॥ साङ्ख्यतत्त्वविवेचनम् ॥

॥ श्रीषिमानन्दविरचितम् ॥

रघुनन्दनसुतेनेदमिष्टिकापुरवासिना । कान्यकुब्जद्विजाग्र्येण षिमानन्देन तन्यते ॥ १॥ सांख्योपज्ञ नमस्तुभ्यं कपिलाय महात्मने । पञ्चविंशतितत्त्वानां तत्त्वज्ञानप्रवर्तकः ॥ २॥ दुःखत्रयाभिभूतस्य शान्तिर्मे स्यात् कुतस्त्विह । तथोपदिश जन्मादि यथा न स्यात् कृपानिधे ॥ ३॥ एवं पृष्टो मुनिः प्राह निर्विण्णाय कृपानिधिः । पञ्चविंशतिसूत्राणि व्याख्यातानि महात्मभिः ॥ ४॥ बबन्धुः कवयः काव्ये व्याचिख्युः कवयः परे । सांख्यशास्त्रस्य याथार्थ्यं तदेवेदं विविच्यते ॥ षिमानन्देन मन्देन कुक्षिम्भरिशतादिना ॥ ५॥

अष्टौ प्रकृतयः ॥ १ ॥

प्रकृतिर्बुद्ध्यहंकारौ तन्मात्रैकादशेन्द्रियम् । भूतानि चेति सामान्याच्चतुर्विंशतिरेव ते ॥ एतेष्वेव धर्मधर्म्यभेदेन गुणकर्मसामान्यानामन्तर्भावः । प्रकृतित्वं च साक्षात्परम्परयाखिलविकारोपादानत्वम् । व्युत्पत्तिस्तु प्रकृष्टा परिणामरूपा आकृतिरस्या इति । सा च साम्यावस्थयोपलक्षितसत्त्वादिद्रव्यत्रयरूपा । साम्यावस्था च शान्तघोरमूढादिरूपाणामपि असमुदायवद्रूपत्वेपि अतिशयैः समुदायवद्भिरविरोधेन वर्तमानत्वं सामान्यात्मना गुणभावोऽतिशयात्मना प्राधान्यं विशेषात्मना वैषम्यमित्यतो न्यूनाधिकभावेनासंहतावस्थाऽकार्यावस्थेति यावत् । महदादिकं तु कार्यसत्त्वादिकं न कदाप्यकार्यावस्थं भवतीति तद्व्यावृत्तिः । वैषम्यावस्थायामपि प्रकृतित्वसिद्धये उपलक्षितमित्युक्तं सत्त्वादिगुणवती प्रकृतिः सत्त्वाद्यनतिरिक्तत्वात् तथा च सूत्रं सत्त्वादीनामतद्धर्मत्वं तद्रूपत्वादिति सत्त्वादीनां प्रकृतिस्वरूपत्वं न तु प्रकृतिधर्मत्वम् । गुणेभ्य एव सर्वकार्योपपत्तौ तदन्यप्रकृतिकल्पनावैयर्थ्यात् । सूत्रभाष्याभ्यामपि तथोक्तत्वात् । यत्तु प्रकृतेर्गुणा इतिवत् वनस्य वृक्षा इतिवत् व्यष्टिसमष्ट्यभिप्रायेणेति सत्त्वं रजस्तम इति प्रकृतेरभवन् गुणा इति च न सत्त्वादीनां प्रकृतिकार्यत्ववचनं गुणनित्यतावाक्यविरोधेन महत्तत्त्वकारणीभूतकार्यसत्त्वादिपरम् । महदादिसृष्टिर्गुणवैम्यात् । तच्च सजातीयसंवलनेन गुणान्तरव्यावृत्तप्रकाशादिफलोपहितः सत्त्वादिव्यवहारयोग्यः परिणाम इति सत्त्वादिव्यवहारो वैषम्य एवेत्याह श्रुतिः यथा तम एवेदमग्र आसीत् तत्परे स्यात् परेणेरितं विषमत्वं(१) प्रत्ययाद्वै रजसो(२) रूपं तद्रजः खल्वीरितं विषमत्वं प्रत्ययाद्वै सत्त्वस्य(३) रूपमिति सत्त्वादित्रयं च सत्त्वादिस्वरूपमिति सत्त्वादित्रयं च सुखप्रकाशलाघवप्रसादादिगुणकतया संयोगविभागादिमत्तयानाश्रितत्वोपादानत्वादिना द्रव्यत्वेऽपि पुरुषोपकारत्वात् पुरुषबन्धकत्वाच्च गुणशब्देनोच्यते इन्द्रियादिवत् गुणानां सुखदुःकमोहात्मकप्रवादस्तु धर्मधर्म्यभेदात् मनसः सङ्कल्पात्मकत्ववत् तत्र सत्त्वं सुखप्रसादप्रकाशाद्यनेकधर्मकमपि प्रधानतस्तु सुखात्मकमुच्यते । एवं रजोऽपि दुःखकालुष्यप्रवृत्याद्यनेकधर्मकं प्राधान्यतस्तु दुःखात्मकमुच्यते । एवं तमोऽपि मोहावरणस्तम्भनाद्यनेकधर्मकं प्राधान्यतस्तु मोहात्मकमुच्यते । सतो भावः सत्त्वं धर्मप्राधान्येनोत्तमं पुरुषोपकरणं रागयोगाद्रजो मध्यमम् । तमोधर्मावरणयोगादधमं सत्त्वादीन्यसंख्यव्यक्तयः प्रतिक्षणपरिणामित्वात् लघुत्वादिधर्मैरन्योन्यं साधर्म्यं वैधर्म्यं च गुणानामसंख्यातमिति सूत्रात् । एकदानेकपुरुषादिसृष्टिश्रवणाच्च एकैकव्यक्तित्वे विभुत्वं स्यात् तथा च संयोगवैचित्र्याभावादनन्तवैचित्र्यं कार्याणां न स्यात् । द्रव्यान्तरस्यावच्छेदकीभूतस्याभावाच्च । तस्मादसंख्यातान्येव सत्त्वादीनि त्रित्वकथनं तु विभाजकोपाधित्रयेणैव वैशेषिकाणां नवद्रव्यवचनवत् सत्त्वादीनि च यथायोग्यमणुविभुपरिमाणकानि इतरथा रजसश्चलस्वभावत्ववचननिरोधः स्यात् । आकाशकारणस्य विभुत्वौचित्यात् सर्वकारणद्रव्यविभुत्वे कार्यपरिच्छेदासम्भव इति ॥ शब्दस्पर्शविहीनं तद्रूपादिभिरसंहतम् । त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् ॥ इत्याद्युक्तेर्न परमाण्वादावन्तर्भावः प्रकृतेरिति । अथैवमपि प्रकृतेरणुविभुसाधारणसत्त्वाद्यनेकव्यक्तिरूपत्वे अपरिच्छिन्नत्वैकत्वाक्रियत्वसैद्धान्तक्षतिरिति चेन्न कारणद्रव्यत्वस्वरूपप्रकृतित्वेनैवापरिच्छिन्नत्ववचनाद्गन्धत्वेन गन्धानां पृथिवीव्यापकतावत् आकाशादिप्रकृतीनां विभुत्वेनैव प्रकृतिविभुत्वसिद्धान्तोपपत्तेश्च । तथा पुरुषभेदेन सर्गभेदेन च भेदाभावस्यैव एकशब्दार्थत्वात् । अजामेकामितिश्रुतेस्तथावगमात् । तथाध्यवसायोऽभिमानादिक्रियाराहित्यस्यैवाक्रियशब्दार्थत्वादित्यन्यथा श्रुतिस्मृतित्युक्तस्य प्रकृतिक्षोभस्यानुपपत्तेरिति । तत्रायं प्रयोगः सुखदुःखमोहात्मकमहदादिकार्यं सुखदुःखमोहात्मकद्रव्यकार्यं सुखदुःखमोहात्मकत्वात् वस्त्रादिकार्यशय्यावदिति प्रकृतौ प्रमाणम् । बाह्यवस्तुषु सुखादिकमुत्तमत्वादिकमेव घटरूपमितिवच्चन्दनसुखं स्त्रीसुखमित्यादिप्रत्ययाच्चेति दिक् । अव्यक्तबुद्ध्यहङ्कारास्तन्मात्राणां च पञ्चकम् । अष्टौ प्रकृतयस्त्वेताः सप्त च व्यक्ततामियात् ॥ अव्यक्तप्रकृतिजन्यत्वात् अव्यक्तानीति चोच्यते । व्यज्यन्ते च यथा लोके घटाद्या न तथा हि तत् ॥ अव्यक्तं प्रकृतिर्माया प्रधानं ब्रह्म कारणम् । अव्याकृतं तमःपुष्पं क्षेत्रमक्षरनामकम् ॥ बहुधात्मकादिनामानि तस्यामी ते जगुर्बुधाः । व्यज्यते नेन्द्रियैर्यस्मादव्यक्तमत उच्यते । अनादिमध्यनिधनान्निरङ्गत्वेन तत् तथा ॥ तदेवाह श्रुतिः । अशब्दमस्पर्शमरूपमव्ययं यथा च नित्यं रसगन्धवर्जितम् । अनादिमध्यं महतः परं ध्रुवम् प्रधानमेतत् प्रवदन्ति सूरयः ॥ इति तस्मादलिङ्गकं सूक्ष्मं तथा प्रसवधर्मिकम् । एकं साधारणं तत्र कार्यं कस्यापि नेतरे ॥ बुद्धिर्महान् मनो ब्रह्मा मतिः ख्यातिरपूर्वकम् । प्रज्ञा भूतिर्धृतिर्ज्ञानं सन्ततिः स्मृतिरित्यपि ॥ हैरण्यगर्भ्या बुद्धेस्तु महतो नाम सूचितम् । गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो वेदा विजज्ञिरे ॥ एका मूर्त्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः । इति विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः ॥ अत्र सत्त्वाद्यंशत्रयेण महतो देवतात्रयोपाधित्वात्तदविवेकेन तिस्र इति । सात्त्विकांशात् प्रधानात् तु महत्तत्त्वमजायत इति महत्त्वस्य प्राधान्येन चाध्यवसायो वृत्तिर्महदहंकारमनस्त्रितयात्मकस्यान्तःकरणवृक्षस्य महत्तत्त्वं बीजावस्था तदुक्तं सांख्यसूत्रे इदमेव महत्तत्त्वमंशतो रजस्तमःसंभेदेन परिणतं सत् व्यष्टिजीवानामुपाधिरधर्मादियुक्तं क्षुद्रमपि भवति महदुपरागाद्विपरीतमिति । महतस्त्रिगुणस्वरूपत्वाद्देहस्य देहिना कालरूपविष्णुना क्षोभ्यदशायां गुणरूपोपाधिप्राधान्यादविवेके ब्रह्मविष्णुशिवत्वं तत्र महान् सुषुप्त्यभिमानी शिवस्तदुपाधिस्तमःकार्यरूपी तत्र स्वप्नाभिमानी विष्णुस्तदुपाधिः कार्यसत्त्वं तत्र जाग्रदभिमानी ब्रह्मा तदुपाधिः कार्यरजः तत्र समुदायसमुन्नयनन्यायेन समष्टेर्व्यष्ट्यनन्यत्वान्मशकादिरपि विष्णुरेवेति भावः । सृष्टिस्तु महदादिक्रमेणैव न तु भूतादिक्रमेणेति ॥ सा च कौर्मे भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह । आकाशसुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥ आकाशं तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह । वायुरुत्पद्यते तस्मात्तस्य स्पर्शो गुणो मतः ॥ इत्यादि नन्वेवं चेदाकाशादीनां केवलं विकृतित्वं कथं तत्र आकाशादीनां स्पर्शादितन्मात्रेषु अहंकारोपष्टम्भमात्रेण कारणत्वस्य पुराणादिषूक्तत्वात् । न पुमान् स्थाणुरेवायं बुद्धिरध्यवसायिनी । पुरुषाधिष्ठितात् सर्वगताज्जाता प्रधानता ॥ चिच्छक्तिर्यादृशी तादृग् वृत्तिः सत्त्वविमिश्रिता । रजोगुणस्वरूपा यत् त्रिवृत्करणतः श्रुतेः ॥ ज्ञानं धर्मश्च वैराग्यमैश्वर्यं सत्त्वतो ह्यमी । अनैश्वर्यमवैराग्यमधर्मोऽज्ञानमेव तु ॥ तमसश्चापि ते ज्ञेया बुद्धेर्भेदा इतीरिताः । ज्ञानं तत्त्वावबोधोऽयं धर्मः श्रुत्युक्तपालनम् ॥ वैराग्यमर्थानासक्तिरैश्वर्यमणिमादिकम् । तत्तद्विपर्ययेणैव तामसं तच्चतुष्टयम् ॥ ज्ञानेन मोक्षो धर्मेण गतिरूर्ध्वा भवेदिति । वैराग्येनाक्षरलय ऐश्वर्येणाहता गतिः ॥ एवमेषाष्टधा शक्तिर्व्याख्याता बुद्धिसञ्ज्ञिता । प्रधानविकृतिस्त्वेषाहंकारप्रकृतिश्च सा ॥ मूलप्रकृतिरित्यादि कविभिश्च निरूपितम् । एकोऽहंकार इत्येतज्जिज्ञासा चेद्विभावय ॥ योऽहंशब्दं करोत्येष अभिमान इति स्मृतः । स्पृशेऽहं रसये वाहं स्वामी चाहं मया हृतः ॥ इत्यादि नाम यस्यासीत्तस्य भेदा अमी शृणु । वैकारिकस्तैजसोपि भूतादिः सानुमानकः ॥ निरनुमानश्च पञ्चैते भेदास्तस्य प्रकीर्त्तिताः । वैकारिकः सात्त्विकोऽयं भूतादिस्तामसः स्मृतः ॥ तैजसो राजसो ज्ञेयस्तस्मात् तन्मात्रपञ्चकम् । एकादशेन्द्रियगणः सात्त्विकादभिजायते ॥ देवतास्त्वभिमानिन्यस्तैजसादपि चोच्यते । तदेव कथमेवं चेत् त्रिवृत्करणहेतुतः ॥ शब्दतन्मात्रमित्येतत् शब्द एवोपलभ्यते । न तूदात्तनिषादादिभेदस्तस्योपलभ्यते ॥ स्पर्शतन्मात्रमेवैतत् स्पर्श एवोपलभ्यते । न तु शीतमृदुत्वादिविशेषस्तस्य लभ्यते ॥ रूपतन्मात्रमेवं वै रसतन्मात्रमप्यथ । गन्धतन्मात्रमेतेषु विशेषो नोपलभ्यते ॥ तन्मात्राण्यविशेषाणि सूक्ष्मभूतानि चोच्यते । भोग्यानि शान्तघोरानि प्रकृत्याऽणव एव च ॥ कुर्वद्रूपात् प्रकृतयः संख्ययाऽष्टौ प्रकीर्त्तिताः ॥

षोडश विकाराः ॥ २ ॥

एकादशैवेन्द्रियाणि महाभूतानि पञ्च च । विकाराः षोडशैवैते न तु प्रकृतिताजुषः ॥ श्रोत्रं त्वक् चक्षूषी जिह्वा घ्राणं ज्ञानेन्द्रियं त्विदम् । वाक्पाणिपायूपस्थपादाः कर्मेन्द्रियं मतम् ॥ स्वं स्वं कर्म प्रकुर्वन्ति ज्ञानं चेति यथैषितम् । उभयात्मकं मनश्चैव संकल्पादिस्वरूपवत् ॥ करणानीन्द्रियाणीति वैकारिकमयं रयः । पदानि नियतानीत्यक्षाणीत्यभिधीयते ॥ पृथिवीजलतेजांसि वायुराकाश इत्यपि । महाभूतानि पञ्चैव धारणाद्युपकारतः ॥ आपः संग्रहभावेन चतुर्णामुपकारिकाः । तेजः पाचकभावेन वायुर्वहनभावतः ॥ शब्दादिपञ्चगुणवत्पृथ्वी पञ्चगुणा मता । आपः शब्दादिसहिताः गन्धेन रहितास्तथा ॥ तेजः शब्दस्पर्शवत् रूपवत् श्वसने पुनः । शब्दश्च स्पर्श इत्येवमाकाशे शब्द एव तु ॥ न तु विग्रहभूतानि विशेषाकृतयस्तथा । विकाराः शान्तघोराख्यमूढाः त्रिविधकीर्त्तिताः ॥

पुरुषः ॥ ३ ॥

पुरि शयनात् प्रमाणात् पूरणात् पुरुवृत्तितः । स चानादिः सर्वगतश्चेतनो निर्गुणोऽपरः ॥ द्रष्टा भोक्ता क्षेत्रविदमलोऽप्रसवधर्मकः । सूक्ष्मो नित्यो ह्यनादिस्त्वमध्यनिधनोऽपि सः ॥ सर्वमाप्तमनेनेति तस्मात् सर्वगतस्तु सः । सुखोपलब्धिमत्त्वाच्च चेतनो निर्गुणस्तथा ॥ सत्त्वादिगुणराहित्यात् परः परतया स्मृतः । दृश्यप्रकृतिसम्बन्धात् द्रष्टा भोक्ताऽनुभावनात् ॥ क्षेत्रे गुणगतं वेत्ति क्षेत्रज्ञ इति कीर्त्तितः । शुभाशुभादिसंसर्गाभावादमल ईष्यते ॥ निर्बीजत्वात् प्रसूते च नेत्यप्रसवधर्मकः । निरङ्गत्वातीन्द्रियत्वात् सूक्ष्मो नित्यः सदातनात् ॥ एवं सांख्यः स पुरुषो व्याख्यातः पूर्वसूरिभिः । जीवो जन्तुः पुमानात्मा पुरुषः पूजको नरः ॥ क्षेत्रज्ञश्चाक्षरः प्राणः कोय एषः स ज्ञस्तथा । अज एतानि नामानि सांख्ये पुरुषसञ्ज्ञिते ॥ एवम्, पञ्चविंशतितत्त्वज्ञो यत्र कुत्राश्रमे रतः । मुण्डी जटी शिखी वापि मुच्यते नात्र संशयः ॥ अयं कर्ताऽथवाऽकर्त्ता पुरुषः प्रकृतेः परः । शुभाशुभानि कर्त्ता चेत् कुर्याद्वृत्तित्रयं विना ॥ लोकदृष्टगुणानां चेत् कर्तृता धर्मिता कथम् ॥ साहित्यं यमनियमनिषेचनप्रसंख्यानात् । ज्ञानैश्वर्यविकारप्रकाशने सात्त्विकी वृत्तिः ॥ रागः क्रोधो लोभः परपरिवादो निन्दा तुष्टिः । विकृताकृतपारुष्यं प्रख्यातैषा रजोबुद्धिः ॥ उन्मादमदविषादा नास्तिक्यं स्त्रीप्रसङ्गिता । निद्रालस्यं नैर्घृण्यं त्वशौचमिति तामसी वृत्तिः ॥ एतद्वृत्तित्रयं दृष्ट्वा गुणानां कर्तृताऽथवा । अकर्ता पुरुषः सिद्ध इति सिद्धान्त इष्यते ॥ प्रवर्त्तमानप्रकृतेरिमान् गुणान् रजस्तमोभ्यां विपरीतदर्शनात् । आत्मानमाच्छाद्य स आत्मने तद् अहङ्करोमीत्यबुधोऽवमन्यते ॥ बालाग्रकुक्षीकरणासमर्थः सर्वं मयेदं कृतमित्यमन्यत । उन्मत्तवद्भाव्यत इत्यबोधः अहो विधे पण्डितमानिनः कः ॥ तदुक्तं गीतासु प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते ॥ अनादित्वान्निर्गुणत्वात् परमात्माऽयमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति सदाऽऽत्मानमकर्तारं स पश्यति ॥ इत्यादि । स एकः पुरुषः किं वा नानेति च विचारय । सुखदुःखमोहसङ्करविशुद्धजन्ममरणानाम् । नानात्वात् पुरुषबहुत्वं सिद्धं लोकाश्रमवर्णभेदाच्च ॥ यद्येकः पुरुषः स्याद् बुद्धिहानिः प्रसज्यते । एकस्मिन् सुखिते सर्वे सुखिनः स्युरतः परम् । एकस्मिन् दुःखिते सर्वे दुःखिताः स्युरिति क्रमात् ॥ अतो बहुत्वं संसिद्धं बहवः पुरुषाः स्मृताः । आकृतिगर्भाशयभावसङ्गतिशरीरविभागाल्लिङ्गबहुत्वात् सांख्याचार्याः कपिलासुरिपञ्चशिखपतञ्जलिप्रभृतयः पुरुषबहुत्वं वर्णयन्ति । वेदवादिन आचार्या हरिहरहिरण्यगर्भव्यासादय एकमात्मानं, तथा च श्रुतिः । पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्येनातिरोहति । तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः ॥ तदेव शुक्रं तद्ब्रह्म ता आपः स प्रजापतिः । तदेव सत्यममृतं स मोक्षः सा परा गतिः ॥ तदक्षरं तत्सवितुर्वरेण्यं यस्मात् परं नापरमस्ति किञ्चित् । यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित् ॥ वृक्ष इव स्तम्भो दिवि तिष्ठत्येकः तेनेदं पूर्णं पुरुषेण । सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम् ॥ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ सर्वस्य पशुमीशानं सर्वस्य शरणं महत् । सर्वतः सर्वसत्त्वानि सर्वात्मा सर्वसम्भवः ॥ सर्वं विलीयते यस्मिन् तद्ब्रह्म मुनयो विदुः । एक एव हि भूतात्मा भूते भूते व्यवस्थितः ॥ एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥ वसत्येको महानात्मा येन सर्वमिदं ततम् ॥ इत्यादि ।

त्रैगुण्यम् ॥ ४ ॥

सत्त्वं रजस्तम इति गुणाः भावेण्यस्त्रैगुण्यम् । प्रसादो लाघवं सङ्गः प्रसङ्गात् प्रीतिरार्जवम् ॥ तुष्टिस्तितिक्षा सत्त्वस्य रूपं साक्षात् सुखावहम् । शोकस्तम्भद्वेषतापखेदभोगाभिमानिता ॥ रजोरूपाण्यनेकानि बहुदुःखप्रदानि वै । तमो नामाच्छादनादि बीभत्सावरणादि च ॥ दैन्यगौरवनिद्रादिप्रमादालस्यलक्षणम् । मोहात्मकमनन्तं तदेवं त्रैगुण्यमीरितम् । सत्त्वं प्रकाशकं विद्याद्रजो विद्यात् प्रवर्त्तकम् ॥ विनाशकं तमो विद्यात् त्रैगुण्यं नाम सञ्ज्ञितम् ।

सञ्चरः ॥ ५ ॥

साम्यावस्था गुणानां या प्रकृतिः सा स्वभावतः । कालक्षोभेण वैषम्यात् क्षेत्रे परयुते पुरा ॥ बुद्धिस्ततश्चाहङ्कारस्त्रिविधोऽपि व्यजायत । तन्मात्राणीन्द्रियाणि महाभूतानि च क्रमात् ॥ एवं क्रमेणैवोत्पत्तिः सञ्चरः परिकीर्त्तितः ।

प्रतिसञ्चरः ॥ ६ ॥

व्युत्क्रमेणैव लीयन्ते तन्मात्रे भूतपञ्चकम् । तन्मात्राणीन्द्रियाणि अहङ्कारे विलीयते ॥ अहङ्कारोऽथ बुद्धौ तु बुद्धिरव्यक्तसञ्ज्ञके । अव्यक्तं न क्वचिल्लीनं प्रतिसञ्चर इति स्मृतः ॥

अध्यात्ममधिभूतमधिदैवतं च ॥ ७ ॥

बुद्ध्याहङ्कारमनसी श्रोत्रं त्वक् चक्षुषी तथा । जिह्वा घ्राणं पादपायूपस्थमध्यात्मसञ्ज्ञितम् ॥ यत्तु मोक्षधर्मे आदौ मन अहङ्कारात् जायते वृत्तयस्चताः ॥ शब्दरागात् श्रोत्रमस्य जायते भावितात्मनः । रूपरागात् तथा चक्षुर्घ्राणं गन्धजिधृक्षया ॥ इत्यादिनेन्द्रियाणां मनोवृत्तिरागादिकार्यत्वं तद्वेदान्तरीत्यैवेति मन्तव्यम् । अधिभूतम् । यथाक्रमेण बोद्धव्यमभिमन्तव्यमेव च । सङ्कल्पितव्यं श्रोतव्यं स्प्रष्टव्यं द्रष्टव्यमेव च ॥ रसयितव्यं घ्रातव्यं गन्तव्यमुत्स्रष्टव्यं च । आनन्दयितव्यमित्येवमधिभूतं प्रकीर्तितम् ॥ अधिदैवतं च । ब्रह्मा रुद्रश्चन्द्रमाश्च आकाशो वायुरेव च । सूर्यो वरुण इन्द्रश्च विष्णुमित्रं तथैव च ॥ अनेनैव क्रमेणेदं सम्प्रोक्तमधिदैवतम् । चत्वारि यो वेदयते यथा च- क्षुषा स्वरूपाण्यधिदैवतं वा । विमुक्तयाथागतदोषसङ्गो- गुणांस्तु भुङ्क्ते न गुणैः स युज्यते ॥

पञ्चाभिबुद्धयः ॥ ८ ॥

इच्छाभिर्बुद्धिर्विज्ञेया आभिमुख्येन कर्मणः । इदं मे कार्यमित्येषोऽध्यवसायः करोम्यहम् ॥ इच्छा वाञ्छाऽथ सङ्कल्पो मनसः कर्म चेष्यते । एवमेताश्च पञ्चाभिबुद्धयः परिकीर्तिताः ॥

पञ्च कर्मयोनयः ॥ ९ ॥

धृतिः श्रद्धा सुखेच्छा विविदिषा तदभावकौ । सामान्यतः समुद्दिष्टाः पञ्चैते कर्मयोनयः ॥ वाचि कर्मणि संकल्पे प्रतीतिर्याभिरज्यते । तन्निष्ठस्तत्प्रतिष्ठश्च धृतेरेतद्धि लक्षणम् ॥ अनसूया ब्रह्मचर्यं यजनं याजनं तपः । प्रतिग्रहश्च होमश्च श्रद्धाया लक्षणं स्मृतम् ॥ सुखं सुखार्थी सेवेत विद्या कर्म तपांसि च । प्रायश्चित्तपरो नित्यं सुखेयं परिकीर्त्तिता ॥ विषधूममूर्छितवद् विविदिषा ध्यानिनां प्रज्ञायोनिः । एकत्वं च पृथक्त्वं च नित्यं वेदमचेतनम् ॥ सूक्ष्मसत्कार्यसंक्षोभ्यं ज्ञेया विविदिषा हि सा । कार्यकरणक्षमकरी विविदिषा प्राकृती वृत्तिः ॥ धृतिः श्रद्धा विविदिषा सुखा चेति चतुष्टयम् । ज्ञेयं बन्धो विविदिषा मोक्षाय परिकल्पिता । कर्मयोनिस्वरूपोऽयं विशिष्य परिकीर्त्तितः ॥

पञ्च वायवः ॥ १० ॥

प्राणोऽपानः समानश्च उदानो व्यान एव च । इत्येते वायवः पञ्च शरीरेषु शरीरिणाम् ॥ मुखनासाधिचारी यः प्राणनात् प्राण उच्यते । नाभेरधिचरत्येवोपानयेऽपान इष्यते ॥ हृद्यधिष्ठाननयनात् समान इति कीर्तितः । कण्ठादूर्ध्वावगमनादुदान इति च स्मृतः ॥ सन्ध्यधिष्ठानतो व्यानो विक्षेपणविजृम्भणात् ।

पञ्च कर्मात्मानः ॥ ११ ॥

वैकारिकादयः पूर्वं यथाक्रममुदाहृताः । शुभं वाऽशुभमूढौ च शुभमूढाऽशुभमूढके ॥ यथाक्रमं च कर्त्तारस्तत्तत्कर्म समीरितम् ।

पञ्चपर्वा अविद्या ॥ १२ ॥

तमो मोहो महामोहस्तामिस्रश्चान्धतामिस्रः ॥ अष्टकौ तौ तमौ मोहौ प्रकृत्यष्टकनिष्ठितौ । आत्मज्ञानाभिमान्येयं प्राप्त्याद्यैश्वर्यमानिता ॥ निर्वृत्ते विषये दृष्टे पञ्चानुश्रविके तथा । मोहोऽहमभिमानो यो महामोहो दशात्मकः ॥ अष्टैश्वर्ये दशविषये सिद्धतामिस्र उच्यते । विषादः सोऽन्धतामिस्रो मरणे प्रतिपद्यते ॥ अविद्या पञ्चपर्वैषा भिन्ना द्वाषष्टिभेदतः ।

अष्टाविंशतिधाऽशक्तिः ॥ १३ ॥

जडत्वकुष्टिकुब्जत्वरूपता- ऽघ्राणत्वमूकत्वसुपङ्गुताश्च । कुणिर्गुदावर्त्ति च षण्ढता च उन्माद इत्येष निरूपितोऽयम् ॥ एकादशेन्द्रियवधो बाधिर्यादिस्वरूपतः । बुद्धेर्वधः सप्तदश तुष्टिसिद्धिविपर्ययः ॥ नास्ति प्रधानमिति या प्रतिपत्तिरजम्भिका । न महानित्यसलिला नायाच्छा चानहंकृतौ ॥ न वाऽस्त्यदृष्टिस्तन्मात्रपञ्चकं भूतकारणम् । सर्वमेवेदं ब्रह्मेति ब्रह्मैव सन् ब्रह्माप्येति । यथा वेदान्तिनां तद्वत् सांख्यानामीदृशी मतिः ॥ असुता विषयार्जने प्रवृत्तिः सुतरा परिरक्षणे प्रवृत्तिः । क्रयदोषमपश्यतो धने प्रवृत्तिः असुनेत्रा परिकीर्त्त्यते हि सांख्यैः ॥ अकुर्मरीचिकाभोगशक्तिर्हिंसाद्यपश्यतः । अनुत्तम्भाम्भसिका दोषभोगादम्भः प्रवर्त्तनम् ॥ नवधा कथिता ह्येते तत्र तुष्टिर्विपर्ययाः । कथ्यन्ते सिद्धयो ह्यष्टौ तेऽमी सिद्धिविपर्ययाः ॥ नानात्वमूहमानस्य सिद्धमेकमतारकम् । विपरीतग्रहः शब्दश्रवणादसुतारकम् ॥ नानात्वज्ञो मुक्त इति श्रुत्वैकज्ञो न मुक्तिभाक् । अतारयन्तमज्ञानासदच्छास्त्रनिवेशतः । दुःखितस्याप्यनुद्वेगादप्रमोदा हि संसृतौ ॥ अप्रमुदं तदज्ञानप्रमुदितमप्रमोदमानं वा । असम्यग्वचनादप्युपरोधेन वा गुरौ ॥ अभाग्यस्य न सिद्धिः स्यात् ज्ञाने तत् समुदीरितम् । स्निग्धसंसर्गतो ज्ञानोत्तराज्ञानमरम्यकम् ॥ व्याख्याताः पूर्वरीत्याष्टावेते सिद्धिविपर्ययाः । अष्टाविंशतिधाऽशक्तिर्व्याख्यातोभययोगतः ॥

नवधा तुष्टिः ॥ १४ ॥

प्रकृतौ परमात्मत्वं प्रतिपद्यैव तुष्टिभाक् ॥ माध्यस्थ्यमवलम्बेत अम्भः सा तुष्टिरुच्यते । बुद्धौ च परमात्मत्वे तुष्टिः सा सलिला स्मृता ॥ अहंकारे यदा सा स्यादायाच्छा इति शब्धिता । तन्मात्रेषु यदा सा स्यात् तुष्टिर्दृष्टिर्निगद्यते ॥ आध्यात्मिकाश्चतस्रस्तु तुष्टयः प्रभवन्ति हि । मोक्षस्तास्वपि नास्त्येव तत्त्वज्ञानाद्यथोदिता ॥ अर्थानामर्जने दुःखमर्जितानां च रक्षणे । त्यागे दुःखं क्षये दुःखं धिगर्थं दुःखभाजनम् ॥ इति दोषदर्शनसन्तुष्टः परब्रह्मैव मोक्षभाक् । सुतेयं पञ्चमी तुष्टिस्तत्त्वज्ञानाद्यभावतः ॥ रक्षणे सुतरा षष्ठी सप्तमी क्षयदर्शनात् । सुनेत्रा सङ्गदोषा चाष्टमी कुर्मरीचिका ॥ अर्थे हिंसादिदोषेण निवृत्तिश्च समस्करी । तुष्टिस्तु नवमी प्रोक्ता ह्युत्तमाम्भसिका तव ॥

अष्टधा सिद्धिः ॥ १५ ॥

ज्ञानं यद्दूरमुत्पन्नं ताराख्या प्रथमा हि सा । शब्दमात्रेण भूतेषु सुतारा ज्ञानमिष्यते ॥ ज्ञानमध्ययनेनैव तारयन्ती तृतीयका । अध्यात्मदुःखापनयात् प्रमोदेत्यभिधीयते ॥ भौतिकक्लेशहरणात् प्रमुदा सिद्धिरुच्यते । आधिदैवक्लेशहरणात् ज्ञानमुत्पद्यते नृणाम् ॥ प्रमोदमानेत्याख्याता षष्ठी सिद्धिः स्वयं सताम् । स्निग्धसंसर्गनाशात्तु रम्यका सप्तमी स्मृता ॥ प्रमुदा चाष्टमी सिद्धिः परिचर्यादिना गुरोः । इत्येताः सिद्धयो ह्यष्टौ व्याख्याताः ज्ञानसाधिकाः ॥

दश मूलिकार्थाः ॥ १६ ॥

अस्तित्वमेकत्वयथार्थवत्त्वे पारार्थ्यमन्यत्वमकर्तृकत्वम् । योगो वियोगो बहवः पुमांसः स्थितिः शरीरस्य च शेषवृत्तिः ॥ एषा सा दशमूलिकाऽर्थगणना सङ्घातपारार्थ्यतः सिद्धा सा पुरुषास्तिता परिणतेर्भेदस्य तत्कारणम् । अस्त्यव्यक्तमनन्तमेकमिति च प्रेमाविषादात्मकं नानापायपरार्थता त्रिगुणतोऽन्यत्वस्य सिद्धिस्तथा ॥ विपर्यासादकर्तृत्वं योगः पुरुषदर्शनात् । प्राप्ते शरीरभेदे तु चरितार्थत्वदर्शनात् ॥ जन्मादिकरणान्तानां भेदान्नाना हि ते स्मृताः । चक्रभ्रमिवत् शेषवृत्तिः सिद्धार्थाः दश मूलिकाः ॥ सप्तत्या प्रागुपदिष्टाः पञ्चाशत् प्रत्यया इमे । दशषष्टिपदार्थैस्तु षष्टितन्त्र इतीर्यते ॥

अनुग्रहसर्गः ॥ १७ ॥

ब्रह्मानुग्रहमसृजद्रूपतन्मात्रतः पृथक् । उत्पाद्यानुग्रहध्यानात् प्राक्तनाधारवर्जनात् ॥

चतुर्दशविधो भूतसर्गः ॥ १८ ॥

अष्टविकल्पं दैवं पैशाचं राक्षसं तद्वत् । गान्धर्वमैन्द्रं ब्राह्मं च सौम्यं ब्राह्म्यमथाष्टकम् ॥ देवयोनय एवैते तिर्यग्योनिस्तु पञ्चधा । मृगपशुपक्षिसरीसृपस्थावरमिति भेदसम्भिना ॥ मानुष्यकं चैकविधं ब्राह्मणादिचाण्डालान्तम् । पशवो गवादिमूषान्ताः पक्षिणो गरूडादिकाः ॥ मशकान्ता मृगाश्चापि सिंहादि च शिवान्तिकाः । शेषादि अलगर्दान्ताः सर्पाः पर्वतभूतृणाः ॥ स्थावरा भौतिकः सर्ग एतत्संसारमण्डलम् ॥

त्रिविधो बन्धः ॥ १९ ॥

प्रकृतिबन्धः प्रकृतिलयः परत्वेनाभिमन्यतः । संन्यासिनामिन्द्रियेषु लयो वैकारिकोऽपरः ॥ गृहीणां दक्षिणाबन्धो वदान्यत्वाभिमानिनाम् । इत्येषस्त्रिविधो बन्धस्त्रिविधो मोक्ष उच्यते ॥

त्रिविधो मोक्षः ॥ २० ॥

ज्ञानोद्रेकादुपरतेश्च धर्माधर्मक्षयो भवेत् । धर्माधर्मक्षयाच्चाथ कैवल्यमिति गीयते ॥ तदुक्तम् । आद्यो हि मोक्षो ज्ञानेन द्वितीयो रागसंक्षयात् । कृत्स्नक्षयात् तृतीयस्तु व्याख्यातं मोक्षलक्षणम् ॥

त्रिविधं प्रमाणम् ॥ २१ ॥

दृष्टमनुमानमाप्तवचनं चैतत् प्रमाणकम् । पञ्चेन्द्रियाणि प्रत्यक्षं वृष्टिर्मेघोदयेन तु ॥ अनुमानमिन्द्रो देवानां राजाशब्दः प्रमापकः ॥ आगमेऽपि, स्वकर्मभिर्विनिर्मुक्तो रागद्वेषविवर्जितः ॥ ज्ञानवान् शीलसम्पन्नः सोऽपि ज्ञेयश्च तादृशः ॥

त्रिविधं दुःखम् ॥ २२ ॥

दुःखं तु त्रिविधं प्रोक्तमध्यात्ममधिभूतकम् । आधिदैवं च तत्रापि प्रथमं द्विविधं स्मृतम् ॥ शारीरं मानसं चेति वातकामादिदोषजम् । भूतेभ्यो मानुषादिभ्यो जातं स्यादाधिभौतिकम् ॥ देवेभ्यः शीतवातादिभवं स्यादाधिदैविकम् । एतत् समासतः प्रोक्ता सूत्रव्याख्या यथामति ॥ प्रक्रियां च प्रवक्ष्यामि पौराणिकहिताय वै ॥

एतत् परम्परया याथातथ्यम् ॥ २३ ॥

एतत् सर्वं ज्ञात्वा कृतकृत्यः स्यात् ॥ २४ ॥

न पुनस्त्रिविधेन दुःखेनाभिभूयते ॥ २५ ॥

महान् अहंकारः पञ्च तन्मात्राणि अव्यक्तसंज्ञानि भवन्ति महच्छब्देन हैरण्यगर्भो बुद्धिरुच्यते । प्रधानं मूलमव्यक्तसंज्ञम् । ज्ञः पुरुषः । एतानि पञ्चविंशतितत्त्वानि । तत्र प्रधानं कारणमेव न कार्यम् । महदादयः सप्त पूर्वपूर्वस्य कार्याणि उत्तरोत्तरस्य कारणानि । इन्द्रियाण्येकादश पञ्च महाभूतानि कार्याण्येव न कारणानि । पुरुषस्तु न कार्यं न वा कारणम् । तदुक्तम् मूलप्रकृतिरित्यादि । महान् अहंकारः पञ्च तन्मात्राणि सप्त प्रकृतिविकृतयः । प्रधानाद् बुद्धिर्जायत इति प्रधानविकारः सैवाहङ्कारं जनयतीति प्रकृतिः अहङ्कारोऽपि बुद्धेर्जायत इति विकृतिः सोऽपि एकादशेन्द्रियाणि पञ्च तन्मात्राणि जनयतीति प्रकृतिः ॥ तत्र शब्दतनमात्रमहंकाराज्जायत इति विकृतिस्तस्मादाकाशं जायत इति शब्दतन्मात्रं प्रकृतिः । तथा स्पर्शतन्मात्रमहंकाराज्जायत इति विकृतिः तदेव वायुं जनयतीति प्रकृतिः । एवं रूपतन्मात्रमहंकाराज्जायत इति विकृतिः तदेव तेजो जनयतीति प्रकृतिः । रसतन्मात्रमहङ्काराज्जायत इति विकृतिस्तदेवाम्भो जनयतीति प्रकृतिः । तथा गन्धतन्मात्रमहंकाराज्जायत इति विकृतिः तदेवावनिं जनयतीति प्रकृतिः ॥ एतानि पञ्च तन्मात्राणि सूक्ष्मभूतानि स्थूलभूतानां कारणानि षोडशकश्च विकारः । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकादशं मनः पञ्च महाभूतानि एष षोडशको गणो विकार एव न प्रकृतिः । पुरुषस्तु नोभयमित्यर्थः ॥ प्रत्यक्षानुमानशब्दरूपं त्रिविधं प्रमाणम् । तत्र प्रत्यक्षं तावत् श्रोत्रादिपञ्चकं लोकोचितशब्दादिगुणग्राहकम् । अनुमानं चाप्रत्यक्षार्थग्राहकं धूमादि । शब्दस्तावत् त्रिविधो भवति वागिन्द्रियविषयः श्रोत्रविषयो बुद्धिमात्रविषयश्च । तेषु कण्ठताल्वादिस्थलावच्छिन्नः शब्दो वागीन्द्रियविषयः तत्कार्यत्वात् वागिन्द्रियव्यवहितश्रोत्रस्थश्च शब्दतः शब्दः श्रोत्रस्य विषयस्तद्ग्राह्यत्वात् । घट इत्यादिपदानि तु बुद्धिमात्रस्य विषयः वक्ष्यमाणयुक्त्या बुद्धिमात्रग्राह्यत्वात् ॥ तानि पदान्येवार्थस्य करणत्वात् स्फोट इत्युच्यते । तद्दि पदं वागिन्द्रियोच्चार्यप्रत्येकवर्णेभ्योऽतिरिक्तं वर्णानामाशुतरविनाशितया मेलनाभावेनैकं पदमिति व्यवहारगोचरत्वासम्भवात् अर्थस्मारकत्वासम्भवाच्च । अस्य च स्फोटस्य कारणमेकः प्रयत्नविशेषः प्रयत्नभेदेनोच्चारणे सति एकपदव्यवहाराभावादर्थाप्रत्ययाच्च तस्य च स्फोटस्य व्यञ्जक आनुपूर्वीविशिष्टतया अन्त्यवर्णप्रत्ययः अतश्च बुद्धेरेव स्फोटग्राहकत्वम् आनुपूर्व्या बुद्ध्यैव ग्रहणसम्भवेन सामानाधिकरण्यप्रत्यासत्त्यैवानुपूर्वीप्रत्ययस्य स्फोटाख्यपदाभिव्यक्तिहेतुत्वे लाघवात् । अत एव स्फोटः श्रोत्रेण ग्रहीतुं न शक्यते घोत्तरटत्वादिररूपिण्या आनुपूर्व्याः श्रोत्रेण ग्रहणासम्भवात् आशुतरविनाशितया वर्णानां मेलनासम्भवात् पूर्वपूर्ववर्णसंस्काराणां तत्स्मृतीनां चान्तःकरणनिष्ठानामन्तःकरणसहकारित्वस्यैवौचित्यादिति । स्यादेतत् स्फोटव्यञ्जकस्यानुपूर्वीविशिष्टचरमवर्णस्यैव पदत्वमर्थप्रत्यायकत्वं वाऽस्तु अलं स्फोटेन तद्धेतोरेव तदस्त्विति न्यायात् । एतदेव सांख्यसूत्रेणोक्तं प्रतीत्यप्रतीतिभ्यां न स्फोटात्मकः शब्द इति । एकत्वप्रत्ययोऽप्यानुपूर्वीविशिष्टचरमवर्णस्यैकत्वेनोपपद्यते ॥ अत्रोच्यते । एवं सत्यवयव्युच्छेदप्रसङ्गः । असमवायिकारणसंयोगविशेषावच्छिन्नानामवयवानामेव जलाद्याहरणहेतुत्वकल्पनायां लाघवात् तद्धेतोरेव तदस्त्विति न्यायसाम्यात् एको घट इत्यादिप्रत्ययानामप्येकं वनमित्यादिप्रत्ययवदुपपत्तेः । अथ परमाणूनां तत्संयोगानां चातीन्द्रियतया तद्रूपत्वेऽवयविनः प्रत्यक्षानुपपत्तिरित्यादिकमवयविसाधकमिति चेत् तुल्यं स्फोटेऽपि आनुपूर्व्याः क्षणाद्यतीन्द्रियघटिततया आनुपूर्वीविशिष्टचरमवर्णात्मकत्वे पदस्य प्रत्यक्षानुपपत्तिरित्यादिकं स्फोटसाधकमिति । अपि च स्फोटशब्दोऽस्माभिः श्रुतिप्रमाणेनैव स्वर्गादिवत् कल्प्यते इत्यतस्तत्र लौकिकप्रमाणाभावेऽपि न क्षतिः ॥ तथाहि प्रणवस्याकारोकारमकाररूपमात्रात्रयं ब्रह्मादिदेवतात्रयात्मकमुक्त्वा प्रणवं देवतात्रयातिरिक्तपरब्रह्मात्मकं चतुर्थमात्रां श्रुतय आमनन्ति । सा चतुर्थी मात्रा वर्णत्रयादतिरिक्तः स्फोट एव सम्भवति सैव चार्द्धमात्रेत्युच्यते राशिवदविभक्तयोर्वर्णपदयोर्वर्णा एकमर्द्धं पदं चान्यदर्द्धमित्युपपद्यते । यथा चावयवेभ्यो विविच्यावयवी न व्यवहार्यो भवति एवमेव प्रत्येकवर्णेभ्यो विविच्य पदमुच्चारयितुं न शक्यत इति । अतः स्मर्यते ᳚अर्द्धमात्रा स्थिता नित्या यानुच्चार्या विशेषत᳚ इति ॥ ननु स्यादेवमर्द्धमात्रोपपत्तिः । नादबिन्दोस्तु किं स्वरूपम् उच्यते । प्रणवे उच्चार्यमाणे शङ्खनादवेणुनादादिवद्यः स्वरविशेषो भवति स नादः या च नादस्योपरमावस्था अतिसूक्ष्मा सा शून्यतुल्यतया बिन्दुरुच्यत इति । तस्मादवयवेभ्योऽवयवीव वर्णेभ्योऽतिरिक्तं पदं तदेव स्फोट इति सिद्धम् । नन्वेवं वाक्यमपि स्फोटः स्यादिति चेन्न बाधकाभावे सतीष्यतामिति दिक् ॥ शब्दस्तावत् यथोदेष्टृपुरुषवाक्यलक्षणः इन्द्रो देवराडित्यादिः । अर्थापत्तिसम्भवाभावैतिह्यप्रतिभोपमानानि यदि प्रमाणानि तर्ह्यत्रैवान्तर्भाव्यानि न पृथक् । प्रकृतिपुरुषौ विद्यमानावपि नोपलभ्येते सूक्ष्मत्वात् यथाकाशे धूमोष्मनीहारपरमाणवः सन्तोऽपि नोपलभ्यन्ते । महदादिकार्यदर्शनेन तत्कारणमिव प्रधानमनुमीयते । त्रिगुणप्रधानजन्यं महदादिकार्यं किञ्चित्प्रकृतिसदृशं किञ्चिद्विकृतिसदृशं लोके उभयथा पुत्त्ररूपकार्यदर्शनात् । तच्च कार्यं सत् नासत् न सदसत् नानिर्वचनीयम् अत्यन्तासत्त्वे सिकताभ्योऽपि तैलमुत्पद्येत । अन्यौ च पक्षौ विरुद्धावेव अव्यक्तसञ्ज्ञं प्रधानं स्वतन्त्रं व्यापि नित्यं च व्यक्तसञ्ज्ञं कार्यमस्वतन्त्रमव्यापि अनित्यं च । पुरुषः स्वतन्त्रो व्यापी नित्यश्च । त्रयाणां लोकानां कारणं प्रधानं तच्चैकं लाघवात् । प्रलयकाले महदादिकार्यं प्रधाने लीयते । तच्च प्रधानं सत्त्वरजस्तमोमयम् । गुणत्रयसाम्यावस्था प्रकृतिः । प्रधानमचेतनं पुरुषस्तु चेतनः । व्यक्तप्रधानविलक्षणः शुद्धो गुणरहितः । कार्यस्य सुखदुःखमोहजनकत्वेन तत्र कारणीभूतानि सत्त्वरजस्तमांसि अनुमेयानि । दृष्टं च यथाक्रमं भर्तृसपत्नीविटेषु सुखदुःखमोहजनकत्वं कामिन्याः । त्रिगुणमयेऽपि कार्ये यदा सत्त्वमुद्रिक्तं भवति जनादृष्टात् तदा रजस्तमसी अभिभूय स्वकार्यं सुखं जनयति । एवं यदा रज उद्रिक्तं भवति तदा सत्त्वतमसी अभिभूय स्वकार्यं जनयति दुःखम् । एवं यदा तम उद्रिक्तं भवति तदा सत्त्वरजसी अभिभूय स्वकार्यं मोहं जनयति ॥ दुःखं त्रिविधम् आध्यात्मिकाधिभौतिकाधिदैविकभेदात् । तथाहि तत्र आध्यात्मिकं द्विरूपं शारीरं मानसं चेति । शारीरं तावत् वातपित्तश्लेष्मविपर्ययकृतं ज्वरातीसारादि । मानसं तु प्रियवियोगाप्रियसंयोगादिजम् । आधिभौतिकं तु चतुर्द्धाभूतग्रामनिमित्तं पशुपक्षिमृगमनुष्यसरीसृपदंशयूकामत्कुणस्थावरेभ्यो जरायुजाण्डजस्वेदजोद्भिज्जेभ्यो जायते । दिवः प्रभवति तद्दैवं तदधिकृत्य यज्जायते तदाधिदैविकं शीतोष्णवातवर्षाशनिपातजम् । समुदिततन्तवः पटमिव गुणसमुदायात्मकं प्रधानम् महदादिकार्यं जनयति । एकरसमपि यथा आकाशसलिलं वाप्यादौ पतितं सत् वाप्यादिसंश्लेषात् रसान्तरमापद्यते तथा एकरूपादपि प्रधानाद्देवादयः क्रमेण सुखिनो दुःखिनो अत्यन्तमूढाश्च भवन्ति । तथा सत्त्वौत्कट्याद्रजस्तमसोरौदासीन्याद्देवाः अत्यन्तं सुखिनः । रजस औत्कट्यात् सत्त्वतमसोरौदासीन्यान्मनुष्याः अत्यन्तं दुःखिनः । तमस औत्कट्यात् सत्त्वरजसोरौदासीन्यात्तिर्यञ्चः अत्यन्तं मूढाः । महदादिसङ्घातः भोक्तृसापेक्षः भोग्यत्वात् पर्यङ्कवत् । महदादिसङ्घः पराधीनः अचेतनत्वात् मालावत् । एवं पुरुषोऽनुमीयते । स च नाना जन्ममरणकरणानां प्रत्येकं भेदात् । अयमर्थः । एकस्य मरणे सर्वे म्रियेरन् यद्येक एव आत्मा स्यात् एकस्य च जन्मनि सर्वे जायेरन् एकस्य करणवैकल्ये सर्वे करणवैकल्यवन्तः स्युः । न चैवं दृश्यते तस्मान्नाना । पञ्चविंशतितत्त्वगोचरसम्यग्ज्ञानात् पुरुषस्य कैवल्यं भवति । तच्चान्यत्वं प्रधानादिभेद इति यावत् । अविवेकात् संसारः विवेकात् कैवल्यम् । अर्थतः अख्यातिवादाङ्गीकारः । अत एव इदं रजतमिति ज्ञानं न भ्रमः किंतु स्वरूपतः अर्थतश्च अविविक्तं ज्ञानद्वयम् । यस्य यादृशमिदं रजतमिति रजतज्ञानविषयीभूतं तस्य तादृशमेव जगदिति निर्णयः ॥ अत एव वस्तुतस्तात्त्विकोऽन्यथाभावः परिणाम इत्येव लक्षणलक्षितः परिणामोऽङ्गाकृतः स च पुरुषः प्रतिशरीरं नानेत्यत्रादि स्म अविकारित्वात् । वस्तुतोऽकर्त्ता मुक्तवत् साक्षिवदुदासीनः । सत्त्वरजस्तमांसि कर्तॄणि कर्माण्यपि भवन्ति । अकर्त्ताऽपि पुरुषः कर्त्तेव व्यवह्रियते । अचोरश्चोरैः सह धृतश्चोर एव । गुणाभेदात् प्रकृतिः कर्त्री न पुरुषः । दर्शनशक्तिमतः क्रियाशक्तिरहितस्य पुरुषस्य प्रधानेन सह संयोगः महदादिभूतपर्यन्तं प्रधानं द्रष्टुम् । दर्शनशक्तिरहितस्य क्रियाशक्तिमतः प्रधानस्यापि पुरुषेण संयोगः मोक्षार्थं पुरुषस्य भिन्नत्वेन व्यक्ताव्यक्तपुरुषज्ञाने जाते प्रधानस्य मोक्षो भवति । नित्यसुखोपलब्धिर्मोक्ष इति चेदुपलब्धेरपि नित्यानित्यविवेकग्रस्तत्वादसारम् । न च नित्यसुखगोचरस्याविद्यादियत्किञ्चिदावरणभङ्ग एव पुरुषार्थो वाच्यः सुखानुभवस्यैव पुरुषार्थत्वाच्चैतन्यनित्यत्वेनावरणस्यापि असम्भवाच्च । मोक्षे परमानन्दश्रुतिस्मृतयस्तु मोक्षशास्त्रपरिभाषामात्रा । दुःखमेवास्ति न सुखं यस्मात् तदुपलभ्यते । दुःखार्त्तस्य प्रतीकारे सुखसञ्ज्ञा विधीयते ॥ दुःखं कामसुखापेक्षा सुखं दुःखात्ययः स्मृतः ॥ इत्यादिस्मृतिभिर्दुःखनिवृत्तिरेव सुखत्वेन परिभाषिता । सांख्यसूत्रमपि दुःखनिवृत्तिर्गौण इति विमुक्तिप्रशंसा मन्दानामिति च । आनन्दावाप्तिस्तु गौणमोक्षो ब्रह्मलोके भवति इति पश्चात् कृतार्थयोः प्रधानपुरुषयोर्वियोगो भवति अन्धपङ्गुसंयोगवत् । तथाहि एकः पङ्गुरपरश्चान्धः द्वावप्येतौ दुष्टे पथि गच्छन्तौ महता सार्थेन सह दैवाद्बन्धुभिः परित्यक्तौ यथायोगं गमनशक्तिदर्शनशक्तिरहितौ दर्शनार्थं गमनार्थं च संयुक्तौ भवतः । तथा चान्धेन पङ्गुः स्कन्धमारोपितस्तद्दर्शितमार्गेणान्धो याति पङ्गुश्चान्धस्कन्धारूढः सन् याति । पश्चात् स्वस्वदेशप्राप्त्यनन्तरं कृतार्थौ सन्तौ वियुक्तौ भवतः । तथा च प्रधानं पुरुषस्य मोक्षं कृत्वा निवर्त्तते । पुरुषो न प्रवर्त्तते नापि निवर्त्तते । द्रष्टा भोक्ता च पुरुषः । भोगश्चिदवसानता लक्षणः । न क्रियावेशात्मा स च पुरुषः अनाद्यविवेकात् संसरति । सच्छास्त्रश्रवणेन गुर्वनुग्रहेण च निर्विचिकित्सो विवेकज्ञाने जाते मुच्यते । प्रकृतिपुरुषसंयोगात् संसारः सञ्जायते । स्त्रीपुरुषसंयोगादपत्यमिव प्रकृतेर्महत्तत्वं जायते । महत्तत्वादहङ्कारो जायते । स च त्रिविधः वैकारिको भूतादिस्तैजसश्च । यो हि वैकरिकः स एव सात्त्विकः यो भूतादिः स एव तामसः । यो हि तैजसः स एव राजसः तत्र वैकारिकादहङ्कारादेकादशेन्द्रियाणि तदभिमानिन्यो देवताश्च जायन्ते । भूतादेश्चाहंकारात् तन्मात्राणि जायन्ते तैजसादहंकारादेकादशेन्द्रियगणस्तन्मात्रपञ्चकं च जायते । एतद्गणद्वयस्य यथासंख्यं वैकारिकाद्भूतादेश्चाहंकाराज्जातत्वात् कथं पुनरुत्पत्तिरुच्यत इति चेच्छृणु । यदा रजस्तमसी अभिभूय सत्त्वगुण उत्कटो वैकरिकसञ्ज्ञां लभमानोऽहंकारोऽप्रवृत्तिधर्मा तैजसाहंकारं सहायीकृत्य प्रवृत्तिधर्माण्येकादशेन्द्रियाणि जनयति तदा तानि स्वसाहाय्यच्छलमधिगम्य तैजसस्वरूपेणापिकृतानीत्युच्यते । यदा च सत्त्वरजसी अभिभूय तमोगुणोत्कटो भूतादिस्तैजसाहंकारस्य रूपं सहायीकृत्य तन्मात्रपञ्चकं प्रवृत्तिधर्मकं करोति तदा तत्तन्मात्रपञ्चकं स्वसाहाय्येनैव तैजसेनापि कृतमित्युच्यते तस्मात् प्रवृत्तिधर्मकात् तत्तन्मात्रपञ्चकाद् भूतपञ्चकमुत्पद्यते । एष परिणामक्रमः । वैकारिकादेकादशेन्द्रियाणि भूतादेस्तन्मात्रपञ्चकमिति ॥ अयमर्थः । वैकारिकस्य भूतादेश्च स्वस्वप्रवृत्तिधर्मककार्यद्वयस्य यथासंख्यं जनने तैजसाहंकारस्य साहाय्यम् । तैजसाहंकारस्य साहाय्यकरणादेव एतद्गणद्वयलक्षणककार्यस्य प्रवृत्तिधर्मकत्वम् । बुद्धिजनकानीन्द्रियाणि बुद्धीन्द्रियाणि तानि चक्षुःश्रोत्रघ्राणरसनत्वगिन्द्रियाणि । तेषां च विषयाः रूपशब्दगन्धरसस्पर्शाः । कर्म कुर्वन्तीति कर्मेन्द्रियाणि तानि च वाक्पाणिपादपायूपस्थानि । तेषां च विषयाः वाग्वदनादानगमनोत्सर्गानन्दाः । मनो बुद्धीन्द्रियं कर्मेन्द्रियं च यतो बुद्धीन्द्रियाणां वृत्तिं संकल्पयति कर्मेन्द्रियाणां च अत उभयात्मकं मनः । मनोऽपि विभु धर्माधर्मवासनाश्रयतः प्रतिपुरुषमन्तःकरणं नित्यमाकाशवत् । न च प्रकृतिधर्मा एव सन्त्वदृष्टादय इति वाच्यम् अन्यनिष्ठादृष्टादिभिरन्यत्र सुखदुःखाद्युत्पादेऽतिप्रसङ्गात् । तच्च नाणु संभवति योगिनां सर्वावच्छेदेन एकदाऽखिलसाक्षात्कारासम्भवात् । न च योगिनां योगजधर्म एव प्रत्यासत्तिः स्यात् संयोगसंयुक्तसमवायादिलौकिकप्रत्यासत्त्यैवोपपत्तौ सन्निकर्षान्तरकल्पने मानाभावात् गौरवाच्च अन्योन्यव्यभिचाराच्च । साक्षात्कारेष्ववान्तरजातिकल्पने जातिसाङ्कर्यात् अतिगौरवाच्च । योगिमते सर्वार्थग्रहणसमर्थस्यान्तःकरणस्य तमआख्यावरणभङ्ग एव योगजधर्मादिभिः क्रियते सुषुप्तौ तमसो वृत्तिप्रतिबन्धकत्वसिद्धेरिति नाप्यन्तःकरणं मध्यमपरिमाणमात्रं सम्भवति प्रलये विनाशेनादृष्टाद्याधारतानुपपत्तेः अतः परिशेषतोऽन्तःकरणं विभ्वेव सिद्यति तदुक्तम् । चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् । द्वाभ्यां शून्यतमं विद्धि चिदाकाशं वरानने ॥ स्यादेतत् । अन्तःकरणस्य विभुत्वे परिच्छिन्नवृत्तिलाभस्यावरणेनोपपत्तावपि लोकान्तरगमनादिकं नोपपद्यते । अत एव सांख्यसूत्रम् ᳚न व्यापकं मनः करणत्वा᳚दिति । तद्गतिश्रुतेरिति वेति किं चैवं सति लाघवात् चैतन्यस्यैवावरणकल्पनमुचितं किमर्थं विभ्वन्तःकरणं परिकल्प्यते तत्र ज्ञानप्रतिबन्धकमावरणं कल्प्यते ॥ अत्रोच्यते । गतिश्रुतिस्तावत् आत्मनीवान्तःकरणेऽपि प्राणेन्द्रियाद्युपाधिनोपपद्यते कार्यकारणरूपेणान्तःकरणद्वैतात् । कार्यान्तःकरणस्य स्वतोऽपि गतिरुपपद्यते कार्यकारणरूपेणान्तःकरणद्वैतं च सांख्यैरप्येष्टव्यम् केवलकार्यत्वेऽन्तःकरणधर्मत्वं धर्मादीनामिति सांख्यसूत्रानुपपत्तेः । केवलनित्यत्वे च महदाद्युत्पत्तिसूत्रानुपपत्तेः यत्तूक्तं चैतन्यस्यैवावरणकल्पनं युक्तमिति तदयुक्तम् । कूटस्थचैतन्यस्य ज्ञानप्रतिबन्धरूपावरणासम्भवात् । न च चैतन्यस्यार्थसम्बन्ध एव प्रतिबिम्बादिरूपे प्रतिबन्धकं कल्पनीयमिति वाच्यम् एवमप्यात्मदर्शनानुपपत्तेः करणद्वारं विना स्वस्मिन् प्रतिबिम्बादिरूपेण स्वस्वसम्बन्धासम्भवात् । अपि च इच्छाकृत्याद्याधारतयाऽन्तःकरणे सिद्धे स्वप्नादावन्तर्दृश्यमानघटादयोऽपि तस्यैव परिणामाः कल्प्यन्ते कार्यकारणयोः सामानाधिकरण्यौचित्यात् । एवं च घटाद्याकारपरिणताश्चैतन्ये भासन्ते तदविभागेनैव बाह्यघटादिकं भासतेऽतस्तादृशपरिणामप्रतिबन्धकमेवावरणं तत्रैव युक्तं किञ्च बाह्यकरणस्यावरणदर्शनेनान्तरावरणस्यापि करणनिष्ठत्वं चानुमीयते आत्मनोऽनावृतत्वं श्रुतिस्मृतिभ्यां चेति । नन्वन्तःकरणस्य विभुत्वे सति कथं कार्यत्वं स्यादिति चेन्न विभ्व्या अपि आकशप्रकृतेः कार्याकाशरूपपरिच्छिन्नपरिणामवद् गुणान्तरसम्भेदेनान्तःकरणप्रकृतेरपि परिच्छिन्नान्तःकरणरूपपरिणामोपपत्तिः श्रुतिस्मृतिप्रामाण्याच्चैतदिष्यत इति दिक् ॥ मनसः सङ्कल्पो विषयः । एतान्येकादश वैकृताहंकाराज्जातानि इत्यवादि स्मैव बुद्धिप्रतिबिम्बितमर्थं पुरुष उपलभते । तदुक्तं बुद्धिस्थमर्थं पुरुषश्चेतयते । अहं धर्मं करिष्यामीत्यध्यवसायो बुद्धेर्लक्षणम् । धर्मो ज्ञानं विरागः ऐश्वर्यमेतत् सात्त्विकबुद्धेः । तद्विपरीतमविरागादि तामसम् ॥ पञ्चविंशतितत्त्वैरेव जगद्व्याप्तं न न्यूनैर्नाधिकैश्च वत्सविवृद्धिनिमित्तं क्षीरस्येव अज्ञस्यापि प्रधानस्य पुरुषमोक्षार्थं प्रवृत्तिरुचितैव । लिङ्गशरीरं तु बुद्ध्यहंकारमनोबुद्धीन्द्रियकर्मेन्द्रियपञ्चतन्मात्राणामष्टादशानां समुदायः त्रयोविंशतितत्त्वमध्ये पञ्चभूतानि वर्जयित्वा अहंकारं च बुद्धौ प्रवेश्य सप्तदशकं लिङ्गशरीरसञ्ज्ञं भवति वह्नेरिन्धनवदात्मनोऽभिव्यक्तिस्थानवात् । तच्च सर्वपुरुषाणां सर्गादावुत्पद्य प्राकृतप्रलयपर्यन्तं तिष्ठति तेन चैवेह लोकपरलोकयोः संसरणं जीवानां भवति । प्राणश्च बुद्धेरेव वृत्तिभेद इत्यतो न लिङ्गशरीरात् पृथङ् निर्दिश्यते तस्य च लिङ्गशरीरस्य सूक्ष्माणि पञ्च भूतानि आश्रयश्चित्रादिवदाश्रयं विना परमसूक्ष्मस्य लोकान्तरगमनासम्भवात् ॥ इदं च लिङ्गशरीरमादौ स्वयंभुव उपाधिभूतमेकमेव जायते तस्यैव विराडाख्यवक्ष्यमाणस्थूलशरीरवत् ततश्च व्यष्टिजीवानामुपाधिभूतानि व्यष्टिलिङ्गशरीराणि तदंशभूतानि ततो विभज्यन्ते । पितुर्लिङ्गशरीरात् पुत्त्रलिङ्गशरीरवत् । तदुक्तं सूत्रकारेण । व्यक्तिभेदः कर्मविशेषादिति मनुनाप्युक्तम् । तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ इति । षण्णामिति षडिन्द्रियं समस्तलिङ्गशरीरोपलक्षकम् तथा च स्वयम्भूः स्वलिङ्गशरीरावयवान् सूक्ष्मानल्पान् आत्ममात्रासु स्वांशचेतनेषु संयोज्य सर्वप्राणिनः ससर्ज्जेत्यर्थ इति लिङ्गशरीरम् । स्थूलशरीरोत्पत्तिस्तु दशगुणितमहत्तत्त्वमध्येऽहंकारस्तस्यापि दशगुणितस्य मध्ये व्योम्नोऽपि दशगुणितस्य मध्ये वायुर्वायोरपि दशगुणितस्य मध्ये तेजस्तेजसोऽपि दशगुणितस्य मध्ये जलं जलस्यापि दशगुणितस्य मध्ये पृथिवी समुत्पद्यते सैव च स्थूलशरीरस्य बीजं तदेव च पृथिवीरूपं बीजमण्डरूपेण परिणमते तस्यापि दशगुणिताण्डरूपस्य पृथिव्यावरणस्य मध्ये चतुर्दशभुवनात्मकं स्वयम्भुवः स्थूलशरीरं तत्संकल्पादेवोत्पद्यते तेनैव शरीरेण स्वयम्भूर्नारायण इत्युच्यते । तदुक्तं मनुना स्वयम्भुवं प्रकृत्य । सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिन् यज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तत ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ इत्यादिनेति । तत एव चादिपुरुषात् व्यष्टिपुरुषाणां विभागादन्ते च तत्रैव लयात् स एव चैक आत्मेति श्रुतिस्मृत्योर्व्यवह्रियते अतो न व्यवहारपरतया नारायण एव सर्वभूतानामात्मेत्यादिश्रुतिस्मृतिविरोध इति । ततश्च स नारायणो विराट्शरीरी स्वनाभिकमलकर्णिकास्थानीयस्य सुमेरोरुपरि चतुर्मुखाख्यं स्वयंभुवं सृष्ट्वा तद्द्वारान्यानपि व्यष्टिशरीरिणः स्थावरान्तान् ससर्ज तदुक्तम् - तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह । क्षेत्रज्ञाः समजायन्त गात्रेभ्यस्तस्य धीमतः ॥ इति । यत्तु शेषशायिनो नारायणस्य नाभिकमलश्रोत्रचक्षुरादिभ्यश्चतुर्मुखस्याविर्भावः श्रूयते तद्दैन्यन्दिनसर्गेष्वेव कल्पभेदेन मन्तव्यम् । दैनन्दिनप्रलयेष्वेव हि नारायणशरीरे प्रविश्यैकीभूय सुप्तानां देवानां चतुर्मुखादिक्रमेणाविर्भावः शेषशायिनः सकाशात् घटते न त्वादिसर्गेषु दैनन्दिनप्रलय एव लीलाविग्रहेण शयनादिति ॥ तदेवं संक्षेपतश्चतुर्विंशतितत्त्वानि तेषां सृष्टिक्षयं प्रयोजनं चोक्तम् । तत्र यद्यस्माज्जायते तस्य तदाऽऽपूरणेनैव स्थितिः ततस्तस्य संहारोऽपि तत्रैव भवति । तथा च भारते । यद्यस्माज्जायते तत्त्वं तच्च तत्र प्रलीयते । लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ इति । एते च सृष्टिस्थितिसंहाररूपाः स्थूला एव परिणामाश्चतुर्विंशतितत्त्वानां कूटस्थपुरुषविवेकाय प्रदर्शिताः सूक्ष्मा अप्यन्ये प्रतिक्षणपरिणामा एतेषां स्मर्यन्ते । नित्यदाह्यङ्गभूतानि भवन्ति न भवन्ति च । कालेनालक्ष्यवेगेन सूक्ष्मत्वात् तन्न गृह्यते ॥ इति । अतस्तु सर्वं जडवस्तु परमार्थतः सर्वदैवासदुच्यते । ततश्च तस्माद्विरज्य आत्मैव परमार्थसत्यो दुःखभीरुभिर्द्रष्टव्यः तदुक्तम् । अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् । महाहंकारविटप इन्द्रियाङ्कुरकोटरः ॥ महाभूतप्रशाखश्च विशेषप्रतिशाखवान् । सदापर्णः सदापुष्पः शुभाशुभफलोदयः ॥ आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः । एतज्ज्ञात्वा च तत्त्वेन ज्ञानेन परमासिना ॥ कृत्वा चाक्षरतां प्राप्य जहाति मृत्युजन्मनी ॥ इति । तदुक्तं - इन्द्रियाणीन्द्रियार्थाश्च नोपसर्पन्त्यतः खलु । हीनश्च करणैर्देही न देहं पुनरर्हति ॥ तस्मात्सर्वात्मकाद्रागाज्जायन्ते सर्वजन्तवः ॥ इति । नरकादौ विशेषरागाभावेऽपि सामान्यरागसत्त्वाद्रागस्य कर्मसहकारित्वं विषाकारम्भे तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्येति श्रुतावभिमानरागद्वेषादिजन्यस्य विष्यवासनाख्यसङ्गसामान्यस्यैव जन्मादिविषाकारम्भे सहकारित्वसिद्धेः । यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद् द्वेषाद् गुणाद्वापि याति तत्तत्सरूपताम् ॥ इति स्मृतेः । सोऽयं प्रतिनिवृत्ताक्षो गुरुदर्पणबोधितः । स्वतोऽन्यां विक्रियां मौढ्यादस्थितामञ्जसैक्षत ॥ अथासौ प्रकृतिर्नाहमियं हि कलुषात्मिका । शुद्धबुद्धस्वभावोऽहमिति त्यजति तां विदन् ॥ एवं देहेन्द्रियादिभ्यः शुद्धत्वेनात्मनि स्मृते । निखिला सविकारेयं त्यक्तप्राया हि चर्मवत्॥ नन्वनात्मन्यात्मबुद्धिरूपा याऽविद्या तस्याः कथमात्मविशेष्यकविवेकज्ञाननाश्यत्वं प्रकारादिभेदादिति चेत् न तादृशाविद्याया अनात्मविशेष्यकविवेकद्वारेणात्मविशेष्यकविवेकनाश्यत्वादिति । यच्च योगेन निर्विकल्पकमात्मज्ञानं जायते । तद्विवेकज्ञानद्वारैव मोक्षकारणं भवति न तु साक्षात् । अविद्यानिवर्तकत्वाभावात् अहं गौरः कर्त्ता सुखी दुःखीत्यादिज्ञानमेव ह्यविद्या संसारानर्थहेतुतया श्रुतिस्मृतिन्यायसिद्धा तस्याश्च निवर्त्तिका नाहं गौर इत्यादिरूपा विवेकख्यातिरेव भवति समाने विषये ग्राह्याभावत्वप्रकारकग्राह्याभावज्ञानत्वेनैव विरोधात् अन्यथा मुक्तिनिर्विकल्पकस्यापि इदं रजतमिति ज्ञानविरोधित्वापत्तेः । किञ्च यथोक्ताभावज्ञाने ग्राह्यज्ञानविरोधित्वस्यावश्यकतया निर्विकल्पज्ञानस्य भ्रमनिवर्तकत्वं न पृथक् कल्प्यते गौरवात् ॥ अपि च अथात आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्यत् परमस्तीत्यादिश्रुत्या विवेकोपदेशापेक्षयोत्तम उपदेशो नास्तीत्युच्यते ॥ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ इति गीतावाक्यैश्च विवेकज्ञानस्यैव मोक्षहेतुत्वमुच्यतेऽतो विवेकज्ञानमेव साक्षादविद्यानिवृत्त्या मोक्षहेतुः । योगेन केवलत्मसाक्षात्कारस्तु योग्यानुपलब्धिविधयोपाध्यादिगतधर्माभावमुपाध्यादिभेदं च ग्राहयति ततोऽविद्यानिवृत्तिरिति । एतेन सर्वभूतेषु समताज्ञानम् आत्मनः सर्वात्मकत्वादिज्ञानं च श्रुतिस्मृत्योर्गीयमानं विवेकज्ञानस्यैव शेषभूतं सर्वदर्शनेषु मन्तव्यम् । ज्ञानान्तराणां साक्षादभिमानानिवर्तकत्वात् ब्रह्ममीमांसायां त्वयं विशेषो यत्परमात्मविवेकशेषत्वम् । सांख्यशास्त्रे तु सामान्यात्मविवेकशेषत्वमिति दिक् ॥ विवेकख्यातेस्त्वविद्यानाशकत्वमेव न तु शुक्तिरजतविवेकदर्शिन इव पुनर्भ्रमदर्शनात् प्रतिबन्धकत्वं दृष्टान्ते पटलकामादिदोषबाहुल्यात् पुनरुज्जीवनं भ्रमस्य । अत्र च अनात्मन्यात्माभिमानेऽनादिवासनैव दोषः सर्वास्तिकसंमतः जातमात्रस्याभिमाने दोषान्तरानुपलब्धेः सा मिथ्याज्ञानवासना यदा विवेकख्यातिपरम्पराजन्यदृढवासनयोन्मूलिता तदैव विवेकसाक्षात्कारनिष्ठोच्यते तत्पूर्वमवश्यं वासनालेशतो मिथ्यांशस्य कस्याप्यात्मनि भानात् तस्यां च विवेकख्यातिनिष्ठायां जातायां न पुनरभिमानः सम्भवति वासनाख्यदोषाभावादिति । यदि तु बुद्धिपुरुषयोरन्योन्यप्रतिबिम्बनादिकमविवेककारणं दोष इष्यते तदा तु तं दोषं बाधित्वैव विवेकसाक्षात्कार उदित इति न तस्य पुनर्भ्रमहेतुत्वं फलबलेन योगजधर्मासहकृतस्यैव तस्य दोषत्वकल्पनासम्भवादिति । यद्यपि विवेकप्रतियोगिपदार्थानामान्त्याद्विशेषरूपेण विवेकग्रहो न सम्भवति तथापि दृश्यत्वपरिणामित्वादिरूपैः सामान्यविवेकग्रहसम्भवात् प्रकृत्यादिपदार्थानां विशिष्टज्ञानाभावेऽपि सामान्यतो विवेकख्यातेर्मोक्षहेतुत्वम् । तदुक्तम् । घटद्रष्टा घटाद्भिन्नः सर्वथा न घटो यथा । देहद्रष्टा तदा देही नाहमित्यादिरूपतः ॥ इति । आत्मा वा अरे द्रष्टव्य इत्यत्र तु न आत्मनो दृश्यत्वं वृत्तिव्याप्यत्वेऽपि फलव्याप्यत्वरूपं यत्तु बौद्धैरपि सुखदुःखादिमत्त्वेनापि बुद्धिरनुभूयमाना स्वप्रकाशतया चैतन्यव्याप्या न भवति यथा वेदान्तिनामहमित्यनुभूयमानोऽप्यात्मा चैतन्याख्यफलव्याप्यो न भवतीत्युच्यते तन्निःप्रमाणत्वादुपेक्ष्यम् । तत्प्रधानादिसर्गे उत्पद्यते । अधर्मवशात् पश्वादौ धर्मवशाद्देवादौ संसरति । अतत्त्वज्ञानादेव धर्माधर्मोपरञ्जितं प्रलयकाले प्रधाने लीयते । यद्यपि प्रधानपुरुषौ विभू तथापि प्रकृतिरेव लिङ्गव्यवस्थां करोति । लिङ्गं सूक्ष्मैः परमाणुभिस्तन्मात्रैरुपचितं मानुषादिषु व्यवतिष्ठते नटवत् यथा नटः स्वरूपेण एकोऽपि वेषान्तरेण नानारूपः तथा लिङ्गमुदरान्तः प्रविश्य हस्ती स्त्री पुमानिति भवति पञ्चविपर्ययसंज्ञा भवति यथा तमो मोहो महामोहस्तामिश्रोऽन्धतामिश्र इति । धर्मेण प्राजापत्याद्यूर्ध्वलोकप्राप्तिः । अधर्मेण पश्वादिप्राप्तिरज्ञानेन बन्धः पञ्चविंशतितत्त्वज्ञानेनापवर्गः । तच्च तत्त्वज्ञानं गुरोः सकाशात् शास्त्रश्रवणेनैतादृशं जायते । तथाहि प्रधानादन्यः पुरुषः अन्या बुद्धिः अन्योऽहंकारः अन्यानि तन्मात्राणि इन्द्रियाणि पञ्चमहाभूतानि चेति । सर्वं कार्यं त्रिगुणात्मकमपि उद्रिक्तगुणापेक्षया सात्त्विकादिशब्दव्यपदेशभाक् चेतनः पुरुषः नानायोनिषु जरामरणकृतं दुःखं चेतयते प्राप्नोतीत्यर्थः । यावत् तत्त्वज्ञानेन लिङ्गशरीरं न निवर्त्तते तावत् स्थूलं शरीरं प्रतिजन्म नूतनं जायते नश्यति च । स्वप्रयोजनाभावेऽपि प्रत्युपकारनिरपेक्षं सुमित्रवत् प्रधानं महदादिविषयभूतपर्यन्तं कार्यं पुरुषस्य भोगाय मोक्षाय चारभते प्रकृतिः पुरुषस्य भेदेन बुद्ध्यहंकारादि दर्शयित्वा निवर्त्तते । यथा नर्त्तकी शृङ्गारादिरसैर्हास्यादिभावैश्च निबद्धगीतादीनि रङ्गस्य दर्शयित्वा निवर्त्तते कृतार्थत्वात् तद्वत् । किञ्च प्रकृतिर्गुणवती अगुणस्य पुंसः जगद्योनिभावेन सुखदुःखमोहात्मकेन शब्दादिविषयभावेन वेत्येवंविधैरुपकारैरनुपकारिणः पुरुषस्योपकुर्वती पश्चादात्मानं प्रकाश्य अहमन्या त्वमन्य इति निवर्तते सुमित्रवत् आत्मनः प्रत्युपकारं नेच्छति । सर्गस्य नेश्वरः कारणं न स्वभावो न कालः कालोऽपि योगिनां क्षणरूप एव न तु न्यायवैशेषिकयोरिवात्मवदखण्डो नित्य एको लाघवात् स एव तत्तदुपाद्यवच्छिन्नः सन् क्षणमुहूर्तादिवत्सरान्तं व्यवहारं करोतीति । न तु क्षणनामा पृथक् पदार्थोऽस्तीति ॥ सांख्यैस्तु दिक्कालावाकाशादिभ्य इति सूत्रितं महाकालो वा क्षणादिर्वा पृथक् पदार्थो नास्ति किन्त्वाकाशमेवोपाधिभिर्विशिष्टं क्षणादिमहाकालान्तव्यवहारं कुरुते इति मन्यते । तदेतन्मतद्वयमप्यसमञ्जसमित्याह योगी स्थिरेण केनाप्युपाधिना महाकालाकाशाभ्यां क्षणव्यवहारस्यासम्भवात् । तथाहि उत्तरदेशसंयोगावच्छिन्ना परमाण्वादिक्रिया अन्यद्वा एतादृशं किञ्चिन्महाकालाकाशयोः क्षणरूपतायामुपाधिः परैरिष्यते तत्र उक्तं संयोगविशिष्टक्रियादिकं चेत् विशेष्यविशेषणतत्सम्बन्धमात्रं तर्हि त्रयाणामपरैः स्थिरत्वाभ्युपगमात् न तैः क्षणव्यवहारः सम्भवति यदि च तत्तेभ्योऽतिरिक्तमिष्यते न तु तन्महाकाल आकाशं वा तेनैव क्षणव्यवहारोपपत्तौ तदवच्छिन्नस्यान्यस्य क्षणव्यवहारहेतुत्वकल्पनावैयर्थ्यात् स च विशिष्टादिरास्थिरः क्षणः प्रकृतेरेवातिभङ्गुरः परिणामविशेष इत्यतो न प्रकृतिपुरुषातिरिक्तत्वापत्तिः । तस्यैव क्षणस्य प्रचयविशेषैर्मुहूर्ताहोरात्रादिर्द्विपरार्द्धान्तव्यवहारो भवति नत्वखण्डो महाकालोऽस्ति प्रमाणाभावात् अद्यत्यादिव्यवहारः क्षणप्रचयेनैव कालनित्यत्वश्रुतिस्मृतयस्तु प्रवाहनित्यतापरा इति तस्मादावश्यकत्वात् क्षणात्मक एव कालो नाखण्डो महाकालोऽस्ति नाप्याकाशं कालव्यवहारहेतुरिति किं तु प्रधानम् । पुरुषो न बध्यते न मुच्यते नापि संसरतीति किं तु नानाश्रया प्रकृतिरेव तथेति सर्वं समञ्जसम् ॥ इति कान्यकुब्जश्रीषिमानन्ददीक्षितविरचितं सांख्यतत्त्वविवेचनं समाप्तम् ॥ Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com
% Text title            : sAMkhyatattvavivecanam
% File name             : sAMkhyatattvavivecanam.itx
% itxtitle              : sANkhyatattvavivechanam
% engtitle              : sAMkhyatattvavivechanam
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Source                : sAnkhyasaNgrahaH 1918
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP