते सत्त्वरजसी उभे । उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते ॥ नैषामादिः सम्प्रयोगो वियोगो वोपलभ्यते ᳚ इति (दे। भा। ३/८) । कारिका १३ ᳚प्रकाशप्रवृत्तिनियमार्थाः᳚ इत्युक्तम्, तत्र के ते इत्थम्भूताः कुतश्चेत्यत आह - ॥ सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः, प्रदीपवच्चार्थतो वृत्तिः ॥ १३ ॥ ॥ ᳚सत्त्वम्᳚ इति । सत्त्वमेव लघु प्रकाशकमिष्टं साङ्ख्याचार्यैः । तत्र कार्योद्गमने हेतुर्धर्मो लाघवं गौरवप्रतिद्वन्द्वि, यतोऽग्नेरूर्ध्वज्वलनं भवति । तदेव लाघवं कस्यचित्तिर्यग्गमने हेतुर्भवति, यथा वायोः । एवं करणानां वृत्तिपटुत्वहेतुर्लाघवम्, गुरुत्वे हि मन्दानि स्युरिति सत्त्वस्य प्रकाशात्मकत्वमुक्तम् । सत्त्वतमसी स्वयमक्रियतया स्वकार्यप्रवृत्तिं प्रत्यवसीदन्ती रजसोपष्टभ्येते- अवसादात् प्रच्याव्य स्वकार्ये उत्साहं प्रयत्नं कार्येते । तदिदमुक्तम्- ᳚उपष्टम्भकम्᳚ इति । कस्मादित्यत उक्तम् - ᳚चलम्᳚ इति । तदनेन रजसः प्रवृत्त्यर्थत्वं दर्शितम् । रजस्तु चलतया परितस्त्रैगुण्यं चालयत् गुरुणाऽऽवृण्वता च तमसा तत्र तत्र प्रवृत्तिप्रतिबन्धकेन क्वचिदेव प्रवर्त्यत इति ततस्ततो व्यावृत्त्या तमो नियामकमुक्तम्- ᳚गुरु वरणकमेव तमः᳚ इति । एवकारः प्रत्येकं भिन्नक्रमः सम्बध्यते, सत्त्वमेव, रज एव, तम एवेति । ननु एते परस्परविरोधशीला गुणाः सुन्दोपसुन्दवत् परस्परं ध्वंसन्त इत्येव युक्तं प्रागेव तेषामेकक्रियाकर्तृताया इत्यत आह- ᳚प्रदीपवच्चार्थतो वृत्तिः᳚ इति । दृष्टमेतत्, यथा वर्त्तितैलेऽनलविरोधिनी, अथ मिलिते सहानलेन रूपप्रकाशलक्षणं कार्यं कुरुतः । यथा च वातपित्तश्लेष्माणः परस्परविरोधिनः शरीरधारणलक्षणकार्यकारिणः । एवं सत्त्वरजस्तमांसि मिथो विरुद्ध्यान्यप्यनुवर्त्स्यन्ति स्वकार्यं करिष्यन्ति च । ᳚अर्थतः᳚ इति । पुरुषार्थत इति यावत्, यथा च वक्ष्यति- ᳚पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम्᳚ इति (का० ३१) अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति । तेषां च परस्परमभिभाव्याभिभावकभावान्नानात्वम् । तद्यथा - एकैव स्त्री रूपयौवनकुलशीलसम्पन्ना स्वामिनं सुखाकरोति । तत्कस्य हेतोः ? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् । सैव स्त्री सपत्नीर्दुःखाकरोति, तत् कस्य हेतोः ? ताः प्रति तस्या दुःखरूपसमुद्भवात् । एवं पुरुषान्तरं तामविन्दमानं सैव मोहयति, तत् कस्य हेतोः ? तत् प्रति तस्या मोहरूपसमुद्भवात् । अनया च स्त्रिया सर्वे भावा व्याख्याताः । तत्र यत् सुखहेतुः तत् सुखात्मकं सत्त्वम्, यत् दुःखहेतुस्तत् दुःखात्मकं रजः, यन्मोहहेतुस्तन्मोहात्मकं तमः । सुखप्रकाशलाघवानां त्वेकस्मिन् युगपदुद्भूतावविरोधः, सहदर्शनात् । तस्मात् सुखदुःखमोहैरिव विरोधिभिः अविरोधिभिरेकैकगुणवृत्तिभिः सुखप्रकाशलाघवैर्न निमित्तभेदा उन्नीयन्ते । एवं दुःखोपष्टम्भकत्वप्रवर्तकत्वैः, एवं मोहगुरुत्वावरणैः - इति सिद्धं त्रैगुण्यमिति । कारिका १४ स्यादेतत् - अनुभूयमानेषु पृथिव्यादिष्वनुभवसिद्धा भवन्त्यविवेकित्वादयः । ये पुनः सत्त्वादयो नान्युभवपथमधिरोहन्ति, तेषां कुतस्त्यमविवेकित्वं विषयत्वमचेतनत्वं प्रसवधर्मित्वं च ? इत्यत आह - ॥ अविवेक्यादेः सिद्धिस्त्रैगुण्यातद्विपर्ययाभावात् । कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥ ॥ ᳚अविवेक्यादेः᳚ इति । अविवेकित्वमविवेकि । यथा 'द्व्येकयोर्द्विवचनैकवचने' (पा। सू। १।४।२२) इत्यत्र द्वित्वैकत्वयोरिति, अन्यथा द्व्येकेष्विति स्यात् । कुतः पुनरविवेकित्वादेः सिद्धिरित्यत्र आह - ᳚त्रैगुण्यात्᳚ इति । ᳚यद्यत् सुखदुःखमोहात्मकं तत्तदविवेकित्वादियोगि, यथेदमनुभूयमानं व्यक्तम्᳚ इति स्फुटत्वादन्वयो नोक्तः । व्यतिरेकमाह - ᳚तद्विपर्ययाभावात्᳚ इति । अविवेक्यादिविपर्यये पुरुषे त्रैगुण्याभावात् । अथ वा व्यक्ताव्यक्ते पक्षीकृत्यान्वयाभावेनावीत एव हेतुस्त्रैगुण्यादिति वक्तव्यः । स्यादेतत् - अव्यक्तसिद्धौ सत्यां तस्याविवेकित्वादयो धर्माः सिध्यन्ति, अव्यक्तमेव त्वद्यापि न सिध्यति, तत्कथमविवेकित्वादिसिद्धिरत आह- ᳚कारणगुणात्मकत्वात्᳚ इति । अयमभिसन्धिः- कार्यं हि कारणगुणात्मकं दृष्टम्, यथा तन्त्वादिगुणात्मकं पटादि । तथा महदादिलक्षणेनापि कार्येण सुखदुःखमोहरूपेण स्वकारणं सुखदुःखमोहात्मकं प्रधानमव्यक्तं सिद्धं भवति । कारिका १५-१६ स्यादेतत् - 'व्यक्तात् व्यक्तमुत्पद्यते' इति कणभक्षाक्षचरणतनयाः । परमाणवो हि व्यक्ताः, तेभ्यो द्व्यणुकादिक्रमेण पृथिव्यादिलक्षणं कार्यं व्यक्तमारभ्यते । पृथिव्यादिषु च कारणगुणक्रमेण रूपाद्युत्पत्तिः । तस्मात् व्यक्तात् व्यक्तस्य तद्गुणस्य चोत्पत्तेः कृतमदृष्टचरेणाव्यक्तेनेत्यत आह - ॥ भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥ ॥ ॥ कारणमस्त्यव्यक्तम्, प्रवर्तते त्रिगुणतः समुदयाच्च । परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६ ॥ ॥ ᳚भेदानाम्᳚ इति । भेदानां - विशेषाणां महदादीनां भूम्यन्तानां कार्याणां कारणं- मूलकारणमस्त्यव्यक्तम् । कुतः ? ᳚कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य᳚ । कारणे सत् कार्यमिति स्थितम् । तथा च यथा कूर्मशरीरे सन्त्येवाऽङ्गानि निःसरन्ति विभज्यन्ते- 'इदं कूर्मशरीरं, एतान्येतस्याङ्गानि'- इति । एवं निविशमानानि तस्मिन् अव्यक्तीभवन्ति । एवं कारणामृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि घटमुकुटादीनि सन्त्येवाविर्भवन्ति विभज्यन्ते । सन्त्येव पृथिव्यादीनि कारणात्तन्मात्रादाविर्भवन्ति विभज्यन्ते, सन्त्येव च तन्मात्राण्यहङ्कारात् कारणात्, सन्त्येवाहङ्कारः कारणान्महतः, सन्नेव च महान् परमाव्यक्तात् । सोऽयं कारणात् परमाव्यक्तात् साक्षात् पारम्पर्येणान्वितस्य विश्वस्य कार्यस्य विभागः । प्रतिसर्गे तु मृत्पिण्डं सुवर्णपिङ्गं वा घटमुकुटादयो विशन्तोऽव्यक्तीभवन्ति । तत्कारणरूपमेवानभिव्यक्तं कार्यमपेक्ष्याव्यक्तं भवति । एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति । एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति, एवमहङ्कारो महान्तमाविशन् महान्तमव्यक्तयति, महान् प्रकृतिं स्वकारणं विशन् प्रकृतिमव्यक्तयति । प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव । सोऽयमविभागः प्रकृतौ वैश्वरूप्यस्य - नानारूपस्य कार्यस्य, स्वार्थिकः ष्यञ्, तस्मात् कारणे कार्यस्य सत एव विभागाविभागाभ्यामव्यक्तं कारणमस्ति । इतश्चाव्यक्तमस्तीत्यत आह - ᳚शक्तितः प्रवृत्तेश्च᳚ इति । कारणशक्तितः कार्यं प्रवर्तत इति सिद्धम्, अशक्तात् कारणात् कार्यस्यानुपपत्तेः, शक्तिश्च कारणगतो न कार्यस्याव्यक्तत्वादन्या । न हि सत्कार्यपक्षे कार्यस्याव्याव्यक्तताया अन्यस्यां शक्तौ प्रमाणमस्ति, अयमेव हि सिकताभ्यस्तिलानां तैलोपादानानां भेदो यदेतेष्वेवे तैलमस्त्यनागतावस्थं न सिकतास्विति । स्यादेतत् - शक्तितः प्रवृत्तिः कारणकार्यविभागाविभागौ च महत एव परमाव्यक्तत्वं साधयिष्यतः, कृतं ततः परेणाव्यक्तेनेत्यत आह - ᳚परिमाणात्᳚ इति । परिमितत्वात्, अव्यापित्वादिति यावत् । विवादाध्यासिता महदादिभेदा अव्यक्तकारणवन्तः, परिमितत्वात्, घटादिवत् । घटादयो हि परिमिताः मृदाद्यव्यक्तकारणका दृष्टाः । उक्तमेतद्यथा कार्यस्याव्यक्तावस्था कारणमेवेति, यन्महतः कारणं यत् परमाव्यक्तम्, ततः परतराव्यक्तकल्पनायां प्रमाणाभावात् । इतश्च विवादाध्यासिता भेदाः अव्यक्तकारणवन्तः, ᳚समन्वयात्᳚ । भिन्नानां समानरूपता समन्वयः । सुखदुःखमोहसमन्विता हि बुद्ध्यादयोऽध्यवसायादिलक्षणाः प्रतीयन्ते । यानि च यद्रूपसमनुगतानि, तानि तत्स्वभावाव्यक्तकारणानि, यथा मृद्धेमपिण्डसमनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकारणका इति कारणमस्त्यव्यक्तं भेदानामिति सिद्धम् । अव्यक्तं साधयित्वा अस्य प्रवृत्तिप्रकारमाह - ᳚प्रवर्तने त्रिगुणतः᳚ इति । प्रतिसर्गावस्थायां सत्त्वं रजस्तमश्च सदृशपरिणामानि भवन्ति । परिणामस्वभावा हि गुणा नापरिणम्य क्षणमप्यवतिष्ठन्ते । तस्मात् सत्त्वं सत्त्वरूपतया, रजो रजोरूपतया, तमस्तमोरूपतया प्रतिसर्गावस्थायामपि प्रवर्तते । तदिदमुक्तं - ᳚त्रिगुणतः᳚ इति । प्रवृत्त्यन्तरमाह - ᳚समुदयाच्च᳚ इति । समेत्य उदयः - 'समुदयः' समवायः । समुदयश्च गुणानां न गुणप्रधानभावमन्तरेण सम्भवति, न च गुणप्रधानभावो वैषम्यं विना, न च वैषम्यमुपमर्द्योपमर्दकभावादृते, इति महदादिभावेन प्रवृत्तिर्द्वितीया । स्यादेतत्- कथमेकरूपाणां गुणानामनेकरूपा प्रवृत्तिरित्यत आह - ᳚परिणामतः सलिलवत्᳚ इति । यथा हि वारिदविमुक्तमुदकमेकरसमपि तत्त्द्भूविकारानासाद्य नारिकेलतालतालीबिल्वचिरबिल्वतिन्दुकामलकप्राचीनामलककपित्थफलरसतया परिणमन्मधुराम्ललवणतिक्तकषायकटुतया विकल्पते, एवमेकैकगुणसमुद्भवात् प्रधानं गुणमाश्रित्याप्रधानगुणाः परिणामभेदान् प्रवर्तयन्ति । तदिदमुक्तम्- ᳚प्रतिप्रतिगुणाश्रयविशेषात्᳚ । एकैकगुणाश्रयेण यो विशेषस्तस्मादित्यर्थः । कारिका १६ Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com
% Text title            : sAMkhyatattvakaumudI
% File name             : sAMkhyatattvakaumudI.itx
% itxtitle              : sANkhyatattvakaumudI
% engtitle              : sANkhyatattvakaumudI
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Source                : sAnkhyasaNgrahaH 1918
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP